This overlay will guide you through the buttons:

| |
|
ततः स कपिशार्दूलस्तेन वाक्येन हर्षितः । सीतामुवाच तच्छ्रुत्वा वाक्यं वाक्यविशारदः ॥ १॥
ततस् स कपि-शार्दूलः तेन वाक्येन हर्षितः । सीताम् उवाच तत् श्रुत्वा वाक्यम् वाक्य-विशारदः ॥ १॥
tatas sa kapi-śārdūlaḥ tena vākyena harṣitaḥ . sītām uvāca tat śrutvā vākyam vākya-viśāradaḥ .. 1..
युक्तरूपं त्वया देवि भाषितं शुभदर्शने । सदृशं स्त्रीस्वभावस्य साध्वीनां विनयस्य च ॥ २॥
युक्त-रूपम् त्वया देवि भाषितम् शुभ-दर्शने । सदृशम् स्त्री-स्वभावस्य साध्वीनाम् विनयस्य च ॥ २॥
yukta-rūpam tvayā devi bhāṣitam śubha-darśane . sadṛśam strī-svabhāvasya sādhvīnām vinayasya ca .. 2..
स्त्रीत्वं न तु समर्थं हि सागरं व्यतिवर्तितुम् । मामधिष्ठाय विस्तीर्णं शतयोजनमायतम् ॥ ३॥
स्त्री-त्वम् न तु समर्थम् हि सागरम् व्यतिवर्तितुम् । माम् अधिष्ठाय विस्तीर्णम् शत-योजनम् आयतम् ॥ ३॥
strī-tvam na tu samartham hi sāgaram vyativartitum . mām adhiṣṭhāya vistīrṇam śata-yojanam āyatam .. 3..
द्वितीयं कारणं यच्च ब्रवीषि विनयान्विते । रामादन्यस्य नार्हामि संस्पर्शमिति जानकि ॥ ४॥
द्वितीयम् कारणम् यत् च ब्रवीषि विनय-अन्विते । रामात् अन्यस्य न अर्हामि संस्पर्शम् इति जानकि ॥ ४॥
dvitīyam kāraṇam yat ca bravīṣi vinaya-anvite . rāmāt anyasya na arhāmi saṃsparśam iti jānaki .. 4..
एतत्ते देवि सदृशं पत्न्यास्तस्य महात्मनः । का ह्यन्या त्वामृते देवि ब्रूयाद्वचनमीदृशम् ॥ ५॥
एतत् ते देवि सदृशम् पत्न्याः तस्य महात्मनः । का हि अन्या त्वाम् ऋते देवि ब्रूयात् वचनम् ईदृशम् ॥ ५॥
etat te devi sadṛśam patnyāḥ tasya mahātmanaḥ . kā hi anyā tvām ṛte devi brūyāt vacanam īdṛśam .. 5..
श्रोष्यते चैव काकुत्स्थः सर्वं निरवशेषतः । चेष्टितं यत्त्वया देवि भाषितं मम चाग्रतः ॥ ६॥
श्रोष्यते च एव काकुत्स्थः सर्वम् निरवशेषतः । चेष्टितम् यत् त्वया देवि भाषितम् मम च अग्रतस् ॥ ६॥
śroṣyate ca eva kākutsthaḥ sarvam niravaśeṣataḥ . ceṣṭitam yat tvayā devi bhāṣitam mama ca agratas .. 6..
कारणैर्बहुभिर्देवि राम प्रियचिकीर्षया । स्नेहप्रस्कन्नमनसा मयैतत्समुदीरितम् ॥ ७॥
कारणैः बहुभिः देवि राम प्रिय-चिकीर्षया । स्नेह-प्रस्कन्न-मनसा मया एतत् समुदीरितम् ॥ ७॥
kāraṇaiḥ bahubhiḥ devi rāma priya-cikīrṣayā . sneha-praskanna-manasā mayā etat samudīritam .. 7..
लङ्काया दुष्प्रवेशत्वाद्दुस्तरत्वान्महोदधेः । सामर्थ्यादात्मनश्चैव मयैतत्समुदाहृतम् ॥ ८॥
लङ्कायाः दुष्प्रवेश-त्वात् दुस्तर-त्वात् महोदधेः । सामर्थ्यात् आत्मनः च एव मया एतत् समुदाहृतम् ॥ ८॥
laṅkāyāḥ duṣpraveśa-tvāt dustara-tvāt mahodadheḥ . sāmarthyāt ātmanaḥ ca eva mayā etat samudāhṛtam .. 8..
इच्छामि त्वां समानेतुमद्यैव रघुबन्धुना । गुरुस्नेहेन भक्त्या च नान्यथा तदुदाहृतम् ॥ ९॥
इच्छामि त्वाम् समानेतुम् अद्या एव रघु-बन्धुना । गुरु-स्नेहेन भक्त्या च ना अन्यथा तत् उदाहृतम् ॥ ९॥
icchāmi tvām samānetum adyā eva raghu-bandhunā . guru-snehena bhaktyā ca nā anyathā tat udāhṛtam .. 9..
