This overlay will guide you through the buttons:

| |
|
ततः पक्षिनिनादेन वृक्षभङ्गस्वनेन च । बभूवुस्त्राससम्भ्रान्ताः सर्वे लङ्कानिवासिनः ॥ १॥
ततस् पक्षि-निनादेन वृक्ष-भङ्ग-स्वनेन च । बभूवुः त्रास-सम्भ्रान्ताः सर्वे लङ्का-निवासिनः ॥ १॥
tatas pakṣi-ninādena vṛkṣa-bhaṅga-svanena ca . babhūvuḥ trāsa-sambhrāntāḥ sarve laṅkā-nivāsinaḥ .. 1..
विद्रुताश्च भयत्रस्ता विनेदुर्मृगपक्षुणः । रक्षसां च निमित्तानि क्रूराणि प्रतिपेदिरे ॥ २॥
विद्रुताः च भय-त्रस्ताः विनेदुः मृग-पक्षुणः । रक्षसाम् च निमित्तानि क्रूराणि प्रतिपेदिरे ॥ २॥
vidrutāḥ ca bhaya-trastāḥ vineduḥ mṛga-pakṣuṇaḥ . rakṣasām ca nimittāni krūrāṇi pratipedire .. 2..
ततो गतायां निद्रायां राक्षस्यो विकृताननाः । तद्वनं ददृशुर्भग्नं तं च वीरं महाकपिम् ॥ ३॥
ततस् गतायाम् निद्रायाम् राक्षस्यः विकृत-आननाः । तत् वनम् ददृशुः भग्नम् तम् च वीरम् महा-कपिम् ॥ ३॥
tatas gatāyām nidrāyām rākṣasyaḥ vikṛta-ānanāḥ . tat vanam dadṛśuḥ bhagnam tam ca vīram mahā-kapim .. 3..
स ता दृष्ट्व महाबाहुर्महासत्त्वो महाबलः । चकार सुमहद्रूपं राक्षसीनां भयावहम् ॥ ४॥
स ताः दृष्ट्वा महा-बाहुः महासत्त्वः महा-बलः । चकार सु महत् रूपम् राक्षसीनाम् भय-आवहम् ॥ ४॥
sa tāḥ dṛṣṭvā mahā-bāhuḥ mahāsattvaḥ mahā-balaḥ . cakāra su mahat rūpam rākṣasīnām bhaya-āvaham .. 4..
ततस्तं गिरिसङ्काशमतिकायं महाबलम् । राक्षस्यो वानरं दृष्ट्वा पप्रच्छुर्जनकात्मजाम् ॥ ५॥
ततस् तम् गिरि-सङ्काशम् अतिकायम् महा-बलम् । राक्षस्यः वानरम् दृष्ट्वा पप्रच्छुः जनकात्मजाम् ॥ ५॥
tatas tam giri-saṅkāśam atikāyam mahā-balam . rākṣasyaḥ vānaram dṛṣṭvā papracchuḥ janakātmajām .. 5..
कोऽयं कस्य कुतो वायं किंनिमित्तमिहागतः । कथं त्वया सहानेन संवादः कृत इत्युत ॥ ६॥
कः अयम् कस्य कुतस् वा अयम् किंनिमित्तम् इह आगतः । कथम् त्वया सह अनेन संवादः कृतः इति उत ॥ ६॥
kaḥ ayam kasya kutas vā ayam kiṃnimittam iha āgataḥ . katham tvayā saha anena saṃvādaḥ kṛtaḥ iti uta .. 6..
आचक्ष्व नो विशालाक्षि मा भूत्ते सुभगे भयम् । संवादमसितापाङ्गे त्वया किं कृतवानयम् ॥ ७॥
आचक्ष्व नः विशाल-अक्षि मा भूत् ते सुभगे भयम् । संवादम् असित-अपाङ्गे त्वया किम् कृतवान् अयम् ॥ ७॥
ācakṣva naḥ viśāla-akṣi mā bhūt te subhage bhayam . saṃvādam asita-apāṅge tvayā kim kṛtavān ayam .. 7..
