This overlay will guide you through the buttons:

| |
|
तां तु राम कथां श्रुत्वा वैदेही वानरर्षभात् । उवाच वचनं सान्त्वमिदं मधुरया गिरा ॥ १॥
ताम् तु राम कथाम् श्रुत्वा वैदेही वानर-ऋषभात् । उवाच वचनम् सान्त्वम् इदम् मधुरया गिरा ॥ १॥
tām tu rāma kathām śrutvā vaidehī vānara-ṛṣabhāt . uvāca vacanam sāntvam idam madhurayā girā .. 1..
क्व ते रामेण संसर्गः कथं जानासि लक्ष्मणम् । वानराणां नराणां च कथमासीत्समागमः ॥ २॥
क्व ते रामेण संसर्गः कथम् जानासि लक्ष्मणम् । वानराणाम् नराणाम् च कथम् आसीत् समागमः ॥ २॥
kva te rāmeṇa saṃsargaḥ katham jānāsi lakṣmaṇam . vānarāṇām narāṇām ca katham āsīt samāgamaḥ .. 2..
यानि रामस्य लिङ्गानि लक्ष्मणस्य च वानर । तानि भूयः समाचक्ष्व न मां शोकः समाविशेत् ॥ ३॥
यानि रामस्य लिङ्गानि लक्ष्मणस्य च वानर । तानि भूयस् समाचक्ष्व न माम् शोकः समाविशेत् ॥ ३॥
yāni rāmasya liṅgāni lakṣmaṇasya ca vānara . tāni bhūyas samācakṣva na mām śokaḥ samāviśet .. 3..
कीदृशं तस्य संस्थानं रूपं रामस्य कीदृशम् । कथमूरू कथं बाहू लक्ष्मणस्य च शंस मे ॥ ४॥
कीदृशम् तस्य संस्थानम् रूपम् रामस्य कीदृशम् । कथम् ऊरू कथम् बाहू लक्ष्मणस्य च शंस मे ॥ ४॥
kīdṛśam tasya saṃsthānam rūpam rāmasya kīdṛśam . katham ūrū katham bāhū lakṣmaṇasya ca śaṃsa me .. 4..
एवमुक्तस्तु वैदेह्या हनूमान्मारुतात्मजः । ततो रामं यथातत्त्वमाख्यातुमुपचक्रमे ॥ ५॥
एवम् उक्तः तु वैदेह्या हनूमान् मारुतात्मजः । ततस् रामम् यथातत्त्वम् आख्यातुम् उपचक्रमे ॥ ५॥
evam uktaḥ tu vaidehyā hanūmān mārutātmajaḥ . tatas rāmam yathātattvam ākhyātum upacakrame .. 5..
जानन्ती बत दिष्ट्या मां वैदेहि परिपृच्छसि । भर्तुः कमलपत्राक्षि सङ्ख्यानं लक्ष्मणस्य च ॥ ६॥
जानन्ती बत दिष्ट्या माम् वैदेहि परिपृच्छसि । भर्तुः कमल-पत्र-अक्षि सङ्ख्यानम् लक्ष्मणस्य च ॥ ६॥
jānantī bata diṣṭyā mām vaidehi paripṛcchasi . bhartuḥ kamala-patra-akṣi saṅkhyānam lakṣmaṇasya ca .. 6..
यानि रामस्य चिह्नानि लक्ष्मणस्य च यानि वै । लक्षितानि विशालाक्षि वदतः शृणु तानि मे ॥ ७॥
यानि रामस्य चिह्नानि लक्ष्मणस्य च यानि वै । लक्षितानि विशाल-अक्षि वदतः शृणु तानि मे ॥ ७॥
yāni rāmasya cihnāni lakṣmaṇasya ca yāni vai . lakṣitāni viśāla-akṣi vadataḥ śṛṇu tāni me .. 7..
रामः कमलपत्राक्षः सर्वभूतमनोहरः । रूपदाक्षिण्यसम्पन्नः प्रसूतो जनकात्मजे ॥ ८॥
रामः कमल-पत्र-अक्षः सर्व-भूत-मनोहरः । रूप-दाक्षिण्य-सम्पन्नः प्रसूतः जनकात्मजे ॥ ८॥
rāmaḥ kamala-patra-akṣaḥ sarva-bhūta-manoharaḥ . rūpa-dākṣiṇya-sampannaḥ prasūtaḥ janakātmaje .. 8..
तेजसादित्यसङ्काशः क्षमया पृथिवीसमः । बृहस्पतिसमो बुद्ध्या यशसा वासवोपमः ॥ ९॥
तेजसा आदित्य-सङ्काशः क्षमया पृथिवी-समः । बृहस्पति-समः बुद्ध्या यशसा वासव-उपमः ॥ ९॥
tejasā āditya-saṅkāśaḥ kṣamayā pṛthivī-samaḥ . bṛhaspati-samaḥ buddhyā yaśasā vāsava-upamaḥ .. 9..
रक्षिता जीवलोकस्य स्वजनस्य च रक्षिता । रक्षिता स्वस्य वृत्तस्य धर्मस्य च परन्तपः ॥ १०॥
रक्षिता जीव-लोकस्य स्व-जनस्य च रक्षिता । रक्षिता स्वस्य वृत्तस्य धर्मस्य च परन्तपः ॥ १०॥
rakṣitā jīva-lokasya sva-janasya ca rakṣitā . rakṣitā svasya vṛttasya dharmasya ca parantapaḥ .. 10..
रामो भामिनि लोकस्य चातुर्वर्ण्यस्य रक्षिता । मर्यादानां च लोकस्य कर्ता कारयिता च सः ॥ ११॥
रामः भामिनि लोकस्य चातुर्वर्ण्यस्य रक्षिता । मर्यादानाम् च लोकस्य कर्ता कारयिता च सः ॥ ११॥
rāmaḥ bhāmini lokasya cāturvarṇyasya rakṣitā . maryādānām ca lokasya kartā kārayitā ca saḥ .. 11..
अर्चिष्मानर्चितोऽत्यर्थं ब्रह्मचर्यव्रते स्थितः । साधूनामुपकारज्ञः प्रचारज्ञश्च कर्मणाम् ॥ १२॥
अर्चिष्मान् अर्चितः अत्यर्थम् ब्रह्मचर्य-व्रते स्थितः । साधूनाम् उपकार-ज्ञः प्रचार-ज्ञः च कर्मणाम् ॥ १२॥
arciṣmān arcitaḥ atyartham brahmacarya-vrate sthitaḥ . sādhūnām upakāra-jñaḥ pracāra-jñaḥ ca karmaṇām .. 12..
