This overlay will guide you through the buttons:

| |
|
सन्दिष्टो राक्षसेन्द्रेण प्रहस्तस्य सुतो बली । जम्बुमाली महादंष्ट्रो निर्जगाम धनुर्धरः ॥ १॥
सन्दिष्टः राक्षस-इन्द्रेण प्रहस्तस्य सुतः बली । जम्बुमाली महा-दंष्ट्रः निर्जगाम धनुः-धरः ॥ १॥
sandiṣṭaḥ rākṣasa-indreṇa prahastasya sutaḥ balī . jambumālī mahā-daṃṣṭraḥ nirjagāma dhanuḥ-dharaḥ .. 1..
रक्तमाल्याम्बरधरः स्रग्वी रुचिरकुण्डलः । महान्विवृत्तनयनश्चण्डः समरदुर्जयः ॥ २॥
रक्त-माल्य-अम्बर-धरः स्रग्वी रुचिर-कुण्डलः । महान् विवृत्त-नयनः चण्डः समर-दुर्जयः ॥ २॥
rakta-mālya-ambara-dharaḥ sragvī rucira-kuṇḍalaḥ . mahān vivṛtta-nayanaḥ caṇḍaḥ samara-durjayaḥ .. 2..
धनुः शक्रधनुः प्रख्यं महद्रुचिरसायकम् । विस्फारयाणो वेगेन वज्राशनिसमस्वनम् ॥ ३॥
धनुः शक्रधनुः प्रख्यम् महत् रुचिर-सायकम् । विस्फारयाणः वेगेन वज्र-अशनि-सम-स्वनम् ॥ ३॥
dhanuḥ śakradhanuḥ prakhyam mahat rucira-sāyakam . visphārayāṇaḥ vegena vajra-aśani-sama-svanam .. 3..
तस्य विस्फारघोषेण धनुषो महता दिशः । प्रदिशश्च नभश्चैव सहसा समपूर्यत ॥ ४॥
तस्य विस्फार-घोषेण धनुषः महता दिशः । प्रदिशः च नभः च एव सहसा समपूर्यत ॥ ४॥
tasya visphāra-ghoṣeṇa dhanuṣaḥ mahatā diśaḥ . pradiśaḥ ca nabhaḥ ca eva sahasā samapūryata .. 4..
रथेन खरयुक्तेन तमागतमुदीक्ष्य सः । हनूमान्वेगसम्पन्नो जहर्ष च ननाद च ॥ ५॥
रथेन खर-युक्तेन तम् आगतम् उदीक्ष्य सः । हनूमान् वेग-सम्पन्नः जहर्ष च ननाद च ॥ ५॥
rathena khara-yuktena tam āgatam udīkṣya saḥ . hanūmān vega-sampannaḥ jaharṣa ca nanāda ca .. 5..
तं तोरणविटङ्कस्थं हनूमन्तं महाकपिम् । जम्बुमाली महाबाहुर्विव्याध निशितैः शरैः ॥ ६॥
तम् तोरण-विटङ्क-स्थम् हनूमन्तम् महा-कपिम् । जम्बुमाली महा-बाहुः विव्याध निशितैः शरैः ॥ ६॥
tam toraṇa-viṭaṅka-stham hanūmantam mahā-kapim . jambumālī mahā-bāhuḥ vivyādha niśitaiḥ śaraiḥ .. 6..
अर्धचन्द्रेण वदने शिरस्येकेन कर्णिना । बाह्वोर्विव्याध नाराचैर्दशभिस्तं कपीश्वरम् ॥ ७॥
अर्धचन्द्रेण वदने शिरसि एकेन कर्णिना । बाह्वोः विव्याध नाराचैः दशभिः तम् कपि-ईश्वरम् ॥ ७॥
ardhacandreṇa vadane śirasi ekena karṇinā . bāhvoḥ vivyādha nārācaiḥ daśabhiḥ tam kapi-īśvaram .. 7..
तस्य तच्छुशुभे ताम्रं शरेणाभिहतं मुखम् । शरदीवाम्बुजं फुल्लं विद्धं भास्कररश्मिना ॥ ८॥
तस्य तत् शुशुभे ताम्रम् शरेण अभिहतम् मुखम् । शरदि इव अम्बुजम् फुल्लम् विद्धम् भास्कर-रश्मिना ॥ ८॥
tasya tat śuśubhe tāmram śareṇa abhihatam mukham . śaradi iva ambujam phullam viddham bhāskara-raśminā .. 8..
तत्तस्य रक्तं रक्तेन रञ्जितं शुशुभे मुखम्।यथाकाशे महापद्मं सिक्तं चन्दनबिन्दुभिः॥९॥
तत् तस्य रक्तम् रक्तेन रञ्जितम् शुशुभे मुखम्।यथा आकाशे महा-पद्मम् सिक्तम् चन्दन-बिन्दुभिः॥९॥
tat tasya raktam raktena rañjitam śuśubhe mukham.yathā ākāśe mahā-padmam siktam candana-bindubhiḥ..9..
चुकोप बाणाभिहतो राक्षसस्य महाकपिः । ततः पार्श्वेऽतिविपुलां ददर्श महतीं शिलाम् ॥१०॥
चुकोप बाण-अभिहतः राक्षसस्य महा-कपिः । ततस् पार्श्वे अति विपुलाम् ददर्श महतीम् शिलाम् ॥१०॥
cukopa bāṇa-abhihataḥ rākṣasasya mahā-kapiḥ . tatas pārśve ati vipulām dadarśa mahatīm śilām ..10..
