This overlay will guide you through the buttons:

| |
|
सा सीता वचनं श्रुत्वा पूर्णचन्द्रनिभानना । हनूमन्तमुवाचेदं धर्मार्थसहितं वचः ॥ १॥
सा सीता वचनम् श्रुत्वा पूर्ण-चन्द्र-निभ-आनना । हनूमन्तम् उवाच इदम् धर्म-अर्थ-सहितम् वचः ॥ १॥
sā sītā vacanam śrutvā pūrṇa-candra-nibha-ānanā . hanūmantam uvāca idam dharma-artha-sahitam vacaḥ .. 1..
अमृतं विषसंसृष्टं त्वया वानरभाषितम् । यच्च नान्यमना रामो यच्च शोकपरायणः ॥ २॥
अमृतम् विष-संसृष्टम् त्वया वानर-भाषितम् । यत् च न अन्य-मनाः रामः यत् च शोक-परायणः ॥ २॥
amṛtam viṣa-saṃsṛṣṭam tvayā vānara-bhāṣitam . yat ca na anya-manāḥ rāmaḥ yat ca śoka-parāyaṇaḥ .. 2..
ऐश्वर्ये वा सुविस्तीर्णे व्यसने वा सुदारुणे । रज्ज्वेव पुरुषं बद्ध्वा कृतान्तः परिकर्षति ॥ ३॥
ऐश्वर्ये वा सु विस्तीर्णे व्यसने वा सु दारुणे । रज्ज्वा इव पुरुषम् बद्ध्वा कृतान्तः परिकर्षति ॥ ३॥
aiśvarye vā su vistīrṇe vyasane vā su dāruṇe . rajjvā iva puruṣam baddhvā kṛtāntaḥ parikarṣati .. 3..
विधिर्नूनमसंहार्यः प्राणिनां प्लवगोत्तम । सौमित्रिं मां च रामं च व्यसनैः पश्य मोहितान् ॥ ४॥
विधिः नूनम् असंहार्यः प्राणिनाम् प्लवग-उत्तम । सौमित्रिम् माम् च रामम् च व्यसनैः पश्य मोहितान् ॥ ४॥
vidhiḥ nūnam asaṃhāryaḥ prāṇinām plavaga-uttama . saumitrim mām ca rāmam ca vyasanaiḥ paśya mohitān .. 4..
शोकस्यास्य कदा पारं राघवोऽधिगमिष्यति । प्लवमानः परिश्रान्तो हतनौः सागरे यथा ॥ ५॥
शोकस्य अस्य कदा पारम् राघवः अधिगमिष्यति । प्लवमानः परिश्रान्तः हत-नौः सागरे यथा ॥ ५॥
śokasya asya kadā pāram rāghavaḥ adhigamiṣyati . plavamānaḥ pariśrāntaḥ hata-nauḥ sāgare yathā .. 5..
राक्षसानां क्षयं कृत्वा सूदयित्वा च रावणम् । लङ्कामुन्मूलितां कृत्वा कदा द्रक्ष्यति मां पतिः ॥ ६॥
राक्षसानाम् क्षयम् कृत्वा सूदयित्वा च रावणम् । लङ्काम् उन्मूलिताम् कृत्वा कदा द्रक्ष्यति माम् पतिः ॥ ६॥
rākṣasānām kṣayam kṛtvā sūdayitvā ca rāvaṇam . laṅkām unmūlitām kṛtvā kadā drakṣyati mām patiḥ .. 6..
स वाच्यः सन्त्वरस्वेति यावदेव न पूर्यते । अयं संवत्सरः कालस्तावद्धि मम जीवितम् ॥ ७॥
स वाच्यः सन् त्वरस्व इति यावत् एव न पूर्यते । अयम् संवत्सरः कालः तावत् हि मम जीवितम् ॥ ७॥
sa vācyaḥ san tvarasva iti yāvat eva na pūryate . ayam saṃvatsaraḥ kālaḥ tāvat hi mama jīvitam .. 7..
वर्तते दशमो मासो द्वौ तु शेषौ प्लवङ्गम । रावणेन नृशंसेन समयो यः कृतो मम ॥ ८॥
वर्तते दशमः मासः द्वौ तु शेषौ प्लवङ्गम । रावणेन नृशंसेन समयः यः कृतः मम ॥ ८॥
vartate daśamaḥ māsaḥ dvau tu śeṣau plavaṅgama . rāvaṇena nṛśaṃsena samayaḥ yaḥ kṛtaḥ mama .. 8..
विभीषणेन च भ्रात्रा मम निर्यातनं प्रति । अनुनीतः प्रयत्नेन न च तत्कुरुते मतिम् ॥ ९॥
विभीषणेन च भ्रात्रा मम निर्यातनम् प्रति । अनुनीतः प्रयत्नेन न च तत् कुरुते मतिम् ॥ ९॥
vibhīṣaṇena ca bhrātrā mama niryātanam prati . anunītaḥ prayatnena na ca tat kurute matim .. 9..