राजविद्याविनीतश्च ब्राह्मणानामुपासिता । श्रुतवाञ्शीलसम्पन्नो विनीतश्च परन्तपः ॥ १३॥
राज-विद्या-विनीतः च ब्राह्मणानाम् उपासिता । श्रुतवान् शील-सम्पन्नः विनीतः च परन्तपः ॥ १३॥
rāja-vidyā-vinītaḥ ca brāhmaṇānām upāsitā . śrutavān śīla-sampannaḥ vinītaḥ ca parantapaḥ .. 13..
यजुर्वेदविनीतश्च वेदविद्भिः सुपूजितः । धनुर्वेदे च वेदे च वेदाङ्गेषु च निष्ठितः ॥ १४॥
यजुर्वेद-विनीतः च वेद-विद्भिः सु पूजितः । धनुर्वेदे च वेदे च वेदाङ्गेषु च निष्ठितः ॥ १४॥
yajurveda-vinītaḥ ca veda-vidbhiḥ su pūjitaḥ . dhanurvede ca vede ca vedāṅgeṣu ca niṣṭhitaḥ .. 14..
विपुलांसो महाबाहुः कम्बुग्रीवः शुभाननः | गूढजत्रुः सुताम्राक्षो रामो देवि जनैः श्रुतः ॥ १५॥
विपुल-अंसः महा-बाहुः कम्बु-ग्रीवः शुभ-आननः । गूढ-जत्रुः सुताम्र-अक्षः रामः देवि जनैः श्रुतः ॥ १५॥
vipula-aṃsaḥ mahā-bāhuḥ kambu-grīvaḥ śubha-ānanaḥ . gūḍha-jatruḥ sutāmra-akṣaḥ rāmaḥ devi janaiḥ śrutaḥ .. 15..
दुन्दुभिस्वननिर्घोषः स्निग्धवर्णः प्रतापवान् । समः समविभक्ताङ्गो वर्णं श्यामं समाश्रितः ॥ १६॥
दुन्दुभि-स्वन-निर्घोषः स्निग्ध-वर्णः प्रतापवान् । समः सम-विभक्त-अङ्गः वर्णम् श्यामम् समाश्रितः ॥ १६॥
dundubhi-svana-nirghoṣaḥ snigdha-varṇaḥ pratāpavān . samaḥ sama-vibhakta-aṅgaḥ varṇam śyāmam samāśritaḥ .. 16..
त्रिस्थिरस्त्रिप्रलम्बश्च त्रिसमस्त्रिषु चोन्नतः ।त्रिताम्रस्त्रिषु च स्निग्धो गम्भीरस्त्रिषु नित्यशः॥१७॥
त्रि-स्थिरः त्रि-प्रलम्बः च त्रि-समः त्रिषु च उन्नतः ।त्रि-ताम्रः त्रिषु च स्निग्धः गम्भीरः त्रिषु नित्यशस्॥१७॥
tri-sthiraḥ tri-pralambaḥ ca tri-samaḥ triṣu ca unnataḥ .tri-tāmraḥ triṣu ca snigdhaḥ gambhīraḥ triṣu nityaśas..17..
त्रिवलीवांस्त्र्यवणतश्चतुर्व्यङ्गस्त्रिशीर्षवान् ।चतुष्कलश्चतुर्लेखश्चतुष्किष्कुश्चतुःसमः ॥१८॥
त्रिवलीवान् त्रि-अवणतः चतुर्-व्यङ्गः त्रि-शीर्षवान् ।चतुष्कलः चतुर्-लेखः चतुष्किष्कुः चतुःसमः ॥१८॥
trivalīvān tri-avaṇataḥ catur-vyaṅgaḥ tri-śīrṣavān .catuṣkalaḥ catur-lekhaḥ catuṣkiṣkuḥ catuḥsamaḥ ..18..
चतुर्दशसमद्वन्द्वश्चतुर्दष्टश्चतुर्गतिः ।महौष्ठहनुनासश्च पञ्चस्निग्धोऽष्टवंशवान् ॥१९॥
चतुर्दश-सम-द्वन्द्वः चतुर्-दष्टः चतुर्-गतिः ।महा-ओष्ठ-हनु-नासः च पञ्च-स्निग्धः अष्ट-वंशवान् ॥१९॥
caturdaśa-sama-dvandvaḥ catur-daṣṭaḥ catur-gatiḥ .mahā-oṣṭha-hanu-nāsaḥ ca pañca-snigdhaḥ aṣṭa-vaṃśavān ..19..
दशपद्मो दशबृहत्त्रिभिर्व्याप्तो द्विशुक्लवान् । षडुन्नतो नवतनुस्त्रिभिर्व्याप्नोति राघवः ॥२०॥
दश-पद्मः दश-बृहत् त्रिभिः व्याप्तः द्वि-शुक्लवान् । षष्-उन्नतः नव-तनुः त्रिभिः व्याप्नोति राघवः ॥२०॥
daśa-padmaḥ daśa-bṛhat tribhiḥ vyāptaḥ dvi-śuklavān . ṣaṣ-unnataḥ nava-tanuḥ tribhiḥ vyāpnoti rāghavaḥ ..20..
सत्यधर्मपरः श्रीमान्सङ्ग्रहानुग्रहे रतः । देशकालविभागज्ञः सर्वलोकप्रियंवदः ॥२१॥
सत्य-धर्म-परः श्रीमान् सङ्ग्रह-अनुग्रहे रतः । सर्व ॥२१॥
satya-dharma-paraḥ śrīmān saṅgraha-anugrahe rataḥ . sarva ..21..
भ्राता च तस्य द्वैमात्रः सौमित्रिरपराजितः । अनुरागेण रूपेण गुणैश्चैव तथाविधः ॥२२॥
भ्राता च तस्य द्वैमात्रः सौमित्रिः अपराजितः । अनुरागेण रूपेण गुणैः च एव तथाविधः ॥२२॥
bhrātā ca tasya dvaimātraḥ saumitriḥ aparājitaḥ . anurāgeṇa rūpeṇa guṇaiḥ ca eva tathāvidhaḥ ..22..
