This overlay will guide you through the buttons:

| |
|
ततः स किङ्करान्हत्वा हनूमान्ध्यानमास्थितः । वनं भग्नं मया चैत्यप्रासादो न विनाशितः ॥१॥
ततस् स किङ्करान् हत्वा हनूमान् ध्यानम् आस्थितः । वनम् भग्नम् मया चैत्य-प्रासादः न विनाशितः ॥१॥
tatas sa kiṅkarān hatvā hanūmān dhyānam āsthitaḥ . vanam bhagnam mayā caitya-prāsādaḥ na vināśitaḥ ..1..
तस्मात्प्रासादमप्येवमिमं विध्वंसयाम्यहम् ।इति सञ्चिन्त्य हनुमान्मनसा दर्शयन्बलम् ॥२॥
तस्मात् प्रासादम् अपि एवम् इमम् विध्वंसयामि अहम् ।इति सञ्चिन्त्य हनुमान् मनसा दर्शयन् बलम् ॥२॥
tasmāt prāsādam api evam imam vidhvaṃsayāmi aham .iti sañcintya hanumān manasā darśayan balam ..2..
चैत्यप्रासादमाप्लुत्य मेरुशृङ्गमिवोन्नतम् । आरुरोह हरिश्रेष्ठो हनूमान्मारुतात्मजः ॥३॥
चैत्य-प्रासादम् आप्लुत्य मेरु-शृङ्गम् इव उन्नतम् । आरुरोह हरि-श्रेष्ठः हनूमान् मारुतात्मजः ॥३॥
caitya-prāsādam āplutya meru-śṛṅgam iva unnatam . āruroha hari-śreṣṭhaḥ hanūmān mārutātmajaḥ ..3..
आरुह्य गिरिसङ्काशं प्रासादं हरियूथपः।बभौ स सुमहातेजाः प्रतिसूर्य इवोदितः॥४॥
आरुह्य गिरि-सङ्काशम् प्रासादम् हरि-यूथपः।बभौ स सु महा-तेजाः प्रतिसूर्ये इव उदितः॥४॥
āruhya giri-saṅkāśam prāsādam hari-yūthapaḥ.babhau sa su mahā-tejāḥ pratisūrye iva uditaḥ..4..
सम्प्रधृष्य च दुर्धर्षश्चैत्यप्रासादमुन्नतम् । हनूमान्प्रज्वलँल्लक्ष्म्या पारियात्रोपमोऽभवत् ॥५॥
सम्प्रधृष्य च दुर्धर्षः चैत्य-प्रासादम् उन्नतम् । हनूमान् प्रज्वलन् लक्ष्म्या पारियात्र-उपमः अभवत् ॥५॥
sampradhṛṣya ca durdharṣaḥ caitya-prāsādam unnatam . hanūmān prajvalan lakṣmyā pāriyātra-upamaḥ abhavat ..5..
स भूत्वा तु महाकायो हनूमान्मारुतात्मजः । धृष्टमास्फोटयामास लङ्कां शब्देन पूरयन् ॥६॥
स भूत्वा तु महा-कायः हनूमान् मारुतात्मजः । धृष्टम् आस्फोटयामास लङ्काम् शब्देन पूरयन् ॥६॥
sa bhūtvā tu mahā-kāyaḥ hanūmān mārutātmajaḥ . dhṛṣṭam āsphoṭayāmāsa laṅkām śabdena pūrayan ..6..
तस्यास्फोटितशब्देन महता श्रोत्रघातिना । पेतुर्विहङ्गा गगनादुच्चैश्चेदमघोषयत् ॥७॥
तस्य आस्फोटित-शब्देन महता श्रोत्र-घातिना । पेतुः विहङ्गाः गगनात् उच्चैः च इदम् अघोषयत् ॥७॥
tasya āsphoṭita-śabdena mahatā śrotra-ghātinā . petuḥ vihaṅgāḥ gaganāt uccaiḥ ca idam aghoṣayat ..7..
अस्त्रविज्जयतां रामो लक्ष्मणश्च महाबलः । राजा जयति सुग्रीवो राघवेणाभिपालितः ॥८॥
अस्त्र-विद् जयताम् रामः लक्ष्मणः च महा-बलः । राजा जयति सुग्रीवः राघवेण अभिपालितः ॥८॥
astra-vid jayatām rāmaḥ lakṣmaṇaḥ ca mahā-balaḥ . rājā jayati sugrīvaḥ rāghaveṇa abhipālitaḥ ..8..
दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः । हनुमाञ्शत्रुसैन्यानां निहन्ता मारुतात्मजः ॥९॥
दासः अहम् कोसल-इन्द्रस्य रामस्य अक्लिष्ट-कर्मणः । हनुमान् शत्रु-सैन्यानाम् निहन्ता मारुतात्मजः ॥९॥
dāsaḥ aham kosala-indrasya rāmasya akliṣṭa-karmaṇaḥ . hanumān śatru-sainyānām nihantā mārutātmajaḥ ..9..
न रावणसहस्रं मे युद्धे प्रतिबलं भवेत् । शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः ॥१०॥
न रावण-सहस्रम् मे युद्धे प्रतिबलम् भवेत् । शिलाभिः तु प्रहरतः पादपैः च सहस्रशस् ॥१०॥
na rāvaṇa-sahasram me yuddhe pratibalam bhavet . śilābhiḥ tu praharataḥ pādapaiḥ ca sahasraśas ..10..
धर्दयित्वा पुरीं लङ्कामभिवाद्य च मैथिलीम् । समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम् ॥११॥
धर्दयित्वा पुरीम् लङ्काम् अभिवाद्य च मैथिलीम् । समृद्ध-अर्थः गमिष्यामि मिषताम् सर्व-रक्षसाम् ॥११॥
dhardayitvā purīm laṅkām abhivādya ca maithilīm . samṛddha-arthaḥ gamiṣyāmi miṣatām sarva-rakṣasām ..11..
एवमुक्त्वा विमानस्थश्चैत्यस्थान्हरिपुङ्गवः । ननाद भीमनिर्ह्रादो रक्षसां जनयन्भयम् ॥१२॥
एवम् उक्त्वा विमान-स्थः चैत्य-स्थान् हरि-पुङ्गवः । ननाद भीम-निर्ह्रादः रक्षसाम् जनयन् भयम् ॥१२॥
evam uktvā vimāna-sthaḥ caitya-sthān hari-puṅgavaḥ . nanāda bhīma-nirhrādaḥ rakṣasām janayan bhayam ..12..
तेन नादेन महता चैत्यपालाः शतं ययुः । गृहीत्वा विविधानस्त्रान्प्रासान्खड्गान्परश्वधान् ॥१३॥
तेन नादेन महता चैत्य-पालाः शतम् ययुः । गृहीत्वा विविधान् अस्त्रान् प्रासान् खड्गान् परश्वधान् ॥१३॥
tena nādena mahatā caitya-pālāḥ śatam yayuḥ . gṛhītvā vividhān astrān prāsān khaḍgān paraśvadhān ..13..
विसृजन्तो महाक्षया मारुतिं पर्यवारयन् ।आवर्त इव गङ्गायास्तोयस्य विपुलो महान् ॥१४॥
विसृजन्तः महा-क्षयाः मारुतिम् पर्यवारयन् ।आवर्तः इव गङ्गायाः तोयस्य विपुलः महान् ॥१४॥
visṛjantaḥ mahā-kṣayāḥ mārutim paryavārayan .āvartaḥ iva gaṅgāyāḥ toyasya vipulaḥ mahān ..14..
आजग्मुर्वानरश्रेष्ठं बाणैश्चादित्यसन्निभैः।आवर्त इव गङ्गायास्तोयस्य विपुलो महान्॥15॥
आजग्मुः वानर-श्रेष्ठम् बाणैः च आदित्य-सन्निभैः।आवर्तः इव गङ्गायाः तोयस्य विपुलः महान्॥१५॥
ājagmuḥ vānara-śreṣṭham bāṇaiḥ ca āditya-sannibhaiḥ.āvartaḥ iva gaṅgāyāḥ toyasya vipulaḥ mahān..15..
परिक्षिप्य हरिश्रेष्ठं स बभौ रक्षसां गणः ।ततो वातात्मजः क्रुद्धो भीमरूपं समास्थितः ॥16॥
परिक्षिप्य हरि-श्रेष्ठम् स बभौ रक्षसाम् गणः ।ततस् वातात्मजः क्रुद्धः भीम-रूपम् समास्थितः ॥१६॥
parikṣipya hari-śreṣṭham sa babhau rakṣasām gaṇaḥ .tatas vātātmajaḥ kruddhaḥ bhīma-rūpam samāsthitaḥ ..16..
प्रासादस्य महांस्तस्य स्तम्भं हेमपरिष्कृतम् । उत्पाटयित्वा वेगेन हनूमान्मारुतात्मजः ॥17॥
प्रासादस्य महान् तस्य स्तम्भम् हेम-परिष्कृतम् । उत्पाटयित्वा वेगेन हनूमान् मारुतात्मजः ॥१७॥
prāsādasya mahān tasya stambham hema-pariṣkṛtam . utpāṭayitvā vegena hanūmān mārutātmajaḥ ..17..