अथाब्रवीत्तदा साध्वी सीता सर्वाङ्गशोभना । रक्षसां कामरूपाणां विज्ञाने मम का गतिः ॥ ८॥
अथा अब्रवीत् तदा साध्वी सीता सर्व-अङ्ग-शोभना । रक्षसाम् कामरूपाणाम् विज्ञाने मम का गतिः ॥ ८॥
athā abravīt tadā sādhvī sītā sarva-aṅga-śobhanā . rakṣasām kāmarūpāṇām vijñāne mama kā gatiḥ .. 8..
यूयमेवास्य जानीत योऽयं यद्वा करिष्यति । अहिरेव अहेः पादान्विजानाति न संशयः ॥ ९॥
यूयम् एव अस्य जानीत यः अयम् यत् वा करिष्यति । अहिः एव अहेः पादान् विजानाति न संशयः ॥ ९॥
yūyam eva asya jānīta yaḥ ayam yat vā kariṣyati . ahiḥ eva aheḥ pādān vijānāti na saṃśayaḥ .. 9..
अहमप्यस्य भीतास्मि नैनं जानामि कोऽन्वयम् । वेद्मि राक्षसमेवैनं कामरूपिणमागतम् ॥ १०॥
अहम् अपि अस्य भीता अस्मि न एनम् जानामि कः अनु अयम् । वेद्मि राक्षसम् एव एनम् कामरूपिणम् आगतम् ॥ १०॥
aham api asya bhītā asmi na enam jānāmi kaḥ anu ayam . vedmi rākṣasam eva enam kāmarūpiṇam āgatam .. 10..
वैदेह्या वचनं श्रुत्वा राक्षस्यो विद्रुता द्रुतम् । स्थिताः काश्चिद्गताः काश्चिद्रावणाय निवेदितुम् ॥ ११॥
वैदेह्याः वचनम् श्रुत्वा राक्षस्यः विद्रुताः द्रुतम् । स्थिताः काश्चिद् गताः काश्चिद् रावणाय निवेदितुम् ॥ ११॥
vaidehyāḥ vacanam śrutvā rākṣasyaḥ vidrutāḥ drutam . sthitāḥ kāścid gatāḥ kāścid rāvaṇāya niveditum .. 11..
रावणस्य समीपे तु राक्षस्यो विकृताननाः । विरूपं वानरं भीममाख्यतुमुपचक्रमुः ॥ १२॥
रावणस्य समीपे तु राक्षस्यः विकृत-आननाः । विरूपम् वानरम् भीमम् आख्यतुम् उपचक्रमुः ॥ १२॥
rāvaṇasya samīpe tu rākṣasyaḥ vikṛta-ānanāḥ . virūpam vānaram bhīmam ākhyatum upacakramuḥ .. 12..
अशोकवनिका मध्ये राजन्भीमवपुः कपिः । सीतया कृतसंवादस्तिष्ठत्यमितविक्रमः ॥ १३॥
अशोक-वनिका मध्ये राजन् भीम-वपुः कपिः । सीतया कृत-संवादः तिष्ठति अमित-विक्रमः ॥ १३॥
aśoka-vanikā madhye rājan bhīma-vapuḥ kapiḥ . sītayā kṛta-saṃvādaḥ tiṣṭhati amita-vikramaḥ .. 13..
न च तं जानकी सीता हरिं हरिणलोचणा । अस्माभिर्बहुधा पृष्टा निवेदयितुमिच्छति ॥ १४॥
न च तम् जानकी सीता हरिम् हरिण-लोचणा । अस्माभिः बहुधा पृष्टा निवेदयितुम् इच्छति ॥ १४॥
na ca tam jānakī sītā harim hariṇa-locaṇā . asmābhiḥ bahudhā pṛṣṭā nivedayitum icchati .. 14..