यदि नोत्सहसे यातुं मया सार्धमनिन्दिते । अभिज्ञानं प्रयच्छ त्वं जानीयाद्राघवो हि यत् ॥ १०॥
यदि ना उत्सहसे यातुम् मया सार्धम् अनिन्दिते । अभिज्ञानम् प्रयच्छ त्वम् जानीयात् राघवः हि यत् ॥ १०॥
yadi nā utsahase yātum mayā sārdham anindite . abhijñānam prayaccha tvam jānīyāt rāghavaḥ hi yat .. 10..
एवमुक्ता हनुमता सीता सुरसुतोपमा । उवाच वचनं मन्दं बाष्पप्रग्रथिताक्षरम् ॥ ११॥
एवम् उक्ता हनुमता सीता सुर-सुता-उपमा । उवाच वचनम् मन्दम् बाष्प-प्रग्रथित-अक्षरम् ॥ ११॥
evam uktā hanumatā sītā sura-sutā-upamā . uvāca vacanam mandam bāṣpa-pragrathita-akṣaram .. 11..
इदं श्रेष्ठमभिज्ञानं ब्रूयास्त्वं तु मम प्रियम् । शैलस्य चित्रकूटस्य पादे पूर्वोत्तरे तदा ॥ १२॥
इदम् श्रेष्ठम् अभिज्ञानम् ब्रूयाः त्वम् तु मम प्रियम् । शैलस्य चित्रकूटस्य पादे पूर्व-उत्तरे तदा ॥ १२॥
idam śreṣṭham abhijñānam brūyāḥ tvam tu mama priyam . śailasya citrakūṭasya pāde pūrva-uttare tadā .. 12..
तापसाश्रमवासिन्याः प्राज्यमूलफलोदके । तस्मिन्सिद्धाश्रमे देशे मन्दाकिन्या अदूरतः ॥ १३॥
तापस-आश्रम-वासिन्याः प्राज्य-मूल-फल-उदके । तस्मिन् सिद्ध-आश्रमे देशे मन्दाकिन्याः अदूरतः ॥ १३॥
tāpasa-āśrama-vāsinyāḥ prājya-mūla-phala-udake . tasmin siddha-āśrame deśe mandākinyāḥ adūrataḥ .. 13..
तस्योपवनषण्डेषु नानापुष्पसुगन्धिषु । विहृत्य सलिलक्लिन्ना तवाङ्के समुपाविशम् ॥ १४॥
तस्य उपवन-षण्डेषु नाना पुष्प-सुगन्धिषु । विहृत्य सलिल-क्लिन्ना तव अङ्के समुपाविशम् ॥ १४॥
tasya upavana-ṣaṇḍeṣu nānā puṣpa-sugandhiṣu . vihṛtya salila-klinnā tava aṅke samupāviśam .. 14..
ततो मांससमायुक्तो वायसः पर्यतुण्डयत् । तमहं लोष्टमुद्यम्य वारयामि स्म वायसं ॥१५॥
ततस् मांस-समायुक्तः वायसः पर्यतुण्डयत् । तम् अहम् लोष्टम् उद्यम्य वारयामि स्म वायसम् ॥१५॥
tatas māṃsa-samāyuktaḥ vāyasaḥ paryatuṇḍayat . tam aham loṣṭam udyamya vārayāmi sma vāyasam ..15..
दारयन्स च मां काकस्तत्रैव परिलीयते । न चाप्युपरमन्मांसाद्भक्षार्थी बलिभोजनः ॥१६॥
दारयन् स च माम् काकः तत्र एव परिलीयते । न च अपि उपरमन् मांसात् भक्ष-अर्थी बलिभोजनः ॥१६॥
dārayan sa ca mām kākaḥ tatra eva parilīyate . na ca api uparaman māṃsāt bhakṣa-arthī balibhojanaḥ ..16..
उत्कर्षन्त्यां च रशनां क्रुद्धायां मयि पक्षिणे । स्रंसमाने च वसने ततो दृष्टा त्वया ह्यहम् ॥१७॥
उत्कर्षन्त्याम् च रशनाम् क्रुद्धायाम् मयि पक्षिणे । स्रंसमाने च वसने ततस् दृष्टा त्वया हि अहम् ॥१७॥
utkarṣantyām ca raśanām kruddhāyām mayi pakṣiṇe . sraṃsamāne ca vasane tatas dṛṣṭā tvayā hi aham ..17..
त्वया विहसिता चाहं क्रुद्धा संलज्जिता तदा । भक्ष्य गृद्धेन कालेन दारिता त्वामुपागता ॥१८॥
त्वया विहसिता च अहम् क्रुद्धा संलज्जिता तदा । भक्ष्य गृद्धेन कालेन दारिता त्वाम् उपागता ॥१८॥
tvayā vihasitā ca aham kruddhā saṃlajjitā tadā . bhakṣya gṛddhena kālena dāritā tvām upāgatā ..18..
