This overlay will guide you through the buttons:

| |
|
तस्यास्तद्वचनं श्रुत्वा हनूमान्हरियूथपः । दुःखाद्दुःखाभिभूतायाः सान्तमुत्तरमब्रवीत् ॥ १॥
तस्याः तत् वचनम् श्रुत्वा हनूमान् हरि-यूथपः । दुःखात् दुःख-अभिभूतायाः स अन्तम् उत्तरम् अब्रवीत् ॥ १॥
tasyāḥ tat vacanam śrutvā hanūmān hari-yūthapaḥ . duḥkhāt duḥkha-abhibhūtāyāḥ sa antam uttaram abravīt .. 1..
अहं रामस्य सन्देशाद्देवि दूतस्तवागतः । वैदेहि कुशली रामस्त्वां च कौशलमब्रवीत् ॥ २॥
अहम् रामस्य सन्देशात् देवि दूतः तव आगतः । वैदेहि कुशली रामः त्वाम् च कौशलम् अब्रवीत् ॥ २॥
aham rāmasya sandeśāt devi dūtaḥ tava āgataḥ . vaidehi kuśalī rāmaḥ tvām ca kauśalam abravīt .. 2..
यो ब्राह्ममस्त्रं वेदांश्च वेद वेदविदां वरः । स त्वां दाशरथी रामो देवि कौशलमब्रवीत् ॥ ३॥
यः ब्राह्मम् अस्त्रम् वेदान् च वेद वेद-विदाम् वरः । स त्वाम् दाशरथिः रामः देवि कौशलम् अब्रवीत् ॥ ३॥
yaḥ brāhmam astram vedān ca veda veda-vidām varaḥ . sa tvām dāśarathiḥ rāmaḥ devi kauśalam abravīt .. 3..
लक्ष्मणश्च महातेजा भर्तुस्तेऽनुचरः प्रियः । कृतवाञ्शोकसन्तप्तः शिरसा तेऽभिवादनम् ॥ ४॥
लक्ष्मणः च महा-तेजाः भर्तुः ते अनुचरः प्रियः । कृतवान् शोक-सन्तप्तः शिरसा ते अभिवादनम् ॥ ४॥
lakṣmaṇaḥ ca mahā-tejāḥ bhartuḥ te anucaraḥ priyaḥ . kṛtavān śoka-santaptaḥ śirasā te abhivādanam .. 4..
सा तयोः कुशलं देवी निशम्य नरसिंहयोः । प्रीतिसंहृष्टसर्वाङ्गी हनूमान्तमथाब्रवीत् ॥ ५॥
सा तयोः कुशलम् देवी निशम्य नर-सिंहयोः । प्रीति-संहृष्ट-सर्व-अङ्गी हनूमान्तम् अथ अब्रवीत् ॥ ५॥
sā tayoḥ kuśalam devī niśamya nara-siṃhayoḥ . prīti-saṃhṛṣṭa-sarva-aṅgī hanūmāntam atha abravīt .. 5..
कल्याणी बत गथेयं लौकिकी प्रतिभाति मे । एहि जीवन्तमानदो नरं वर्षशतादपि ॥ ६॥
कल्याणी बत गथा इयम् लौकिकी प्रतिभाति मे । एहि जीवन्तम् आनदः नरम् वर्ष-शतात् अपि ॥ ६॥
kalyāṇī bata gathā iyam laukikī pratibhāti me . ehi jīvantam ānadaḥ naram varṣa-śatāt api .. 6..
तयोः समागमे तस्मिन्प्रीतिरुत्पादिताद्भुता । परस्परेण चालापं विश्वस्तौ तौ प्रचक्रतुः ॥ ७॥
तयोः समागमे तस्मिन् प्रीतिः उत्पादिता अद्भुता । परस्परेण च आलापम् विश्वस्तौ तौ प्रचक्रतुः ॥ ७॥
tayoḥ samāgame tasmin prītiḥ utpāditā adbhutā . paraspareṇa ca ālāpam viśvastau tau pracakratuḥ .. 7..
तस्यास्तव् वचनं श्रुत्वा हनूमान्हरियूथपः । सीतायाः शोकदीनायाः समीपमुपचक्रमे ॥ ८॥
तस्याः तौ वचनम् श्रुत्वा हनूमान् हरि-यूथपः । सीतायाः शोक-दीनायाः समीपम् उपचक्रमे ॥ ८॥
tasyāḥ tau vacanam śrutvā hanūmān hari-yūthapaḥ . sītāyāḥ śoka-dīnāyāḥ samīpam upacakrame .. 8..
