This overlay will guide you through the buttons:

| |
|
स निर्जित्य पुरीं श्रेष्ठां लङ्कां तां कामरूपिणीम् । विक्रमेण महातेजा हनुमान् कपिसत्तमः ॥१॥
स निर्जित्य पुरीम् श्रेष्ठाम् लङ्काम् ताम् कामरूपिणीम् । विक्रमेण महा-तेजाः हनुमान् कपि-सत्तमः ॥१॥
sa nirjitya purīm śreṣṭhām laṅkām tām kāmarūpiṇīm . vikrameṇa mahā-tejāḥ hanumān kapi-sattamaḥ ..1..
अद्वारेण च महाबाहुः प्राकारमभिपुप्लुवे ।निशि लड़्का महातेजा हनूमान कपिसत्तमः॥२॥
अद्वारेण च महा-बाहुः प्राकारम् अभिपुप्लुवे ।निशि लड़्का महा-तेजाः कपि-सत्तमः॥२॥
advāreṇa ca mahā-bāhuḥ prākāram abhipupluve .niśi lar̤kā mahā-tejāḥ kapi-sattamaḥ..2..
प्रविश्य नगरीं लङ्कां कपिराजहितंकरः ।चक्रेऽथ पादं सव्यं च शत्रूणां स तु मूर्धनि ॥३॥
प्रविश्य नगरीम् लङ्काम् कपि-राज-हितंकरः ।चक्रे अथ पादम् सव्यम् च शत्रूणाम् स तु मूर्धनि ॥३॥
praviśya nagarīm laṅkām kapi-rāja-hitaṃkaraḥ .cakre atha pādam savyam ca śatrūṇām sa tu mūrdhani ..3..
प्रविष्टः सत्त्वसम्पन्नो निशायां मारुतात्मजः ।स महापथमास्थाय मुक्तापुष्पविराजितम् ॥४॥
प्रविष्टः सत्त्व-सम्पन्नः निशायाम् मारुतात्मजः ।स महापथम् आस्थाय मुक्ता-पुष्प-विराजितम् ॥४॥
praviṣṭaḥ sattva-sampannaḥ niśāyām mārutātmajaḥ .sa mahāpatham āsthāya muktā-puṣpa-virājitam ..4..
ततस्तु तां पुरीं लङ्कां रम्यामभिययौ कपिः ।हसितोत्कृष्टनिनदैस्तूर्यघोषपुरस्सरैः ॥५॥
ततस् तु ताम् पुरीम् लङ्काम् रम्याम् अभिययौ कपिः ।हसित-उत्कृष्ट-निनदैः तूर्य-घोष-पुरस्सरैः ॥५॥
tatas tu tām purīm laṅkām ramyām abhiyayau kapiḥ .hasita-utkṛṣṭa-ninadaiḥ tūrya-ghoṣa-purassaraiḥ ..5..
वज्रांकुशनिकाशैश्च वज्रजालविभूषितैः ।गृहमेघैः पुरी रम्या बभासे द्यौरिवाम्बुदैः ॥६॥
वज्रांकुश-निकाशैः च वज्र-जाल-विभूषितैः ।गृह-मेघैः पुरी रम्या बभासे द्यौः इव अम्बुदैः ॥६॥
vajrāṃkuśa-nikāśaiḥ ca vajra-jāla-vibhūṣitaiḥ .gṛha-meghaiḥ purī ramyā babhāse dyauḥ iva ambudaiḥ ..6..
प्रजज्वाल ततो लङ्का रक्षोगणगृहैः शुभैः ।सिताभ्रसदृशैश्चित्रैः पद्मस्वस्तिकसंस्थितैः ॥७॥
प्रजज्वाल ततस् लङ्का रक्षः-गण-गृहैः शुभैः ।सित-अभ्र-सदृशैः चित्रैः पद्म-स्वस्तिक-संस्थितैः ॥७॥
prajajvāla tatas laṅkā rakṣaḥ-gaṇa-gṛhaiḥ śubhaiḥ .sita-abhra-sadṛśaiḥ citraiḥ padma-svastika-saṃsthitaiḥ ..7..
