This overlay will guide you through the buttons:

| |
|
सोऽवतीर्य द्रुमात्तस्माद्विद्रुमप्रतिमाननः॥विनीतवेषः कृपणः प्रणिपत्योपसृत्य च॥।१॥
सः अवतीर्य द्रुमात् तस्मात् विद्रुम-प्रतिम-आननः॥विनीत-वेषः कृपणः प्रणिपत्य उपसृत्य च॥।१॥
saḥ avatīrya drumāt tasmāt vidruma-pratima-ānanaḥ..vinīta-veṣaḥ kṛpaṇaḥ praṇipatya upasṛtya ca...1..
तामब्रवीन्महातेजा हनूमान्मारुतात्मजः । शिरस्यञ्जलिमाधाय सीतां मधुरया गिरा ॥२॥
ताम् अब्रवीत् महा-तेजाः हनूमान् मारुतात्मजः । शिरसि अञ्जलिम् आधाय सीताम् मधुरया गिरा ॥२॥
tām abravīt mahā-tejāḥ hanūmān mārutātmajaḥ . śirasi añjalim ādhāya sītām madhurayā girā ..2..
का नु पद्मपलाशाक्षी क्लिष्टकौशेयवासिनी । द्रुमस्य शाखामालम्ब्य तिष्ठसि त्वमनिन्दिता ॥३॥
का नु पद्म-पलाश-अक्षी क्लिष्ट-कौशेय-वासिनी । द्रुमस्य शाखाम् आलम्ब्य तिष्ठसि त्वम् अनिन्दिता ॥३॥
kā nu padma-palāśa-akṣī kliṣṭa-kauśeya-vāsinī . drumasya śākhām ālambya tiṣṭhasi tvam aninditā ..3..
किमर्थं तव नेत्राभ्यां वारि स्रवति शोकजम् । पुण्डरीकपलाशाभ्यां विप्रकीर्णमिवोदकम् ॥४॥
किमर्थम् तव नेत्राभ्याम् वारि स्रवति शोक-जम् । पुण्डरीक-पलाशाभ्याम् विप्रकीर्णम् इव उदकम् ॥४॥
kimartham tava netrābhyām vāri sravati śoka-jam . puṇḍarīka-palāśābhyām viprakīrṇam iva udakam ..4..
सुराणामसुराणां च नागगन्धर्वरक्षसाम् । यक्षाणां किंनराणां च का त्वं भवसि शोभने ॥५॥
सुराणाम् असुराणाम् च नाग-गन्धर्व-रक्षसाम् । यक्षाणाम् किंनराणाम् च का त्वम् भवसि शोभने ॥५॥
surāṇām asurāṇām ca nāga-gandharva-rakṣasām . yakṣāṇām kiṃnarāṇām ca kā tvam bhavasi śobhane ..5..
का त्वं भवसि रुद्राणां मरुतां वा वरानने । वसूनां वा वरारोहे देवता प्रतिभासि मे ॥६॥
का त्वम् भवसि रुद्राणाम् मरुताम् वा वरानने । वसूनाम् वा वरारोहे देवता प्रतिभासि मे ॥६॥
kā tvam bhavasi rudrāṇām marutām vā varānane . vasūnām vā varārohe devatā pratibhāsi me ..6..
किं नु चन्द्रमसा हीना पतिता विबुधालयात् । रोहिणी ज्योतिषां श्रेष्ठा श्रेष्ठा सर्वगुणान्विता ॥७॥
किम् नु चन्द्रमसा हीना पतिता विबुध-आलयात् । सर्व ॥७॥
kim nu candramasā hīnā patitā vibudha-ālayāt . sarva ..7..
कोपाद्वा यदि वा मोहाद्भर्तारमसितेक्षणा । वसिष्ठं कोपयित्वा त्वं नासि कल्याण्यरुन्धती ॥८॥
कोपात् वा यदि वा मोहात् भर्तारम् असित-ईक्षणा । वसिष्ठम् कोपयित्वा त्वम् ना असि कल्याणी अरुन्धती ॥८॥
kopāt vā yadi vā mohāt bhartāram asita-īkṣaṇā . vasiṣṭham kopayitvā tvam nā asi kalyāṇī arundhatī ..8..