यथा यथा समीपं स हनूमानुपसर्पति । तथा तथा रावणं सा तं सीता परिशङ्कते ॥ ९॥
यथा यथा समीपम् स हनूमान् उपसर्पति । तथा तथा रावणम् सा तम् सीता परिशङ्कते ॥ ९॥
yathā yathā samīpam sa hanūmān upasarpati . tathā tathā rāvaṇam sā tam sītā pariśaṅkate .. 9..
अहो धिग्धिक्कृतमिदं कथितं हि यदस्य मे । रूपान्तरमुपागम्य स एवायं हि रावणः ॥ १०॥
अहो धिक् धिक्कृतम् इदम् कथितम् हि यत् अस्य मे । रूप-अन्तरम् उपागम्य सः एव अयम् हि रावणः ॥ १०॥
aho dhik dhikkṛtam idam kathitam hi yat asya me . rūpa-antaram upāgamya saḥ eva ayam hi rāvaṇaḥ .. 10..
तामशोकस्य शाखां सा विमुक्त्वा शोककर्शिता । तस्यामेवानवद्याङ्गी धरण्यां समुपाविशत् ॥ ११॥
ताम् अशोकस्य शाखाम् सा विमुक्त्वा शोक-कर्शिता । तस्याम् एव अनवद्य-अङ्गी धरण्याम् समुपाविशत् ॥ ११॥
tām aśokasya śākhām sā vimuktvā śoka-karśitā . tasyām eva anavadya-aṅgī dharaṇyām samupāviśat .. 11..
अवन्दत महाबाहुस्ततस्तां जनकात्मजाम् । सा चैनं भयवित्रस्ता भूयो नैवाभ्युदैक्षत ॥ १२॥
अवन्दत महा-बाहुः ततस् ताम् जनकात्मजाम् । सा च एनम् भय-वित्रस्ता भूयस् न एव अभ्युदैक्षत ॥ १२॥
avandata mahā-bāhuḥ tatas tām janakātmajām . sā ca enam bhaya-vitrastā bhūyas na eva abhyudaikṣata .. 12..
तं दृष्ट्वा वन्दमानं तु सीता शशिनिभानना । अब्रवीद्दीर्घमुच्छ्वस्य वानरं मधुरस्वरा ॥ १३॥
तम् दृष्ट्वा वन्दमानम् तु सीता शशि-निभ-आनना । अब्रवीत् दीर्घम् उच्छ्वस्य वानरम् मधुर-स्वरा ॥ १३॥
tam dṛṣṭvā vandamānam tu sītā śaśi-nibha-ānanā . abravīt dīrgham ucchvasya vānaram madhura-svarā .. 13..
मायां प्रविष्टो मायावी यदि त्वं रावणः स्वयम् । उत्पादयसि मे भूयः सन्तापं तन्न शोभनम् ॥ १४॥
मायाम् प्रविष्टः मायावी यदि त्वम् रावणः स्वयम् । उत्पादयसि मे भूयस् सन्तापम् तत् न शोभनम् ॥ १४॥
māyām praviṣṭaḥ māyāvī yadi tvam rāvaṇaḥ svayam . utpādayasi me bhūyas santāpam tat na śobhanam .. 14..
स्वं परित्यज्य रूपं यः परिव्राजकरूपधृत् । जनस्थाने मया दृष्टस्त्वं स एवासि रावणः ॥ १५॥
स्वम् परित्यज्य रूपम् यः परिव्राजक-रूप-धृत् । जनस्थाने मया दृष्टः त्वम् सः एव असि रावणः ॥ १५॥
svam parityajya rūpam yaḥ parivrājaka-rūpa-dhṛt . janasthāne mayā dṛṣṭaḥ tvam saḥ eva asi rāvaṇaḥ .. 15..
उपवासकृशां दीनां कामरूप निशाचर । सन्तापयसि मां भूयः सन्तापं तन्न शोभनम् ॥ १६॥
उपवास-कृशाम् दीनाम् कामरूप निशाचर । सन्तापयसि माम् भूयस् सन्तापम् तत् न शोभनम् ॥ १६॥
upavāsa-kṛśām dīnām kāmarūpa niśācara . santāpayasi mām bhūyas santāpam tat na śobhanam .. 16..