वासवस्य भवेद्दूतो दूतो वैश्रवणस्य वा । प्रेषितो वापि रामेण सीतान्वेषणकाङ्क्षया ॥ १५॥
वासवस्य भवेत् दूतः दूतः वैश्रवणस्य वा । प्रेषितः वा अपि रामेण सीता-अन्वेषण-काङ्क्षया ॥ १५॥
vāsavasya bhavet dūtaḥ dūtaḥ vaiśravaṇasya vā . preṣitaḥ vā api rāmeṇa sītā-anveṣaṇa-kāṅkṣayā .. 15..
तेन त्वद्भूतरूपेण यत्तत्तव मनोहरम् । नानामृगगणाकीर्णं प्रमृष्टं प्रमदावनम् ॥ १६॥
तेन त्वद्-भूत-रूपेण यत् तत् तव मनोहरम् । नाना मृग-गण-आकीर्णम् प्रमृष्टम् प्रमदा-वनम् ॥ १६॥
tena tvad-bhūta-rūpeṇa yat tat tava manoharam . nānā mṛga-gaṇa-ākīrṇam pramṛṣṭam pramadā-vanam .. 16..
न तत्र कश्चिदुद्देशो यस्तेन न विनाशितः । यत्र सा जानकी सीता स तेन न विनाशितः ॥ १७॥
न तत्र कश्चिद् उद्देशः यः तेन न विनाशितः । यत्र सा जानकी सीता स तेन न विनाशितः ॥ १७॥
na tatra kaścid uddeśaḥ yaḥ tena na vināśitaḥ . yatra sā jānakī sītā sa tena na vināśitaḥ .. 17..
जानकीरक्षणार्थं वा श्रमाद्वा नोपलभ्यते । अथ वा कः श्रमस्तस्य सैव तेनाभिरक्षिता ॥ १८॥
जानकी-रक्षण-अर्थम् वा श्रमात् वा न उपलभ्यते । अथ वा कः श्रमः तस्य सा एव तेन अभिरक्षिता ॥ १८॥
jānakī-rakṣaṇa-artham vā śramāt vā na upalabhyate . atha vā kaḥ śramaḥ tasya sā eva tena abhirakṣitā .. 18..
चारुपल्लवपत्राढ्यं यं सीता स्वयमास्थिता । प्रवृद्धः शिंशपावृक्षः स च तेनाभिरक्षितः ॥ १९॥
चारु-पल्लव-पत्र-आढ्यम् यम् सीता स्वयम् आस्थिता । प्रवृद्धः शिंशपा-वृक्षः स च तेन अभिरक्षितः ॥ १९॥
cāru-pallava-patra-āḍhyam yam sītā svayam āsthitā . pravṛddhaḥ śiṃśapā-vṛkṣaḥ sa ca tena abhirakṣitaḥ .. 19..
तस्योग्ररूपस्योग्रं त्वं दण्डमाज्ञातुमर्हसि । सीता सम्भाषिता येन तद्वनं च विनाशितम् ॥ २०॥
तस्य उग्र-रूपस्य उग्रम् त्वम् दण्डम् आज्ञातुम् अर्हसि । सीता सम्भाषिता येन तत् वनम् च विनाशितम् ॥ २०॥
tasya ugra-rūpasya ugram tvam daṇḍam ājñātum arhasi . sītā sambhāṣitā yena tat vanam ca vināśitam .. 20..
मनःपरिगृहीतां तां तव रक्षोगणेश्वर । कः सीतामभिभाषेत यो न स्यात्त्यक्तजीवितः ॥ २१॥
मनः-परिगृहीताम् ताम् तव रक्षः-गण-ईश्वर । कः सीताम् अभिभाषेत यः न स्यात् त्यक्त-जीवितः ॥ २१॥
manaḥ-parigṛhītām tām tava rakṣaḥ-gaṇa-īśvara . kaḥ sītām abhibhāṣeta yaḥ na syāt tyakta-jīvitaḥ .. 21..
राक्षसीनां वचः श्रुत्वा रावणो राक्षसेश्वरः । हुतागिरिव जज्वाल कोपसंवर्तितेक्षणः ॥ २२॥
राक्षसीनाम् वचः श्रुत्वा रावणः राक्षसेश्वरः । जज्वाल कोप-संवर्तित-ईक्षणः ॥ २२॥
rākṣasīnām vacaḥ śrutvā rāvaṇaḥ rākṣaseśvaraḥ . jajvāla kopa-saṃvartita-īkṣaṇaḥ .. 22..