आसीनस्य च ते श्रान्ता पुनरुत्सङ्गमाविशम् । क्रुध्यन्ती च प्रहृष्टेन त्वयाहं परिसान्त्विता ॥१९॥
आसीनस्य च ते श्रान्ता पुनर् उत्सङ्गम् आविशम् । क्रुध्यन्ती च प्रहृष्टेन त्वया अहम् परिसान्त्विता ॥१९॥
āsīnasya ca te śrāntā punar utsaṅgam āviśam . krudhyantī ca prahṛṣṭena tvayā aham parisāntvitā ..19..
बाष्पपूर्णमुखी मन्दं चक्षुषी परिमार्जती । लक्षिताहं त्वया नाथ वायसेन प्रकोपिता ॥२०॥
बाष्प-पूर्ण-मुखी मन्दम् चक्षुषी परिमार्जती । लक्षिता अहम् त्वया नाथ वायसेन प्रकोपिता ॥२०॥
bāṣpa-pūrṇa-mukhī mandam cakṣuṣī parimārjatī . lakṣitā aham tvayā nātha vāyasena prakopitā ..20..
परिश्रमाच्च सुप्ता हे राघवाङ्केऽप्यहं चिरम्।पर्यायेण प्रसुप्तश्च ममाङ्के भरताग्रजः ॥ १५॥ ॥२१॥
परिश्रमात् च सुप्ता हे राघव-अङ्के अपि अहम् चिरम्।पर्यायेण प्रसुप्तः च मम अङ्के भरताग्रजः ॥ १५॥ ॥२१॥
pariśramāt ca suptā he rāghava-aṅke api aham ciram.paryāyeṇa prasuptaḥ ca mama aṅke bharatāgrajaḥ .. 15.. ..21..
स तत्र पुनरेवाथ वायसस्समुपागमत् । ततस्सुप्तप्रबुद्धां मां रामस्याङ्कात्समुत्थिताम्।वायसस्सहसागम्य विददार स्तनान्तरे॥२२॥
स तत्र पुनर् एव अथ वायसः समुपागमत् । ततस् सुप्त-प्रबुद्धाम् माम् रामस्य अङ्कात् समुत्थिताम्।वायसः सहसा आगम्य विददार स्तनान्तरे॥२२॥
sa tatra punar eva atha vāyasaḥ samupāgamat . tatas supta-prabuddhām mām rāmasya aṅkāt samutthitām.vāyasaḥ sahasā āgamya vidadāra stanāntare..22..
पुनः पुनरथोत्पत्य विददार स मां भृशम्।ततस्समुक्षितो रामो मुक्तैश्शोणितबिन्दुभिः॥२३॥
पुनर् पुनर् अथ उत्पत्य विददार स माम् भृशम्।ततस् समुक्षितः रामः मुक्तैः शोणित-बिन्दुभिः॥२३॥
punar punar atha utpatya vidadāra sa mām bhṛśam.tatas samukṣitaḥ rāmaḥ muktaiḥ śoṇita-bindubhiḥ..23..
स मां दृष्ट्वा महाबाहुर्वितुन्नां स्तनयोस्तदा।आशीविष इव क्रुद्धः श्वसान्वाक्यमभाषथाः ॥२४॥
स माम् दृष्ट्वा महा-बाहुः वितुन्नाम् स्तनयोः तदा।आशीविषः इव क्रुद्धः श्वसान् वाक्यम् अभाषथाः ॥२४॥
sa mām dṛṣṭvā mahā-bāhuḥ vitunnām stanayoḥ tadā.āśīviṣaḥ iva kruddhaḥ śvasān vākyam abhāṣathāḥ ..24..
केन ते नागनासोरु विक्षतं वै स्तनान्तरम् । कः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना ॥२५॥
केन ते नाग-नासा-ऊरु विक्षतम् वै स्तनान्तरम् । कः क्रीडति स रोषेण पञ्चवक्त्रेण भोगिना ॥२५॥
kena te nāga-nāsā-ūru vikṣatam vai stanāntaram . kaḥ krīḍati sa roṣeṇa pañcavaktreṇa bhoginā ..25..
वीक्षमाणस्ततस्तं वै वायसं समवैक्षथाः । नखैः सरुधिरैस्तीक्ष्णैर्मामेवाभिमुखं स्थितम् ॥२६॥
वीक्षमाणः ततस् तम् वै वायसम् समवैक्षथाः । नखैः स रुधिरैः तीक्ष्णैः माम् एव अभिमुखम् स्थितम् ॥२६॥
vīkṣamāṇaḥ tatas tam vai vāyasam samavaikṣathāḥ . nakhaiḥ sa rudhiraiḥ tīkṣṇaiḥ mām eva abhimukham sthitam ..26..