अथवा नैतदेवं हि यन्मया परिशङ्कितम्।मनसो हि मम प्रीतिरुत्पन्ना तव दर्शनात्॥।१७॥
अथवा ना एतत् एवम् हि यत् मया परिशङ्कितम्।मनसः हि मम प्रीतिः उत्पन्ना तव दर्शनात्॥।१७॥
athavā nā etat evam hi yat mayā pariśaṅkitam.manasaḥ hi mama prītiḥ utpannā tava darśanāt...17..
यदि रामस्य दूतस्त्वमागतो भद्रमस्तु ते । पृच्छामि त्वां हरिश्रेष्ठ प्रिया राम कथा हि मे ॥१८॥
यदि रामस्य दूतः त्वम् आगतः भद्रम् अस्तु ते । पृच्छामि त्वाम् हरि-श्रेष्ठ प्रिया राम कथा हि मे ॥१८॥
yadi rāmasya dūtaḥ tvam āgataḥ bhadram astu te . pṛcchāmi tvām hari-śreṣṭha priyā rāma kathā hi me ..18..
गुणान् रामस्य कथय प्रियस्य मम वानर । चित्तं हरसि मे सौम्य नदीकूलं यथा रयः ॥१९॥
गुणान् रामस्य कथय प्रियस्य मम वानर । चित्तम् हरसि मे सौम्य नदी-कूलम् यथा रयः ॥१९॥
guṇān rāmasya kathaya priyasya mama vānara . cittam harasi me saumya nadī-kūlam yathā rayaḥ ..19..
अहो स्वप्नस्य सुखता याहमेवं चिराहृता । प्रेषितं नाम पश्यामि राघवेण वनौकसं ॥२०॥
अहो स्वप्नस्य सुखता या अहम् एवम् चिर-आहृता । प्रेषितम् नाम पश्यामि राघवेण वनौकसम् ॥२०॥
aho svapnasya sukhatā yā aham evam cira-āhṛtā . preṣitam nāma paśyāmi rāghaveṇa vanaukasam ..20..
स्वप्नेऽपि यद्यहं वीरं राघवं सहलक्ष्मणम् । पश्येयं नावसीदेयं स्वप्नोऽपि मम मत्सरी ॥२१॥
स्वप्ने अपि यदि अहम् वीरम् राघवम् सहलक्ष्मणम् । पश्येयम् न अवसीदेयम् स्वप्नः अपि मम मत्सरी ॥२१॥
svapne api yadi aham vīram rāghavam sahalakṣmaṇam . paśyeyam na avasīdeyam svapnaḥ api mama matsarī ..21..
नाहं स्वप्नमिमं मन्ये स्वप्ने दृष्ट्वा हि वानरम् । न शक्योऽभ्युदयः प्राप्तुं प्राप्तश्चाभ्युदयो मम ॥२२॥
न अहम् स्वप्नम् इमम् मन्ये स्वप्ने दृष्ट्वा हि वानरम् । न शक्यः अभ्युदयः प्राप्तुम् प्राप्तः च अभ्युदयः मम ॥२२॥
na aham svapnam imam manye svapne dṛṣṭvā hi vānaram . na śakyaḥ abhyudayaḥ prāptum prāptaḥ ca abhyudayaḥ mama ..22..
किं नु स्याच्चित्तमोहोऽयं भवेद्वातगतिस्त्वियम् । उन्मादजो विकारो वा स्यादियं मृगतृष्णिका ॥२३॥
किम् नु स्यात् चित्त-मोहः अयम् भवेत् वात-गतिः तु इयम् । उन्माद-जः विकारः वा स्यात् इयम् मृगतृष्णिका ॥२३॥
kim nu syāt citta-mohaḥ ayam bhavet vāta-gatiḥ tu iyam . unmāda-jaḥ vikāraḥ vā syāt iyam mṛgatṛṣṇikā ..23..
अथवा नायमुन्मादो मोहोऽप्युन्मादलक्ष्मणः । सम्बुध्ये चाहमात्मानमिमं चापि वनौकसं ॥२४॥
अथवा न अयम् उन्मादः मोहः अपि उन्माद-लक्ष्मणः । सम्बुध्ये च अहम् आत्मानम् इमम् च अपि वनौकसम् ॥२४॥
athavā na ayam unmādaḥ mohaḥ api unmāda-lakṣmaṇaḥ . sambudhye ca aham ātmānam imam ca api vanaukasam ..24..
इत्येवं बहुधा सीता सम्प्रधार्य बलाबलम् । रक्षसां कामरूपत्वान्मेने तं राक्षसाधिपम् ॥२५॥
इति एवम् बहुधा सीता सम्प्रधार्य बलाबलम् । रक्षसाम् कामरूप-त्वात् मेने तम् राक्षस-अधिपम् ॥२५॥
iti evam bahudhā sītā sampradhārya balābalam . rakṣasām kāmarūpa-tvāt mene tam rākṣasa-adhipam ..25..