मम प्रतिप्रदानं हि रावणस्य न रोचते । रावणं मार्गते सङ्ख्ये मृत्युः कालवशं गतम् ॥ १०॥
मम प्रतिप्रदानम् हि रावणस्य न रोचते । रावणम् मार्गते सङ्ख्ये मृत्युः काल-वशम् गतम् ॥ १०॥
mama pratipradānam hi rāvaṇasya na rocate . rāvaṇam mārgate saṅkhye mṛtyuḥ kāla-vaśam gatam .. 10..
ज्येष्ठा कन्यानला नम विभीषणसुता कपे । तया ममैतदाख्यातं मात्रा प्रहितया स्वयम् ॥ ११॥
ज्येष्ठा कन्या अनला विभीषण-सुता कपे । तया मम एतत् आख्यातम् मात्रा प्रहितया स्वयम् ॥ ११॥
jyeṣṭhā kanyā analā vibhīṣaṇa-sutā kape . tayā mama etat ākhyātam mātrā prahitayā svayam .. 11..
अविन्ध्यो नाम मेधावी विद्वान्राक्षसपुङ्गवः । धृतिमाञ्शीलवान्वृद्धो रावणस्य सुसंमतः ॥ १२॥
अविन्ध्यः नाम मेधावी विद्वान् राक्षस-पुङ्गवः । धृतिमान् शीलवान् वृद्धः रावणस्य सु संमतः ॥ १२॥
avindhyaḥ nāma medhāvī vidvān rākṣasa-puṅgavaḥ . dhṛtimān śīlavān vṛddhaḥ rāvaṇasya su saṃmataḥ .. 12..
रामात्क्षयमनुप्राप्तं रक्षसां प्रत्यचोदयत् । न च तस्यापि दुष्टात्मा शृणोति वचनं हितम् ॥ १३॥
रामात् क्षयम् अनुप्राप्तम् रक्षसाम् प्रत्यचोदयत् । न च तस्य अपि दुष्ट-आत्मा शृणोति वचनम् हितम् ॥ १३॥
rāmāt kṣayam anuprāptam rakṣasām pratyacodayat . na ca tasya api duṣṭa-ātmā śṛṇoti vacanam hitam .. 13..
आशंसेति हरिश्रेष्ठ क्षिप्रं मां प्राप्स्यते पतिः । अन्तरात्मा हि मे शुद्धस्तस्मिंश्च बहवो गुणाः ॥ १४॥
आशंस इति हरि-श्रेष्ठ क्षिप्रम् माम् प्राप्स्यते पतिः । अन्तरात्मा हि मे शुद्धः तस्मिन् च बहवः गुणाः ॥ १४॥
āśaṃsa iti hari-śreṣṭha kṣipram mām prāpsyate patiḥ . antarātmā hi me śuddhaḥ tasmin ca bahavaḥ guṇāḥ .. 14..
उत्साहः पौरुषं सत्त्वमानृशंस्यं कृतज्ञता । विक्रमश्च प्रभावश्च सन्ति वानरराघवे ॥ १५॥
उत्साहः पौरुषम् सत्त्वम् आनृशंस्यम् कृतज्ञ-ता । विक्रमः च प्रभावः च सन्ति वानर-राघवे ॥ १५॥
utsāhaḥ pauruṣam sattvam ānṛśaṃsyam kṛtajña-tā . vikramaḥ ca prabhāvaḥ ca santi vānara-rāghave .. 15..
चतुर्दशसहस्राणि राक्षसानां जघान यः । जनस्थाने विना भ्रात्रा शत्रुः कस्तस्य नोद्विजेत् ॥ १६॥
चतुर्दश-सहस्राणि राक्षसानाम् जघान यः । जनस्थाने विना भ्रात्रा शत्रुः कः तस्य ना उद्विजेत् ॥ १६॥
caturdaśa-sahasrāṇi rākṣasānām jaghāna yaḥ . janasthāne vinā bhrātrā śatruḥ kaḥ tasya nā udvijet .. 16..
न स शक्यस्तुलयितुं व्यसनैः पुरुषर्षभः । अहं तस्यानुभावज्ञा शक्रस्येव पुलोमजा ॥ १७॥
न स शक्यः तुलयितुम् व्यसनैः पुरुष-ऋषभः । अहम् तस्य अनुभाव-ज्ञा शक्रस्य इव पुलोमजा ॥ १७॥
na sa śakyaḥ tulayitum vyasanaiḥ puruṣa-ṛṣabhaḥ . aham tasya anubhāva-jñā śakrasya iva pulomajā .. 17..