पुत्रः किल स शक्रस्य वायसः पततां वरः । धरान्तरचरः शीघ्रं पवनस्य गतौ समः ॥२७॥
पुत्रः किल स शक्रस्य वायसः पतताम् वरः । धरा-अन्तर-चरः शीघ्रम् पवनस्य गतौ समः ॥२७॥
putraḥ kila sa śakrasya vāyasaḥ patatām varaḥ . dharā-antara-caraḥ śīghram pavanasya gatau samaḥ ..27..
ततस्तस्मिन्महाबाहुः कोपसंवर्तितेक्षणः । वायसे कृतवान्क्रूरां मतिं मतिमतां वर ॥२८॥
ततस् तस्मिन् महा-बाहुः कोप-संवर्तित-ईक्षणः । वायसे कृतवान् क्रूराम् मतिम् मतिमताम् वर ॥२८॥
tatas tasmin mahā-bāhuḥ kopa-saṃvartita-īkṣaṇaḥ . vāyase kṛtavān krūrām matim matimatām vara ..28..
स दर्भसंस्तराद्गृह्य ब्रह्मणोऽस्त्रेण योजयः । स दीप्त इव कालाग्निर्जज्वालाभिमुखो द्विजम् ॥२९॥
स दर्भ-संस्तरात् गृह्य ब्रह्मणः अस्त्रेण योजयः । स दीप्तः इव कालाग्निः जज्वाल अभिमुखः द्विजम् ॥२९॥
sa darbha-saṃstarāt gṛhya brahmaṇaḥ astreṇa yojayaḥ . sa dīptaḥ iva kālāgniḥ jajvāla abhimukhaḥ dvijam ..29..
स तं प्रदीप्तं चिक्षेप दर्भं तं वायसं प्रति।ततस्तं वायसं दर्भस्सोम्बरेऽनुजगाम ह॥३०॥
स तम् प्रदीप्तम् चिक्षेप दर्भम् तम् वायसम् प्रति।ततस् तम् वायसम् दर्भः सोम्बरे अनुजगाम ह॥३०॥
sa tam pradīptam cikṣepa darbham tam vāyasam prati.tatas tam vāyasam darbhaḥ sombare anujagāma ha..30..
अनुसृष्टस्तदा कालो जगाम विविधां गतिम् । त्राणकाम इमं लोकं सर्वं वै विचचार ह ॥३१॥
अनुसृष्टः तदा कालः जगाम विविधाम् गतिम् । त्राण-कामः इमम् लोकम् सर्वम् वै विचचार ह ॥३१॥
anusṛṣṭaḥ tadā kālaḥ jagāma vividhām gatim . trāṇa-kāmaḥ imam lokam sarvam vai vicacāra ha ..31..
स पित्रा च परित्यक्तः सुरैः सर्वैर्महर्षिभिः । त्रीँल्लोकान्सम्परिक्रम्य त्वामेव शरणं गतः ॥३२॥
स पित्रा च परित्यक्तः सुरैः सर्वैः महा-ऋषिभिः । त्रीन् लोकान् सम्परिक्रम्य त्वाम् एव शरणम् गतः ॥३२॥
sa pitrā ca parityaktaḥ suraiḥ sarvaiḥ mahā-ṛṣibhiḥ . trīn lokān samparikramya tvām eva śaraṇam gataḥ ..32..
स तं निपतितं भूमौ शरण्यः शरणागतम् । वधार्हमपि काकुत्स्थ कृपया पर्यपालयः ॥३३॥
स तम् निपतितम् भूमौ शरण्यः शरण-आगतम् । वध-अर्हम् अपि काकुत्स्थ कृपया पर्यपालयः ॥३३॥
sa tam nipatitam bhūmau śaraṇyaḥ śaraṇa-āgatam . vadha-arham api kākutstha kṛpayā paryapālayaḥ ..33..
परिद्यूनं विषण्णं च स त्वमायान्तमुक्तवान् । मोघं कर्तुं न शक्यं तु ब्राह्ममस्त्रं तदुच्यताम् ॥३४॥
परिद्यूनम् विषण्णम् च स त्वम् आयान्तम् उक्तवान् । मोघम् कर्तुम् न शक्यम् तु ब्राह्मम् अस्त्रम् तत् उच्यताम् ॥३४॥
paridyūnam viṣaṇṇam ca sa tvam āyāntam uktavān . mogham kartum na śakyam tu brāhmam astram tat ucyatām ..34..
ततस्तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम् ।दत्त्वा स दक्षिणं नेत्रं प्राणेभ्यः परिरक्षितः॥३५॥
ततस् तस्य अक्षि काकस्य हिनस्ति स्म स दक्षिणम् ।दत्त्वा स दक्षिणम् नेत्रम् प्राणेभ्यः परिरक्षितः॥३५॥
tatas tasya akṣi kākasya hinasti sma sa dakṣiṇam .dattvā sa dakṣiṇam netram prāṇebhyaḥ parirakṣitaḥ..35..