एतां बुद्धिं तदा कृत्वा सीता सा तनुमध्यमा । न प्रतिव्याजहाराथ वानरं जनकात्मजा ॥२६॥
एताम् बुद्धिम् तदा कृत्वा सीता सा तनु-मध्यमा । न प्रतिव्याजहार अथ वानरम् जनकात्मजा ॥२६॥
etām buddhim tadā kṛtvā sītā sā tanu-madhyamā . na prativyājahāra atha vānaram janakātmajā ..26..
सीताया निश्चितं बुद्ध्वा हनूमान्मारुतात्मजः । श्रोत्रानुकूलैर्वचनैस्तदा तां सम्प्रहर्षयत् ॥२७॥
सीतायाः निश्चितम् बुद्ध्वा हनूमान् मारुतात्मजः । श्रोत्र-अनुकूलैः वचनैः तदा ताम् सम्प्रहर्षयत् ॥२७॥
sītāyāḥ niścitam buddhvā hanūmān mārutātmajaḥ . śrotra-anukūlaiḥ vacanaiḥ tadā tām sampraharṣayat ..27..
आदित्य इव तेजस्वी लोककान्तः शशी यथा । राजा सर्वस्य लोकस्य देवो वैश्रवणो यथा ॥२८॥
आदित्यः इव तेजस्वी लोक-कान्तः शशी यथा । राजा सर्वस्य लोकस्य देवः वैश्रवणः यथा ॥२८॥
ādityaḥ iva tejasvī loka-kāntaḥ śaśī yathā . rājā sarvasya lokasya devaḥ vaiśravaṇaḥ yathā ..28..
विक्रमेणोपपन्नश्च यथा विष्णुर्महायशाः । सत्यवादी मधुरवाग्देवो वाचस्पतिर्यथा ॥२९॥
विक्रमेण उपपन्नः च यथा विष्णुः महा-यशाः । सत्य-वादी मधुर-वाच् देवः वाचस्पतिः यथा ॥२९॥
vikrameṇa upapannaḥ ca yathā viṣṇuḥ mahā-yaśāḥ . satya-vādī madhura-vāc devaḥ vācaspatiḥ yathā ..29..
रूपवान्सुभगः श्रीमान्कन्दर्प इव मूर्तिमान् । स्थानक्रोधप्रहर्ता च श्रेष्ठो लोके महारथः ॥३०॥
रूपवान् सुभगः श्रीमान् कन्दर्पः इव मूर्तिमान् । स्थान-क्रोध-प्रहर्ता च श्रेष्ठः लोके महा-रथः ॥३०॥
rūpavān subhagaḥ śrīmān kandarpaḥ iva mūrtimān . sthāna-krodha-prahartā ca śreṣṭhaḥ loke mahā-rathaḥ ..30..
बाहुच्छायामवष्टब्धो यस्य लोको महात्मनः । अपकृष्याश्रमपदान्मृगरूपेण राघवम् ॥३१॥
बाहु-छायाम् अवष्टब्धः यस्य लोकः महात्मनः । अपकृष्य आश्रम-पदात् मृग-रूपेण राघवम् ॥३१॥
bāhu-chāyām avaṣṭabdhaḥ yasya lokaḥ mahātmanaḥ . apakṛṣya āśrama-padāt mṛga-rūpeṇa rāghavam ..31..
शून्ये येनापनीतासि तस्य द्रक्ष्यसि यत्फलम् ।अचिराद् रावणं सङ्ख्ये यो वधिष्यति वीर्यवान् ॥३२॥
शून्ये येन अपनीता असि तस्य द्रक्ष्यसि यत् फलम् ।अचिरात् रावणम् सङ्ख्ये यः वधिष्यति वीर्यवान् ॥३२॥
śūnye yena apanītā asi tasya drakṣyasi yat phalam .acirāt rāvaṇam saṅkhye yaḥ vadhiṣyati vīryavān ..32..
क्रोधप्रमुक्तैरिषुभिर्ज्वलद्भिरिव पावकैः ।तेनाहं प्रेषितो दूतस्त्वत्सकाशमिहागतः ॥३३॥
क्रोध-प्रमुक्तैः इषुभिः ज्वलद्भिः इव पावकैः ।तेन अहम् प्रेषितः दूतः त्वद्-सकाशम् इह आगतः ॥३३॥
krodha-pramuktaiḥ iṣubhiḥ jvaladbhiḥ iva pāvakaiḥ .tena aham preṣitaḥ dūtaḥ tvad-sakāśam iha āgataḥ ..33..