स सुवर्णच्छविः श्रीमान् रामः श्यामो महायशः।तावुभौ नरशार्दूलौ त्वद्दर्शनसमुत्सुकौ॥२३॥
स सुवर्ण-छविः श्रीमान् रामः श्यामः महा-यशः।तौ उभौ नर-शार्दूलौ त्वद्-दर्शन-समुत्सुकौ॥२३॥
sa suvarṇa-chaviḥ śrīmān rāmaḥ śyāmaḥ mahā-yaśaḥ.tau ubhau nara-śārdūlau tvad-darśana-samutsukau..23..
विचिन्वन्तौ महीं कृत्स्नामस्माभिरभिसङ्गतौ।त्वामेव मार्गमाणो तौ विचरन्तौ वसुन्धराम् ॥२४॥
विचिन्वन्तौ महीम् कृत्स्नाम् अस्माभिः अभिसङ्गतौ।त्वाम् एव मार्गमाणो तौ विचरन्तौ वसुन्धराम् ॥२४॥
vicinvantau mahīm kṛtsnām asmābhiḥ abhisaṅgatau.tvām eva mārgamāṇo tau vicarantau vasundharām ..24..
ददर्शतुर्मृगपतिं पूर्वजेनावरोपितम् ।ऋश्यमूकस्य पृष्ठे तु बहुपादपसङ्कुले ॥२५॥
ददर्शतुः मृगपतिम् पूर्वजेन अवरोपितम् ।ऋश्यमूकस्य पृष्ठे तु बहु-पादप-सङ्कुले ॥२५॥
dadarśatuḥ mṛgapatim pūrvajena avaropitam .ṛśyamūkasya pṛṣṭhe tu bahu-pādapa-saṅkule ..25..
भ्रातुर्भार्यार्तमासीनं सुग्रीवं प्रियदर्शनम् ।वयं तु हरिराजं तं सुग्रीवं सत्यसङ्गरम् ॥२६॥
भ्रातुः भार्या-आर्तम् आसीनम् सुग्रीवम् प्रिय-दर्शनम् ।वयम् तु हरि-राजम् तम् सुग्रीवम् सत्य-सङ्गरम् ॥२६॥
bhrātuḥ bhāryā-ārtam āsīnam sugrīvam priya-darśanam .vayam tu hari-rājam tam sugrīvam satya-saṅgaram ..26..
परिचर्यामहे राज्यात्पूर्वजेनावरोपितम् ।ततस्तौ चीरवसनौ धनुःप्रवरपाणिनौ ॥२७॥
परिचर्यामहे राज्यात् पूर्वजेन अवरोपितम् ।ततस् तौ चीर-वसनौ धनुः-प्रवर-पाणिनौ ॥२७॥
paricaryāmahe rājyāt pūrvajena avaropitam .tatas tau cīra-vasanau dhanuḥ-pravara-pāṇinau ..27..
ऋश्यमूकस्य शैलस्य रम्यं देशमुपागतौ ।स तौ दृष्ट्वा नरव्याघ्रौ धन्विनौ वानरर्षभः ॥२८॥
ऋश्यमूकस्य शैलस्य रम्यम् देशम् उपागतौ ।स तौ दृष्ट्वा नर-व्याघ्रौ धन्विनौ वानर-ऋषभः ॥२८॥
ṛśyamūkasya śailasya ramyam deśam upāgatau .sa tau dṛṣṭvā nara-vyāghrau dhanvinau vānara-ṛṣabhaḥ ..28..
अभिप्लुतो गिरेस्तस्य शिखरं भयमोहितः ।ततः स शिखरे तस्मिन्वानरेन्द्रो व्यवस्थितः ॥२९॥
अभिप्लुतः गिरेः तस्य शिखरम् भय-मोहितः ।ततस् स शिखरे तस्मिन् वानर-इन्द्रः व्यवस्थितः ॥२९॥
abhiplutaḥ gireḥ tasya śikharam bhaya-mohitaḥ .tatas sa śikhare tasmin vānara-indraḥ vyavasthitaḥ ..29..
तयोः समीपं मामेव प्रेषयामास सत्वरः ।तावहं पुरुषव्याघ्रौ सुग्रीववचनात्प्रभू ॥३०॥
तयोः समीपम् माम् एव प्रेषयामास स त्वरः ।तौ अहम् पुरुष-व्याघ्रौ सुग्रीव-वचनात् प्रभू ॥३०॥
tayoḥ samīpam mām eva preṣayāmāsa sa tvaraḥ .tau aham puruṣa-vyāghrau sugrīva-vacanāt prabhū ..30..
रूपलक्षणसम्पन्नौ कृताञ्जलिरुपस्थितः ।तौ परिज्ञाततत्त्वार्थौ मया प्रीतिसमन्वितौ ॥३१॥
रूप-लक्षण-सम्पन्नौ कृताञ्जलिः उपस्थितः ।तौ परिज्ञात-तत्त्व-अर्थौ मया प्रीति-समन्वितौ ॥३१॥
rūpa-lakṣaṇa-sampannau kṛtāñjaliḥ upasthitaḥ .tau parijñāta-tattva-arthau mayā prīti-samanvitau ..31..
पृष्ठमारोप्य तं देशं प्रापितौ पुरुषर्षभौ ।निवेदितौ च तत्त्वेन सुग्रीवाय महात्मने ॥३२॥
पृष्ठम् आरोप्य तम् देशम् प्रापितौ पुरुष-ऋषभौ ।निवेदितौ च तत्त्वेन सुग्रीवाय महात्मने ॥३२॥
pṛṣṭham āropya tam deśam prāpitau puruṣa-ṛṣabhau .niveditau ca tattvena sugrīvāya mahātmane ..32..
तयोरन्योन्यसम्भाषाद्भृशं प्रीतिरजायत ।तत्र तौ कीर्तिसम्पन्नौ हरीश्वरनरेश्वरौ ॥३३॥
तयोः अन्योन्य-सम्भाषात् भृशम् प्रीतिः अजायत ।तत्र तौ कीर्ति-सम्पन्नौ हरि-ईश्वर-नर-ईश्वरौ ॥३३॥
tayoḥ anyonya-sambhāṣāt bhṛśam prītiḥ ajāyata .tatra tau kīrti-sampannau hari-īśvara-nara-īśvarau ..33..
