This overlay will guide you through the buttons:

| |
|
मणिं दत्त्वा ततः सीता हनूमन्तमथाब्रवीत् । अभिज्ञानमभिज्ञातमेतद्रामस्य तत्त्वतः ॥१॥
मणिम् दत्त्वा ततस् सीता हनूमन्तम् अथ अब्रवीत् । अभिज्ञानम् अभिज्ञातम् एतत् रामस्य तत्त्वतः ॥१॥
maṇim dattvā tatas sītā hanūmantam atha abravīt . abhijñānam abhijñātam etat rāmasya tattvataḥ ..1..
मणिं तु दृष्ट्वा रामो वै त्रयाणां संस्मरिष्यति । वीरो जनन्या मम च राज्ञो दशरथस्य च ॥२॥
मणिम् तु दृष्ट्वा रामः वै त्रयाणाम् संस्मरिष्यति । वीरः जनन्याः मम च राज्ञः दशरथस्य च ॥२॥
maṇim tu dṛṣṭvā rāmaḥ vai trayāṇām saṃsmariṣyati . vīraḥ jananyāḥ mama ca rājñaḥ daśarathasya ca ..2..
स भूयस्त्वं समुत्साहे चोदितो हरिसत्तम । अस्मिन्कार्यसमारम्भे प्रचिन्तय यदुत्तरम् ॥३॥
स भूयस् त्वम् समुत्साहे चोदितः हरि-सत्तम । अस्मिन् कार्य-समारम्भे प्रचिन्तय यत् उत्तरम् ॥३॥
sa bhūyas tvam samutsāhe coditaḥ hari-sattama . asmin kārya-samārambhe pracintaya yat uttaram ..3..
त्वमस्मिन्कार्यनिर्योगे प्रमाणं हरिसत्तम । तस्य चिन्तय यो यत्नो दुःखक्षयकरो भवेत् ॥४॥
त्वम् अस्मिन् कार्य-निर्योगे प्रमाणम् हरि-सत्तम । तस्य चिन्तय यः यत्नः दुःख-क्षय-करः भवेत् ॥४॥
tvam asmin kārya-niryoge pramāṇam hari-sattama . tasya cintaya yaḥ yatnaḥ duḥkha-kṣaya-karaḥ bhavet ..4..
हनुमन्यत्नमास्थाय दुःखक्षयकरो भव । स तथेति प्रतिज्ञाय मारुतिर्भीमविक्रमः । शिरसावन्द्य वैदेहीं गमनायोपचक्रमे ॥५॥
हनुमन् यत्नम् आस्थाय दुःख-क्षय-करः भव । स तथा इति प्रतिज्ञाय मारुतिः भीम-विक्रमः । शिरसा आवन्द्य वैदेहीम् गमनाय उपचक्रमे ॥५॥
hanuman yatnam āsthāya duḥkha-kṣaya-karaḥ bhava . sa tathā iti pratijñāya mārutiḥ bhīma-vikramaḥ . śirasā āvandya vaidehīm gamanāya upacakrame ..5..
ज्ञात्वा सम्प्रस्थितं देवी वानरं मारुतात्मजम् ॥।६॥
ज्ञात्वा सम्प्रस्थितम् देवी वानरम् मारुतात्मजम् ॥।६॥
jñātvā samprasthitam devī vānaram mārutātmajam ...6..
बाष्पगद्गदया वाचा मैथिली वाक्यमब्रवीत् ।हनुमन् कुशलं ब्रूयाः सहितौ रामलक्ष्मणौ ॥७॥
बाष्प-गद्गदया वाचा मैथिली वाक्यम् अब्रवीत् ।हनुमन् कुशलम् ब्रूयाः सहितौ राम-लक्ष्मणौ ॥७॥
bāṣpa-gadgadayā vācā maithilī vākyam abravīt .hanuman kuśalam brūyāḥ sahitau rāma-lakṣmaṇau ..7..
सुग्रीवं च सहामात्यं वृद्धान्सर्वांश्च वानरान् ।ब्रूयास्त्वं वानरश्रेष्ठ कुशलं धर्मसंहितम्॥८॥
सुग्रीवम् च सह अमात्यम् वृद्धान् सर्वान् च वानरान् ।ब्रूयाः त्वम् वानर-श्रेष्ठ कुशलम् धर्म-संहितम्॥८॥
sugrīvam ca saha amātyam vṛddhān sarvān ca vānarān .brūyāḥ tvam vānara-śreṣṭha kuśalam dharma-saṃhitam..8..
