This overlay will guide you through the buttons:

| |
|
स च वाग्भिः प्रशस्ताभिर्गमिष्यन्पूजितस्तया । तस्माद्देशादपक्रम्य चिन्तयामास वानरः ॥१॥
स च वाग्भिः प्रशस्ताभिः गमिष्यन् पूजितः तया । तस्मात् देशात् अपक्रम्य चिन्तयामास वानरः ॥१॥
sa ca vāgbhiḥ praśastābhiḥ gamiṣyan pūjitaḥ tayā . tasmāt deśāt apakramya cintayāmāsa vānaraḥ ..1..
अल्पशेषमिदं कार्यं दृष्टेयमसितेक्षणा । त्रीनुपायानतिक्रम्य चतुर्थ इह दृश्यते ॥२॥
अल्प-शेषम् इदम् कार्यम् दृष्टा इयम् असित-ईक्षणा । त्रीन् उपायान् अतिक्रम्य चतुर्थः इह दृश्यते ॥२॥
alpa-śeṣam idam kāryam dṛṣṭā iyam asita-īkṣaṇā . trīn upāyān atikramya caturthaḥ iha dṛśyate ..2..
न साम रक्षःसु गुणाय कल्पते न दनमर्थोपचितेषु वर्तते । न भेदसाध्या बलदर्पिता जनाः पराक्रमस्त्वेष ममेह रोचते ॥३॥
न साम रक्षःसु गुणाय कल्पते न दनम् अर्थ-उपचितेषु वर्तते । न भेद-साध्याः बल-दर्पिताः जनाः पराक्रमः तु एष मम इह रोचते ॥३॥
na sāma rakṣaḥsu guṇāya kalpate na danam artha-upaciteṣu vartate . na bheda-sādhyāḥ bala-darpitāḥ janāḥ parākramaḥ tu eṣa mama iha rocate ..3..
न चास्य कार्यस्य पराक्रमादृते विनिश्चयः कश् चिदिहोपपद्यते । हृतप्रवीरास्तु रणे हि राक्षसाः कथं चिदीयुर्यदिहाद्य मार्दवम् ॥४॥
न च अस्य कार्यस्य पराक्रमात् ऋते विनिश्चयः कः चित् इह उपपद्यते । हृत-प्रवीराः तु रणे हि राक्षसाः कथम् चित् ईयुः यत् इह अद्य मार्दवम् ॥४॥
na ca asya kāryasya parākramāt ṛte viniścayaḥ kaḥ cit iha upapadyate . hṛta-pravīrāḥ tu raṇe hi rākṣasāḥ katham cit īyuḥ yat iha adya mārdavam ..4..
कार्ये कर्मणि निर्दिष्टो यो बहून्यपि साधयेत् । पूर्वकार्यविरोधेन स कार्यं कर्तुमर्हति ॥५॥
कार्ये कर्मणि निर्दिष्टः यः बहूनि अपि साधयेत् । पूर्व-कार्य-विरोधेन स कार्यम् कर्तुम् अर्हति ॥५॥
kārye karmaṇi nirdiṣṭaḥ yaḥ bahūni api sādhayet . pūrva-kārya-virodhena sa kāryam kartum arhati ..5..
न ह्येकः साधको हेतुः स्वल्पस्यापीह कर्मणः । यो ह्यर्थं बहुधा वेद स समर्थोऽर्थसाधने ॥६॥
न हि एकः साधकः हेतुः सु अल्पस्य अपि इह कर्मणः । यः हि अर्थम् बहुधा वेद स समर्थः अर्थ-साधने ॥६॥
na hi ekaḥ sādhakaḥ hetuḥ su alpasya api iha karmaṇaḥ . yaḥ hi artham bahudhā veda sa samarthaḥ artha-sādhane ..6..
इहैव तावत्कृतनिश्चयो ह्यहं यदि व्रजेयं प्लवगेश्वरालयम् । परात्मसंमर्द विशेषतत्त्ववित् ततः कृतं स्यान्मम भर्तृशासनम् ॥७॥
इह एव तावत् कृत-निश्चयः हि अहम् यदि व्रजेयम् प्लवग-ईश्वर-आलयम् । परात्म-संमर्द विशेष-तत्त्व-विद् ततस् कृतम् स्यात् मम भर्तृ-शासनम् ॥७॥
iha eva tāvat kṛta-niścayaḥ hi aham yadi vrajeyam plavaga-īśvara-ālayam . parātma-saṃmarda viśeṣa-tattva-vid tatas kṛtam syāt mama bhartṛ-śāsanam ..7..
