This overlay will guide you through the buttons:

| |
|
भूय एव महातेजा हनूमान्मारुतात्मजः । अब्रवीत्प्रश्रितं वाक्यं सीताप्रत्ययकारणात् ॥१॥
भूयस् एव महा-तेजाः हनूमान् मारुतात्मजः । अब्रवीत् प्रश्रितम् वाक्यम् सीता-प्रत्यय-कारणात् ॥१॥
bhūyas eva mahā-tejāḥ hanūmān mārutātmajaḥ . abravīt praśritam vākyam sītā-pratyaya-kāraṇāt ..1..
वानरोऽहं महाभागे दूतो रामस्य धीमतः । रामनामाङ्कितं चेदं पश्य देव्यङ्गुलीयकम् ॥२॥
वानरः अहम् महाभागे दूतः रामस्य धीमतः । राम-नाम-अङ्कितम् च इदम् पश्य देवि अङ्गुलीयकम् ॥२॥
vānaraḥ aham mahābhāge dūtaḥ rāmasya dhīmataḥ . rāma-nāma-aṅkitam ca idam paśya devi aṅgulīyakam ..2..
प्रत्ययार्थं तवाऽनीतं तेन दत्तं महात्मना। समाश्वसिहि भद्रं ते क्षीणदुःखफला ह्यसि ॥३॥
प्रत्यय-अर्थम् तव अ नीतम् तेन दत्तम् महात्मना। समाश्वसिहि भद्रम् ते क्षीण-दुःख-फला हि असि ॥३॥
pratyaya-artham tava a nītam tena dattam mahātmanā. samāśvasihi bhadram te kṣīṇa-duḥkha-phalā hi asi ..3..
गृहीत्वा प्रेक्षमाणा सा भर्तुः करविभूषणम् । भर्तारमिव सम्प्राप्ता जानकी मुदिताभवत् ॥४॥
गृहीत्वा प्रेक्षमाणा सा भर्तुः कर-विभूषणम् । भर्तारम् इव सम्प्राप्ता जानकी मुदिता अभवत् ॥४॥
gṛhītvā prekṣamāṇā sā bhartuḥ kara-vibhūṣaṇam . bhartāram iva samprāptā jānakī muditā abhavat ..4..
चारु तद्वदनं तस्यास्ताम्रशुक्लायतेक्षणम् । बभूव प्रहर्षोदग्रं राहुमुक्त इवोडुराट् ॥५॥
चारु तत् वदनम् तस्याः ताम्र-शुक्ल-आयत-ईक्षणम् । बभूव प्रहर्ष-उदग्रम् राहु-मुक्तः इव उडुराज् ॥५॥
cāru tat vadanam tasyāḥ tāmra-śukla-āyata-īkṣaṇam . babhūva praharṣa-udagram rāhu-muktaḥ iva uḍurāj ..5..
ततः सा ह्रीमती बाला भर्तुः सन्देशहर्षिता । परितुट्षा प्रियं श्रुत्वा प्राशंसत महाकपिम् ॥६॥
ततस् सा ह्रीमती बाला भर्तुः सन्देश-हर्षिता । परितुट्षा प्रियम् श्रुत्वा प्राशंसत महा-कपिम् ॥६॥
tatas sā hrīmatī bālā bhartuḥ sandeśa-harṣitā . parituṭṣā priyam śrutvā prāśaṃsata mahā-kapim ..6..
विक्रान्तस्त्वं समर्थस्त्वं प्राज्ञस्त्वं वानरोत्तम । येनेदं राक्षसपदं त्वयैकेन प्रधर्षितम् ॥७॥
विक्रान्तः त्वम् समर्थः त्वम् प्राज्ञः त्वम् वानर-उत्तम । येन इदम् राक्षस-पदम् त्वया एकेन प्रधर्षितम् ॥७॥
vikrāntaḥ tvam samarthaḥ tvam prājñaḥ tvam vānara-uttama . yena idam rākṣasa-padam tvayā ekena pradharṣitam ..7..
शतयोजनविस्तीर्णः सागरो मकरालयः । विक्रमश्लाघनीयेन क्रमता गोष्पदीकृतः ॥८॥
शत-योजन-विस्तीर्णः सागरः मकर-आलयः । विक्रम-श्लाघनीयेन क्रमता गोष्पदीकृतः ॥८॥
śata-yojana-vistīrṇaḥ sāgaraḥ makara-ālayaḥ . vikrama-ślāghanīyena kramatā goṣpadīkṛtaḥ ..8..