परस्परकृताश्वासौ कथया पूर्ववृत्तया ।तं ततः सान्त्वयामास सुग्रीवं लक्ष्मणाग्रजः ॥३४॥
परस्पर-कृत-आश्वासौ कथया पूर्व-वृत्तया ।तम् ततस् सान्त्वयामास सुग्रीवम् लक्ष्मण-अग्रजः ॥३४॥
paraspara-kṛta-āśvāsau kathayā pūrva-vṛttayā .tam tatas sāntvayāmāsa sugrīvam lakṣmaṇa-agrajaḥ ..34..
स्त्रीहेतोर्वालिना भ्रात्रा निरस्तमुरु तेजसा ।ततस्त्वन्नाशजं शोकं रामस्याक्लिष्टकर्मणः ॥३५॥
स्त्री-हेतोः वालिना भ्रात्रा निरस्तम् उरु तेजसा ।ततस् त्वद्-नाश-जम् शोकम् रामस्य अक्लिष्ट-कर्मणः ॥३५॥
strī-hetoḥ vālinā bhrātrā nirastam uru tejasā .tatas tvad-nāśa-jam śokam rāmasya akliṣṭa-karmaṇaḥ ..35..
लक्ष्मणो वानरेन्द्राय सुग्रीवाय न्यवेदयत् ।स श्रुत्वा वानरेन्द्रस्तु लक्ष्मणेनेरितं वचः ॥३६॥
लक्ष्मणः वानर-इन्द्राय सुग्रीवाय न्यवेदयत् ।स श्रुत्वा वानर-इन्द्रः तु लक्ष्मणेन ईरितम् वचः ॥३६॥
lakṣmaṇaḥ vānara-indrāya sugrīvāya nyavedayat .sa śrutvā vānara-indraḥ tu lakṣmaṇena īritam vacaḥ ..36..
तदासीन्निष्प्रभोऽत्यर्थं ग्रहग्रस्त इवांशुमान् ।ततस्त्वद्गात्रशोभीनि रक्षसा ह्रियमाणया ॥३७॥
तदा आसीत् निष्प्रभः अत्यर्थम् ग्रह-ग्रस्तः इव अंशुमान् ।ततस् त्वद्-गात्र-शोभीनि रक्षसा ह्रियमाणया ॥३७॥
tadā āsīt niṣprabhaḥ atyartham graha-grastaḥ iva aṃśumān .tatas tvad-gātra-śobhīni rakṣasā hriyamāṇayā ..37..
यान्याभरणजालानि पातितानि महीतले ।तानि सर्वाणि रामाय आनीय हरियूथपाः ॥३८॥
यानि आभरण-जालानि पातितानि मही-तले ।तानि सर्वाणि रामाय आनीय हरि-यूथपाः ॥३८॥
yāni ābharaṇa-jālāni pātitāni mahī-tale .tāni sarvāṇi rāmāya ānīya hari-yūthapāḥ ..38..
संहृष्टा दर्शयामासुर्गतिं तु न विदुस्तव ।तानि रामाय दत्तानि मयैवोपहृतानि च ॥३९॥
संहृष्टाः दर्शयामासुः गतिम् तु न विदुः तव ।तानि रामाय दत्तानि मया एव उपहृतानि च ॥३९॥
saṃhṛṣṭāḥ darśayāmāsuḥ gatim tu na viduḥ tava .tāni rāmāya dattāni mayā eva upahṛtāni ca ..39..
स्वनवन्त्यवकीर्णन्ति तस्मिन्विहतचेतसि ।तान्यङ्के दर्शनीयानि कृत्वा बहुविधं ततः ॥४०॥
स्वनवन्ति अवकीर्णन्ति तस्मिन् विहत-चेतसि ।तानि अङ्के दर्शनीयानि कृत्वा बहुविधम् ततस् ॥४०॥
svanavanti avakīrṇanti tasmin vihata-cetasi .tāni aṅke darśanīyāni kṛtvā bahuvidham tatas ..40..
तेन देवप्रकाशेन देवेन परिदेवितम् ।पश्यतस्तस्या रुदतस्ताम्यतश्च पुनः पुनः ॥४१॥
तेन देवप्रकाशेन देवेन परिदेवितम् ।पश्यतः तस्याः रुदतः ताम्यतः च पुनर् पुनर् ॥४१॥
tena devaprakāśena devena paridevitam .paśyataḥ tasyāḥ rudataḥ tāmyataḥ ca punar punar ..41..
प्रादीपयन्दाशरथेस्तानि शोकहुताशनम् ॥।४२॥
प्रादीपयन् दाशरथेः तानि शोक-हुताशनम् ॥।४२॥
prādīpayan dāśaratheḥ tāni śoka-hutāśanam ...42..
शयितं च चिरं तेन दुःखार्तेन महात्मना । मयापि विविधैर्वाक्यैः कृच्छ्रादुत्थापितः पुनः ॥४३॥
शयितम् च चिरम् तेन दुःख-आर्तेन महात्मना । मया अपि विविधैः वाक्यैः कृच्छ्रात् उत्थापितः पुनर् ॥४३॥
śayitam ca ciram tena duḥkha-ārtena mahātmanā . mayā api vividhaiḥ vākyaiḥ kṛcchrāt utthāpitaḥ punar ..43..
तानि दृष्ट्वा महार्हाणि दर्शयित्वा मुहुर्मुहुः । राघवः सहसौमित्रिः सुग्रीवे स न्यवेदयत् ॥४४॥
तानि दृष्ट्वा महार्हाणि दर्शयित्वा मुहुर् मुहुर् । राघवः सहसौमित्रिः सुग्रीवे स न्यवेदयत् ॥४४॥
tāni dṛṣṭvā mahārhāṇi darśayitvā muhur muhur . rāghavaḥ sahasaumitriḥ sugrīve sa nyavedayat ..44..
स तवादर्शनादार्ये राघवः परितप्यते । महता ज्वलता नित्यमग्निनेवाग्निपर्वतः ॥४५॥
स तव अदर्शनात् आर्ये राघवः परितप्यते । महता ज्वलता नित्यम् अग्निना इव अग्निपर्वतः ॥४५॥
sa tava adarśanāt ārye rāghavaḥ paritapyate . mahatā jvalatā nityam agninā iva agniparvataḥ ..45..