शरजालांशुमाञ्शूरः कपे रामदिवाकरः । शत्रुरक्षोमयं तोयमुपशोषं नयिष्यति ॥ १८॥
शर-जाल-अंशुमान् शूरः कपे राम-दिवाकरः । शत्रु-रक्षः-मयम् तोयम् उपशोषम् नयिष्यति ॥ १८॥
śara-jāla-aṃśumān śūraḥ kape rāma-divākaraḥ . śatru-rakṣaḥ-mayam toyam upaśoṣam nayiṣyati .. 18..
इति सञ्जल्पमानां तां रामार्थे शोककर्शिताम् । अश्रुसम्पूर्णवदनामुवाच हनुमान्कपिः ॥ १९॥
इति सञ्जल्पमानाम् ताम् राम-अर्थे शोक-कर्शिताम् । अश्रु-सम्पूर्ण-वदनाम् उवाच हनुमान् कपिः ॥ १९॥
iti sañjalpamānām tām rāma-arthe śoka-karśitām . aśru-sampūrṇa-vadanām uvāca hanumān kapiḥ .. 19..
श्रुत्वैव तु वचो मह्यं क्षिप्रमेष्यति राघवः । चमूं प्रकर्षन्महतीं हर्यृक्षगणसङ्कुलाम् ॥ २०॥
श्रुत्वा एव तु वचः मह्यम् क्षिप्रम् एष्यति राघवः । चमूम् प्रकर्षन् महतीम् हरि-ऋक्ष-गण-सङ्कुलाम् ॥ २०॥
śrutvā eva tu vacaḥ mahyam kṣipram eṣyati rāghavaḥ . camūm prakarṣan mahatīm hari-ṛkṣa-gaṇa-saṅkulām .. 20..
अथ वा मोचयिष्यामि तामद्यैव हि राक्षसात् । अस्माद्दुःखादुपारोह मम पृष्ठमनिन्दिते ॥ २१॥
अथ वा मोचयिष्यामि ताम् अद्य एव हि राक्षसात् । अस्मात् दुःखात् उपारोह मम पृष्ठम् अनिन्दिते ॥ २१॥
atha vā mocayiṣyāmi tām adya eva hi rākṣasāt . asmāt duḥkhāt upāroha mama pṛṣṭham anindite .. 21..
त्वं तु पृष्ठगतां कृत्वा सन्तरिष्यामि सागरम् । शक्तिरस्ति हि मे वोढुं लङ्कामपि सरावणाम् ॥ २२॥
त्वम् तु पृष्ठ-गताम् कृत्वा सन्तरिष्यामि सागरम् । शक्तिः अस्ति हि मे वोढुम् लङ्काम् अपि स रावणाम् ॥ २२॥
tvam tu pṛṣṭha-gatām kṛtvā santariṣyāmi sāgaram . śaktiḥ asti hi me voḍhum laṅkām api sa rāvaṇām .. 22..
अहं प्रस्रवणस्थाय राघवायाद्य मैथिलि । प्रापयिष्यामि शक्राय हव्यं हुतमिवानलः ॥ २३॥
अहम् प्रस्रवण-स्थाय राघवाय अद्य मैथिलि । प्रापयिष्यामि शक्राय हव्यम् हुतम् इव अनलः ॥ २३॥
aham prasravaṇa-sthāya rāghavāya adya maithili . prāpayiṣyāmi śakrāya havyam hutam iva analaḥ .. 23..
द्रक्ष्यस्यद्यैव वैदेहि राघवं सहलक्ष्मणम् । व्यवसाय समायुक्तं विष्णुं दैत्यवधे यथा ॥ २४॥
द्रक्ष्यसि अद्य एव वैदेहि राघवम् सहलक्ष्मणम् । व्यवसाय समायुक्तम् विष्णुम् दैत्य-वधे यथा ॥ २४॥
drakṣyasi adya eva vaidehi rāghavam sahalakṣmaṇam . vyavasāya samāyuktam viṣṇum daitya-vadhe yathā .. 24..
त्वद्दर्शनकृतोत्साहमाश्रमस्थं महाबलम् । पुरन्दरमिवासीनं नागराजस्य मूर्धनि ॥ २५॥
त्वद्-दर्शन-कृत-उत्साहम् आश्रम-स्थम् महा-बलम् । पुरन्दरम् इव आसीनम् नाग-राजस्य मूर्धनि ॥ २५॥
tvad-darśana-kṛta-utsāham āśrama-stham mahā-balam . purandaram iva āsīnam nāga-rājasya mūrdhani .. 25..
पृष्ठमारोह मे देवि मा विकाङ्क्षस्व शोभने । योगमन्विच्छ रामेण शशाङ्केनेव रोहिणी ॥ २६॥
पृष्ठम् आरोह मे देवि मा विकाङ्क्षस्व शोभने । योगम् अन्विच्छ रामेण शशाङ्केन इव रोहिणी ॥ २६॥
pṛṣṭham āroha me devi mā vikāṅkṣasva śobhane . yogam anviccha rāmeṇa śaśāṅkena iva rohiṇī .. 26..