तस्य क्रुद्धस्य नेत्राभ्यां प्रापतन्नास्रबिन्दवः।दीप्ताभ्यामिव दीपाभ्यां सार्चिष स्स्नेहबिन्दवः॥२३॥
तस्य क्रुद्धस्य नेत्राभ्याम् प्रापतन् अस्र-बिन्दवः।दीप्ताभ्याम् इव दीपाभ्याम् स अर्चिषः स् स्नेह-बिन्दवः॥२३॥
tasya kruddhasya netrābhyām prāpatan asra-bindavaḥ.dīptābhyām iva dīpābhyām sa arciṣaḥ s sneha-bindavaḥ..23..
आत्मनः सदृशाञ्शूरान्किङ्करान्नाम राक्षसान् । व्यादिदेश महातेजा निग्रहार्थं हनूमतः ॥२४॥
आत्मनः सदृशान् शूरान् किङ्करान् नाम राक्षसान् । व्यादिदेश महा-तेजाः निग्रह-अर्थम् हनूमतः ॥२४॥
ātmanaḥ sadṛśān śūrān kiṅkarān nāma rākṣasān . vyādideśa mahā-tejāḥ nigraha-artham hanūmataḥ ..24..
तेषामशीतिसाहस्रं किङ्कराणां तरस्विनाम् । निर्ययुर्भवनात्तस्मात्कूटमुद्गरपाणयः ॥२५॥
तेषाम् अशीति-साहस्रम् किङ्कराणाम् तरस्विनाम् । निर्ययुः भवनात् तस्मात् कूटमुद्गर-पाणयः ॥२५॥
teṣām aśīti-sāhasram kiṅkarāṇām tarasvinām . niryayuḥ bhavanāt tasmāt kūṭamudgara-pāṇayaḥ ..25..
महोदरा महादंष्ट्रा घोररूपा महाबलाः । युद्धाभिमनसः सर्वे हनूमद्ग्रहणोन्मुखाः ॥२६॥
महा-उदराः महा-दंष्ट्राः घोर-रूपाः महा-बलाः । युद्ध-अभिमनसः सर्वे ॥२६॥
mahā-udarāḥ mahā-daṃṣṭrāḥ ghora-rūpāḥ mahā-balāḥ . yuddha-abhimanasaḥ sarve ..26..
ते कपिं तं समासाद्य तोरणस्थमवस्थितम् । अभिपेतुर्महावेगाः पतङ्गा इव पावकम् ॥२७॥
ते कपिम् तम् समासाद्य तोरण-स्थम् अवस्थितम् । अभिपेतुः महा-वेगाः पतङ्गाः इव पावकम् ॥२७॥
te kapim tam samāsādya toraṇa-stham avasthitam . abhipetuḥ mahā-vegāḥ pataṅgāḥ iva pāvakam ..27..
ते गदाभिर्विचित्राभिः परिघैः काञ्चनाङ्गदैः । आजघ्नुर्वानरश्रेष्ठं शरैरादित्यसंनिभैः ॥२८॥
ते गदाभिः विचित्राभिः परिघैः काञ्चन-अङ्गदैः । आजघ्नुः वानर-श्रेष्ठम् शरैः आदित्य-संनिभैः ॥२८॥
te gadābhiḥ vicitrābhiḥ parighaiḥ kāñcana-aṅgadaiḥ . ājaghnuḥ vānara-śreṣṭham śaraiḥ āditya-saṃnibhaiḥ ..28..
मुद्गरैः पट्टिशैश्शूलैः प्रासतोमरशक्तिभिः।परिवार्य हनूमन्तं सहसा तस्थुरग्रतः॥२९॥
मुद्गरैः पट्टिशैः शूलैः प्रास-तोमर-शक्तिभिः।परिवार्य हनूमन्तम् सहसा तस्थुः अग्रतस्॥२९॥
mudgaraiḥ paṭṭiśaiḥ śūlaiḥ prāsa-tomara-śaktibhiḥ.parivārya hanūmantam sahasā tasthuḥ agratas..29..