स रामाय नमस्कृत्वा राज्ञे दशरथाय च । त्वया वीर विसृष्टस्तु प्रतिपेदे स्वमालयम् ॥३६॥
स रामाय नमस्कृत्वा राज्ञे दशरथाय च । त्वया वीर विसृष्टः तु प्रतिपेदे स्वम् आलयम् ॥३६॥
sa rāmāya namaskṛtvā rājñe daśarathāya ca . tvayā vīra visṛṣṭaḥ tu pratipede svam ālayam ..36..
मत्कृते काकमात्रेऽपि ब्रह्मास्त्रं समुदीरितम् । कस्माद्यो मां हरत्त्वत्तः क्षमसे तं महीपते ॥३७॥
मद्-कृते काक-मात्रे अपि ब्रह्मास्त्रम् समुदीरितम् । कस्मात् यः माम् हरत् त्वत्तः क्षमसे तम् महीपते ॥३७॥
mad-kṛte kāka-mātre api brahmāstram samudīritam . kasmāt yaḥ mām harat tvattaḥ kṣamase tam mahīpate ..37..
स कुरुष्व महोत्साहं कृपां मयि नरर्षभ । आनृशंस्यं परो धर्मस्त्वत्त एव मया श्रुतः ॥३८॥
स कुरुष्व महा-उत्साहम् कृपाम् मयि नर-ऋषभ । आनृशंस्यम् परः धर्मः त्वत्तः एव मया श्रुतः ॥३८॥
sa kuruṣva mahā-utsāham kṛpām mayi nara-ṛṣabha . ānṛśaṃsyam paraḥ dharmaḥ tvattaḥ eva mayā śrutaḥ ..38..
आनृशंस्यं परो धर्मस्तवत्त्त ऐव मया श्रुतम्।जानामि त्वां महावीर्यं महोत्साहं महाबलम् ॥३९॥
आनृशंस्यम् परः धर्मः तवत्त्ते आ एव मया श्रुतम्।जानामि त्वाम् महा-वीर्यम् महा-उत्साहम् महा-बलम् ॥३९॥
ānṛśaṃsyam paraḥ dharmaḥ tavattte ā eva mayā śrutam.jānāmi tvām mahā-vīryam mahā-utsāham mahā-balam ..39..
अपारपारमक्षोभ्यं गाम्भीर्यात्सागरोपमम् । भर्तारं ससमुद्राया धरण्या वासवोपमम् ॥४०॥
अपार-पारम् अक्षोभ्यम् गाम्भीर्यात् सागर-उपमम् । भर्तारम् स समुद्रायाः धरण्याः वासव-उपमम् ॥४०॥
apāra-pāram akṣobhyam gāmbhīryāt sāgara-upamam . bhartāram sa samudrāyāḥ dharaṇyāḥ vāsava-upamam ..40..
एवमस्त्रविदां श्रेष्ठः सत्त्ववान्बलवानपि । किमर्थमस्त्रं रक्षःसु न योजयसि राघव ॥४१॥
एवम् अस्त्र-विदाम् श्रेष्ठः सत्त्ववान् बलवान् अपि । किमर्थम् अस्त्रम् रक्षःसु न योजयसि राघव ॥४१॥
evam astra-vidām śreṣṭhaḥ sattvavān balavān api . kimartham astram rakṣaḥsu na yojayasi rāghava ..41..
न नागा नापि गन्धर्वा नासुरा न मरुद्गणाः । रामस्य समरे वेगं शक्ताः प्रति समाधितुम् ॥४२॥
न नागाः ना अपि गन्धर्वाः ना असुराः न मरुत्-गणाः । रामस्य समरे वेगम् शक्ताः प्रति समाधितुम् ॥४२॥
na nāgāḥ nā api gandharvāḥ nā asurāḥ na marut-gaṇāḥ . rāmasya samare vegam śaktāḥ prati samādhitum ..42..
तस्या वीर्यवतः कश्चिद्यद्यस्ति मयि सम्भ्रमः । किमर्थं न शरैस्तीक्ष्णैः क्षयं नयति राक्षसान् ॥४३॥
तस्याः वीर्यवतः कश्चिद् यदि अस्ति मयि सम्भ्रमः । किमर्थम् न शरैः तीक्ष्णैः क्षयम् नयति राक्षसान् ॥४३॥
tasyāḥ vīryavataḥ kaścid yadi asti mayi sambhramaḥ . kimartham na śaraiḥ tīkṣṇaiḥ kṣayam nayati rākṣasān ..43..
भ्रातुरादेशमादाय लक्ष्मणो वा परन्तपः । कस्य हेतोर्न मां वीरः परित्राति महाबलः ॥४४॥
भ्रातुः आदेशम् आदाय लक्ष्मणः वा परन्तपः । कस्य हेतोः न माम् वीरः परित्राति महा-बलः ॥४४॥
bhrātuḥ ādeśam ādāya lakṣmaṇaḥ vā parantapaḥ . kasya hetoḥ na mām vīraḥ paritrāti mahā-balaḥ ..44..