यथा च स महाबाहुर्मां तारयति राघवः । अस्माद्दुःखाम्बुसंरोधात्त्वं समाधातुमर्हसि ॥९॥
यथा च स महा-बाहुः माम् तारयति राघवः । अस्मात् दुःख-अम्बु-संरोधात् त्वम् समाधातुम् अर्हसि ॥९॥
yathā ca sa mahā-bāhuḥ mām tārayati rāghavaḥ . asmāt duḥkha-ambu-saṃrodhāt tvam samādhātum arhasi ..9..
जीवन्तीं मां यथा रामः सम्भावयति कीर्तिमान् । तत्त्वया हनुमन्वाच्यं वाचा धर्ममवाप्नुहि ॥१०॥
जीवन्तीम् माम् यथा रामः सम्भावयति कीर्तिमान् । तत् त्वया हनुमन् वाच्यम् वाचा धर्मम् अवाप्नुहि ॥१०॥
jīvantīm mām yathā rāmaḥ sambhāvayati kīrtimān . tat tvayā hanuman vācyam vācā dharmam avāpnuhi ..10..
नित्यमुत्साहयुक्ताश्च वाचः श्रुत्वा मयेरिताः । वर्धिष्यते दाशरथेः पौरुषं मदवाप्तये ॥११॥
नित्यम् उत्साह-युक्ताः च वाचः श्रुत्वा मया ईरिताः । वर्धिष्यते दाशरथेः पौरुषम् मद्-अवाप्तये ॥११॥
nityam utsāha-yuktāḥ ca vācaḥ śrutvā mayā īritāḥ . vardhiṣyate dāśaratheḥ pauruṣam mad-avāptaye ..11..
मत्सन्देशयुता वाचस्त्वत्तः श्रुत्वैव राघवः । पराक्रमविधिं वीरो विधिवत्संविधास्यति ॥१२॥
मद्-सन्देश-युताः वाचः त्वत्तः श्रुत्वा एव राघवः । पराक्रम-विधिम् वीरः विधिवत् संविधास्यति ॥१२॥
mad-sandeśa-yutāḥ vācaḥ tvattaḥ śrutvā eva rāghavaḥ . parākrama-vidhim vīraḥ vidhivat saṃvidhāsyati ..12..
सीतायास्तद्वचः श्रुत्वा हनुमान्मारुतात्मजः । शिरस्यञ्जलिमाधाय वाक्यमुत्तरमब्रवीत् ॥१३॥
सीतायाः तत् वचः श्रुत्वा हनुमान् मारुतात्मजः । शिरसि अञ्जलिम् आधाय वाक्यम् उत्तरम् अब्रवीत् ॥१३॥
sītāyāḥ tat vacaḥ śrutvā hanumān mārutātmajaḥ . śirasi añjalim ādhāya vākyam uttaram abravīt ..13..
क्षिप्रमेष्यति काकुत्स्थो हर्यृक्षप्रवरैर्वृतः । यस्ते युधि विजित्यारीञ्शोकं व्यपनयिष्यति ॥१४॥
क्षिप्रम् एष्यति काकुत्स्थः हरि-ऋक्ष-प्रवरैः वृतः । यः ते युधि विजित्य अरीन् शोकम् व्यपनयिष्यति ॥१४॥
kṣipram eṣyati kākutsthaḥ hari-ṛkṣa-pravaraiḥ vṛtaḥ . yaḥ te yudhi vijitya arīn śokam vyapanayiṣyati ..14..
न हि पश्यामि मर्त्येषु नामरेष्वसुरेषु वा । यस्तस्य वमतो बाणान्स्थातुमुत्सहतेऽग्रतः ॥१५॥
न हि पश्यामि मर्त्येषु न अमरेषु असुरेषु वा । यः तस्य वमतः बाणान् स्थातुम् उत्सहते अग्रतस् ॥१५॥
na hi paśyāmi martyeṣu na amareṣu asureṣu vā . yaḥ tasya vamataḥ bāṇān sthātum utsahate agratas ..15..