त्वद्वियोगेन दुःखार्तः स त्वां कौशलमब्रवीत् ।लक्ष्मणश्च महातेजाः सुमित्रानन्दवर्धनः ॥३४॥
त्वद्-वियोगेन दुःख-आर्तः स त्वाम् कौशलम् अब्रवीत् ।लक्ष्मणः च महा-तेजाः सुमित्रा-आनन्द-वर्धनः ॥३४॥
tvad-viyogena duḥkha-ārtaḥ sa tvām kauśalam abravīt .lakṣmaṇaḥ ca mahā-tejāḥ sumitrā-ānanda-vardhanaḥ ..34..
अभिवाद्य महाबाहुः सोऽपि कौशलमब्रवीत् ।रामस्य च सखा देवि सुग्रीवो नाम वानरः ॥३५॥
अभिवाद्य महा-बाहुः सः अपि कौशलम् अब्रवीत् ।रामस्य च सखा देवि सुग्रीवः नाम वानरः ॥३५॥
abhivādya mahā-bāhuḥ saḥ api kauśalam abravīt .rāmasya ca sakhā devi sugrīvaḥ nāma vānaraḥ ..35..
राजा वानरमुख्यानां स त्वां कौशलमब्रवीत् ।नित्यं स्मरति रामस्त्वां ससुग्रीवः सलक्ष्मणः ॥३६॥
राजा वानर-मुख्यानाम् स त्वाम् कौशलम् अब्रवीत् ।नित्यम् स्मरति रामः त्वाम् स सुग्रीवः स लक्ष्मणः ॥३६॥
rājā vānara-mukhyānām sa tvām kauśalam abravīt .nityam smarati rāmaḥ tvām sa sugrīvaḥ sa lakṣmaṇaḥ ..36..
दिष्ट्या जीवसि वैदेहि राक्षसी वशमागता ।नचिराद्द्रक्ष्यसे रामं लक्ष्मणं च महारथम् ॥३७॥
दिष्ट्या जीवसि वैदेहि राक्षसी वशम् आगता ।नचिरात् द्रक्ष्यसे रामम् लक्ष्मणम् च महा-रथम् ॥३७॥
diṣṭyā jīvasi vaidehi rākṣasī vaśam āgatā .nacirāt drakṣyase rāmam lakṣmaṇam ca mahā-ratham ..37..
मध्ये वानरकोटीनां सुग्रीवं चामितौजसं ।अहं सुग्रीवसचिवो हनूमान्नाम वानरः ॥३८॥
मध्ये वानर-कोटीनाम् सुग्रीवम् च अमित-ओजसम् ।अहम् सुग्रीव-सचिवः हनूमान् नाम वानरः ॥३८॥
madhye vānara-koṭīnām sugrīvam ca amita-ojasam .aham sugrīva-sacivaḥ hanūmān nāma vānaraḥ ..38..
प्रविष्टो नगरीं लङ्कां लङ्घयित्वा महोदधिम् ।कृत्वा मूर्ध्नि पदन्यासं रावणस्य दुरात्मनः ॥३९॥
प्रविष्टः नगरीम् लङ्काम् लङ्घयित्वा महा-उदधिम् ।कृत्वा मूर्ध्नि पदन्यासम् रावणस्य दुरात्मनः ॥३९॥
praviṣṭaḥ nagarīm laṅkām laṅghayitvā mahā-udadhim .kṛtvā mūrdhni padanyāsam rāvaṇasya durātmanaḥ ..39..
त्वां द्रष्टुमुपयातोऽहं समाश्रित्य पराक्रमम् ।नाहमस्मि तथा देवि यथा माम् अवगच्छसि । विशङ्का त्यज्यतामेषा श्रद्धत्स्व वदतो मम ॥४०॥
त्वाम् द्रष्टुम् उपयातः अहम् समाश्रित्य पराक्रमम् ।न अहम् अस्मि तथा देवि यथा माम् अवगच्छसि । विशङ्का त्यज्यताम् एषा श्रद्धत्स्व वदतः मम ॥४०॥
tvām draṣṭum upayātaḥ aham samāśritya parākramam .na aham asmi tathā devi yathā mām avagacchasi . viśaṅkā tyajyatām eṣā śraddhatsva vadataḥ mama ..40..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In