ततस्तं भ्रामयामास शतधारं महाबलः ।तत्र चाग्निः समभवत् प्रासादश्चाप्यदह्यत॥18॥
ततस् तम् भ्रामयामास शत-धारम् महा-बलः ।तत्र च अग्निः समभवत् प्रासादः च अपि अदह्यत॥१८॥
tatas tam bhrāmayāmāsa śata-dhāram mahā-balaḥ .tatra ca agniḥ samabhavat prāsādaḥ ca api adahyata..18..
दह्यमानं ततो दृष्ट्वा प्रासादं हरियूथपः।स राक्षसशतं हत्वा वज्रेणेन्द्र इवासुरान् ॥19॥
दह्यमानम् ततस् दृष्ट्वा प्रासादम् हरि-यूथपः।स राक्षस-शतम् हत्वा वज्रेण इन्द्रः इव असुरान् ॥१९॥
dahyamānam tatas dṛṣṭvā prāsādam hari-yūthapaḥ.sa rākṣasa-śatam hatvā vajreṇa indraḥ iva asurān ..19..
अन्तरिक्षस्थितः श्रीमानिदं वचनमब्रवीत् ।मादृशानां सहस्राणि विसृष्टानि महात्मनाम् ॥20॥
अन्तरिक्ष-स्थितः श्रीमान् इदम् वचनम् अब्रवीत् ।मादृशानाम् सहस्राणि विसृष्टानि महात्मनाम् ॥२०॥
antarikṣa-sthitaḥ śrīmān idam vacanam abravīt .mādṛśānām sahasrāṇi visṛṣṭāni mahātmanām ..20..
बलिनां वानरेन्द्राणां सुग्रीववशवर्तिनाम् ।अटन्ति वसुधां कृत्स्नां वयमन्ये च वानराः॥21॥
बलिनाम् वानर-इन्द्राणाम् सुग्रीव-वश-वर्तिनाम् ।अटन्ति वसुधाम् कृत्स्नाम् वयम् अन्ये च वानराः॥२१॥
balinām vānara-indrāṇām sugrīva-vaśa-vartinām .aṭanti vasudhām kṛtsnām vayam anye ca vānarāḥ..21..
दशनागबलाः केचित्केचिद्दशगुणोत्तराः।केचिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः॥22॥
दश-नाग-बलाः केचिद् केचिद् दश-गुण-उत्तराः।केचिद् नाग-सहस्रस्य बभूवुः तुल्य-विक्रमाः॥२२॥
daśa-nāga-balāḥ kecid kecid daśa-guṇa-uttarāḥ.kecid nāga-sahasrasya babhūvuḥ tulya-vikramāḥ..22..
सन्ति चौघबलाः केचित्केचिद्वायुबलोपमाः।अप्रमेयबलाश्चान्ये तत्रासन्हरियूथपाः॥23॥
सन्ति च ओघ-बलाः केचिद् केचिद् वायु-बल-उपमाः।अप्रमेय-बलाः च अन्ये तत्र आसन् हरि-यूथपाः॥२३॥
santi ca ogha-balāḥ kecid kecid vāyu-bala-upamāḥ.aprameya-balāḥ ca anye tatra āsan hari-yūthapāḥ..23..
ईदृग्विधैस्तु हरिभिर्वृतो दन्तनखायुधैः । शतैः शतसहस्रैश्च कोटीभिरयुतैरपि ॥24॥
ईदृग्विधैः तु हरिभिः वृतः दन्त-नख-आयुधैः । शतैः शत-सहस्रैः च कोटीभिः अयुतैः अपि ॥२४॥
īdṛgvidhaiḥ tu haribhiḥ vṛtaḥ danta-nakha-āyudhaiḥ . śataiḥ śata-sahasraiḥ ca koṭībhiḥ ayutaiḥ api ..24..
आगमिष्यति सुग्रीवः सर्वेषां वो निषूदनः। नेयमस्ति पुरी लङ्का न यूयं न च रावणः । यस्मादिक्ष्वाकुनाथेन बद्धं वैरं महात्मना ॥25॥
आगमिष्यति सुग्रीवः सर्वेषाम् वः निषूदनः। न इयम् अस्ति पुरी लङ्का न यूयम् न च रावणः । यस्मात् इक्ष्वाकु-नाथेन बद्धम् वैरम् महात्मना ॥२५॥
āgamiṣyati sugrīvaḥ sarveṣām vaḥ niṣūdanaḥ. na iyam asti purī laṅkā na yūyam na ca rāvaṇaḥ . yasmāt ikṣvāku-nāthena baddham vairam mahātmanā ..25..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In