अप्यर्कमपि पर्जन्यमपि वैवस्वतं यमम् । स हि सोढुं रणे शक्तस्तवहेतोर्विशेषतः ॥१६॥
अपि अर्कम् अपि पर्जन्यम् अपि वैवस्वतम् यमम् । स हि सोढुम् रणे शक्तः तव हेतोः विशेषतः ॥१६॥
api arkam api parjanyam api vaivasvatam yamam . sa hi soḍhum raṇe śaktaḥ tava hetoḥ viśeṣataḥ ..16..
स हि सागरपर्यन्तां महीं शासितुमीहते । त्वन्निमित्तो हि रामस्य जयो जनकनन्दिनि ॥१७॥
स हि सागर-पर्यन्ताम् महीम् शासितुम् ईहते । त्वद्-निमित्तः हि रामस्य जयः जनकनन्दिनि ॥१७॥
sa hi sāgara-paryantām mahīm śāsitum īhate . tvad-nimittaḥ hi rāmasya jayaḥ janakanandini ..17..
तस्य तद्वचनं श्रुत्वा सम्यक्सत्यं सुभाषितम् । जानकी बहु मेनेऽथ वचनं चेदमब्रवीत् ॥१८॥
तस्य तत् वचनम् श्रुत्वा सम्यक् सत्यम् सुभाषितम् । जानकी बहु मेने अथ वचनम् च इदम् अब्रवीत् ॥१८॥
tasya tat vacanam śrutvā samyak satyam subhāṣitam . jānakī bahu mene atha vacanam ca idam abravīt ..18..
ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः । भर्तुः स्नेहान्वितं वाक्यं सौहार्दादनुमानयत् ॥१९॥
ततस् तम् प्रस्थितम् सीता वीक्षमाणा पुनर् पुनर् । भर्तुः स्नेह-अन्वितम् वाक्यम् सौहार्दात् अनुमानयत् ॥१९॥
tatas tam prasthitam sītā vīkṣamāṇā punar punar . bhartuḥ sneha-anvitam vākyam sauhārdāt anumānayat ..19..
यदि वा मन्यसे वीर वसैकाहमरिन्दम । कस्मिंश्चित्संवृते देशे विश्रान्तः श्वो गमिष्यसि ॥२०॥
यदि वा मन्यसे वीर वस एकाहम् अरिन्दम । कस्मिंश्चिद् संवृते देशे विश्रान्तः श्वस् गमिष्यसि ॥२०॥
yadi vā manyase vīra vasa ekāham arindama . kasmiṃścid saṃvṛte deśe viśrāntaḥ śvas gamiṣyasi ..20..
मम चेदल्पभाग्यायाः साम्निध्यात्तव वीर्यवान् । अस्य शोकस्य महतो मुहूर्तं मोक्षणं भवेत् ॥२१॥
मम चेद् अल्पभाग्यायाः साम्निध्यात् तव वीर्यवान् । अस्य शोकस्य महतः मुहूर्तम् मोक्षणम् भवेत् ॥२१॥
mama ced alpabhāgyāyāḥ sāmnidhyāt tava vīryavān . asya śokasya mahataḥ muhūrtam mokṣaṇam bhavet ..21..
ततो हि हरिशार्दूल पुनरागमनाय तु । प्राणानामपि सन्देहो मम स्यान्नात्र संशयः ॥२२॥
ततस् हि हरि-शार्दूल पुनरागमनाय तु । प्राणानाम् अपि सन्देहः मम स्यात् न अत्र संशयः ॥२२॥
tatas hi hari-śārdūla punarāgamanāya tu . prāṇānām api sandehaḥ mama syāt na atra saṃśayaḥ ..22..
तवादर्शनजः शोको भूयो मां परितापयेत् । दुःखाद्दुःखपरामृष्टां दीपयन्निव वानर ॥२३॥
तव अदर्शन-जः शोकः भूयस् माम् परितापयेत् । दुःखात् दुःख-परामृष्टाम् दीपयन् इव वानर ॥२३॥
tava adarśana-jaḥ śokaḥ bhūyas mām paritāpayet . duḥkhāt duḥkha-parāmṛṣṭām dīpayan iva vānara ..23..
