This overlay will guide you through the buttons:

| |
|
ततस्ते राक्षसेन्द्रेण चोदिता मन्त्रिणः सुताः । निर्ययुर्भवनात्तस्मात्सप्त सप्तार्चिवर्चसः ॥ १॥
ततस् ते राक्षस-इन्द्रेण चोदिताः मन्त्रिणः सुताः । निर्ययुः भवनात् तस्मात् सप्त सप्त-अर्चि-वर्चसः ॥ १॥
tatas te rākṣasa-indreṇa coditāḥ mantriṇaḥ sutāḥ . niryayuḥ bhavanāt tasmāt sapta sapta-arci-varcasaḥ .. 1..
महाबलपरीवारा धनुष्मन्तो महाबलाः । कृतास्त्रास्त्रविदां श्रेष्ठाः परस्परजयैषिणः ॥ २॥
महा-बल-परीवाराः धनुष्मन्तः महा-बलाः । कृतास्त्र-अस्त्र-विदाम् श्रेष्ठाः परस्पर-जय-एषिणः ॥ २॥
mahā-bala-parīvārāḥ dhanuṣmantaḥ mahā-balāḥ . kṛtāstra-astra-vidām śreṣṭhāḥ paraspara-jaya-eṣiṇaḥ .. 2..
हेमजालपरिक्षिप्तैर्ध्वजवद्भिः पताकिभिः । तोयदस्वननिर्घोषैर्वाजियुक्तैर्महारथैः ॥ ३॥
हेम-जाल-परिक्षिप्तैः ध्वजवद्भिः पताकिभिः । तोयद-स्वन-निर्घोषैः वाजि-युक्तैः महा-रथैः ॥ ३॥
hema-jāla-parikṣiptaiḥ dhvajavadbhiḥ patākibhiḥ . toyada-svana-nirghoṣaiḥ vāji-yuktaiḥ mahā-rathaiḥ .. 3..
तप्तकाञ्चनचित्राणि चापान्यमितविक्रमाः । विस्फारयन्तः संहृष्टास्तडिद्वन्त इवाम्बुदाः ॥ ४॥
तप्त-काञ्चन-चित्राणि चापानि अमित-विक्रमाः । विस्फारयन्तः संहृष्टाः तडिद्वन्तः इव अम्बुदाः ॥ ४॥
tapta-kāñcana-citrāṇi cāpāni amita-vikramāḥ . visphārayantaḥ saṃhṛṣṭāḥ taḍidvantaḥ iva ambudāḥ .. 4..
जनन्यस्तास्ततस्तेषां विदित्वा किङ्करान्हतान् । बभूवुः शोकसम्भ्रान्ताः सबान्धवसुहृज्जनाः ॥ ५॥
जनन्यः ताः ततस् तेषाम् विदित्वा किङ्करान् हतान् । बभूवुः शोक-सम्भ्रान्ताः स बान्धव-सुहृद्-जनाः ॥ ५॥
jananyaḥ tāḥ tatas teṣām viditvā kiṅkarān hatān . babhūvuḥ śoka-sambhrāntāḥ sa bāndhava-suhṛd-janāḥ .. 5..
ते परस्परसङ्घर्षास्तप्तकाञ्चनभूषणाः । अभिपेतुर्हनूमन्तं तोरणस्थमवस्थितम् ॥ ६॥
ते परस्पर-सङ्घर्षाः तप्त-काञ्चन-भूषणाः । अभिपेतुः हनूमन्तम् तोरण-स्थम् अवस्थितम् ॥ ६॥
te paraspara-saṅgharṣāḥ tapta-kāñcana-bhūṣaṇāḥ . abhipetuḥ hanūmantam toraṇa-stham avasthitam .. 6..
सृजन्तो बाणवृष्टिं ते रथगर्जितनिःस्वनाः । वृष्टिमन्त इवाम्भोदा विचेरुर्नैरृतर्षभाः ॥ ७॥
सृजन्तः बाण-वृष्टिम् ते रथ-गर्जित-निःस्वनाः । वृष्टिमन्तः इव अम्भोदाः विचेरुः नैरृत-ऋषभाः ॥ ७॥
sṛjantaḥ bāṇa-vṛṣṭim te ratha-garjita-niḥsvanāḥ . vṛṣṭimantaḥ iva ambhodāḥ viceruḥ nairṛta-ṛṣabhāḥ .. 7..
अवकीर्णस्ततस्ताभिर्हनूमाञ्शरवृष्टिभिः । अभवत्संवृताकारः शैलराडिव वृष्टिभिः ॥ ८॥
अवकीर्णः ततस् ताभिः हनूमान् शर-वृष्टिभिः । अभवत् संवृत-आकारः शैलराज् इव वृष्टिभिः ॥ ८॥
avakīrṇaḥ tatas tābhiḥ hanūmān śara-vṛṣṭibhiḥ . abhavat saṃvṛta-ākāraḥ śailarāj iva vṛṣṭibhiḥ .. 8..