त्वत्कृते तमनिद्रा च शोकश्चिन्ता च राघवम् । तापयन्ति महात्मानमग्न्यगारमिवाग्नयः ॥४६॥
त्वद्-कृते तम् अनिद्रा च शोकः चिन्ता च राघवम् । तापयन्ति महात्मानम् अग्नि-अगारम् इव अग्नयः ॥४६॥
tvad-kṛte tam anidrā ca śokaḥ cintā ca rāghavam . tāpayanti mahātmānam agni-agāram iva agnayaḥ ..46..
तवादर्शनशोकेन राघवः प्रविचाल्यते । महता भूमिकम्पेन महानिव शिलोच्चयः ॥४७॥
तव अदर्शन-शोकेन राघवः प्रविचाल्यते । महता भूमि-कम्पेन महान् इव शिलोच्चयः ॥४७॥
tava adarśana-śokena rāghavaḥ pravicālyate . mahatā bhūmi-kampena mahān iva śiloccayaḥ ..47..
कानानानि सुरम्याणि नदीप्रस्रवणानि च । चरन्न रतिमाप्नोति त्वमपश्यन्नृपात्मजे ॥४८॥
कानानानि सु रम्याणि नदी-प्रस्रवणानि च । चरन् न रतिम् आप्नोति त्वम् अपश्यत् नृप-आत्मजे ॥४८॥
kānānāni su ramyāṇi nadī-prasravaṇāni ca . caran na ratim āpnoti tvam apaśyat nṛpa-ātmaje ..48..
स त्वां मनुजशार्दूलः क्षिप्रं प्राप्स्यति राघवः । समित्रबान्धवं हत्वा रावणं जनकात्मजे ॥४९॥
स त्वाम् मनुज-शार्दूलः क्षिप्रम् प्राप्स्यति राघवः । स मित्र-बान्धवम् हत्वा रावणम् जनकात्मजे ॥४९॥
sa tvām manuja-śārdūlaḥ kṣipram prāpsyati rāghavaḥ . sa mitra-bāndhavam hatvā rāvaṇam janakātmaje ..49..
सहितौ रामसुग्रीवावुभावकुरुतां तदा । समयं वालिनं हन्तुं तव चान्वेषणं तथा ॥५०॥
सहितौ राम-सुग्रीवौ उभौ अकुरुताम् तदा । समयम् वालिनम् हन्तुम् तव च अन्वेषणम् तथा ॥५०॥
sahitau rāma-sugrīvau ubhau akurutām tadā . samayam vālinam hantum tava ca anveṣaṇam tathā ..50..
ततस्ताभ्यां कुमाराभ्यां वीराभ्यां स हरीश्वरः।किष्किन्धां समुपागम्य वाली युद्धे निपातितः॥५१॥
ततस् ताभ्याम् कुमाराभ्याम् वीराभ्याम् स हरि-ईश्वरः।किष्किन्धाम् समुपागम्य वाली युद्धे निपातितः॥५१॥
tatas tābhyām kumārābhyām vīrābhyām sa hari-īśvaraḥ.kiṣkindhām samupāgamya vālī yuddhe nipātitaḥ..51..
ततो निहत्य तरसा रामो वालिनमाहवे । सर्वर्क्षहरिसङ्घानां सुग्रीवमकरोत्पतिम् ॥५२॥
ततस् निहत्य तरसा रामः वालिनम् आहवे । सर्व-ऋक्ष-हरि-सङ्घानाम् सुग्रीवम् अकरोत् पतिम् ॥५२॥
tatas nihatya tarasā rāmaḥ vālinam āhave . sarva-ṛkṣa-hari-saṅghānām sugrīvam akarot patim ..52..
रामसुग्रीवयोरैक्यं देव्येवं समजायत । हनूमन्तं च मां विद्धि तयोर्दूतमिहागतम् ॥५३॥
राम-सुग्रीवयोः ऐक्यम् देवि एवम् समजायत । हनूमन्तम् च माम् विद्धि तयोः दूतम् इह आगतम् ॥५३॥
rāma-sugrīvayoḥ aikyam devi evam samajāyata . hanūmantam ca mām viddhi tayoḥ dūtam iha āgatam ..53..
स्वराज्यं प्राप्य सुग्रीवः समनीय महाहरीन् । त्वदर्थं प्रेषयामास दिशो दश महाबलान् ॥५४॥
स्व-राज्यम् प्राप्य सुग्रीवः समनीय महा-हरीन् । त्वद्-अर्थम् प्रेषयामास दिशः दश महा-बलान् ॥५४॥
sva-rājyam prāpya sugrīvaḥ samanīya mahā-harīn . tvad-artham preṣayāmāsa diśaḥ daśa mahā-balān ..54..
आदिष्टा वानरेन्द्रेण सुग्रीवेण महौजसः । अद्रिराजप्रतीकाशाः सर्वतः प्रस्थिता महीम् ॥५५॥
आदिष्टाः वानर-इन्द्रेण सुग्रीवेण महा-ओजसः । अद्रि-राज-प्रतीकाशाः सर्वतस् प्रस्थिताः महीम् ॥५५॥
ādiṣṭāḥ vānara-indreṇa sugrīveṇa mahā-ojasaḥ . adri-rāja-pratīkāśāḥ sarvatas prasthitāḥ mahīm ..55..
ततस्ते मार्गमाणा वै सुग्रीववचनातुराः।चरन्ति वसुधां कृत्स्नां वयमन्ये च वानराः॥५६॥
ततस् ते मार्गमाणाः वै सुग्रीव-वचन-आतुराः।चरन्ति वसुधाम् कृत्स्नाम् वयम् अन्ये च वानराः॥५६॥
tatas te mārgamāṇāḥ vai sugrīva-vacana-āturāḥ.caranti vasudhām kṛtsnām vayam anye ca vānarāḥ..56..
अङ्गदो नाम लक्ष्मीवान्वालिसूनुर्महाबलः । प्रस्थितः कपिशार्दूलस्त्रिभागबलसंवृतः ॥५७॥
अङ्गदः नाम लक्ष्मीवान् वालि-सूनुः महा-बलः । प्रस्थितः कपि-शार्दूलः त्रि-भाग-बल-संवृतः ॥५७॥
aṅgadaḥ nāma lakṣmīvān vāli-sūnuḥ mahā-balaḥ . prasthitaḥ kapi-śārdūlaḥ tri-bhāga-bala-saṃvṛtaḥ ..57..