अयं च वीर सन्देहस्तिष्ठतीव ममाग्रतः । सुमहांस्त्वत्सहायेषु हर्यृक्षेषु हरीश्वर ॥२४॥
अयम् च वीर सन्देहः तिष्ठति इव मम अग्रतस् । सु महान् त्वद्-सहायेषु हरि-ऋक्षेषु हरि-ईश्वर ॥२४॥
ayam ca vīra sandehaḥ tiṣṭhati iva mama agratas . su mahān tvad-sahāyeṣu hari-ṛkṣeṣu hari-īśvara ..24..
कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम् । तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ ॥२५॥
कथम् नु खलु दुष्पारम् तरिष्यन्ति महा-उदधिम् । तानि हरि-ऋक्ष-सैन्यानि तौ वा नर-वर-आत्मजौ ॥२५॥
katham nu khalu duṣpāram tariṣyanti mahā-udadhim . tāni hari-ṛkṣa-sainyāni tau vā nara-vara-ātmajau ..25..
त्रयाणामेव भूतानां सागरस्येह लङ्घने । शक्तिः स्याद्वैनतेयस्य तव वा मारुतस्य वा ॥२६॥
त्रयाणाम् एव भूतानाम् सागरस्य इह लङ्घने । शक्तिः स्यात् वैनतेयस्य तव वा मारुतस्य वा ॥२६॥
trayāṇām eva bhūtānām sāgarasya iha laṅghane . śaktiḥ syāt vainateyasya tava vā mārutasya vā ..26..
तदस्मिन्कार्यनिर्योगे वीरैवं दुरतिक्रमे । किं पश्यसि समाधानं त्वं हि कार्यविदां वरः ॥२७॥
तत् अस्मिन् कार्य-निर्योगे वीर एवम् दुरतिक्रमे । किम् पश्यसि समाधानम् त्वम् हि कार्य-विदाम् वरः ॥२७॥
tat asmin kārya-niryoge vīra evam duratikrame . kim paśyasi samādhānam tvam hi kārya-vidām varaḥ ..27..
काममस्य त्वमेवैकः कार्यस्य परिसाधने । पर्याप्तः परवीरघ्न यशस्यस्ते बलोदयः ॥२८॥
कामम् अस्य त्वम् एव एकः कार्यस्य परिसाधने । पर्याप्तः पर-वीर-घ्न यशस्यः ते बल-उदयः ॥२८॥
kāmam asya tvam eva ekaḥ kāryasya parisādhane . paryāptaḥ para-vīra-ghna yaśasyaḥ te bala-udayaḥ ..28..
बलैः समग्रैर्यदि मां रावणं जित्य संयुगे । विजयी स्वपुरं यायात्तत्तु मे स्याद्यशस्करम् ॥२९॥
बलैः समग्रैः यदि माम् रावणम् जित्य संयुगे । विजयी स्व-पुरम् यायात् तत् तु मे स्यात् यशस्करम् ॥२९॥
balaiḥ samagraiḥ yadi mām rāvaṇam jitya saṃyuge . vijayī sva-puram yāyāt tat tu me syāt yaśaskaram ..29..
बलैस्तु सङ्कुलां कृत्वा लङ्कां परबलार्दनः । मां नयेद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत् ॥३०॥
बलैः तु सङ्कुलाम् कृत्वा लङ्काम् पर-बल-अर्दनः । माम् नयेत् यदि काकुत्स्थः तत् तस्य सदृशम् भवेत् ॥३०॥
balaiḥ tu saṅkulām kṛtvā laṅkām para-bala-ardanaḥ . mām nayet yadi kākutsthaḥ tat tasya sadṛśam bhavet ..30..
तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः । भवेदाहव शूरस्य तथा त्वमुपपादय ॥३१॥
तत् यथा तस्य विक्रान्तम् अनुरूपम् महात्मनः । भवेत् आहव शूरस्य तथा त्वम् उपपादय ॥३१॥
tat yathā tasya vikrāntam anurūpam mahātmanaḥ . bhavet āhava śūrasya tathā tvam upapādaya ..31..