को नौ पुत्रः पिता भ्रात भर्ता वा ते सुमध्यमे । अस्माल्लोकादमुं लोकं गतं त्वमनुशोचसि ॥९॥
कः नौ पुत्रः पिता भ्रात भर्ता वा ते सुमध्यमे । अस्मात् लोकात् अमुम् लोकम् गतम् त्वम् अनुशोचसि ॥९॥
kaḥ nau putraḥ pitā bhrāta bhartā vā te sumadhyame . asmāt lokāt amum lokam gatam tvam anuśocasi ..9..
रोदनादतिनिश्श्वासाद्भूमिसंस्पर्शनादपि।न त्वां देवीमहं मन्ये राज्ञ स्सर्वज्ञावधारणात्॥१०॥
रोदनात् अति निश्श्वासात् भूमि-संस्पर्शनात् अपि।न त्वाम् देवीम् अहम् मन्ये राज्ञः स्सर्वज्ञ-अवधारणात्॥१०॥
rodanāt ati niśśvāsāt bhūmi-saṃsparśanāt api.na tvām devīm aham manye rājñaḥ ssarvajña-avadhāraṇāt..10..
व्यञ्जनानि हि ते यानि लक्षणानि च लक्षये । महिषी भूमिपालस्य राजकन्यासि मे मता ॥११॥
व्यञ्जनानि हि ते यानि लक्षणानि च लक्षये । महिषी भूमिपालस्य राज-कन्या असि मे मता ॥११॥
vyañjanāni hi te yāni lakṣaṇāni ca lakṣaye . mahiṣī bhūmipālasya rāja-kanyā asi me matā ..11..
रावणेन जनस्थानाद्बलादपहृता यदि । सीता त्वमसि भद्रं ते तन्ममाचक्ष्व पृच्छतः ॥१२॥
रावणेन जनस्थानात् बलात् अपहृता यदि । सीता त्वम् असि भद्रम् ते तत् मम आचक्ष्व पृच्छतः ॥१२॥
rāvaṇena janasthānāt balāt apahṛtā yadi . sītā tvam asi bhadram te tat mama ācakṣva pṛcchataḥ ..12..
यथा हि तव वै दैन्यं रूपं चाप्यतिमानुषम्।तपसा चान्वितो वेषस्त्वं राममहिषी ध्रुवम्॥१३॥
यथा हि तव वै दैन्यम् रूपम् च अपि अतिमानुषम्।तपसा च अन्वितः वेषः त्वम् राम-महिषी ध्रुवम्॥१३॥
yathā hi tava vai dainyam rūpam ca api atimānuṣam.tapasā ca anvitaḥ veṣaḥ tvam rāma-mahiṣī dhruvam..13..
सा तस्य वचनं श्रुत्वा रामकीर्तनहर्षिता । उवाच वाक्यं वैदेही हनूमन्तं द्रुमाश्रितम् ॥१४॥
सा तस्य वचनम् श्रुत्वा राम-कीर्तन-हर्षिता । उवाच वाक्यम् वैदेही हनूमन्तम् द्रुम-आश्रितम् ॥१४॥
sā tasya vacanam śrutvā rāma-kīrtana-harṣitā . uvāca vākyam vaidehī hanūmantam druma-āśritam ..14..
पृथिव्यां राजसिंहानां मुख्यस्य विदितात्मनःस्नुषा दशरथस्याहं शत्रुसैन्यप्रतापिनः॥।१५॥
पृथिव्याम् राज-सिंहानाम् मुख्यस्य विदित-आत्मनः स्नुषा दशरथस्य अहम् शत्रु-सैन्य-प्रतापिनः॥।१५॥
pṛthivyām rāja-siṃhānām mukhyasya vidita-ātmanaḥ snuṣā daśarathasya aham śatru-sainya-pratāpinaḥ...15..
दुहिता जनकस्याहं वैदेहस्य महात्मनः । सीता च नाम नाम्नाहं भार्या रामस्य धीमतः ॥१६॥
दुहिता जनकस्य अहम् वैदेहस्य महात्मनः । सीता च नाम नाम्ना अहम् भार्या रामस्य धीमतः ॥१६॥
duhitā janakasya aham vaidehasya mahātmanaḥ . sītā ca nāma nāmnā aham bhāryā rāmasya dhīmataḥ ..16..