यदि तौ पुरुषव्याघ्रौ वाय्विन्द्रसमतेजसौ । सुराणामपि दुर्धर्षो किमर्थं मामुपेक्षतः ॥४५॥
यदि तौ पुरुष-व्याघ्रौ वायु-इन्द्र-सम-तेजसौ । सुराणाम् अपि दुर्धर्षो किमर्थम् माम् उपेक्षतः ॥४५॥
yadi tau puruṣa-vyāghrau vāyu-indra-sama-tejasau . surāṇām api durdharṣo kimartham mām upekṣataḥ ..45..
ममैव दुष्कृतं किं चिन्महदस्ति न संशयः । समर्थावपि तौ यन्मां नावेक्षेते परन्तपौ ॥४६॥
मम एव दुष्कृतम् किम् चित् महत् अस्ति न संशयः । समर्थौ अपि तौ यत् माम् न अवेक्षेते परन्तपौ ॥४६॥
mama eva duṣkṛtam kim cit mahat asti na saṃśayaḥ . samarthau api tau yat mām na avekṣete parantapau ..46..
वैदेह्या वचनं श्रुत्वा करुणं साश्रुभाषितम्।अथाब्रवीन्महातेजा हनुमान्मारुतात्मजः॥४७॥
वैदेह्याः वचनम् श्रुत्वा करुणम् स अश्रु-भाषितम्।अथा अब्रवीत् महा-तेजाः हनुमान् मारुतात्मजः॥४७॥
vaidehyāḥ vacanam śrutvā karuṇam sa aśru-bhāṣitam.athā abravīt mahā-tejāḥ hanumān mārutātmajaḥ..47..
त्वच्छोकविमुखो रामो देवि सत्येन ते शपे।रामे दुःखाभिपन्ने च लक्ष्मणः परितप्यते॥४८॥
त्वद्-शोक-विमुखः रामः देवि सत्येन ते शपे।रामे दुःख-अभिपन्ने च लक्ष्मणः परितप्यते॥४८॥
tvad-śoka-vimukhaḥ rāmaḥ devi satyena te śape.rāme duḥkha-abhipanne ca lakṣmaṇaḥ paritapyate..48..
कथञ्चिद्भवती दृष्टा न कालः परिदेवितुम्।इमं मुहूर्तं दुःखानां द्रक्ष्यस्यन्तमनिन्दिते॥४९॥
कथञ्चिद् भवती दृष्टा न कालः परिदेवितुम्।इमम् मुहूर्तम् दुःखानाम् द्रक्ष्यसि अन्तम् अनिन्दिते॥४९॥
kathañcid bhavatī dṛṣṭā na kālaḥ paridevitum.imam muhūrtam duḥkhānām drakṣyasi antam anindite..49..
तावुभौ पुरुषव्याघ्रौ राजपुत्रौ महाबलौ।त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः॥५०॥
तौ उभौ पुरुष-व्याघ्रौ राज-पुत्रौ महा-बलौ।त्वद्-दर्शन-कृत-उत्साहौ लङ्काम् भस्मीकरिष्यतः॥५०॥
tau ubhau puruṣa-vyāghrau rāja-putrau mahā-balau.tvad-darśana-kṛta-utsāhau laṅkām bhasmīkariṣyataḥ..50..
हत्त्वा च समरे क्रूरं रावणं सहबान्धवम्।राघवस्त्वां विशालाक्षि नेष्यति स्वां पुरीं प्रति॥५१॥
हत्त्वा च समरे क्रूरम् रावणम् सहबान्धवम्।राघवः त्वाम् विशाल-अक्षे नेष्यति स्वाम् पुरीम् प्रति॥५१॥
hattvā ca samare krūram rāvaṇam sahabāndhavam.rāghavaḥ tvām viśāla-akṣe neṣyati svām purīm prati..51..
ब्रूहि यद्राघवो वाच्यो लक्ष्मणश्च महाबलः।सुग्रीवो वापि तेजस्वी हरयोऽपि समागताः॥५२॥
ब्रूहि यत् राघवः वाच्यः लक्ष्मणः च महा-बलः।सुग्रीवः वा अपि तेजस्वी हरयः अपि समागताः॥५२॥
brūhi yat rāghavaḥ vācyaḥ lakṣmaṇaḥ ca mahā-balaḥ.sugrīvaḥ vā api tejasvī harayaḥ api samāgatāḥ..52..
इत्युक्तवति तस्मिंस्तु सीता सुरसुतोपमा।कौसल्या लोकभर्तारं सुषुवे यं मनस्विनी ॥५३॥
इति उक्तवति तस्मिन् तु सीता सुर-सुता-उपमा।कौसल्या लोक-भर्तारम् सुषुवे यम् मनस्विनी ॥५३॥
iti uktavati tasmin tu sītā sura-sutā-upamā.kausalyā loka-bhartāram suṣuve yam manasvinī ..53..