तरसा तां समुत्पाट्य चिक्षेप बलवद्बली । तां शरैर्दशभिः क्रुद्धस्ताडयामास राक्षसः ॥११॥
तरसा ताम् समुत्पाट्य चिक्षेप बलवत् बली । ताम् शरैः दशभिः क्रुद्धः ताडयामास राक्षसः ॥११॥
tarasā tām samutpāṭya cikṣepa balavat balī . tām śaraiḥ daśabhiḥ kruddhaḥ tāḍayāmāsa rākṣasaḥ ..11..
विपन्नं कर्म तद्दृष्ट्वा हनूमांश्चण्डविक्रमः । सालं विपुलमुत्पाट्य भ्रामयामास वीर्यवान् ॥१२॥
विपन्नम् कर्म तत् दृष्ट्वा हनूमान् चण्ड-विक्रमः । सालम् विपुलम् उत्पाट्य भ्रामयामास वीर्यवान् ॥१२॥
vipannam karma tat dṛṣṭvā hanūmān caṇḍa-vikramaḥ . sālam vipulam utpāṭya bhrāmayāmāsa vīryavān ..12..
भ्रामयन्तं कपिं दृष्ट्वा सालवृक्षं महाबलम् । चिक्षेप सुबहून्बाणाञ्जम्बुमाली महाबलः ॥१३॥
भ्रामयन्तम् कपिम् दृष्ट्वा साल-वृक्षम् महा-बलम् । चिक्षेप सु बहून् बाणान् जम्बुमाली महा-बलः ॥१३॥
bhrāmayantam kapim dṛṣṭvā sāla-vṛkṣam mahā-balam . cikṣepa su bahūn bāṇān jambumālī mahā-balaḥ ..13..
सालं चतुर्भिर्चिच्छेद वानरं पञ्चभिर्भुजे । उरस्येकेन बाणेन दशभिस्तु स्तनान्तरे ॥१४॥
सालम् चतुर्भिः चिच्छेद वानरम् पञ्चभिः भुजे । उरसि एकेन बाणेन दशभिः तु स्तनान्तरे ॥१४॥
sālam caturbhiḥ ciccheda vānaram pañcabhiḥ bhuje . urasi ekena bāṇena daśabhiḥ tu stanāntare ..14..
स शरैः पूरिततनुः क्रोधेन महता वृतः । तमेव परिघं गृह्य भ्रामयामास वेगितः ॥१५॥
स शरैः पूरित-तनुः क्रोधेन महता वृतः । तम् एव परिघम् गृह्य भ्रामयामास वेगितः ॥१५॥
sa śaraiḥ pūrita-tanuḥ krodhena mahatā vṛtaḥ . tam eva parigham gṛhya bhrāmayāmāsa vegitaḥ ..15..
अतिवेगोऽतिवेगेन भ्रामयित्वा बलोत्कटः । परिघं पातयामास जम्बुमालेर्महोरसि ॥१६॥
अतिवेगः अतिवेगेन भ्रामयित्वा बल-उत्कटः । परिघम् पातयामास जम्बुमालेः महा-उरसि ॥१६॥
ativegaḥ ativegena bhrāmayitvā bala-utkaṭaḥ . parigham pātayāmāsa jambumāleḥ mahā-urasi ..16..
तस्य चैव शिरो नास्ति न बाहू न च जानुनी । न धनुर्न रथो नाश्वास्तत्रादृश्यन्त नेषवः ॥१७॥
तस्य च एव शिरः न अस्ति न बाहू न च जानुनी । न धनुः न रथः न अश्वाः तत्र अदृश्यन्त न इषवः ॥१७॥
tasya ca eva śiraḥ na asti na bāhū na ca jānunī . na dhanuḥ na rathaḥ na aśvāḥ tatra adṛśyanta na iṣavaḥ ..17..
स हतस्तरसा तेन जम्बुमाली महारथः । पपात निहतो भूमौ चूर्णिताङ्गविभूषणः ॥१८॥
स हतः तरसा तेन जम्बुमाली महा-रथः । पपात निहतः भूमौ चूर्णित-अङ्ग-विभूषणः ॥१८॥
sa hataḥ tarasā tena jambumālī mahā-rathaḥ . papāta nihataḥ bhūmau cūrṇita-aṅga-vibhūṣaṇaḥ ..18..
जम्बुमालिं च निहतं किङ्करांश्च महाबलान् । चुक्रोध रावणः श्रुत्वा कोपसंरक्तलोचनः ॥१९॥
जम्बुमालिम् च निहतम् किङ्करान् च महा-बलान् । चुक्रोध रावणः श्रुत्वा कोप-संरक्त-लोचनः ॥१९॥
jambumālim ca nihatam kiṅkarān ca mahā-balān . cukrodha rāvaṇaḥ śrutvā kopa-saṃrakta-locanaḥ ..19..
स रोषसंवर्तितताम्रलोचनः प्रहस्तपुत्रे निहते महाबले । अमात्यपुत्रानतिवीर्यविक्रमान् समादिदेशाशु निशाचरेश्वरः ॥२०॥
स रोष-संवर्तित-ताम्र-लोचनः प्रहस्त-पुत्रे निहते महा-बले । अमात्य-पुत्रान् अतिवीर्य-विक्रमान् समादिदेश आशु निशाचर-ईश्वरः ॥२०॥
sa roṣa-saṃvartita-tāmra-locanaḥ prahasta-putre nihate mahā-bale . amātya-putrān ativīrya-vikramān samādideśa āśu niśācara-īśvaraḥ ..20..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In