तेषां नो विप्रनष्टानां विन्ध्ये पर्वतसत्तमे । भृशं शोकपरीतनामहोरात्रगणा गताः ॥५८॥
तेषाम् नः विप्रनष्टानाम् विन्ध्ये पर्वत-सत्तमे । भृशम् शोक-परीत-नाम-अहोरात्र-गणाः गताः ॥५८॥
teṣām naḥ vipranaṣṭānām vindhye parvata-sattame . bhṛśam śoka-parīta-nāma-ahorātra-gaṇāḥ gatāḥ ..58..
ते वयं कार्यनैराश्यात्कालस्यातिक्रमेण च । भयाच्च कपिराजस्य प्राणांस्त्यक्तुं व्यवस्थिताः ॥५९॥
ते वयम् कार्य-नैराश्यात् कालस्य अतिक्रमेण च । भयात् च कपि-राजस्य प्राणान् त्यक्तुम् व्यवस्थिताः ॥५९॥
te vayam kārya-nairāśyāt kālasya atikrameṇa ca . bhayāt ca kapi-rājasya prāṇān tyaktum vyavasthitāḥ ..59..
विचित्य वनदुर्गाणि गिरिप्रस्रवणानि च । अनासाद्य पदं देव्याः प्राणांस्त्यक्तुं व्यवस्थिताः ॥६०॥
विचित्य वन-दुर्गाणि गिरि-प्रस्रवणानि च । अन् आसाद्य पदम् देव्याः प्राणान् त्यक्तुम् व्यवस्थिताः ॥६०॥
vicitya vana-durgāṇi giri-prasravaṇāni ca . an āsādya padam devyāḥ prāṇān tyaktum vyavasthitāḥ ..60..
ततस्तस्य गिरेर्मूर्ध्नि वयं प्रायमुपास्महे।द्रष्ट्वा प्रायोपविष्टांश्च सर्वान् वानरपुंगवान्॥६१॥
ततस् तस्य गिरेः मूर्ध्नि वयम् प्रायम् उपास्महे।द्रष्ट्वा प्राय-उपविष्टान् च सर्वान् वानर-पुंगवान्॥६१॥
tatas tasya gireḥ mūrdhni vayam prāyam upāsmahe.draṣṭvā prāya-upaviṣṭān ca sarvān vānara-puṃgavān..61..
भृशं शोकार्णवे मग्नः पर्यदेवयदङ्गदः । तव नाशं च वैदेहि वालिनश्च तथा वधम् ॥६२॥
भृशम् शोक-अर्णवे मग्नः पर्यदेवयत् अङ्गदः । तव नाशम् च वैदेहि वालिनः च तथा वधम् ॥६२॥
bhṛśam śoka-arṇave magnaḥ paryadevayat aṅgadaḥ . tava nāśam ca vaidehi vālinaḥ ca tathā vadham ..62..
प्रायोपवेशमस्माकं मरणं च जटायुषः ।तेषां नः स्वामिसन्देशान्निराशानां मुमूर्षताम् ॥६३॥
प्रायोपवेशम् अस्माकम् मरणम् च जटायुषः ।तेषाम् नः स्वामि-सन्देशात् निराशानाम् मुमूर्षताम् ॥६३॥
prāyopaveśam asmākam maraṇam ca jaṭāyuṣaḥ .teṣām naḥ svāmi-sandeśāt nirāśānām mumūrṣatām ..63..
कार्यहेतोरिवायातः शकुनिर्वीर्यवान्महान् ।गृध्रराजस्य सोदर्यः सम्पातिर्नाम गृध्रराट् ॥६४॥
कार्य-हेतोः इव आयातः शकुनिः वीर्यवान् महान् ।गृध्र-राजस्य सोदर्यः सम्पातिः नाम गृध्र-राज् ॥६४॥
kārya-hetoḥ iva āyātaḥ śakuniḥ vīryavān mahān .gṛdhra-rājasya sodaryaḥ sampātiḥ nāma gṛdhra-rāj ..64..
श्रुत्वा भ्रातृवधं कोपादिदं वचनमब्रवीत् ।यवीयान्केन मे भ्राता हतः क्व च विनाशितः ॥६५॥
श्रुत्वा भ्रातृ-वधम् कोपात् इदम् वचनम् अब्रवीत् ।यवीयान् केन मे भ्राता हतः क्व च विनाशितः ॥६५॥
śrutvā bhrātṛ-vadham kopāt idam vacanam abravīt .yavīyān kena me bhrātā hataḥ kva ca vināśitaḥ ..65..
एतदाख्यातुमिच्छामि भवद्भिर्वानरोत्तमाः ।अङ्गदोऽकथयत्तस्य जनस्थाने महद्वधम् ॥६६॥
एतत् आख्यातुम् इच्छामि भवद्भिः वानर-उत्तमाः ।अङ्गदः अकथयत् तस्य जनस्थाने महत् वधम् ॥६६॥
etat ākhyātum icchāmi bhavadbhiḥ vānara-uttamāḥ .aṅgadaḥ akathayat tasya janasthāne mahat vadham ..66..
रक्षसा भीमरूपेण त्वामुद्दिश्य यथातथम् ।जटायोस्तु वधं श्रुत्वा दुह्हितः सोऽरुणात्मजः ॥६७॥
रक्षसा भीम-रूपेण त्वाम् उद्दिश्य यथातथम् ।जटायोः तु वधम् श्रुत्वा दुह्हितः सः अरुण-आत्मजः ॥६७॥
rakṣasā bhīma-rūpeṇa tvām uddiśya yathātatham .jaṭāyoḥ tu vadham śrutvā duhhitaḥ saḥ aruṇa-ātmajaḥ ..67..
त्वामाह स वरारोहे वसन्तीं रावणालये ।तस्य तद्वचनं श्रुत्वा सम्पातेः प्रीतिवर्धनम् ॥६८॥
त्वाम् आह स वरारोहे वसन्तीम् रावण-आलये ।तस्य तत् वचनम् श्रुत्वा सम्पातेः प्रीति-वर्धनम् ॥६८॥
tvām āha sa varārohe vasantīm rāvaṇa-ālaye .tasya tat vacanam śrutvā sampāteḥ prīti-vardhanam ..68..