तं ममार्थे सुखं पृच्छ शिरसा चाभिवादय।स्रजश्च सर्वरत्नानि प्रिया याश्च वराङ्गनाः ॥५४॥
तम् मम अर्थे सुखम् पृच्छ शिरसा च अभिवादय।स्रजः च सर्व-रत्नानि प्रियाः याः च वर-अङ्गनाः ॥५४॥
tam mama arthe sukham pṛccha śirasā ca abhivādaya.srajaḥ ca sarva-ratnāni priyāḥ yāḥ ca vara-aṅganāḥ ..54..
ऐश्वर्यं च विशालायां पृथिव्याम् अपि दुर्लभम् ।पितरं मातरं चैव संमान्याभिप्रसाद्य च ॥५५॥
ऐश्वर्यम् च विशालायाम् पृथिव्याम् अपि दुर्लभम् ।पितरम् मातरम् च एव संमान्य अभिप्रसाद्य च ॥५५॥
aiśvaryam ca viśālāyām pṛthivyām api durlabham .pitaram mātaram ca eva saṃmānya abhiprasādya ca ..55..
अनुप्रव्रजितो रामं सुमित्रा येन सुप्रजाः ।आनुकूल्येन धर्मात्मा त्यक्त्वा सुखमनुत्तमम्॥५६॥
अनुप्रव्रजितः रामम् सुमित्रा येन सु प्रजाः ।आनुकूल्येन धर्म-आत्मा त्यक्त्वा सुखम् अनुत्तमम्॥५६॥
anupravrajitaḥ rāmam sumitrā yena su prajāḥ .ānukūlyena dharma-ātmā tyaktvā sukham anuttamam..56..
अनुगच्छति काकुत्स्थं भ्रातरं पालयन्वने । सिंहस्कन्धो महाबाहुर्मनस्वी प्रियदर्शनः ॥५७॥
अनुगच्छति काकुत्स्थम् भ्रातरम् पालयन् वने । सिंह-स्कन्धः महा-बाहुः मनस्वी प्रिय-दर्शनः ॥५७॥
anugacchati kākutstham bhrātaram pālayan vane . siṃha-skandhaḥ mahā-bāhuḥ manasvī priya-darśanaḥ ..57..
पितृवद्वर्तते रामे मातृवन्मां समाचरन् । ह्रियमाणां तदा वीरो न तु मां वेद लक्ष्मणः ॥५८॥
पितृ-वत् वर्तते रामे मातृ-वत् माम् समाचरन् । ह्रियमाणाम् तदा वीरः न तु माम् वेद लक्ष्मणः ॥५८॥
pitṛ-vat vartate rāme mātṛ-vat mām samācaran . hriyamāṇām tadā vīraḥ na tu mām veda lakṣmaṇaḥ ..58..
वृद्धोपसेवी लक्ष्मीवाञ्शक्तो न बहुभाषिता । राजपुत्रः प्रियश्रेष्ठः सदृशः श्वशुरस्य मे ॥५९॥
वृद्ध-उपसेवी लक्ष्मीवान् शक्तः न बहु-भाषिता । राज-पुत्रः प्रिय-श्रेष्ठः सदृशः श्वशुरस्य मे ॥५९॥
vṛddha-upasevī lakṣmīvān śaktaḥ na bahu-bhāṣitā . rāja-putraḥ priya-śreṣṭhaḥ sadṛśaḥ śvaśurasya me ..59..
मत्तः प्रियतरो नित्यं भ्राता रामस्य लक्ष्मणः । नियुक्तो धुरि यस्यां तु तामुद्वहति वीर्यवान् ॥६०॥
मत्तः प्रियतरः नित्यम् भ्राता रामस्य लक्ष्मणः । नियुक्तः धुरि यस्याम् तु ताम् उद्वहति वीर्यवान् ॥६०॥
mattaḥ priyataraḥ nityam bhrātā rāmasya lakṣmaṇaḥ . niyuktaḥ dhuri yasyām tu tām udvahati vīryavān ..60..
यं दृष्ट्वा राघवो नैव वृद्धमार्यमनुस्मरत् । स ममार्थाय कुशलं वक्तव्यो वचनान्मम ॥६१॥
यम् दृष्ट्वा राघवः ना एव वृद्धम् आर्यम् अनुस्मरत् । स मम अर्थाय कुशलम् वक्तव्यः वचनात् मम ॥६१॥
yam dṛṣṭvā rāghavaḥ nā eva vṛddham āryam anusmarat . sa mama arthāya kuśalam vaktavyaḥ vacanāt mama ..61..
मृदुर्नित्यं शुचिर्दक्षः प्रियो रामस्य लक्ष्मणः ।यथा हि वानरश्रेष्ठ दुःखक्षयकरो भवेत्॥६२॥
मृदुः नित्यम् शुचिः दक्षः प्रियः रामस्य लक्ष्मणः ।यथा हि वानर-श्रेष्ठ दुःख-क्षय-करः भवेत्॥६२॥
mṛduḥ nityam śuciḥ dakṣaḥ priyaḥ rāmasya lakṣmaṇaḥ .yathā hi vānara-śreṣṭha duḥkha-kṣaya-karaḥ bhavet..62..