समा द्वादश तत्राहं राघवस्य निवेशने । भुञ्जाना मानुषान्भोगान्सर्वकामसमृद्धिनी ॥१७॥
समाः द्वादश तत्र अहम् राघवस्य निवेशने । भुञ्जाना मानुषान् भोगान् सर्व-काम-समृद्धिनी ॥१७॥
samāḥ dvādaśa tatra aham rāghavasya niveśane . bhuñjānā mānuṣān bhogān sarva-kāma-samṛddhinī ..17..
ततस्त्रयोदशे वर्षे राज्येनेक्ष्वाकुनन्दनम् । अभिषेचयितुं राजा सोपाध्यायः प्रचक्रमे ॥१८॥
ततस् त्रयोदशे वर्षे राज्येन इक्ष्वाकु-नन्दनम् । अभिषेचयितुम् राजा स उपाध्यायः प्रचक्रमे ॥१८॥
tatas trayodaśe varṣe rājyena ikṣvāku-nandanam . abhiṣecayitum rājā sa upādhyāyaḥ pracakrame ..18..
तस्मिन्सम्भ्रियमाणे तु राघवस्याभिषेचने । कैकेयी नाम भर्तारं देवी वचनमब्रवीत् ॥१९॥
तस्मिन् सम्भ्रियमाणे तु राघवस्य अभिषेचने । कैकेयी नाम भर्तारम् देवी वचनम् अब्रवीत् ॥१९॥
tasmin sambhriyamāṇe tu rāghavasya abhiṣecane . kaikeyī nāma bhartāram devī vacanam abravīt ..19..
न पिबेयं न खादेयं प्रत्यहं मम भोजनम् । एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते ॥२०॥
न पिबेयम् न खादेयम् प्रत्यहम् मम भोजनम् । एष मे जीवितस्य अन्तः रामः यदि अभिषिच्यते ॥२०॥
na pibeyam na khādeyam pratyaham mama bhojanam . eṣa me jīvitasya antaḥ rāmaḥ yadi abhiṣicyate ..20..
यत्तदुक्तं त्वया वाक्यं प्रीत्या नृपतिसत्तम । तच्चेन्न वितथं कार्यं वनं गच्छतु राघवः ॥२१॥
यत् तत् उक्तम् त्वया वाक्यम् प्रीत्या नृपति-सत्तम । तत् चेद् न वितथम् कार्यम् वनम् गच्छतु राघवः ॥२१॥
yat tat uktam tvayā vākyam prītyā nṛpati-sattama . tat ced na vitatham kāryam vanam gacchatu rāghavaḥ ..21..
स राजा सत्यवाग्देव्या वरदानमनुस्मरन् । मुमोह वचनं श्रुत्वा कैकेय्याः क्रूरमप्रियम् ॥२२॥
स राजा सत्य-वाच् देव्याः वर-दानम् अनुस्मरन् । मुमोह वचनम् श्रुत्वा कैकेय्याः क्रूरम् अप्रियम् ॥२२॥
sa rājā satya-vāc devyāḥ vara-dānam anusmaran . mumoha vacanam śrutvā kaikeyyāḥ krūram apriyam ..22..
ततस्तु स्थविरो राजा सत्यधर्मे व्यवस्थितः । ज्येष्ठं यशस्विनं पुत्रं रुदन्राज्यमयाचत ॥२३॥
ततस् तु स्थविरः राजा सत्य-धर्मे व्यवस्थितः । ज्येष्ठम् यशस्विनम् पुत्रम् रुदन् राज्यम् अयाचत ॥२३॥
tatas tu sthaviraḥ rājā satya-dharme vyavasthitaḥ . jyeṣṭham yaśasvinam putram rudan rājyam ayācata ..23..
स पितुर्वचनं श्रीमानभिषेकात्परं प्रियम् । मनसा पूर्वमासाद्य वाचा प्रतिगृहीतवान् ॥२४॥
स पितुः वचनम् श्रीमान् अभिषेकात् परम् प्रियम् । मनसा पूर्वम् आसाद्य वाचा प्रतिगृहीतवान् ॥२४॥
sa pituḥ vacanam śrīmān abhiṣekāt param priyam . manasā pūrvam āsādya vācā pratigṛhītavān ..24..
