This overlay will guide you through the buttons:

| |
|
श्रुत्वा तु वचनं तस्य वायुसूनोर्महात्मनः । उवाचात्महितं वाक्यं सीता सुरसुतोपमा ॥ १॥
श्रुत्वा तु वचनम् तस्य वायुसूनोः महात्मनः । उवाच आत्म-हितम् वाक्यम् सीता सुर-सुता-उपमा ॥ १॥
śrutvā tu vacanam tasya vāyusūnoḥ mahātmanaḥ . uvāca ātma-hitam vākyam sītā sura-sutā-upamā .. 1..
त्वां दृष्ट्वा प्रियवक्तारं सम्प्रहृष्यामि वानर । अर्धसञ्जातसस्येव वृष्टिं प्राप्य वसुन्धरा ॥ २॥
त्वाम् दृष्ट्वा प्रिय-वक्तारम् सम्प्रहृष्यामि वानर । अर्ध-सञ्जात-सस्या इव वृष्टिम् प्राप्य वसुन्धरा ॥ २॥
tvām dṛṣṭvā priya-vaktāram samprahṛṣyāmi vānara . ardha-sañjāta-sasyā iva vṛṣṭim prāpya vasundharā .. 2..
यथा तं पुरुषव्याघ्रं गात्रैः शोकाभिकर्शितैः । संस्पृशेयं सकामाहं तथा कुरु दयां मयि ॥ ३॥
यथा तम् पुरुष-व्याघ्रम् गात्रैः शोक-अभिकर्शितैः । संस्पृशेयम् स कामा अहम् तथा कुरु दयाम् मयि ॥ ३॥
yathā tam puruṣa-vyāghram gātraiḥ śoka-abhikarśitaiḥ . saṃspṛśeyam sa kāmā aham tathā kuru dayām mayi .. 3..
अभिज्ञानं च रामस्य दत्तं हरिगणोत्तम । क्षिप्तामीषिकां काकस्य कोपादेकाक्षिशातनीम् ॥ ४॥
अभिज्ञानम् च रामस्य दत्तम् हरि-गण-उत्तम । क्षिप्ताम् ईषिकाम् काकस्य कोपात् एक-अक्षि-शातनीम् ॥ ४॥
abhijñānam ca rāmasya dattam hari-gaṇa-uttama . kṣiptām īṣikām kākasya kopāt eka-akṣi-śātanīm .. 4..
मनःशिलायास्तिकलो गण्डपार्श्वे निवेशितः । त्वया प्रनष्टे तिलके तं किल स्मर्तुमर्हसि ॥ ५॥
मनःशिलायाः तिकलः गण्ड-पार्श्वे निवेशितः । त्वया प्रनष्टे तिलके तम् किल स्मर्तुम् अर्हसि ॥ ५॥
manaḥśilāyāḥ tikalaḥ gaṇḍa-pārśve niveśitaḥ . tvayā pranaṣṭe tilake tam kila smartum arhasi .. 5..
स वीर्यवान्कथं सीतां हृतां समनुमन्यसे । वसन्तीं रक्षसां मध्ये महेन्द्रवरुणोपम ॥ ६॥
स वीर्यवान् कथम् सीताम् हृताम् समनुमन्यसे । वसन्तीम् रक्षसाम् मध्ये महा-इन्द्र-वरुण-उपम ॥ ६॥
sa vīryavān katham sītām hṛtām samanumanyase . vasantīm rakṣasām madhye mahā-indra-varuṇa-upama .. 6..
एष चूडामणिर्दिव्यो मया सुपरिरक्षितः । एतं दृष्ट्वा प्रहृष्यामि व्यसने त्वामिवानघ ॥ ७॥
एष चूडामणिः दिव्यः मया सु परिरक्षितः । एतम् दृष्ट्वा प्रहृष्यामि व्यसने त्वाम् इव अनघ ॥ ७॥
eṣa cūḍāmaṇiḥ divyaḥ mayā su parirakṣitaḥ . etam dṛṣṭvā prahṛṣyāmi vyasane tvām iva anagha .. 7..
एष निर्यातितः श्रीमान्मया ते वारिसम्भवः । अतः परं न शक्ष्यामि जीवितुं शोकलालसा ॥ ८॥
एष निर्यातितः श्रीमान् मया ते वारि-सम्भवः । अतस् परम् न शक्ष्यामि जीवितुम् शोक-लालसा ॥ ८॥
eṣa niryātitaḥ śrīmān mayā te vāri-sambhavaḥ . atas param na śakṣyāmi jīvitum śoka-lālasā .. 8..