अङ्गदप्रमुखास्तूर्णं ततस्सम्प्रस्थिता वयम्।विन्ध्यादुत्थाय सम्प्राप्ता स्सागरस्यान्तमुत्तरम्॥६९॥
अङ्गद-प्रमुखाः तूर्णम् ततस् सम्प्रस्थिताः वयम्।विन्ध्यात् उत्थाय सम्प्राप्ताः स्सागरस्य अन्तम् उत्तरम्॥६९॥
aṅgada-pramukhāḥ tūrṇam tatas samprasthitāḥ vayam.vindhyāt utthāya samprāptāḥ ssāgarasya antam uttaram..69..
त्वद्दर्शन कृतोत्साहा हृष्टाः पुष्टाः प्लवङ्गमाः । अङ्गदप्रमुखाः सर्वे ततः सम्प्रस्थिता वयम् ॥७०॥
त्वद्-दर्शन कृत-उत्साहाः हृष्टाः पुष्टाः प्लवङ्गमाः । अङ्गद-प्रमुखाः सर्वे ततस् सम्प्रस्थिताः वयम् ॥७०॥
tvad-darśana kṛta-utsāhāḥ hṛṣṭāḥ puṣṭāḥ plavaṅgamāḥ . aṅgada-pramukhāḥ sarve tatas samprasthitāḥ vayam ..70..
चिन्तां जग्मुः पुनर्भीतास्त्वद्दर्शनसमुत्सुकाः।अथाहं हरिसैन्यस्य सागरं दृश्य सीदतः ॥७१॥
चिन्ताम् जग्मुः पुनर् भीताः त्वद्-दर्शन-समुत्सुकाः।अथा अहम् हरि-सैन्यस्य सागरम् दृश्य सीदतः ॥७१॥
cintām jagmuḥ punar bhītāḥ tvad-darśana-samutsukāḥ.athā aham hari-sainyasya sāgaram dṛśya sīdataḥ ..71..
व्यवधूय भयं तीव्रं योजनानां शतं प्लुतः ।लङ्का चापि मया रात्रौ प्रविष्टा राक्षसाकुला ॥७२॥
व्यवधूय भयम् तीव्रम् योजनानाम् शतम् प्लुतः ।लङ्का च अपि मया रात्रौ प्रविष्टा राक्षस-आकुला ॥७२॥
vyavadhūya bhayam tīvram yojanānām śatam plutaḥ .laṅkā ca api mayā rātrau praviṣṭā rākṣasa-ākulā ..72..
रावणश्च मया दृष्टस्त्वं च शोकनिपीडिता ।एतत्ते सर्वमाख्यातं यथावृत्तमनिन्दिते ॥७३॥
रावणः च मया दृष्टः त्वम् च शोक-निपीडिता ।एतत् ते सर्वम् आख्यातम् यथावृत्तम् अनिन्दिते ॥७३॥
rāvaṇaḥ ca mayā dṛṣṭaḥ tvam ca śoka-nipīḍitā .etat te sarvam ākhyātam yathāvṛttam anindite ..73..
अभिभाषस्व मां देवि दूतो दाशरथेरहम् ।त्वं मां रामकृतोद्योगं त्वन्निमित्तमिहागतम् ॥७४॥
अभिभाषस्व माम् देवि दूतः दाशरथेः अहम् ।त्वम् माम् राम-कृत-उद्योगम् त्वद्-निमित्तम् इह आगतम् ॥७४॥
abhibhāṣasva mām devi dūtaḥ dāśaratheḥ aham .tvam mām rāma-kṛta-udyogam tvad-nimittam iha āgatam ..74..
सुग्रीव सचिवं देवि बुध्यस्व पवनात्मजम् ।कुशली तव काकुत्स्थः सर्वशस्त्रभृतां वरः ॥७५॥
सुग्रीव सचिवम् देवि बुध्यस्व पवनात्मजम् ।कुशली तव काकुत्स्थः सर्व-शस्त्रभृताम् वरः ॥७५॥
sugrīva sacivam devi budhyasva pavanātmajam .kuśalī tava kākutsthaḥ sarva-śastrabhṛtām varaḥ ..75..
गुरोराराधने युक्तो लक्ष्मणश्च सुलक्षणः ।तस्य वीर्यवतो देवि भर्तुस्तव हिते रतः ॥७६॥
गुरोः आराधने युक्तः लक्ष्मणः च सु लक्षणः ।तस्य वीर्यवतः देवि भर्तुः तव हिते रतः ॥७६॥
guroḥ ārādhane yuktaḥ lakṣmaṇaḥ ca su lakṣaṇaḥ .tasya vīryavataḥ devi bhartuḥ tava hite rataḥ ..76..
अहमेकस्तु सम्प्राप्तः सुग्रीववचनादिह ।मयेयमसहायेन चरता कामरूपिणा ॥७७॥
अहम् एकः तु सम्प्राप्तः सुग्रीव-वचनात् इह ।मया इयम् असहायेन चरता कामरूपिणा ॥७७॥
aham ekaḥ tu samprāptaḥ sugrīva-vacanāt iha .mayā iyam asahāyena caratā kāmarūpiṇā ..77..
दक्षिणा दिगनुक्रान्ता त्वन्मार्गविचयैषिणा ।दिष्ट्याहं हरिसैन्यानां त्वन्नाशमनुशोचताम् ॥७८॥
दक्षिणा दिश् अनुक्रान्ता त्वद्-मार्ग-विचय-एषिणा ।दिष्ट्या अहम् हरि-सैन्यानाम् त्वद्-नाशम् अनुशोचताम् ॥७८॥
dakṣiṇā diś anukrāntā tvad-mārga-vicaya-eṣiṇā .diṣṭyā aham hari-sainyānām tvad-nāśam anuśocatām ..78..
अपनेष्यामि सन्तापं तवाभिगमशंसनात् ।दिष्ट्या हि न मम व्यर्थं देवि सागरलङ्घनम् ॥७९॥
अपनेष्यामि सन्तापम् तव अभिगम-शंसनात् ।दिष्ट्या हि न मम व्यर्थम् देवि सागर-लङ्घनम् ॥७९॥
apaneṣyāmi santāpam tava abhigama-śaṃsanāt .diṣṭyā hi na mama vyartham devi sāgara-laṅghanam ..79..