दद्यान्न प्रतिगृह्णीयान्न ब्रूयत्किं चिदप्रियम् । अपि जीवितहेतोर्हि रामः सत्यपराक्रमः ॥२५॥
दद्यात् न प्रतिगृह्णीयात् न ब्रूयत् किम् चित् अप्रियम् । अपि जीवित-हेतोः हि रामः सत्य-पराक्रमः ॥२५॥
dadyāt na pratigṛhṇīyāt na brūyat kim cit apriyam . api jīvita-hetoḥ hi rāmaḥ satya-parākramaḥ ..25..
स विहायोत्तरीयाणि महार्हाणि महायशाः । विसृज्य मनसा राज्यं जनन्यै मां समादिशत् ॥२६॥
स विहाय उत्तरीयाणि महार्हाणि महा-यशाः । विसृज्य मनसा राज्यम् जनन्यै माम् समादिशत् ॥२६॥
sa vihāya uttarīyāṇi mahārhāṇi mahā-yaśāḥ . visṛjya manasā rājyam jananyai mām samādiśat ..26..
साहं तस्याग्रतस्तूर्णं प्रस्थिता वनचारिणी । न हि मे तेन हीनाया वासः स्वर्गेऽपि रोचते ॥२७॥
सा अहम् तस्य अग्रतस् तूर्णम् प्रस्थिता वन-चारिणी । न हि मे तेन हीनायाः वासः स्वर्गे अपि रोचते ॥२७॥
sā aham tasya agratas tūrṇam prasthitā vana-cāriṇī . na hi me tena hīnāyāḥ vāsaḥ svarge api rocate ..27..
प्रागेव तु महाभागः सौमित्रिर्मित्रनन्दनः । पूर्वजस्यानुयात्रार्थे द्रुमचीरैरलङ्कृतः ॥२८॥
प्राक् एव तु महाभागः सौमित्रिः मित्र-नन्दनः । पूर्वजस्य अनुयात्र-अर्थे द्रुम-चीरैः अलङ्कृतः ॥२८॥
prāk eva tu mahābhāgaḥ saumitriḥ mitra-nandanaḥ . pūrvajasya anuyātra-arthe druma-cīraiḥ alaṅkṛtaḥ ..28..
ते वयं भर्तुरादेशं बहु मान्यदृढव्रताः । प्रविष्टाः स्म पुराद्दृष्टं वनं गम्भीरदर्शनम् ॥२९॥
ते वयम् भर्तुः आदेशम् बहु मान्य-दृढ-व्रताः । प्रविष्टाः स्म पुरात् दृष्टम् वनम् गम्भीर-दर्शनम् ॥२९॥
te vayam bhartuḥ ādeśam bahu mānya-dṛḍha-vratāḥ . praviṣṭāḥ sma purāt dṛṣṭam vanam gambhīra-darśanam ..29..
वसतो दण्डकारण्ये तस्याहममितौजसः । रक्षसापहृता भार्या रावणेन दुरात्मना ॥३०॥
वसतः दण्डक-अरण्ये तस्य अहम् अमित-ओजसः । रक्षसा अपहृता भार्या रावणेन दुरात्मना ॥३०॥
vasataḥ daṇḍaka-araṇye tasya aham amita-ojasaḥ . rakṣasā apahṛtā bhāryā rāvaṇena durātmanā ..30..
द्वौ मासौ तेन मे कालो जीवितानुग्रहः कृतः । ऊर्ध्वं द्वाभ्यां तु मासाभ्यां ततस्त्यक्ष्यामि जीवितम् ॥३१॥
द्वौ मासौ तेन मे कालः जीवित-अनुग्रहः कृतः । ऊर्ध्वम् द्वाभ्याम् तु मासाभ्याम् ततस् त्यक्ष्यामि जीवितम् ॥३१॥
dvau māsau tena me kālaḥ jīvita-anugrahaḥ kṛtaḥ . ūrdhvam dvābhyām tu māsābhyām tatas tyakṣyāmi jīvitam ..31..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In