वर्धमानगृहैश्चापि सर्वतः सुविभूषिता ।तां चित्रमाल्याभरणां कपिराजहितङ्करः ॥८॥
वर्धमान-गृहैः च अपि सर्वतस् सु विभूषिता ।ताम् चित्र-माल्य-आभरणाम् कपि-राज-हितङ्करः ॥८॥
vardhamāna-gṛhaiḥ ca api sarvatas su vibhūṣitā .tām citra-mālya-ābharaṇām kapi-rāja-hitaṅkaraḥ ..8..
राघवार्थं चरन् श्रीमान् ददर्श च ननन्द च ।भवनाद्भवनं गच्छन् ददर्श पवनात्मजः ॥९॥
राघव-अर्थम् चरन् श्रीमान् ददर्श च ननन्द च ।भवनात् भवनम् गच्छन् ददर्श पवनात्मजः ॥९॥
rāghava-artham caran śrīmān dadarśa ca nananda ca .bhavanāt bhavanam gacchan dadarśa pavanātmajaḥ ..9..
विविधाकृतिरूपाणि भवनानि ततस्ततः ।शुश्राव मधुरं गीतं त्रिस्थानस्वरभूषितम् ॥१०॥
विविध-आकृति-रूपाणि भवनानि ततस् ततस् ।शुश्राव मधुरम् गीतम् त्रि-स्थान-स्वर-भूषितम् ॥१०॥
vividha-ākṛti-rūpāṇi bhavanāni tatas tatas .śuśrāva madhuram gītam tri-sthāna-svara-bhūṣitam ..10..
स्त्रीणां मदसमृद्धानां दिवि चाप्सरसामिव ।शुश्राव काञ्चीनिनदं नूपुराणां च, निःस्वनम् ॥११॥
स्त्रीणाम् मद-समृद्धानाम् दिवि च अप्सरसाम् इव ।शुश्राव काञ्ची-निनदम् नूपुराणाम् च, निःस्वनम् ॥११॥
strīṇām mada-samṛddhānām divi ca apsarasām iva .śuśrāva kāñcī-ninadam nūpurāṇām ca, niḥsvanam ..11..
सोपाननिनदांश्चैव भवनेषु महात्मनाम् ।अस्फोटितनिनादांश्च क्ष्वेलितांश्च ततस्ततः ॥१२॥
सोपान-निनदान् च एव भवनेषु महात्मनाम् ।अ स्फोटित-निनादान् च क्ष्वेलितान् च ततस् ततस् ॥१२॥
sopāna-ninadān ca eva bhavaneṣu mahātmanām .a sphoṭita-ninādān ca kṣvelitān ca tatas tatas ..12..
शुश्राव जपतां तत्र मन्त्रान् रक्षोगृहेषु वै ।स्वाध्यायनिरतांश्चैव यातुधानान् ददर्श सः ॥१३॥
शुश्राव जपताम् तत्र मन्त्रान् रक्षः-गृहेषु वै ।स्वाध्याय-निरतान् च एव यातुधानान् ददर्श सः ॥१३॥
śuśrāva japatām tatra mantrān rakṣaḥ-gṛheṣu vai .svādhyāya-niratān ca eva yātudhānān dadarśa saḥ ..13..
रावणस्तवसंयुक्तान् गर्जतो राक्षसानपि ।राजमार्गं समावृत्य स्थितं रक्षोबलं महत् ॥१४॥
रावण-स्तव-संयुक्तान् गर्जतः राक्षसान् अपि ।राजमार्गम् समावृत्य स्थितम् रक्षः-बलम् महत् ॥१४॥
rāvaṇa-stava-saṃyuktān garjataḥ rākṣasān api .rājamārgam samāvṛtya sthitam rakṣaḥ-balam mahat ..14..
ददर्श मध्यमे गुल्मे रावणस्य चरान् बहून् ।दीक्षितान् जटिलान् मुण्डान् गोजिनाम्बरवाससः ॥१५॥
ददर्श मध्यमे गुल्मे रावणस्य चरान् बहून् ।दीक्षितान् जटिलान् मुण्डान् गो-जिन-अम्बर-वाससः ॥१५॥
dadarśa madhyame gulme rāvaṇasya carān bahūn .dīkṣitān jaṭilān muṇḍān go-jina-ambara-vāsasaḥ ..15..