प्राप्स्याम्यहमिदं दिष्ट्या त्वद्दर्शनकृतं यशः ।राघवश्च महावीर्यः क्षिप्रं त्वाम् अभिपत्स्यते ॥८०॥
प्राप्स्यामि अहम् इदम् दिष्ट्या त्वद्-दर्शन-कृतम् यशः ।राघवः च महा-वीर्यः क्षिप्रम् त्वाम् अभिपत्स्यते ॥८०॥
prāpsyāmi aham idam diṣṭyā tvad-darśana-kṛtam yaśaḥ .rāghavaḥ ca mahā-vīryaḥ kṣipram tvām abhipatsyate ..80..
समित्रबान्धवं हत्वा रावणं राक्षसाधिपम् ।कौरजो नाम वैदेहि गिरीणामुत्तमो गिरिः ॥८१॥
स मित्र-बान्धवम् हत्वा रावणम् राक्षस-अधिपम् ।कौरजः नाम वैदेहि गिरीणाम् उत्तमः गिरिः ॥८१॥
sa mitra-bāndhavam hatvā rāvaṇam rākṣasa-adhipam .kaurajaḥ nāma vaidehi girīṇām uttamaḥ giriḥ ..81..
ततो गच्छति गोकर्णं पर्वतं केसरी हरिः । स च देवर्षिभिर्दृष्टः पिता मम महाकपिः । तीर्थे नदीपतेः पुण्ये शम्बसादनमुद्धरत् ॥८२॥
ततस् गच्छति गोकर्णम् पर्वतम् केसरी हरिः । स च देव-ऋषिभिः दृष्टः पिता मम महा-कपिः । तीर्थे नदीपतेः पुण्ये शम्ब-सादनम् उद्धरत् ॥८२॥
tatas gacchati gokarṇam parvatam kesarī hariḥ . sa ca deva-ṛṣibhiḥ dṛṣṭaḥ pitā mama mahā-kapiḥ . tīrthe nadīpateḥ puṇye śamba-sādanam uddharat ..82..
यस्याहं हरिणः क्षेत्रे जातो वातेन मैथिलि । हनूमानिति विख्यातो लोके स्वेनैव कर्मणा ॥८३॥
यस्य अहम् हरिणः क्षेत्रे जातः वातेन मैथिलि । हनूमान् इति विख्यातः लोके स्वेन एव कर्मणा ॥८३॥
yasya aham hariṇaḥ kṣetre jātaḥ vātena maithili . hanūmān iti vikhyātaḥ loke svena eva karmaṇā ..83..
विश्वासार्थं तु वैदेहि भर्तुरुक्ता मया गुणाः ।अचिराद्राघवो देवि त्वामितो नयिताऽनघे॥८४॥
विश्वास-अर्थम् तु वैदेहि भर्तुः उक्ताः मया गुणाः ।अचिरात् राघवः देवि त्वाम् इतस् नयिता अनघे॥८४॥
viśvāsa-artham tu vaidehi bhartuḥ uktāḥ mayā guṇāḥ .acirāt rāghavaḥ devi tvām itas nayitā anaghe..84..
एवं विश्वासिता सीता हेतुभिः शोककर्शिता । उपपन्नैरभिज्ञानैर्दूतं तमवगच्छति ॥८५॥
एवम् विश्वासिता सीता हेतुभिः शोक-कर्शिता । उपपन्नैः अभिज्ञानैः दूतम् तम् अवगच्छति ॥८५॥
evam viśvāsitā sītā hetubhiḥ śoka-karśitā . upapannaiḥ abhijñānaiḥ dūtam tam avagacchati ..85..
अतुलं च गता हर्षं प्रहर्षेण तु जानकी । नेत्राभ्यां वक्रपक्ष्माभ्यां मुमोचानन्दजं जलम् ॥८६॥
अतुलम् च गता हर्षम् प्रहर्षेण तु जानकी । नेत्राभ्याम् वक्र-पक्ष्माभ्याम् मुमोच आनन्द-जम् जलम् ॥८६॥
atulam ca gatā harṣam praharṣeṇa tu jānakī . netrābhyām vakra-pakṣmābhyām mumoca ānanda-jam jalam ..86..
चारु तच्चाननं तस्यास्ताम्रशुक्लायतेक्षणम् । अशोभत विशालाक्ष्या राहुमुक्त इवोडुराट् ॥८७॥
चारु तत् च आननम् तस्याः ताम्र-शुक्ल-आयत-ईक्षणम् । अशोभत विशाल-अक्ष्याः राहु-मुक्तः इव उडुराज् ॥८७॥
cāru tat ca ānanam tasyāḥ tāmra-śukla-āyata-īkṣaṇam . aśobhata viśāla-akṣyāḥ rāhu-muktaḥ iva uḍurāj ..87..
हनूमन्तं कपिं व्यक्तं मन्यते नान्यथेति सा । अथोवाच हनूमांस्तामुत्तरं प्रियदर्शनाम् ॥८८॥
हनूमन्तम् कपिम् व्यक्तम् मन्यते न अन्यथा इति सा । अथा उवाच हनूमान् ताम् उत्तरम् प्रिय-दर्शनाम् ॥८८॥
hanūmantam kapim vyaktam manyate na anyathā iti sā . athā uvāca hanūmān tām uttaram priya-darśanām ..88..
एतत्ते सर्वमाख्यातं समाश्वसिहि मैथिलि।किं करोमि कथं वा ते रोचते प्रतियाम्यहम्॥८९॥
एतत् ते सर्वम् आख्यातम् समाश्वसिहि मैथिलि।किम् करोमि कथम् वा ते रोचते प्रतियामि अहम्॥८९॥
etat te sarvam ākhyātam samāśvasihi maithili.kim karomi katham vā te rocate pratiyāmi aham..89..
हतेऽसुरे संयति शम्बसादने कपिप्रवीरेण महर्षिचोदनात् । ततोऽस्मि वायुप्रभवो हि मैथिलि प्रभावतस्तत्प्रतिमश्च वानरः ॥९०॥
हते असुरे संयति शम्ब-सादने कपि-प्रवीरेण महा-ऋषि-चोदनात् । ततस् अस्मि वायु-प्रभवः हि मैथिलि प्रभावतः तद्-प्रतिमः च वानरः ॥९०॥
hate asure saṃyati śamba-sādane kapi-pravīreṇa mahā-ṛṣi-codanāt . tatas asmi vāyu-prabhavaḥ hi maithili prabhāvataḥ tad-pratimaḥ ca vānaraḥ ..90..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In