तदर्थोपहितं वाक्यं सहितं हेतुसंहितम् । निशम्य हनुमाञ्शेषं वाक्यमुत्तरमब्रवीत् ॥३२॥
तद्-अर्थ-उपहितम् वाक्यम् सहितम् हेतु-संहितम् । निशम्य हनुमान् शेषम् वाक्यम् उत्तरम् अब्रवीत् ॥३२॥
tad-artha-upahitam vākyam sahitam hetu-saṃhitam . niśamya hanumān śeṣam vākyam uttaram abravīt ..32..
देवि हर्यृक्षसैन्यानामीश्वरः प्लवतां वरः । सुग्रीवः सत्त्वसम्पन्नस्तवार्थे कृतनिश्चयः ॥३३॥
देवि हरि-ऋक्ष-सैन्यानाम् ईश्वरः प्लवताम् वरः । सुग्रीवः सत्त्व-सम्पन्नः तव अर्थे कृत-निश्चयः ॥३३॥
devi hari-ṛkṣa-sainyānām īśvaraḥ plavatām varaḥ . sugrīvaḥ sattva-sampannaḥ tava arthe kṛta-niścayaḥ ..33..
स वानरसहस्राणां कोटीभिरभिसंवृतः । क्षिप्रमेष्यति वैदेहि राक्षसानां निबर्हणः ॥३४॥
स वानर-सहस्राणाम् कोटीभिः अभिसंवृतः । क्षिप्रम् एष्यति वैदेहि राक्षसानाम् निबर्हणः ॥३४॥
sa vānara-sahasrāṇām koṭībhiḥ abhisaṃvṛtaḥ . kṣipram eṣyati vaidehi rākṣasānām nibarhaṇaḥ ..34..
तस्य विक्रमसम्पन्नाः सत्त्ववन्तो महाबलाः । मनःसङ्कल्पसम्पाता निदेशे हरयः स्थिताः ॥३५॥
तस्य विक्रम-सम्पन्नाः सत्त्ववन्तः महा-बलाः । मनः-सङ्कल्प-सम्पाताः निदेशे हरयः स्थिताः ॥३५॥
tasya vikrama-sampannāḥ sattvavantaḥ mahā-balāḥ . manaḥ-saṅkalpa-sampātāḥ nideśe harayaḥ sthitāḥ ..35..
येषां नोपरि नाधस्तान्न तिर्यक्सज्जते गतिः । न च कर्मसु सीदन्ति महत्स्वमिततेजसः ॥३६॥
येषाम् ना उपरि ना अधस्तात् न तिर्यक् सज्जते गतिः । न च कर्मसु सीदन्ति महत्सु अमित-तेजसः ॥३६॥
yeṣām nā upari nā adhastāt na tiryak sajjate gatiḥ . na ca karmasu sīdanti mahatsu amita-tejasaḥ ..36..
असकृत्तैर्महोत्सहैः ससागरधराधरा । प्रदक्षिणीकृता भूमिर्वायुमार्गानुसारिभिः ॥३७॥
असकृत् तैः महा-उत्सहैः स सागर-धराधरा । प्रदक्षिणीकृता भूमिः वायु-मार्ग-अनुसारिभिः ॥३७॥
asakṛt taiḥ mahā-utsahaiḥ sa sāgara-dharādharā . pradakṣiṇīkṛtā bhūmiḥ vāyu-mārga-anusāribhiḥ ..37..
मद्विशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसः । मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसंनिधौ ॥३८॥
मद्-विशिष्टाः च तुल्याः च सन्ति तत्र वनौकसः । मत्तः प्रत्यवरः कश्चिद् ना अस्ति सुग्रीव-संनिधौ ॥३८॥
mad-viśiṣṭāḥ ca tulyāḥ ca santi tatra vanaukasaḥ . mattaḥ pratyavaraḥ kaścid nā asti sugrīva-saṃnidhau ..38..
अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः । न हि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः ॥३९॥
अहम् तावत् इह प्राप्तः किम् पुनर् ते महा-बलाः । न हि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हि इतरे जनाः ॥३९॥
aham tāvat iha prāptaḥ kim punar te mahā-balāḥ . na hi prakṛṣṭāḥ preṣyante preṣyante hi itare janāḥ ..39..