दर्भमुष्टिप्रहरणानग्निकुण्डायुघांस्तथा ।कूटमुद्गरपाणींश्च दण्डायुधधरानपि ॥१६॥
दर्भ-मुष्टि-प्रहरणान् अग्निकुण्ड-आयुघान् तथा ।कूटमुद्गर-पाणीन् च दण्ड-आयुध-धरान् अपि ॥१६॥
darbha-muṣṭi-praharaṇān agnikuṇḍa-āyughān tathā .kūṭamudgara-pāṇīn ca daṇḍa-āyudha-dharān api ..16..
एकाक्षानेककर्णांश्च लम्बोदरपयोधरान् ।करालान् भुग्नवक्त्रांश्च विकटान् वामनांस्तथा ॥१७॥
एक-अक्ष-अनेक-कर्णान् च लम्ब-उदर-पयोधरान् ।करालान् भुग्न-वक्त्रान् च विकटान् वामनान् तथा ॥१७॥
eka-akṣa-aneka-karṇān ca lamba-udara-payodharān .karālān bhugna-vaktrān ca vikaṭān vāmanān tathā ..17..
धन्विनः खङ्गिनश्चैव शतघ्नीमुसलायुधान् ।परिघोत्तमहस्तांश्च विचित्रकवचोज्ज्वलान् ॥१८॥
धन्विनः खङ्गिनः च एव शतघ्नी-मुसल-आयुधान् ।परिघ-उत्तम-हस्तान् च विचित्र-कवच-उज्ज्वलान् ॥१८॥
dhanvinaḥ khaṅginaḥ ca eva śataghnī-musala-āyudhān .parigha-uttama-hastān ca vicitra-kavaca-ujjvalān ..18..
नातिस्थूलान्नातिकृशान्नातिदीर्घातिह्रस्वकान् ।नातिगौरान्नातिकृष्णान्नातिकुब्जान्न वामनान् ॥१९॥
न अति स्थूलान् न अति कृशान् न अति दीर्घ-अति ह्रस्वकान् ।न अति गौरान् न अति कृष्णान् न अति कुब्जान् न वामनान् ॥१९॥
na ati sthūlān na ati kṛśān na ati dīrgha-ati hrasvakān .na ati gaurān na ati kṛṣṇān na ati kubjān na vāmanān ..19..
विरूपान् बहुरूपांश्च सुरूपांश्च सुवर्चसः ।ध्वजीन् पताकिनश्चैव ददर्श विविधायुधान् ॥२०॥
विरूपान् बहु-रूपान् च सुरूपान् च सुवर्चसः ।ध्वजीन् पताकिनः च एव ददर्श विविध-आयुधान् ॥२०॥
virūpān bahu-rūpān ca surūpān ca suvarcasaḥ .dhvajīn patākinaḥ ca eva dadarśa vividha-āyudhān ..20..
शक्तिवृक्षायुधांश्चैव पट्टिसाशनिधारिणः ।क्षेपणीपाशहस्तांश्च ददर्श स महाकपिः ॥२१॥
शक्ति-वृक्ष-आयुधान् च एव पट्टिस-अशनि-धारिणः ।क्षेपणी-पाश-हस्तान् च ददर्श स महा-कपिः ॥२१॥
śakti-vṛkṣa-āyudhān ca eva paṭṭisa-aśani-dhāriṇaḥ .kṣepaṇī-pāśa-hastān ca dadarśa sa mahā-kapiḥ ..21..
स्रग्विणस्त्वनुलिप्तांश्च वराभरणभूषितान् ।नानावेषसमायुक्तान् यथास्स्वैरगतान् बहून् ॥२२॥
स्रग्विणः तु अनुलिप्तान् च वर-आभरण-भूषितान् ।नाना वेष-समायुक्तान् बहून् ॥२२॥
sragviṇaḥ tu anuliptān ca vara-ābharaṇa-bhūṣitān .nānā veṣa-samāyuktān bahūn ..22..
तीक्ष्णशूलधरांश्चैव वज्रिणश्च महाबलान् ।शतसाहस्रमव्यग्रमारक्षं मध्यमं कपिः ॥२३॥
तीक्ष्ण-शूल-धरान् च एव वज्रिणः च महा-बलान् ।शत-साहस्रम् अव्यग्रम् आरक्षम् मध्यमम् कपिः ॥२३॥
tīkṣṇa-śūla-dharān ca eva vajriṇaḥ ca mahā-balān .śata-sāhasram avyagram ārakṣam madhyamam kapiḥ ..23..