कथं नु खल्वद्य भवेत्सुखागतं प्रसह्य युद्धं मम राक्षसैः सह । तथैव खल्वात्मबलं च सारवत् समानयेन्मां च रणे दशाननः ॥८॥
कथम् नु खलु अद्य भवेत् सुखागतम् प्रसह्य युद्धम् मम राक्षसैः सह । तथा एव खलु आत्म-बलम् च सारवत् समानयेत् माम् च रणे दशाननः ॥८॥
katham nu khalu adya bhavet sukhāgatam prasahya yuddham mama rākṣasaiḥ saha . tathā eva khalu ātma-balam ca sāravat samānayet mām ca raṇe daśānanaḥ ..8..
ततस्समासाद्य रणे दशाननं समन्त्रिवर्गं सबलप्रयायिनम्।हृदि स्थितं तस्य मतं बलं च वै सुखेन मत्त्वाऽहमितः पुनर्व्रजे॥९॥
ततस् समासाद्य रणे दशाननम् स मन्त्रि-वर्गम् स बल-प्रयायिनम्।हृदि स्थितम् तस्य मतम् बलम् च वै सुखेन मत् त्वा अहम् इतस् पुनर् व्रजे॥९॥
tatas samāsādya raṇe daśānanam sa mantri-vargam sa bala-prayāyinam.hṛdi sthitam tasya matam balam ca vai sukhena mat tvā aham itas punar vraje..9..
इदमस्य नृशंसस्य नन्दनोपममुत्तमम् । वनं नेत्रमनःकान्तं नानाद्रुमलतायुतम् ॥१०॥
इदम् अस्य नृशंसस्य नन्दन-उपमम् उत्तमम् । वनम् नेत्र-मनः-कान्तम् नाना द्रुम-लता-युतम् ॥१०॥
idam asya nṛśaṃsasya nandana-upamam uttamam . vanam netra-manaḥ-kāntam nānā druma-latā-yutam ..10..
इदं विध्वंसयिष्यामि शुष्कं वनमिवानलः । अस्मिन्भग्ने ततः कोपं करिष्यति स रावणः ॥११॥
इदम् विध्वंसयिष्यामि शुष्कम् वनम् इव अनलः । अस्मिन् भग्ने ततस् कोपम् करिष्यति स रावणः ॥११॥
idam vidhvaṃsayiṣyāmi śuṣkam vanam iva analaḥ . asmin bhagne tatas kopam kariṣyati sa rāvaṇaḥ ..11..
ततो महत्साश्वमहारथद्विपं बलं समानेष्वपि राक्षसाधिपः । त्रिशूलकालायसपट्टिशायुधं ततो महद्युद्धमिदं भविष्यति ॥१२॥
ततस् महत् स अश्व-महा-रथ-द्विपम् बलम् समानेषु अपि राक्षस-अधिपः । त्रिशूल-कालायस-पट्टिश-आयुधम् ततस् महत् युद्धम् इदम् भविष्यति ॥१२॥
tatas mahat sa aśva-mahā-ratha-dvipam balam samāneṣu api rākṣasa-adhipaḥ . triśūla-kālāyasa-paṭṭiśa-āyudham tatas mahat yuddham idam bhaviṣyati ..12..
अहं तु तैः संयति चण्डविक्रमैः समेत्य रक्षोभिरसङ्गविक्रमः । निहत्य तद्रावणचोदितं बलं सुखं गमिष्यामि कपीश्वरालयम् ॥१३॥
अहम् तु तैः संयति चण्ड-विक्रमैः समेत्य रक्षोभिः असङ्ग-विक्रमः । निहत्य तद्-रावण-चोदितम् बलम् सुखम् गमिष्यामि कपि-ईश्वर-आलयम् ॥१३॥
aham tu taiḥ saṃyati caṇḍa-vikramaiḥ sametya rakṣobhiḥ asaṅga-vikramaḥ . nihatya tad-rāvaṇa-coditam balam sukham gamiṣyāmi kapi-īśvara-ālayam ..13..
ततो मारुतवत्क्रुद्धो मारुतिर्भीमविक्रमः । ऊरुवेगेन महता द्रुमान्क्षेप्तुमथारभत् ॥१४॥
ततस् मारुत-वत् क्रुद्धः मारुतिः भीम-विक्रमः । ऊरु-वेगेन महता द्रुमान् क्षेप्तुम् अथ आरभत् ॥१४॥
tatas māruta-vat kruddhaḥ mārutiḥ bhīma-vikramaḥ . ūru-vegena mahatā drumān kṣeptum atha ārabhat ..14..