कथयन्तीव चन्द्रेण सूर्येणेव सुवर्चला । मत्पृष्ठमधिरुह्य त्वं तराकाशमहार्णवम् ॥ २७॥
कथयन्ती इव चन्द्रेण सूर्येण इव सुवर्चला । मद्-पृष्ठम् अधिरुह्य त्वम् तर आकाश-महा-अर्णवम् ॥ २७॥
kathayantī iva candreṇa sūryeṇa iva suvarcalā . mad-pṛṣṭham adhiruhya tvam tara ākāśa-mahā-arṇavam .. 27..
न हि मे सम्प्रयातस्य त्वामितो नयतोऽङ्गने । अनुगन्तुं गतिं शक्ताः सर्वे लङ्कानिवासिनः ॥ २८॥
न हि मे सम्प्रयातस्य त्वाम् इतस् नयतः अङ्गने । अनुगन्तुम् गतिम् शक्ताः सर्वे लङ्का-निवासिनः ॥ २८॥
na hi me samprayātasya tvām itas nayataḥ aṅgane . anugantum gatim śaktāḥ sarve laṅkā-nivāsinaḥ .. 28..
यथैवाहमिह प्राप्तस्तथैवाहमसंशयम् । यास्यामि पश्य वैदेहि त्वामुद्यम्य विहायसं ॥ २९॥
यथा एव अहम् इह प्राप्तः तथा एव अहम् असंशयम् । यास्यामि पश्य वैदेहि त्वाम् उद्यम्य विहायसम् ॥ २९॥
yathā eva aham iha prāptaḥ tathā eva aham asaṃśayam . yāsyāmi paśya vaidehi tvām udyamya vihāyasam .. 29..
मैथिली तु हरिश्रेष्ठाच्छ्रुत्वा वचनमद्भुतम् । हर्षविस्मितसर्वाङ्गी हनूमन्तमथाब्रवीत् ॥ ३०॥
मैथिली तु हरि-श्रेष्ठात् श्रुत्वा वचनम् अद्भुतम् । हर्ष-विस्मित-सर्व-अङ्गी हनूमन्तम् अथ अब्रवीत् ॥ ३०॥
maithilī tu hari-śreṣṭhāt śrutvā vacanam adbhutam . harṣa-vismita-sarva-aṅgī hanūmantam atha abravīt .. 30..
हनूमन्दूरमध्वनं कथं मां वोढुमिच्छसि । तदेव खलु ते मन्ये कपित्वं हरियूथप ॥ ३१॥
हनूमन् दूरम् अध्वनम् कथम् माम् वोढुम् इच्छसि । तत् एव खलु ते मन्ये कपि-त्वम् हरि-यूथप ॥ ३१॥
hanūman dūram adhvanam katham mām voḍhum icchasi . tat eva khalu te manye kapi-tvam hari-yūthapa .. 31..
कथं वाल्पशरीरस्त्वं माम् इतो नेतुमिच्छसि । सकाशं मानवेन्द्रस्य भर्तुर्मे प्लवगर्षभ ॥ ३२॥
कथम् वा अल्प-शरीरः त्वम् माम् इतस् नेतुम् इच्छसि । सकाशम् मानवेन्द्रस्य भर्तुः मे प्लवग-ऋषभ ॥ ३२॥
katham vā alpa-śarīraḥ tvam mām itas netum icchasi . sakāśam mānavendrasya bhartuḥ me plavaga-ṛṣabha .. 32..
सीतायास्तु वचः श्रुत्वा हनूमान्मारुतात्मजः । चिन्तयामास लक्ष्मीवान्नवं परिभवं कृतम् ॥ ३३॥
सीतायाः तु वचः श्रुत्वा हनूमान् मारुतात्मजः । चिन्तयामास लक्ष्मीवान् नवम् परिभवम् कृतम् ॥ ३३॥
sītāyāḥ tu vacaḥ śrutvā hanūmān mārutātmajaḥ . cintayāmāsa lakṣmīvān navam paribhavam kṛtam .. 33..
न मे जानाति सत्त्वं वा प्रभावं वासितेक्षणा । तस्मात्पश्यतु वैदेही यद्रूपं मम कामतः ॥ ३४॥
न मे जानाति सत्त्वम् वा प्रभावम् वा असित-ईक्षणा । तस्मात् पश्यतु वैदेही यत् रूपम् मम कामतः ॥ ३४॥
na me jānāti sattvam vā prabhāvam vā asita-īkṣaṇā . tasmāt paśyatu vaidehī yat rūpam mama kāmataḥ .. 34..
इति सञ्चिन्त्य हनुमांस्तदा प्लवगसत्तमः । दर्शयामास वैदेह्याः स्वरूपमरिमर्दनः ॥ ३५॥
इति सञ्चिन्त्य हनुमान् तदा प्लवग-सत्तमः । दर्शयामास वैदेह्याः स्व-रूपम् अरि-मर्दनः ॥ ३५॥
iti sañcintya hanumān tadā plavaga-sattamaḥ . darśayāmāsa vaidehyāḥ sva-rūpam ari-mardanaḥ .. 35..