त्वमस्मिन्कार्यनिर्योगे प्रमाणं हरिसत्तमः।राघवस्त्वत्समारम्भान्मयि यत्नपरो भवेत्॥६३॥
त्वम् अस्मिन् कार्य-निर्योगे प्रमाणम् हरि-सत्तमः।राघवः त्वद्-समारम्भात् मयि यत्न-परः भवेत्॥६३॥
tvam asmin kārya-niryoge pramāṇam hari-sattamaḥ.rāghavaḥ tvad-samārambhāt mayi yatna-paraḥ bhavet..63..
इदं ब्रूयाश्च मे नाथं शूरं रामं पुनः पुनः । जीवितं धारयिष्यामि मासं दशरथात्मज ॥६४॥
इदम् ब्रूयाः च मे नाथम् शूरम् रामम् पुनर् पुनर् । जीवितम् धारयिष्यामि मासम् दशरथ-आत्मज ॥६४॥
idam brūyāḥ ca me nātham śūram rāmam punar punar . jīvitam dhārayiṣyāmi māsam daśaratha-ātmaja ..64..
ऊर्ध्वं मासान्न जीवेयं सत्येनाहं ब्रवीमि ते । रावणेनोपरुद्धां मां निकृत्या पापकर्मणा । त्रातुमर्हसि वीर त्वं पातालादिव कौशिकीम् ॥६५॥
ऊर्ध्वम् मासात् न जीवेयम् सत्येन अहम् ब्रवीमि ते । रावणेन उपरुद्धाम् माम् निकृत्या पाप-कर्मणा । त्रातुम् अर्हसि वीर त्वम् पातालात् इव कौशिकीम् ॥६५॥
ūrdhvam māsāt na jīveyam satyena aham bravīmi te . rāvaṇena uparuddhām mām nikṛtyā pāpa-karmaṇā . trātum arhasi vīra tvam pātālāt iva kauśikīm ..65..
ततो वस्त्रगतं मुक्त्वा दिव्यं चूडामणिं शुभम् । प्रदेयो राघवायेति सीता हनुमते ददौ ॥६६॥
ततस् वस्त्र-गतम् मुक्त्वा दिव्यम् चूडामणिम् शुभम् । प्रदेयः राघवाय इति सीता हनुमते ददौ ॥६६॥
tatas vastra-gatam muktvā divyam cūḍāmaṇim śubham . pradeyaḥ rāghavāya iti sītā hanumate dadau ..66..
प्रतिगृह्य ततो वीरो मणिरत्नमनुत्तमम् । अङ्गुल्या योजयामास न ह्यस्या प्राभवद्भुजः ॥६७॥
प्रतिगृह्य ततस् वीरः मणि-रत्नम् अनुत्तमम् । अङ्गुल्या योजयामास न हि अस्या प्राभवत् भुजः ॥६७॥
pratigṛhya tatas vīraḥ maṇi-ratnam anuttamam . aṅgulyā yojayāmāsa na hi asyā prābhavat bhujaḥ ..67..
मणिरत्नं कपिवरः प्रतिगृह्याभिवाद्य च । सीतां प्रदक्षिणं कृत्वा प्रणतः पार्श्वतः स्थितः ॥६८॥
मणि-रत्नम् कपि-वरः प्रतिगृह्य अभिवाद्य च । सीताम् प्रदक्षिणम् कृत्वा प्रणतः पार्श्वतस् स्थितः ॥६८॥
maṇi-ratnam kapi-varaḥ pratigṛhya abhivādya ca . sītām pradakṣiṇam kṛtvā praṇataḥ pārśvatas sthitaḥ ..68..
हर्षेण महता युक्तः सीतादर्शनजेन सः । हृदयेन गतो रामं शरीरेण तु विष्ठितः ॥६९॥
हर्षेण महता युक्तः सीता-दर्शन-जेन सः । हृदयेन गतः रामम् शरीरेण तु विष्ठितः ॥६९॥
harṣeṇa mahatā yuktaḥ sītā-darśana-jena saḥ . hṛdayena gataḥ rāmam śarīreṇa tu viṣṭhitaḥ ..69..
मणिवरमुपगृह्य तं महार्हं जनकनृपात्मजया धृतं प्रभावात्।गिरिरिव पवनावधूतमुक्तः सुखितमनाः प्रतिसङ्क्रमं प्रपेदे॥७०॥
मणि-वरम् उपगृह्य तम् महार्हम् जनक-नृप-आत्मजया धृतम् प्रभावात्।गिरिः इव पवन-अवधूत-मुक्तः सुखित-मनाः प्रतिसङ्क्रमम् प्रपेदे॥७०॥
maṇi-varam upagṛhya tam mahārham janaka-nṛpa-ātmajayā dhṛtam prabhāvāt.giriḥ iva pavana-avadhūta-muktaḥ sukhita-manāḥ pratisaṅkramam prapede..70..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In