असह्यानि च दुःखानि वाचश्च हृदयच्छिदः । राक्षसीनां सुघोराणां त्वत्कृते मर्षयाम्यहम् ॥ ९॥
असह्यानि च दुःखानि वाचः च हृदय-छिदः । राक्षसीनाम् सु घोराणाम् त्वद्-कृते मर्षयामि अहम् ॥ ९॥
asahyāni ca duḥkhāni vācaḥ ca hṛdaya-chidaḥ . rākṣasīnām su ghorāṇām tvad-kṛte marṣayāmi aham .. 9..
धारयिष्यामि मासं तु जीवितं शत्रुसूदन । मासादूर्ध्वं न जीविष्ये त्वया हीना नृपात्मज ॥ १०॥
धारयिष्यामि मासम् तु जीवितम् शत्रु-सूदन । मासात् ऊर्ध्वम् न जीविष्ये त्वया हीना नृप-आत्मज ॥ १०॥
dhārayiṣyāmi māsam tu jīvitam śatru-sūdana . māsāt ūrdhvam na jīviṣye tvayā hīnā nṛpa-ātmaja .. 10..
घोरो राक्षसराजोऽयं दृष्टिश्च न सुखा मयि । त्वां च श्रुत्वा विपद्यन्तं न जीवेयमहं क्षणम् ॥ ११॥
घोरः राक्षस-राजः अयम् दृष्टिः च न सुखा मयि । त्वाम् च श्रुत्वा विपद्यन्तम् न जीवेयम् अहम् क्षणम् ॥ ११॥
ghoraḥ rākṣasa-rājaḥ ayam dṛṣṭiḥ ca na sukhā mayi . tvām ca śrutvā vipadyantam na jīveyam aham kṣaṇam .. 11..
वैदेह्या वचनं श्रुत्वा करुणं साश्रुभाषितम् । अथाब्रवीन्महातेजा हनुमान्मारुतात्मजः ॥ १२॥
वैदेह्याः वचनम् श्रुत्वा करुणम् स अश्रु-भाषितम् । अथा अब्रवीत् महा-तेजाः हनुमान् मारुतात्मजः ॥ १२॥
vaidehyāḥ vacanam śrutvā karuṇam sa aśru-bhāṣitam . athā abravīt mahā-tejāḥ hanumān mārutātmajaḥ .. 12..
त्वच्छोकविमुखो रामो देवि सत्येन ते शपे । रामे शोकाभिभूते तु लक्ष्मणः परितप्यते ॥ १३॥
त्वद्-शोक-विमुखः रामः देवि सत्येन ते शपे । रामे शोक-अभिभूते तु लक्ष्मणः परितप्यते ॥ १३॥
tvad-śoka-vimukhaḥ rāmaḥ devi satyena te śape . rāme śoka-abhibhūte tu lakṣmaṇaḥ paritapyate .. 13..
दृष्टा कथं चिद्भवती न कालः परिशोचितुम् । इमं मुहूर्तं दुःखानामन्तं द्रक्ष्यसि भामिनि ॥ १४॥
दृष्टा कथम् चित् भवती न कालः परिशोचितुम् । इमम् मुहूर्तम् दुःखानाम् अन्तम् द्रक्ष्यसि भामिनि ॥ १४॥
dṛṣṭā katham cit bhavatī na kālaḥ pariśocitum . imam muhūrtam duḥkhānām antam drakṣyasi bhāmini .. 14..
तावुभौ पुरुषव्याघ्रौ राजपुत्रावनिन्दितौ । त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः ॥ १५॥
तौ उभौ पुरुष-व्याघ्रौ राज-पुत्रौ अनिन्दितौ । त्वद्-दर्शन-कृत-उत्साहौ लङ्काम् भस्मीकरिष्यतः ॥ १५॥
tau ubhau puruṣa-vyāghrau rāja-putrau aninditau . tvad-darśana-kṛta-utsāhau laṅkām bhasmīkariṣyataḥ .. 15..
हत्वा तु समरे क्रूरं रावणं सह बान्धवम् । राघवौ त्वां विशालाक्षि स्वां पुरीं प्रापयिष्यतः ॥ १६॥
हत्वा तु समरे क्रूरम् रावणम् सह बान्धवम् । राघवौ त्वाम् विशाल-अक्षि स्वाम् पुरीम् प्रापयिष्यतः ॥ १६॥
hatvā tu samare krūram rāvaṇam saha bāndhavam . rāghavau tvām viśāla-akṣi svām purīm prāpayiṣyataḥ .. 16..
यत्तु रामो विजानीयादभिज्ञानमनिन्दिते । प्रीतिसञ्जननं तस्य भूयस्त्वं दातुमर्हसि ॥ १७॥
यत् तु रामः विजानीयात् अभिज्ञानम् अनिन्दिते । प्रीति-सञ्जननम् तस्य भूयस् त्वम् दातुम् अर्हसि ॥ १७॥
yat tu rāmaḥ vijānīyāt abhijñānam anindite . prīti-sañjananam tasya bhūyas tvam dātum arhasi .. 17..