ततस्तद्धनुमान्वीरो बभञ्ज प्रमदावनम् । मत्तद्विजसमाघुष्टं नानाद्रुमलतायुतम् ॥१५॥
ततस् तत् हनुमान् वीरः बभञ्ज प्रमदा-वनम् । मत्त-द्विज-समाघुष्टम् नाना द्रुम-लता-युतम् ॥१५॥
tatas tat hanumān vīraḥ babhañja pramadā-vanam . matta-dvija-samāghuṣṭam nānā druma-latā-yutam ..15..
तद्वनं मथितैर्वृक्षैर्भिन्नैश्च सलिलाशयैः । चूर्णितैः पर्वताग्रैश्च बभूवाप्रियदर्शनम् ॥१६॥
तत् वनम् मथितैः वृक्षैः भिन्नैः च सलिलाशयैः । चूर्णितैः पर्वत-अग्रैः च बभूव अप्रिय-दर्शनम् ॥१६॥
tat vanam mathitaiḥ vṛkṣaiḥ bhinnaiḥ ca salilāśayaiḥ . cūrṇitaiḥ parvata-agraiḥ ca babhūva apriya-darśanam ..16..
नानाशकुन्तविरुतैः प्रभिन्नैस्सलिलाशयैः।ताम्रैः किसलयैः क्लान्तै: क्लान्तद्रुमलतायुतम्॥१७॥
नाना शकुन्त-विरुतैः प्रभिन्नैः सलिलाशयैः।ताम्रैः किसलयैः क्लान्तैः क्लान्त-द्रुम-लता-युतम्॥१७॥
nānā śakunta-virutaiḥ prabhinnaiḥ salilāśayaiḥ.tāmraiḥ kisalayaiḥ klāntaiḥ klānta-druma-latā-yutam..17..
न बभौ तद्वनं तत्र दावानलहतं यथा।व्याकुलावरणा रेजुर्विह्वला इव ता लताः॥१८॥
न बभौ तत् वनम् तत्र दाव-अनल-हतम् यथा।व्याकुल-आवरणाः रेजुः विह्वलाः इव ताः लताः॥१८॥
na babhau tat vanam tatra dāva-anala-hatam yathā.vyākula-āvaraṇāḥ rejuḥ vihvalāḥ iva tāḥ latāḥ..18..
लतागृहैश्चित्रगृहैश्च नाशितैर् महोरगैर्व्यालमृगैश्च निर्धुतैः । शिलागृहैरुन्मथितैस्तथा गृहैः प्रनष्टरूपं तदभून्महद्वनम् ॥१९॥
लतागृहैः चित्रगृहैः च नाशितैः महा-उरगैः व्याल-मृगैः च निर्धुतैः । शिलागृहैः उन्मथितैः तथा गृहैः प्रनष्ट-रूपम् तत् अभूत् महत् वनम् ॥१९॥
latāgṛhaiḥ citragṛhaiḥ ca nāśitaiḥ mahā-uragaiḥ vyāla-mṛgaiḥ ca nirdhutaiḥ . śilāgṛhaiḥ unmathitaiḥ tathā gṛhaiḥ pranaṣṭa-rūpam tat abhūt mahat vanam ..19..
सा विह्वलाऽशोकलताप्रताना वनस्थली शोकलताप्रताना।जाता दशास्यप्रमदावनस्य कपेर्बलाद्धि प्रमदावनस्य॥।२०॥
सा विह्वला अशोक-लता-प्रताना वन-स्थली शोक-लता-प्रताना।जाताः दश-आस्य-प्रमदा-वनस्य कपेः बलात् हि प्रमदा-वनस्य॥।२०॥
sā vihvalā aśoka-latā-pratānā vana-sthalī śoka-latā-pratānā.jātāḥ daśa-āsya-pramadā-vanasya kapeḥ balāt hi pramadā-vanasya...20..
ततः स कृत्वा जगतीपतेर्महान् महद्व्यलीकं मनसो महात्मनः । युयुत्सुरेको बहुभिर्महाबलैः श्रिया ज्वलंस्तोरणमाश्रितः कपिः ॥२१॥
ततस् स कृत्वा जगतीपतेः महान् महत् व्यलीकम् मनसः महात्मनः । युयुत्सुः एकः बहुभिः महा-बलैः श्रिया ज्वलन् तोरणम् आश्रितः कपिः ॥२१॥
tatas sa kṛtvā jagatīpateḥ mahān mahat vyalīkam manasaḥ mahātmanaḥ . yuyutsuḥ ekaḥ bahubhiḥ mahā-balaiḥ śriyā jvalan toraṇam āśritaḥ kapiḥ ..21..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In