स तस्मात् पादपाद्धीमानाप्लुत्य प्लवगर्षभः । ततो वर्धितुमारेभे सीताप्रत्ययकारणात् ॥ ३६॥
स तस्मात् पादपात् धीमान् आप्लुत्य प्लवग-ऋषभः । ततस् वर्धितुम् आरेभे सीता-प्रत्यय-कारणात् ॥ ३६॥
sa tasmāt pādapāt dhīmān āplutya plavaga-ṛṣabhaḥ . tatas vardhitum ārebhe sītā-pratyaya-kāraṇāt .. 36..
मेरुमन्दारसङ्काशो बभौ दीप्तानलप्रभः । अग्रतो व्यवतस्थे च सीताया वानरर्षभः ॥ ३७॥
मेरु-मन्दार-सङ्काशः बभौ दीप्त-अनल-प्रभः । अग्रतस् व्यवतस्थे च सीतायाः वानर-ऋषभः ॥ ३७॥
meru-mandāra-saṅkāśaḥ babhau dīpta-anala-prabhaḥ . agratas vyavatasthe ca sītāyāḥ vānara-ṛṣabhaḥ .. 37..
हरिः पर्वतसङ्काशस्ताम्रवक्त्रो महाबलः । वज्रदंष्ट्रनखो भीमो वैदेहीमिदमब्रवीत् ॥ ३८॥
हरिः पर्वत-सङ्काशः ताम्र-वक्त्रः महा-बलः । वज्र-दंष्ट्र-नखः भीमः वैदेहीम् इदम् अब्रवीत् ॥ ३८॥
hariḥ parvata-saṅkāśaḥ tāmra-vaktraḥ mahā-balaḥ . vajra-daṃṣṭra-nakhaḥ bhīmaḥ vaidehīm idam abravīt .. 38..
सपर्वतवनोद्देशां साट्टप्राकारतोरणाम् । लङ्कामिमां सनथां वा नयितुं शक्तिरस्ति मे ॥ ३९॥
स पर्वत-वन-उद्देशाम् स अट्ट-प्राकार-तोरणाम् । लङ्काम् इमाम् सनथाम् वा नयितुम् शक्तिः अस्ति मे ॥ ३९॥
sa parvata-vana-uddeśām sa aṭṭa-prākāra-toraṇām . laṅkām imām sanathām vā nayitum śaktiḥ asti me .. 39..
तदवस्थाप्य तां बुद्धिरलं देवि विकाङ्क्षया । विशोकं कुरु वैदेहि राघवं सहलक्ष्मणम् ॥ ४०॥
तत् अवस्थाप्य ताम् बुद्धिः अलम् देवि विकाङ्क्षया । विशोकम् कुरु वैदेहि राघवम् सहलक्ष्मणम् ॥ ४०॥
tat avasthāpya tām buddhiḥ alam devi vikāṅkṣayā . viśokam kuru vaidehi rāghavam sahalakṣmaṇam .. 40..
तं दृष्ट्वाचलसङ्काशमुवाच जनकात्मजा । पद्मपत्रविशालाक्षी मारुतस्यौरसं सुतम् ॥ ४१॥
तम् दृष्ट्वा अचल-सङ्काशम् उवाच जनकात्मजा । पद्म-पत्र-विशाल-अक्षी मारुतस्य औरसम् सुतम् ॥ ४१॥
tam dṛṣṭvā acala-saṅkāśam uvāca janakātmajā . padma-patra-viśāla-akṣī mārutasya aurasam sutam .. 41..
तव सत्त्वं बलं चैव विजानामि महाकपे । वायोरिव गतिं चापि तेजश्चाग्निरिवाद्भुतम् ॥ ४२॥
तव सत्त्वम् बलम् च एव विजानामि महा-कपे । वायोः इव गतिम् च अपि तेजः च अग्निः इव अद्भुतम् ॥ ४२॥
tava sattvam balam ca eva vijānāmi mahā-kape . vāyoḥ iva gatim ca api tejaḥ ca agniḥ iva adbhutam .. 42..
प्राकृतोऽन्यः कथं चेमां भूमिमागन्तुमर्हति । उदधेरप्रमेयस्य पारं वानरपुङ्गव ॥ ४३॥
प्राकृतः अन्यः कथम् च इमाम् भूमिम् आगन्तुम् अर्हति । उदधेः अप्रमेयस्य पारम् वानर-पुङ्गव ॥ ४३॥
prākṛtaḥ anyaḥ katham ca imām bhūmim āgantum arhati . udadheḥ aprameyasya pāram vānara-puṅgava .. 43..