नहि त्वां प्राकृतं मन्ये वनरं वनरर्षभ । यस्य ते नास्ति सन्त्रासो रावणान्नापि सम्भ्रमः ॥९॥
नहि त्वाम् प्राकृतम् मन्ये वनरम् वनर-ऋषभ । यस्य ते ना अस्ति सन्त्रासः रावणात् ना अपि सम्भ्रमः ॥९॥
nahi tvām prākṛtam manye vanaram vanara-ṛṣabha . yasya te nā asti santrāsaḥ rāvaṇāt nā api sambhramaḥ ..9..
अर्हसे च कपिश्रेष्ठ मया समभिभाषितुम् । यद्यसि प्रेषितस्तेन रामेण विदितात्मना ॥१०॥
अर्हसे च कपि-श्रेष्ठ मया समभिभाषितुम् । यदि असि प्रेषितः तेन रामेण विदित-आत्मना ॥१०॥
arhase ca kapi-śreṣṭha mayā samabhibhāṣitum . yadi asi preṣitaḥ tena rāmeṇa vidita-ātmanā ..10..
प्रेषयिष्यति दुर्धर्षो रामो न ह्यपरीक्षितम् । पराक्रममविज्ञाय मत्सकाशं विशेषतः ॥११॥
प्रेषयिष्यति दुर्धर्षः रामः न हि अपरीक्षितम् । पराक्रमम् अ विज्ञाय मद्-सकाशम् विशेषतः ॥११॥
preṣayiṣyati durdharṣaḥ rāmaḥ na hi aparīkṣitam . parākramam a vijñāya mad-sakāśam viśeṣataḥ ..11..
दिष्ट्या च कुशली रामो धर्मात्मा धर्मवत्सलः । लक्ष्मणश्च महातेजाः सुमित्रानन्दवर्धनः ॥१२॥
दिष्ट्या च कुशली रामः धर्म-आत्मा धर्म-वत्सलः । लक्ष्मणः च महा-तेजाः सुमित्रा-आनन्द-वर्धनः ॥१२॥
diṣṭyā ca kuśalī rāmaḥ dharma-ātmā dharma-vatsalaḥ . lakṣmaṇaḥ ca mahā-tejāḥ sumitrā-ānanda-vardhanaḥ ..12..
कुशली यदि काकुत्स्थः किं नु सागरमेखलाम् । महीं दहति कोपेन युगान्ताग्निरिवोत्थितः ॥१३॥
कुशली यदि काकुत्स्थः किम् नु सागरमेखलाम् । महीम् दहति कोपेन युगान्त-अग्निः इव उत्थितः ॥१३॥
kuśalī yadi kākutsthaḥ kim nu sāgaramekhalām . mahīm dahati kopena yugānta-agniḥ iva utthitaḥ ..13..
अथवा शक्तिमन्तौ तौ सुराणाम् अपि निग्रहे । ममैव तु न दुःखानामस्ति मन्ये विपर्ययः ॥१४॥
अथवा शक्तिमन्तौ तौ सुराणाम् अपि निग्रहे । मम एव तु न दुःखानाम् अस्ति मन्ये विपर्ययः ॥१४॥
athavā śaktimantau tau surāṇām api nigrahe . mama eva tu na duḥkhānām asti manye viparyayaḥ ..14..
कच्चिच्च व्यथते रामः कच्चिन्न परिपत्यते । उत्तराणि च कार्याणि कुरुते पुरुषोत्तमः ॥१५॥
कच्चित् च व्यथते रामः कच्चित् न परिपत्यते । उत्तराणि च कार्याणि कुरुते पुरुषोत्तमः ॥१५॥
kaccit ca vyathate rāmaḥ kaccit na paripatyate . uttarāṇi ca kāryāṇi kurute puruṣottamaḥ ..15..
कच्चिन्न दीनः सम्भ्रान्तः कार्येषु च न मुह्यति । कच्चिन्पुरुषकार्याणि कुरुते नृपतेः सुतः ॥१६॥
कच्चित् न दीनः सम्भ्रान्तः कार्येषु च न मुह्यति । कच्चित् पुरुष-कार्याणि कुरुते नृपतेः सुतः ॥१६॥
kaccit na dīnaḥ sambhrāntaḥ kāryeṣu ca na muhyati . kaccit puruṣa-kāryāṇi kurute nṛpateḥ sutaḥ ..16..