हनूमानपि तेजस्वी श्रीमान्पर्वतसंनिभः । क्षितावाविध्य लाङ्गूलं ननाद च महास्वनम् ॥३०॥
हनूमान् अपि तेजस्वी श्रीमान् पर्वत-संनिभः । क्षितौ आविध्य लाङ्गूलम् ननाद च महा-स्वनम् ॥३०॥
hanūmān api tejasvī śrīmān parvata-saṃnibhaḥ . kṣitau āvidhya lāṅgūlam nanāda ca mahā-svanam ..30..
स भूत्वा सुमहाकायो हनुमान्मारुतात्मजः।धृष्टमास्फोटयामास लङ्कां शब्देन पूरयन्॥३१॥
स भूत्वा सु महा-कायः हनुमान् मारुतात्मजः।धृष्टम् आस्फोटयामास लङ्काम् शब्देन पूरयन्॥३१॥
sa bhūtvā su mahā-kāyaḥ hanumān mārutātmajaḥ.dhṛṣṭam āsphoṭayāmāsa laṅkām śabdena pūrayan..31..
तस्यास्फोटितशब्देन महता सानुनादिना।पेतुर्विहङ्गा गगनादुच्चैश्चेदमघोषयत्॥३२॥
तस्य आस्फोटित-शब्देन महता स अनुनादिना।पेतुः विहङ्गाः गगनात् उच्चैः च इदम् अघोषयत्॥३२॥
tasya āsphoṭita-śabdena mahatā sa anunādinā.petuḥ vihaṅgāḥ gaganāt uccaiḥ ca idam aghoṣayat..32..
जयत्यतिबलो रामो लक्ष्मणश्च महाबलः।राजा जयति सुग्रीवो राघवेणाभिपालितः॥३३॥
जयति अतिबलः रामः लक्ष्मणः च महा-बलः।राजा जयति सुग्रीवः राघवेण अभिपालितः॥३३॥
jayati atibalaḥ rāmaḥ lakṣmaṇaḥ ca mahā-balaḥ.rājā jayati sugrīvaḥ rāghaveṇa abhipālitaḥ..33..
दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः।हनुमान्शत्रुसैन्यानां निहन्ता मारुतात्मजः॥३४॥
दासः अहम् कोसल-इन्द्रस्य रामस्य अक्लिष्ट-कर्मणः।हनुमान् शत्रु-सैन्यानाम् निहन्ता मारुतात्मजः॥३४॥
dāsaḥ aham kosala-indrasya rāmasya akliṣṭa-karmaṇaḥ.hanumān śatru-sainyānām nihantā mārutātmajaḥ..34..
न रावणसहस्रं मे युद्धे प्रतिबलं भवेत्।शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः॥३५॥
न रावण-सहस्रम् मे युद्धे प्रतिबलम् भवेत्।शिलाभिः तु प्रहरतः पादपैः च सहस्रशस्॥३५॥
na rāvaṇa-sahasram me yuddhe pratibalam bhavet.śilābhiḥ tu praharataḥ pādapaiḥ ca sahasraśas..35..
अर्दयित्वा पुरीं लङ्कामभिवाद्य च मैथिलीम्।समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम्॥३६॥
अर्दयित्वा पुरीम् लङ्काम् अभिवाद्य च मैथिलीम्।समृद्ध-अर्थः गमिष्यामि मिषताम् सर्व-रक्षसाम्॥३६॥
ardayitvā purīm laṅkām abhivādya ca maithilīm.samṛddha-arthaḥ gamiṣyāmi miṣatām sarva-rakṣasām..36..
तस्य संनादशब्देन तेऽभवन्भयशङ्किताः । ददृशुश्च हनूमन्तं सन्ध्यामेघमिवोन्नतम् ॥३७॥
तस्य संनाद-शब्देन ते अभवन् भय-शङ्किताः । ददृशुः च हनूमन्तम् सन्ध्या-मेघम् इव उन्नतम् ॥३७॥
tasya saṃnāda-śabdena te abhavan bhaya-śaṅkitāḥ . dadṛśuḥ ca hanūmantam sandhyā-megham iva unnatam ..37..