तदलं परितापेन देवि शोको व्यपैतु ते । एकोत्पातेन ते लङ्कामेष्यन्ति हरियूथपाः ॥४०॥
तत् अलम् परितापेन देवि शोकः व्यपैतु ते । एक-उत्पातेन ते लङ्काम् एष्यन्ति हरि-यूथपाः ॥४०॥
tat alam paritāpena devi śokaḥ vyapaitu te . eka-utpātena te laṅkām eṣyanti hari-yūthapāḥ ..40..
मम पृष्ठगतौ तौ च चन्द्रसूर्याविवोदितौ । त्वत्सकाशं महासत्त्वौ नृसिंहावागमिष्यतः ॥४१॥
मम पृष्ठ-गतौ तौ च चन्द्र-सूर्यौ इव उदितौ । त्वद्-सकाशम् महासत्त्वौ नृ-सिंहौ आगमिष्यतः ॥४१॥
mama pṛṣṭha-gatau tau ca candra-sūryau iva uditau . tvad-sakāśam mahāsattvau nṛ-siṃhau āgamiṣyataḥ ..41..
तौ हि वीरौ नरवरौ सहितौ रामलक्ष्मणौ । आगम्य नगरीं लङ्कां सायकैर्विधमिष्यतः ॥४२॥
तौ हि वीरौ नर-वरौ सहितौ राम-लक्ष्मणौ । आगम्य नगरीम् लङ्काम् सायकैः विधमिष्यतः ॥४२॥
tau hi vīrau nara-varau sahitau rāma-lakṣmaṇau . āgamya nagarīm laṅkām sāyakaiḥ vidhamiṣyataḥ ..42..
सगणं रावणं हत्वा राघवो रघुनन्दनः । त्वामादाय वरारोहे स्वपुरं प्रतियास्यति ॥४३॥
स गणम् रावणम् हत्वा राघवः रघुनन्दनः । त्वाम् आदाय वरारोहे स्व-पुरम् प्रतियास्यति ॥४३॥
sa gaṇam rāvaṇam hatvā rāghavaḥ raghunandanaḥ . tvām ādāya varārohe sva-puram pratiyāsyati ..43..
तदाश्वसिहि भद्रं ते भव त्वं कालकाङ्क्षिणी । नचिराद्द्रक्ष्यसे रामं प्रज्वजन्तमिवानिलम् ॥४४॥
तदा आश्वसिहि भद्रम् ते भव त्वम् काल-काङ्क्षिणी । नचिरात् द्रक्ष्यसे रामम् प्रज्वजन्तम् इव अनिलम् ॥४४॥
tadā āśvasihi bhadram te bhava tvam kāla-kāṅkṣiṇī . nacirāt drakṣyase rāmam prajvajantam iva anilam ..44..
निहते राक्षसेन्द्रे च सपुत्रामात्यबान्धवे । त्वं समेष्यसि रामेण शशाङ्केनेव रोहिणी ॥४५॥
निहते राक्षस-इन्द्रे च स पुत्र-अमात्य-बान्धवे । त्वम् समेष्यसि रामेण शशाङ्केन इव रोहिणी ॥४५॥
nihate rākṣasa-indre ca sa putra-amātya-bāndhave . tvam sameṣyasi rāmeṇa śaśāṅkena iva rohiṇī ..45..
क्षिप्रं त्वं देवि शोकस्य पारं यास्यसि मैथिलि । रावणं चैव रामेण निहतं द्रक्ष्यसेऽचिरात् ॥४६॥
क्षिप्रम् त्वम् देवि शोकस्य पारम् यास्यसि मैथिलि । रावणम् च एव रामेण निहतम् द्रक्ष्यसे अचिरात् ॥४६॥
kṣipram tvam devi śokasya pāram yāsyasi maithili . rāvaṇam ca eva rāmeṇa nihatam drakṣyase acirāt ..46..
एवमाश्वस्य वैदेहीं हनूमान्मारुतात्मजः । गमनाय मतिं कृत्वा वैदेहीं पुनरब्रवीत् ॥४७॥
एवम् आश्वस्य वैदेहीम् हनूमान् मारुतात्मजः । गमनाय मतिम् कृत्वा वैदेहीम् पुनर् अब्रवीत् ॥४७॥
evam āśvasya vaidehīm hanūmān mārutātmajaḥ . gamanāya matim kṛtvā vaidehīm punar abravīt ..47..