द्विविधं त्रिविधोपायमुपायमपि सेवते । विजिगीषुः सुहृत्कच्चिन्मित्रेषु च परन्तपः ॥१७॥
द्विविधम् त्रिविध-उपायम् उपायम् अपि सेवते । विजिगीषुः सुहृद् किंचिद् मित्रेषु च परन्तपः ॥१७॥
dvividham trividha-upāyam upāyam api sevate . vijigīṣuḥ suhṛd kiṃcid mitreṣu ca parantapaḥ ..17..
कच्चिन्मित्राणि लभते मित्रैश्चाप्यभिगम्यते । कच्चित्कल्याणमित्रश्च मित्रैश्चापि पुरस्कृतः ॥१८॥
कच्चित् मित्राणि लभते मित्रैः च अपि अभिगम्यते । कच्चित् कल्याण-मित्रः च मित्रैः च अपि पुरस्कृतः ॥१८॥
kaccit mitrāṇi labhate mitraiḥ ca api abhigamyate . kaccit kalyāṇa-mitraḥ ca mitraiḥ ca api puraskṛtaḥ ..18..
कच्चिदाशास्ति देवानां प्रसादं पार्थिवात्मजः । कच्चित्पुरुषकारं च दैवं च प्रतिपद्यते ॥१९॥
कच्चित् आशास्ति देवानाम् प्रसादम् पार्थिव-आत्मजः । कच्चित् पुरुषकारम् च दैवम् च प्रतिपद्यते ॥१९॥
kaccit āśāsti devānām prasādam pārthiva-ātmajaḥ . kaccit puruṣakāram ca daivam ca pratipadyate ..19..
कच्चिन्न विगतस्नेहो विवासान्मयि राघवः । कच्चिन्मां व्यसनादस्मान्मोक्षयिष्यति वानरः ॥२०॥
कच्चित् न विगत-स्नेहः विवासात् मयि राघवः । कच्चित् माम् व्यसनात् अस्मात् मोक्षयिष्यति वानरः ॥२०॥
kaccit na vigata-snehaḥ vivāsāt mayi rāghavaḥ . kaccit mām vyasanāt asmāt mokṣayiṣyati vānaraḥ ..20..
सुखानामुचितो नित्यमसुखानामनूचितः । दुःखमुत्तरमासाद्य कच्चिद्रामो न सीदति ॥२१॥
सुखानाम् उचितः नित्यम् असुखानाम् अनूचितः । दुःखम् उत्तरम् आसाद्य कच्चित् रामः न सीदति ॥२१॥
sukhānām ucitaḥ nityam asukhānām anūcitaḥ . duḥkham uttaram āsādya kaccit rāmaḥ na sīdati ..21..
कौसल्यायास्तथा कच्चित्सुमित्रायास्तथैव च । अभीक्ष्णं श्रूयते कच्चित्कुशलं भरतस्य च ॥२२॥
कौसल्यायाः तथा कच्चित् सुमित्रायाः तथा एव च । अभीक्ष्णम् श्रूयते कच्चित् कुशलम् भरतस्य च ॥२२॥
kausalyāyāḥ tathā kaccit sumitrāyāḥ tathā eva ca . abhīkṣṇam śrūyate kaccit kuśalam bharatasya ca ..22..
मन्निमित्तेन मानार्हः कच्चिच्छोकेन राघवः । कच्चिन्नान्यमना रामः कच्चिन्मां तारयिष्यति ॥२३॥
मद्-निमित्तेन मान-अर्हः कच्चित् शोकेन राघवः । कच्चित् न अन्य-मनाः रामः कच्चित् माम् तारयिष्यति ॥२३॥
mad-nimittena māna-arhaḥ kaccit śokena rāghavaḥ . kaccit na anya-manāḥ rāmaḥ kaccit mām tārayiṣyati ..23..
कच्चिदक्षाउहिंई.म् भीमा.म् भरतो भ्रात्र्वत्सल् । ध्वजिनीं मन्त्रिभिर्गुप्तां प्रेषयिष्यति मत्कृते ॥२४॥
kaccidaksauhimi.m bhima.m bharato bhratrvatsal | dhvajinim mantribhirguptam presayisyati matkrte ||24||
kaccidaksauhimi.m bhima.m bharato bhratrvatsal | dhvajinim mantribhirguptam presayisyati matkrte ||24||
वानराधिपतिः श्रीमान्सुग्रीवः कच्चिदेष्यति । मत्कृते हरिभिर्वीरैर्वृतो दन्तनखायुधैः ॥२५॥
वानर-अधिपतिः श्रीमान् सुग्रीवः कच्चित् एष्यति । मद्-कृते हरिभिः वीरैः वृतः दन्त-नख-आयुधैः ॥२५॥
vānara-adhipatiḥ śrīmān sugrīvaḥ kaccit eṣyati . mad-kṛte haribhiḥ vīraiḥ vṛtaḥ danta-nakha-āyudhaiḥ ..25..