स्वामिसन्देशनिःशङ्कास्ततस्ते राक्षसाः कपिम् । चित्रैः प्रहरणैर्भीमैरभिपेतुस्ततस्ततः ॥३८॥
स्वामि-सन्देश-निःशङ्काः ततस् ते राक्षसाः कपिम् । चित्रैः प्रहरणैः भीमैः अभिपेतुः ततस् ततस् ॥३८॥
svāmi-sandeśa-niḥśaṅkāḥ tatas te rākṣasāḥ kapim . citraiḥ praharaṇaiḥ bhīmaiḥ abhipetuḥ tatas tatas ..38..
स तैः परिवृतः शूरैः सर्वतः स महाबलः । आससादायसं भीमं परिघं तोरणाश्रितम् ॥३९॥
स तैः परिवृतः शूरैः सर्वतस् स महा-बलः । आससाद आयसम् भीमम् परिघम् तोरण-आश्रितम् ॥३९॥
sa taiḥ parivṛtaḥ śūraiḥ sarvatas sa mahā-balaḥ . āsasāda āyasam bhīmam parigham toraṇa-āśritam ..39..
स तं परिघमादाय जघान रजनीचरान् ।सपन्नगमिवादाय स्फुरन्तं विनतासुतः ॥४०॥
स तम् परिघम् आदाय जघान रजनीचरान् ।स पन्नगम् इव आदाय स्फुरन्तम् विनता-सुतः ॥४०॥
sa tam parigham ādāya jaghāna rajanīcarān .sa pannagam iva ādāya sphurantam vinatā-sutaḥ ..40..
विचचाराम्बरे वीरः परिगृह्य च मारुतिः ।सूदयामास वज्रेण दैत्यनिव सहस्त्रदृक्॥४१॥
विचचार अम्बरे वीरः परिगृह्य च मारुतिः ।सूदयामास वज्रेण सहस्त्रदृश्॥४१॥
vicacāra ambare vīraḥ parigṛhya ca mārutiḥ .sūdayāmāsa vajreṇa sahastradṛś..41..
स हत्वा राक्षसान्वीरः किङ्करान्मारुतात्मजः । युद्धाकाङ्क्षी पुनर्वीरस्तोरणं समुपस्थितः ॥४२॥
स हत्वा राक्षसान् वीरः किङ्करान् मारुतात्मजः । युद्ध-आकाङ्क्षी पुनर् वीरः तोरणम् समुपस्थितः ॥४२॥
sa hatvā rākṣasān vīraḥ kiṅkarān mārutātmajaḥ . yuddha-ākāṅkṣī punar vīraḥ toraṇam samupasthitaḥ ..42..
ततस्तस्माद्भयान्मुक्ताः कति चित्तत्र राक्षसाः । निहतान्किङ्करान्सर्वान्रावणाय न्यवेदयन् ॥४३॥
ततस् तस्मात् भयात् मुक्ताः कति चित् तत्र राक्षसाः । निहतान् किङ्करान् सर्वान् रावणाय न्यवेदयन् ॥४३॥
tatas tasmāt bhayāt muktāḥ kati cit tatra rākṣasāḥ . nihatān kiṅkarān sarvān rāvaṇāya nyavedayan ..43..
स राक्षसानां निहतं महाबलं निशम्य राजा परिवृत्तलोचनः । समादिदेशाप्रतिमं पराक्रमे प्रहस्तपुत्रं समरे सुदुर्जयम् ॥४४॥
स राक्षसानाम् निहतम् महा-बलम् निशम्य राजा परिवृत्त-लोचनः । समादिदेश अप्रतिमम् पराक्रमे प्रहस्त-पुत्रम् समरे सु दुर्जयम् ॥४४॥
sa rākṣasānām nihatam mahā-balam niśamya rājā parivṛtta-locanaḥ . samādideśa apratimam parākrame prahasta-putram samare su durjayam ..44..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In