रक्षोधिपतिनिर्दिष्टं ददर्शान्तःपुराग्रतः ।स तदा तद्गृहं दृष्ट्वा महाहाटकतोरणम् ॥२४॥
रक्षः-अधिपति-निर्दिष्टम् ददर्श अन्तःपुर-अग्रतस् ।स तदा तत् गृहम् दृष्ट्वा महा-हाटक-तोरणम् ॥२४॥
rakṣaḥ-adhipati-nirdiṣṭam dadarśa antaḥpura-agratas .sa tadā tat gṛham dṛṣṭvā mahā-hāṭaka-toraṇam ..24..
राक्षसेन्द्रस्य विख्यातमद्रिमूर्ध्नि प्रतिष्ठितम् ।पुण्डरीकावतंसाभिः परिखाभिरलङ्कृतम् ॥२५॥
राक्षस-इन्द्रस्य विख्यातम् अद्रि-मूर्ध्नि प्रतिष्ठितम् ।पुण्डरीक-अवतंसाभिः परिखाभिः अलङ्कृतम् ॥२५॥
rākṣasa-indrasya vikhyātam adri-mūrdhni pratiṣṭhitam .puṇḍarīka-avataṃsābhiḥ parikhābhiḥ alaṅkṛtam ..25..
प्राकारावृतमत्यन्तं ददर्श स महाकपिः ।त्रिविष्टपनिभं दिव्यं दिव्यनादनिनादितम् ॥२६॥
प्राकार-आवृतम् अत्यन्तम् ददर्श स महा-कपिः ।त्रिविष्टप-निभम् दिव्यम् दिव्य-नाद-निनादितम् ॥२६॥
prākāra-āvṛtam atyantam dadarśa sa mahā-kapiḥ .triviṣṭapa-nibham divyam divya-nāda-nināditam ..26..
वाजिहेषितसङ्घुष्टं नादितं भूषणैस्तथा ।रथैर्यानैर्विमानैश्च तथा हयगजैः शुभैः ॥२७॥
वाजि-हेषित-सङ्घुष्टम् नादितम् भूषणैः तथा ।रथैः यानैः विमानैः च तथा हय-गजैः शुभैः ॥२७॥
vāji-heṣita-saṅghuṣṭam nāditam bhūṣaṇaiḥ tathā .rathaiḥ yānaiḥ vimānaiḥ ca tathā haya-gajaiḥ śubhaiḥ ..27..
वारणैश्च चतुर्थन्तैः श्वेताभ्रनिचयोपमैः ।भूषितं रुचिरद्वारं मत्तैश्च मृगपक्षिभिः ॥२८॥
वारणैः च श्वेत-अभ्र-निचय-उपमैः ।भूषितम् रुचिर-द्वारम् मत्तैः च मृग-पक्षिभिः ॥२८॥
vāraṇaiḥ ca śveta-abhra-nicaya-upamaiḥ .bhūṣitam rucira-dvāram mattaiḥ ca mṛga-pakṣibhiḥ ..28..
रक्षितं सुमहावीर्यैर्यातुधानैः सहस्रशः । राक्षसाधिपतेर्गुप्तमाविवेश महाकपिः ॥२९॥
रक्षितम् सु महा-वीर्यैः यातुधानैः सहस्रशस् । राक्षस-अधिपतेः गुप्तम् आविवेश महा-कपिः ॥२९॥
rakṣitam su mahā-vīryaiḥ yātudhānaiḥ sahasraśas . rākṣasa-adhipateḥ guptam āviveśa mahā-kapiḥ ..29..
स हेमजाम्बूनदचक्रवालं महार्हमुक्तामणिभूषितान्तम् । परार्थ्यकालागुरुचन्दनाक्तं स रावणान्तःपुरमाविवेश ॥३०॥
स हेम-जाम्बूनद-चक्रवालम् महार्ह-मुक्तामणि-भूषित-अन्तम् । परार्थ्य-कालागुरु-चन्दन-अक्तम् स रावण-अन्तःपुरम् आविवेश ॥३०॥
sa hema-jāmbūnada-cakravālam mahārha-muktāmaṇi-bhūṣita-antam . parārthya-kālāguru-candana-aktam sa rāvaṇa-antaḥpuram āviveśa ..30..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In