कच्चिच्च लक्ष्मणः शूरः सुमित्रानन्दवर्धनः । अस्त्रविच्छरजालेन राक्षसान्विधमिष्यति ॥२६॥
कच्चित् च लक्ष्मणः शूरः सुमित्रा-आनन्द-वर्धनः । अस्त्र-विद् शर-जालेन राक्षसान् विधमिष्यति ॥२६॥
kaccit ca lakṣmaṇaḥ śūraḥ sumitrā-ānanda-vardhanaḥ . astra-vid śara-jālena rākṣasān vidhamiṣyati ..26..
रौद्रेण कच्चिदस्त्रेण रामेण निहतं रणे । द्रक्ष्याम्यल्पेन कालेन रावणं ससुहृज्जनम् ॥२७॥
रौद्रेण कच्चित् अस्त्रेण रामेण निहतम् रणे । द्रक्ष्यामि अल्पेन कालेन रावणम् स सुहृद्-जनम् ॥२७॥
raudreṇa kaccit astreṇa rāmeṇa nihatam raṇe . drakṣyāmi alpena kālena rāvaṇam sa suhṛd-janam ..27..
कच्चिन्न तद्धेमसमानवर्णं तस्याननं पद्मसमानगन्धि । मया विना शुष्यति शोकदीनं जलक्षये पद्ममिवातपेन ॥२८॥
कच्चित् न तत् हेम-समान-वर्णम् तस्य आननम् पद्म-समान-गन्धि । मया विना शुष्यति शोक-दीनम् जल-क्षये पद्मम् इव आतपेन ॥२८॥
kaccit na tat hema-samāna-varṇam tasya ānanam padma-samāna-gandhi . mayā vinā śuṣyati śoka-dīnam jala-kṣaye padmam iva ātapena ..28..
धर्मापदेशात्त्यजतश्च राज्यां मां चाप्यरण्यं नयतः पदातिम् । नासीद्व्यथा यस्य न भीर्न शोकः कच्चित्स धैर्यं हृदये करोति ॥२९॥
धर्म-अपदेशात् त्यजतः च राज्याम् माम् च अपि अरण्यम् नयतः पदातिम् । न आसीत् व्यथा यस्य न भीः न शोकः कच्चित् स धैर्यम् हृदये करोति ॥२९॥
dharma-apadeśāt tyajataḥ ca rājyām mām ca api araṇyam nayataḥ padātim . na āsīt vyathā yasya na bhīḥ na śokaḥ kaccit sa dhairyam hṛdaye karoti ..29..
न चास्य माता न पिता न चान्यः स्नेहाद्विशिष्टोऽस्ति मया समो वा । तावद्ध्यहं दूतजिजीविषेयं यावत्प्रवृत्तिं शृणुयां प्रियस्य ॥३०॥
न च अस्य माता न पिता न च अन्यः स्नेहात् विशिष्टः अस्ति मया समः वा । तावत् हि अहम् दूत-जिजीविषा इयम् यावत् प्रवृत्तिम् शृणुयाम् प्रियस्य ॥३०॥
na ca asya mātā na pitā na ca anyaḥ snehāt viśiṣṭaḥ asti mayā samaḥ vā . tāvat hi aham dūta-jijīviṣā iyam yāvat pravṛttim śṛṇuyām priyasya ..30..
इतीव देवी वचनं महार्थं तं वानरेन्द्रं मधुरार्थमुक्त्वा । श्रोतुं पुनस्तस्य वचोऽभिरामं रामार्थयुक्तं विरराम रामा ॥३१॥
इति इव देवी वचनम् महार्थम् तम् वानर-इन्द्रम् मधुर-अर्थम् उक्त्वा । श्रोतुम् पुनर् तस्य वचः अभिरामम् राम-अर्थ-युक्तम् विरराम रामा ॥३१॥
iti iva devī vacanam mahārtham tam vānara-indram madhura-artham uktvā . śrotum punar tasya vacaḥ abhirāmam rāma-artha-yuktam virarāma rāmā ..31..