जानामि गमने शक्तिं नयने चापि ते मम । अवश्यं साम्प्रधार्याशु कार्यसिद्धिरिहात्मनः ॥ ४४॥
जानामि गमने शक्तिम् नयने च अपि ते मम । अवश्यम् साम्प्रधार्य आशु कार्य-सिद्धिः इह आत्मनः ॥ ४४॥
jānāmi gamane śaktim nayane ca api te mama . avaśyam sāmpradhārya āśu kārya-siddhiḥ iha ātmanaḥ .. 44..
अयुक्तं तु कपिश्रेष्ठ मया गन्तुं त्वया सह । वायुवेगसवेगस्य वेगो मां मोहयेत्तव ॥ ४५॥
अयुक्तम् तु कपि-श्रेष्ठ मया गन्तुम् त्वया सह । वायु-वेग-सवेगस्य वेगः माम् मोहयेत् तव ॥ ४५॥
ayuktam tu kapi-śreṣṭha mayā gantum tvayā saha . vāyu-vega-savegasya vegaḥ mām mohayet tava .. 45..
अहमाकाशमासक्ता उपर्युपरि सागरम् । प्रपतेयं हि ते पृष्ठाद्भयाद्वेगेन गच्छतः ॥ ४६॥
अहम् आकाशम् आसक्ता उपरि उपरि सागरम् । प्रपतेयम् हि ते पृष्ठात् भयात् वेगेन गच्छतः ॥ ४६॥
aham ākāśam āsaktā upari upari sāgaram . prapateyam hi te pṛṣṭhāt bhayāt vegena gacchataḥ .. 46..
पतिता सागरे चाहं तिमिनक्रझषाकुले । भयेयमाशु विवशा यादसाम् अन्नमुत्तमम् ॥ ४७॥
पतिता सागरे च अहम् तिमि-नक्र-झष-आकुले । भयेयम् आशु विवशा यादसाम् अन्नम् उत्तमम् ॥ ४७॥
patitā sāgare ca aham timi-nakra-jhaṣa-ākule . bhayeyam āśu vivaśā yādasām annam uttamam .. 47..
न च शक्ष्ये त्वया सार्धं गन्तुं शत्रुविनाशन । कलत्रवति सन्देहस्त्वय्यपि स्यादसंशयम् ॥ ४८॥
न च शक्ष्ये त्वया सार्धम् गन्तुम् शत्रु-विनाशन । कलत्रवति सन्देहः त्वयि अपि स्यात् असंशयम् ॥ ४८॥
na ca śakṣye tvayā sārdham gantum śatru-vināśana . kalatravati sandehaḥ tvayi api syāt asaṃśayam .. 48..
ह्रियमाणां तु मां दृष्ट्वा राक्षसा भीमविक्रमाः । अनुगच्छेयुरादिष्टा रावणेन दुरात्मना ॥ ४९॥
ह्रियमाणाम् तु माम् दृष्ट्वा राक्षसाः भीम-विक्रमाः । अनुगच्छेयुः आदिष्टाः रावणेन दुरात्मना ॥ ४९॥
hriyamāṇām tu mām dṛṣṭvā rākṣasāḥ bhīma-vikramāḥ . anugaccheyuḥ ādiṣṭāḥ rāvaṇena durātmanā .. 49..
तैस्त्वं परिवृतः शूरैः शूलमुद्गर पाणिभिः । भवेस्त्वं संशयं प्राप्तो मया वीर कलत्रवान् ॥ ५०॥
तैः त्वम् परिवृतः शूरैः शूल-मुद्गर पाणिभिः । भवेः त्वम् संशयम् प्राप्तः मया वीर कलत्रवान् ॥ ५०॥
taiḥ tvam parivṛtaḥ śūraiḥ śūla-mudgara pāṇibhiḥ . bhaveḥ tvam saṃśayam prāptaḥ mayā vīra kalatravān .. 50..
सायुधा बहवो व्योम्नि राक्षसास्त्वं निरायुधः । कथं शक्ष्यसि संयातुं मां चैव परिरक्षितुम् ॥ ५१॥
स आयुधाः बहवः व्योम्नि राक्षसाः त्वम् निरायुधः । कथम् शक्ष्यसि संयातुम् माम् च एव परिरक्षितुम् ॥ ५१॥
sa āyudhāḥ bahavaḥ vyomni rākṣasāḥ tvam nirāyudhaḥ . katham śakṣyasi saṃyātum mām ca eva parirakṣitum .. 51..
युध्यमानस्य रक्षोभिस्ततस्तैः क्रूरकर्मभिः । प्रपतेयं हि ते पृष्ठद्भयार्ता कपिसत्तम ॥ ५२॥
युध्यमानस्य रक्षोभिः ततस् तैः क्रूर-कर्मभिः । प्रपतेयम् हि ते पृष्ठ-द्भय-आर्ता कपि-सत्तम ॥ ५२॥
yudhyamānasya rakṣobhiḥ tatas taiḥ krūra-karmabhiḥ . prapateyam hi te pṛṣṭha-dbhaya-ārtā kapi-sattama .. 52..