तमरिघ्नं कृतात्मानं क्षिप्रं द्रक्ष्यसि राघवम् । लक्ष्मणं च धनुष्पाणिं लङ्काद्वारमुपस्थितम् ॥४८॥
तम् अरि-घ्नम् कृतात्मानम् क्षिप्रम् द्रक्ष्यसि राघवम् । लक्ष्मणम् च धनुष्पाणिम् लङ्का-द्वारम् उपस्थितम् ॥४८॥
tam ari-ghnam kṛtātmānam kṣipram drakṣyasi rāghavam . lakṣmaṇam ca dhanuṣpāṇim laṅkā-dvāram upasthitam ..48..
नखदंष्ट्रायुधान्वीरान्सिंहशार्दूलविक्रमान् । वानरान्वारणेन्द्राभान्क्षिप्रं द्रक्ष्यसि सङ्गतान् ॥४९॥
नख-दंष्ट्र-आयुधान् वीरान् सिंह-शार्दूल-विक्रमान् । वानरान् वारण-इन्द्र-आभान् क्षिप्रम् द्रक्ष्यसि सङ्गतान् ॥४९॥
nakha-daṃṣṭra-āyudhān vīrān siṃha-śārdūla-vikramān . vānarān vāraṇa-indra-ābhān kṣipram drakṣyasi saṅgatān ..49..
शैलाम्बुदनिकाशानां लङ्कामलयसानुषु । नर्दतां कपिमुख्यानामार्ये यूथान्यनेकशः ॥५०॥
शैल-अम्बुद-निकाशानाम् लङ्का-मलय-सानुषु । नर्दताम् कपि-मुख्यानाम् आर्ये यूथानि अनेकशस् ॥५०॥
śaila-ambuda-nikāśānām laṅkā-malaya-sānuṣu . nardatām kapi-mukhyānām ārye yūthāni anekaśas ..50..
स तु मर्मणि घोरेण ताडितो मन्मथेषुणा । न शर्म लभते रामः सिंहार्दित इव द्विपः ॥५१॥
स तु मर्मणि घोरेण ताडितः मन्मथ-इषुणा । न शर्म लभते रामः सिंह-अर्दितः इव द्विपः ॥५१॥
sa tu marmaṇi ghoreṇa tāḍitaḥ manmatha-iṣuṇā . na śarma labhate rāmaḥ siṃha-arditaḥ iva dvipaḥ ..51..
रुद मा देवि शोकेन मा भूत्ते मनसोऽप्रियम् । शचीव पथ्या शक्रेण भर्त्रा नाथवती ह्यसि ॥५२॥
रुद मा देवि शोकेन मा भूत् ते मनसः अप्रियम् । शची इव पथ्या शक्रेण भर्त्रा नाथवती हि असि ॥५२॥
ruda mā devi śokena mā bhūt te manasaḥ apriyam . śacī iva pathyā śakreṇa bhartrā nāthavatī hi asi ..52..
रामाद्विशिष्टः कोऽन्योऽस्ति कश्चित्सौमित्रिणा समः । अग्निमारुतकल्पौ तौ भ्रातरौ तव संश्रयौ ॥५३॥
रामात् विशिष्टः कः अन्यः अस्ति कश्चिद् सौमित्रिणा समः । अग्नि-मारुत-कल्पौ तौ भ्रातरौ तव संश्रयौ ॥५३॥
rāmāt viśiṣṭaḥ kaḥ anyaḥ asti kaścid saumitriṇā samaḥ . agni-māruta-kalpau tau bhrātarau tava saṃśrayau ..53..
नास्मिंश्चिरं वत्स्यसि देवि देशे रक्षोगणैरध्युषितोऽतिरौद्रे । न ते चिरादागमनं प्रियस्य क्षमस्व मत्सङ्गमकालमात्रम् ॥५४॥
न अस्मिन् चिरम् वत्स्यसि देवि देशे रक्षः-गणैः अध्युषितः अति रौद्रे । न ते चिरात् आगमनम् प्रियस्य क्षमस्व मद्-सङ्गम् अकाल-मात्रम् ॥५४॥
na asmin ciram vatsyasi devi deśe rakṣaḥ-gaṇaiḥ adhyuṣitaḥ ati raudre . na te cirāt āgamanam priyasya kṣamasva mad-saṅgam akāla-mātram ..54..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In