सीताया वचनं श्रुत्वा मारुतिर्भीमविक्रमः । शिरस्यञ्जलिमाधाय वाक्यमुत्तरमब्रवीत् ॥३२॥
सीतायाः वचनम् श्रुत्वा मारुतिः भीम-विक्रमः । शिरसि अञ्जलिम् आधाय वाक्यम् उत्तरम् अब्रवीत् ॥३२॥
sītāyāḥ vacanam śrutvā mārutiḥ bhīma-vikramaḥ . śirasi añjalim ādhāya vākyam uttaram abravīt ..32..
न त्वामिहस्थां जानीते रामः कमललोचनः ।तेन त्वां नानयत्याशु शचीमिव पुरन्दरः॥३३॥
न त्वाम् इह स्थाम् जानीते रामः कमल-लोचनः ।तेन त्वाम् न आनयति आशु शचीम् इव पुरन्दरः॥३३॥
na tvām iha sthām jānīte rāmaḥ kamala-locanaḥ .tena tvām na ānayati āśu śacīm iva purandaraḥ..33..
श्रुत्वैव तु वचो मह्यं क्षिप्रमेष्यति राघवः ।चमूं प्रकर्षन्महतीं हर्यृष्कगणसङ्कुलाम् ॥३४॥
श्रुत्वा एव तु वचः मह्यम् क्षिप्रम् एष्यति राघवः ।चमूम् प्रकर्षन् महतीम् हरि-ऋष्क-गण-सङ्कुलाम् ॥३४॥
śrutvā eva tu vacaḥ mahyam kṣipram eṣyati rāghavaḥ .camūm prakarṣan mahatīm hari-ṛṣka-gaṇa-saṅkulām ..34..
विष्टम्भयित्वा बाणौघैरक्षोभ्यं वरुणालयम् । करिष्यति पुरीं लङ्कां काकुत्स्थः शान्तराक्षसाम् ॥३५॥
विष्टम्भयित्वा बाण-ओघैः अक्षोभ्यम् वरुणालयम् । करिष्यति पुरीम् लङ्काम् काकुत्स्थः शान्त-राक्षसाम् ॥३५॥
viṣṭambhayitvā bāṇa-oghaiḥ akṣobhyam varuṇālayam . kariṣyati purīm laṅkām kākutsthaḥ śānta-rākṣasām ..35..
तत्र यद्यन्तरा मृत्युर्यदि देवाः सहासुराः । स्थास्यन्ति पथि रामस्य स तानपि वधिष्यति ॥३६॥
तत्र यदि अन्तरा मृत्युः यदि देवाः सह असुराः । स्थास्यन्ति पथि रामस्य स तान् अपि वधिष्यति ॥३६॥
tatra yadi antarā mṛtyuḥ yadi devāḥ saha asurāḥ . sthāsyanti pathi rāmasya sa tān api vadhiṣyati ..36..
तवादर्शनजेनार्ये शोकेन स परिप्लुतः । न शर्म लभते रामः सिंहार्दित इव द्विपः ॥३७॥
तव अदर्शन-जेन आर्ये शोकेन स परिप्लुतः । न शर्म लभते रामः सिंह-अर्दितः इव द्विपः ॥३७॥
tava adarśana-jena ārye śokena sa pariplutaḥ . na śarma labhate rāmaḥ siṃha-arditaḥ iva dvipaḥ ..37..
मन्दरेण च ते देवि शपे मूलफलेन च । मलयेन च विन्ध्येन मेरुणा मन्दरेण च ॥३८॥
मन्दरेण च ते देवि शपे मूल-फलेन च । मलयेन च विन्ध्येन मेरुणा मन्दरेण च ॥३८॥
mandareṇa ca te devi śape mūla-phalena ca . malayena ca vindhyena meruṇā mandareṇa ca ..38..
यथा सुनयनं वल्गु बिम्बौष्ठं चारुकुण्डलम् । मुखं द्रक्ष्यसि रामस्य पूर्णचन्द्रमिवोदितम् ॥३९॥
यथा सुनयनम् वल्गु बिम्ब-ओष्ठम् चारु-कुण्डलम् । मुखम् द्रक्ष्यसि रामस्य पूर्ण-चन्द्रम् इव उदितम् ॥३९॥
yathā sunayanam valgu bimba-oṣṭham cāru-kuṇḍalam . mukham drakṣyasi rāmasya pūrṇa-candram iva uditam ..39..