अथ रक्षांसि भीमानि महान्ति बलवन्ति च । कथं चित्साम्पराये त्वां जयेयुः कपिसत्तम ॥ ५३॥
अथ रक्षांसि भीमानि महान्ति बलवन्ति च । कथम् चित्-साम्पराये त्वाम् जयेयुः कपि-सत्तम ॥ ५३॥
atha rakṣāṃsi bhīmāni mahānti balavanti ca . katham cit-sāmparāye tvām jayeyuḥ kapi-sattama .. 53..
अथवा युध्यमानस्य पतेयं विमुखस्य ते । पतितां च गृहीत्वा मां नयेयुः पापराक्षसाः ॥ ५४॥
अथवा युध्यमानस्य पतेयम् विमुखस्य ते । पतिताम् च गृहीत्वा माम् नयेयुः पाप-राक्षसाः ॥ ५४॥
athavā yudhyamānasya pateyam vimukhasya te . patitām ca gṛhītvā mām nayeyuḥ pāpa-rākṣasāḥ .. 54..
मां वा हरेयुस्त्वद्धस्ताद्विशसेयुरथापि वा । अव्यवस्थौ हि दृश्येते युद्धे जयपराजयौ ॥ ५५॥
माम् वा हरेयुः त्वद्-हस्तात् विशसेयुः अथ अपि वा । अव्यवस्थौ हि दृश्येते युद्धे जय-पराजयौ ॥ ५५॥
mām vā hareyuḥ tvad-hastāt viśaseyuḥ atha api vā . avyavasthau hi dṛśyete yuddhe jaya-parājayau .. 55..
अहं वापि विपद्येयं रक्षोभिरभितर्जिता । त्वत्प्रयत्नो हरिश्रेष्ठ भवेन्निष्फल एव तु ॥ ५६॥
अहम् वा अपि विपद्येयम् रक्षोभिः अभितर्जिता । त्वद्-प्रयत्नः हरि-श्रेष्ठ भवेत् निष्फलः एव तु ॥ ५६॥
aham vā api vipadyeyam rakṣobhiḥ abhitarjitā . tvad-prayatnaḥ hari-śreṣṭha bhavet niṣphalaḥ eva tu .. 56..
कामं त्वमपि पर्याप्तो निहन्तुं सर्वराक्षसान् । राघवस्य यशो हीयेत्त्वया शस्तैस्तु राक्षसैः ॥ ५७॥
कामम् त्वम् अपि पर्याप्तः निहन्तुम् सर्व-राक्षसान् । राघवस्य यशः हीयेत् त्वया शस्तैः तु राक्षसैः ॥ ५७॥
kāmam tvam api paryāptaḥ nihantum sarva-rākṣasān . rāghavasya yaśaḥ hīyet tvayā śastaiḥ tu rākṣasaiḥ .. 57..
अथवादाय रक्षांसि न्यस्येयुः संवृते हि माम् । यत्र ते नाभिजानीयुर्हरयो नापि राघवः ॥ ५८॥
अथवा आदाय रक्षांसि न्यस्येयुः संवृते हि माम् । यत्र ते न अभिजानीयुः हरयः न अपि राघवः ॥ ५८॥
athavā ādāya rakṣāṃsi nyasyeyuḥ saṃvṛte hi mām . yatra te na abhijānīyuḥ harayaḥ na api rāghavaḥ .. 58..
आरम्भस्तु मदर्थोऽयं ततस्तव निरर्थकः । त्वया हि सह रामस्य महानागमने गुणः ॥ ५९॥
आरम्भः तु मद्-अर्थः अयम् ततस् तव निरर्थकः । त्वया हि सह रामस्य महान् आगमने गुणः ॥ ५९॥
ārambhaḥ tu mad-arthaḥ ayam tatas tava nirarthakaḥ . tvayā hi saha rāmasya mahān āgamane guṇaḥ .. 59..
मयि जीवितमायत्तं राघवस्य महात्मनः । भ्रातॄणां च महाबाहो तव राजकुलस्य च ॥ ६०॥
मयि जीवितम् आयत्तम् राघवस्य महात्मनः । भ्रातॄणाम् च महा-बाहो तव राज-कुलस्य च ॥ ६०॥
mayi jīvitam āyattam rāghavasya mahātmanaḥ . bhrātṝṇām ca mahā-bāho tava rāja-kulasya ca .. 60..
तौ निराशौ मदर्थे तु शोकसन्तापकर्शितौ । सह सर्वर्क्षहरिभिस्त्यक्ष्यतः प्राणसङ्ग्रहम् ॥ ६१॥
तौ निराशौ मद्-अर्थे तु शोक-सन्ताप-कर्शितौ । सह सर्व-ऋक्ष-हरिभिः त्यक्ष्यतः प्राण-सङ्ग्रहम् ॥ ६१॥
tau nirāśau mad-arthe tu śoka-santāpa-karśitau . saha sarva-ṛkṣa-haribhiḥ tyakṣyataḥ prāṇa-saṅgraham .. 61..