स शरान्वञ्चयामास तेषामाशुचरः कपिः । रथवेगांश्च वीराणां विचरन्विमलेऽम्बरे ॥ ९॥
स शरान् वञ्चयामास तेषाम् आशु-चरः कपिः । रथ-वेगान् च वीराणाम् विचरन् विमले अम्बरे ॥ ९॥
sa śarān vañcayāmāsa teṣām āśu-caraḥ kapiḥ . ratha-vegān ca vīrāṇām vicaran vimale ambare .. 9..
स तैः क्रीडन्धनुष्मद्भिर्व्योम्नि वीरः प्रकाशते । धनुष्मद्भिर्यथा मेघैर्मारुतः प्रभुरम्बरे ॥ १०॥
स तैः क्रीडन् धनुष्मद्भिः व्योम्नि वीरः प्रकाशते । धनुष्मद्भिः यथा मेघैः मारुतः प्रभुः अम्बरे ॥ १०॥
sa taiḥ krīḍan dhanuṣmadbhiḥ vyomni vīraḥ prakāśate . dhanuṣmadbhiḥ yathā meghaiḥ mārutaḥ prabhuḥ ambare .. 10..
स कृत्वा निनदं घोरं त्रासयंस्तां महाचमूम् । चकार हनुमान्वेगं तेषु रक्षःसु वीर्यवान् ॥ ११॥
स कृत्वा निनदम् घोरम् त्रासयन् ताम् महा-चमूम् । चकार हनुमान् वेगम् तेषु रक्षःसु वीर्यवान् ॥ ११॥
sa kṛtvā ninadam ghoram trāsayan tām mahā-camūm . cakāra hanumān vegam teṣu rakṣaḥsu vīryavān .. 11..
तलेनाभिहनत्कांश्चित्पादैः कांश्चित्परन्तपः । मुष्टिनाभ्यहनत्कांश्चिन्नखैः कांश्चिद्व्यदारयत् ॥ १२॥
तलेन अभिहनत् कांश्चिद् पादैः कांश्चिद् परन्तपः । मुष्टिना अभ्यहनत् कांश्चिद् नखैः कांश्चिद् व्यदारयत् ॥ १२॥
talena abhihanat kāṃścid pādaiḥ kāṃścid parantapaḥ . muṣṭinā abhyahanat kāṃścid nakhaiḥ kāṃścid vyadārayat .. 12..
प्रममाथोरसा कांश्चिदूरुभ्यामपरान्कपिः । के चित्तस्यैव नादेन तत्रैव पतिता भुवि ॥ १३॥
प्रममाथ उरसा कांश्चिद् ऊरुभ्याम् अपरान् कपिः । के चित्तस्य एव नादेन तत्र एव पतिताः भुवि ॥ १३॥
pramamātha urasā kāṃścid ūrubhyām aparān kapiḥ . ke cittasya eva nādena tatra eva patitāḥ bhuvi .. 13..
ततस्तेष्ववपन्नेषु भूमौ निपतितेषु च । तत्सैन्यमगमत्सर्वं दिशो दशभयार्दितम् ॥ १४॥
ततस् तेषु अवपन्नेषु भूमौ निपतितेषु च । तत् सैन्यम् अगमत् सर्वम् दिशः दश-भय-अर्दितम् ॥ १४॥
tatas teṣu avapanneṣu bhūmau nipatiteṣu ca . tat sainyam agamat sarvam diśaḥ daśa-bhaya-arditam .. 14..
विनेदुर्विस्वरं नागा निपेतुर्भुवि वाजिनः । भग्ननीडध्वजच्छत्रैर्भूश्च कीर्णाभवद्रथैः ॥ १५॥
विनेदुः विस्वरम् नागाः निपेतुः भुवि वाजिनः । भग्न-नीड-ध्वज-छत्रैः भूः च कीर्णा अभवत् रथैः ॥ १५॥
vineduḥ visvaram nāgāḥ nipetuḥ bhuvi vājinaḥ . bhagna-nīḍa-dhvaja-chatraiḥ bhūḥ ca kīrṇā abhavat rathaiḥ .. 15..
स्रवता रुधिरेणाथ स्रवन्त्यो दर्शिताः पथि । विविधैश्च स्वरैर्लङ्का ननाद विकृतं तदा ॥१६॥
स्रवता रुधिरेण अथ स्रवन्त्यः दर्शिताः पथि । विविधैः च स्वरैः लङ्का ननाद विकृतम् तदा ॥१६॥
sravatā rudhireṇa atha sravantyaḥ darśitāḥ pathi . vividhaiḥ ca svaraiḥ laṅkā nanāda vikṛtam tadā ..16..
स तान्प्रवृद्धान्विनिहत्य राक्षसान् महाबलश्चण्डपराक्रमः कपिः । युयुत्सुरन्यैः पुनरेव राक्षसैस् तदेव वीरोऽभिजगाम तोरणम् ॥ १७॥
स तान् प्रवृद्धान् विनिहत्य राक्षसान् महा-बलः चण्ड-पराक्रमः कपिः । युयुत्सुः अन्यैः पुनर् एव राक्षसैः तत् एव वीरः अभिजगाम तोरणम् ॥ १७॥
sa tān pravṛddhān vinihatya rākṣasān mahā-balaḥ caṇḍa-parākramaḥ kapiḥ . yuyutsuḥ anyaiḥ punar eva rākṣasaiḥ tat eva vīraḥ abhijagāma toraṇam .. 17..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In