क्षिप्रं द्रक्ष्यसि वैदेहि रामं प्रस्रवणे गिरौ । शतक्रतुमिवासीनं नाकपृष्ठस्य मूर्धनि ॥४०॥
क्षिप्रम् द्रक्ष्यसि वैदेहि रामम् प्रस्रवणे गिरौ । शतक्रतुम् इव आसीनम् नाक-पृष्ठस्य मूर्धनि ॥४०॥
kṣipram drakṣyasi vaidehi rāmam prasravaṇe girau . śatakratum iva āsīnam nāka-pṛṣṭhasya mūrdhani ..40..
न मांसं राघवो भुङ्क्ते न चापि मधुसेवते । वन्यं सुविहितं नित्यं भक्तमश्नाति पञ्चमम् ॥४१॥
न मांसम् राघवः भुङ्क्ते न च अपि मधु सेवते । वन्यम् सु विहितम् नित्यम् भक्तम् अश्नाति पञ्चमम् ॥४१॥
na māṃsam rāghavaḥ bhuṅkte na ca api madhu sevate . vanyam su vihitam nityam bhaktam aśnāti pañcamam ..41..
नैव दंशान्न मशकान्न कीटान्न सरीसृपान् । राघवोऽपनयेद्गत्रात्त्वद्गतेनान्तरात्मना ॥४२॥
न एव दंशान् न मशकान् न कीटान् न सरीसृपान् । राघवः अपनयेत् गत्रात् त्वद्-गतेन अन्तरात्मना ॥४२॥
na eva daṃśān na maśakān na kīṭān na sarīsṛpān . rāghavaḥ apanayet gatrāt tvad-gatena antarātmanā ..42..
नित्यं ध्यानपरो रामो नित्यं शोकपरायणः । नान्यच्चिन्तयते किं चित्स तु कामवशं गतः ॥४३॥
नित्यम् ध्यान-परः रामः नित्यम् शोक-परायणः । न अन्यत् चिन्तयते किम् चित् स तु काम-वशम् गतः ॥४३॥
nityam dhyāna-paraḥ rāmaḥ nityam śoka-parāyaṇaḥ . na anyat cintayate kim cit sa tu kāma-vaśam gataḥ ..43..
अनिद्रः सततं रामः सुप्तोऽपि च नरोत्तमः । सीतेति मधुरां वाणीं व्याहरन्प्रतिबुध्यते ॥४४॥
अनिद्रः सततम् रामः सुप्तः अपि च नर-उत्तमः । सीता इति मधुराम् वाणीम् व्याहरन् प्रतिबुध्यते ॥४४॥
anidraḥ satatam rāmaḥ suptaḥ api ca nara-uttamaḥ . sītā iti madhurām vāṇīm vyāharan pratibudhyate ..44..
दृष्ट्वा फलं वा पुष्पं वा यच्चान्यत्स्त्रीमनोहरम् । बहुशो हा प्रियेत्येवं श्वसंस्त्वामभिभाषते ॥४५॥
दृष्ट्वा फलम् वा पुष्पम् वा यत् च अन्यत् स्त्री-मनोहरम् । बहुशस् हा प्रिया इति एवम् श्वसन् त्वाम् अभिभाषते ॥४५॥
dṛṣṭvā phalam vā puṣpam vā yat ca anyat strī-manoharam . bahuśas hā priyā iti evam śvasan tvām abhibhāṣate ..45..
स देवि नित्यं परितप्यमानस् त्वामेव सीतेत्यभिभाषमाणः । धृतव्रतो राजसुतो महात्मा तवैव लाभाय कृतप्रयत्नः ॥४६॥
स देवि नित्यम् परितप्यमानः त्वाम् एव सीता इति अभिभाषमाणः । धृत-व्रतः राज-सुतः महात्मा तव एव लाभाय कृत-प्रयत्नः ॥४६॥
sa devi nityam paritapyamānaḥ tvām eva sītā iti abhibhāṣamāṇaḥ . dhṛta-vrataḥ rāja-sutaḥ mahātmā tava eva lābhāya kṛta-prayatnaḥ ..46..
सा रामसङ्कीर्तनवीतशोका रामस्य शोकेन समानशोका । शरन्मुखेनाम्बुदशेषचन्द्रा निशेव वैदेहसुता बभूव ॥४७॥
सा राम-सङ्कीर्तन-वीत-शोका रामस्य शोकेन समान-शोका । शरद्-मुखेन अम्बुद-शेष-चन्द्रा निशा इव वैदेह-सुता बभूव ॥४७॥
sā rāma-saṅkīrtana-vīta-śokā rāmasya śokena samāna-śokā . śarad-mukhena ambuda-śeṣa-candrā niśā iva vaideha-sutā babhūva ..47..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In