भर्तुर्भक्तिं पुरस्कृत्य रामादन्यस्य वानर । नाहं स्प्रष्टुं पदा गात्रमिच्छेयं वानरोत्तम ॥ ६२॥
भर्तुः भक्तिम् पुरस्कृत्य रामात् अन्यस्य वानर । न अहम् स्प्रष्टुम् पदा गात्रम् इच्छेयम् वानर-उत्तम ॥ ६२॥
bhartuḥ bhaktim puraskṛtya rāmāt anyasya vānara . na aham spraṣṭum padā gātram iccheyam vānara-uttama .. 62..
यदहं गात्रसंस्पर्शं रावणस्य गता बलात् । अनीशा किं करिष्यामि विनाथा विवशा सती ॥ ६३॥
यत् अहम् गात्र-संस्पर्शम् रावणस्य गता बलात् । अनीशा किम् करिष्यामि विनाथा विवशा सती ॥ ६३॥
yat aham gātra-saṃsparśam rāvaṇasya gatā balāt . anīśā kim kariṣyāmi vināthā vivaśā satī .. 63..
यदि रामो दशग्रीवमिह हत्वा सराक्षसं । मामितो गृह्य गच्छेत तत्तस्य सदृशं भवेत् ॥ ६४॥
यदि रामः दशग्रीवम् इह हत्वा स राक्षसम् । माम् इतस् गृह्य गच्छेत तत् तस्य सदृशम् भवेत् ॥ ६४॥
yadi rāmaḥ daśagrīvam iha hatvā sa rākṣasam . mām itas gṛhya gaccheta tat tasya sadṛśam bhavet .. 64..
श्रुता हि दृष्टाश्च मया पराक्रमा महात्मनस्तस्य रणावमर्दिनः । न देवगन्धर्वभुजङ्गराक्षसा भवन्ति रामेण समा हि संयुगे ॥ ६५॥
श्रुताः हि दृष्टाः च मया पराक्रमाः महात्मनः तस्य रण-अवमर्दिनः । न देव-गन्धर्व-भुजङ्ग-राक्षसाः भवन्ति रामेण समाः हि संयुगे ॥ ६५॥
śrutāḥ hi dṛṣṭāḥ ca mayā parākramāḥ mahātmanaḥ tasya raṇa-avamardinaḥ . na deva-gandharva-bhujaṅga-rākṣasāḥ bhavanti rāmeṇa samāḥ hi saṃyuge .. 65..
समीक्ष्य तं संयति चित्रकार्मुकं महाबलं वासवतुल्यविक्रमम् । सलक्ष्मणं को विषहेत राघवं हुताशनं दीप्तमिवानिलेरितम् ॥ ६६॥
समीक्ष्य तम् संयति चित्र-कार्मुकम् महा-बलम् वासव-तुल्य-विक्रमम् । स लक्ष्मणम् कः विषहेत राघवम् हुताशनम् दीप्तम् इव अनिल-ईरितम् ॥ ६६॥
samīkṣya tam saṃyati citra-kārmukam mahā-balam vāsava-tulya-vikramam . sa lakṣmaṇam kaḥ viṣaheta rāghavam hutāśanam dīptam iva anila-īritam .. 66..
सलक्ष्मणं राघवमाजिमर्दनं दिशागजं मत्तमिव व्यवस्थितम् । सहेत को वानरमुख्य संयुगे युगान्तसूर्यप्रतिमं शरार्चिषम् ॥ ६७॥
स लक्ष्मणम् राघवम् आजि-मर्दनम् दिशागजम् मत्तम् इव व्यवस्थितम् । सहेत कः वानर-मुख्य संयुगे युगान्त-सूर्य-प्रतिमम् ॥ ६७॥
sa lakṣmaṇam rāghavam āji-mardanam diśāgajam mattam iva vyavasthitam . saheta kaḥ vānara-mukhya saṃyuge yugānta-sūrya-pratimam .. 67..
स मे हरिश्रेष्ठ सलक्ष्मणं पतिं सयूथपं क्षिप्रमिहोपपादय । चिराय रामं प्रति शोककर्शितां कुरुष्व मां वानरमुख्य हर्षिताम् ॥ ६८॥
स मे हरि-श्रेष्ठ स लक्ष्मणम् पतिम् स यूथपम् क्षिप्रम् इह उपपादय । चिराय रामम् प्रति शोक-कर्शिताम् कुरुष्व माम् वानर-मुख्य हर्षिताम् ॥ ६८॥
sa me hari-śreṣṭha sa lakṣmaṇam patim sa yūthapam kṣipram iha upapādaya . cirāya rāmam prati śoka-karśitām kuruṣva mām vānara-mukhya harṣitām .. 68..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In