साब्रवीद्दत्तमेवेति मयाभिज्ञानमुत्तमम्।एतदेव हि रामस्य दृष्ट्वा मत्केशभूषणम्॥18॥
सा ब्रवीत् दत्तम् एव इति मया अभिज्ञानम् उत्तमम्।एतत् एव हि रामस्य दृष्ट्वा मद्-केशभूषणम्॥१८॥
sā bravīt dattam eva iti mayā abhijñānam uttamam.etat eva hi rāmasya dṛṣṭvā mad-keśabhūṣaṇam..18..
श्रद्धेयं हनुमन्वाक्यं तव वीर भविष्यति।स तं मणिवरं गृह्य श्रीमान्प्लवगसत्तमः ॥19॥
श्रद्धेयम् हनुमन् वाक्यम् तव वीर भविष्यति।स तम् मणि-वरम् गृह्य श्रीमान् प्लवग-सत्तमः ॥१९॥
śraddheyam hanuman vākyam tava vīra bhaviṣyati.sa tam maṇi-varam gṛhya śrīmān plavaga-sattamaḥ ..19..
प्रणम्य शिरसा देवीं गमनायोपचक्रमे ।तमुत्पातकृतोत्साहमवेक्ष्य हरिपुङ्गवम् ॥20॥
प्रणम्य शिरसा देवीम् गमनाय उपचक्रमे ।तम् उत्पात-कृत-उत्साहम् अवेक्ष्य हरि-पुङ्गवम् ॥२०॥
praṇamya śirasā devīm gamanāya upacakrame .tam utpāta-kṛta-utsāham avekṣya hari-puṅgavam ..20..
वर्धमानं महावेगमुवाच जनकात्मजा । अश्रुपूर्णमुखी दीना बाष्पगद्गदया गिरा ॥21॥
वर्धमानम् महा-वेगम् उवाच जनकात्मजा । अश्रु-पूर्ण-मुखी दीना बाष्प-गद्गदया गिरा ॥२१॥
vardhamānam mahā-vegam uvāca janakātmajā . aśru-pūrṇa-mukhī dīnā bāṣpa-gadgadayā girā ..21..
हनूमन्सिंहसङ्काशौ भ्रातरौ रामलक्ष्मणौ । सुग्रीवं च सहामात्यं सर्वान्ब्रूया अनामयम् ॥22॥
हनूमन् सिंह-सङ्काशौ भ्रातरौ राम-लक्ष्मणौ । सुग्रीवम् च सह अमात्यम् सर्वान् ब्रूयाः अनामयम् ॥२२॥
hanūman siṃha-saṅkāśau bhrātarau rāma-lakṣmaṇau . sugrīvam ca saha amātyam sarvān brūyāḥ anāmayam ..22..
यथा च स महाबाहुर्मां तारयति राघवः । अस्माद्दुःखाम्बुसंरोधात्तत्समाधातुमर्हसि ॥23॥
यथा च स महा-बाहुः माम् तारयति राघवः । अस्मात् दुःख-अम्बु-संरोधात् तत् समाधातुम् अर्हसि ॥२३॥
yathā ca sa mahā-bāhuḥ mām tārayati rāghavaḥ . asmāt duḥkha-ambu-saṃrodhāt tat samādhātum arhasi ..23..
इदं च तीव्रं मम शोकवेगं रक्षोभिरेभिः परिभर्त्सनं च । ब्रूयास्तु रामस्य गतः समीपं शिवश्च तेऽध्वास्तु हरिप्रवीर ॥24॥
इदम् च तीव्रम् मम शोक-वेगम् रक्षोभिः एभिः परिभर्त्सनम् च । ब्रूयाः तु रामस्य गतः समीपम् शिवः च ते अध्वा अस्तु हरि-प्रवीर ॥२४॥
idam ca tīvram mama śoka-vegam rakṣobhiḥ ebhiḥ paribhartsanam ca . brūyāḥ tu rāmasya gataḥ samīpam śivaḥ ca te adhvā astu hari-pravīra ..24..
स राजपुत्र्या प्रतिवेदितार्थः कपिः कृतार्थः परिहृष्टचेताः । तदल्पशेषं प्रसमीक्ष्य कार्यं दिशं ह्युदीचीं मनसा जगाम ॥25॥
स राज-पुत्र्या प्रतिवेदित-अर्थः कपिः कृतार्थः परिहृष्ट-चेताः । तत् अल्प-शेषम् प्रसमीक्ष्य कार्यम् दिशम् हि उदीचीम् मनसा जगाम ॥२५॥
sa rāja-putryā prativedita-arthaḥ kapiḥ kṛtārthaḥ parihṛṣṭa-cetāḥ . tat alpa-śeṣam prasamīkṣya kāryam diśam hi udīcīm manasā jagāma ..25..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In