This overlay will guide you through the buttons:

| |
|
हतान्मन्त्रिसुतान्बुद्ध्वा वानरेण महात्मना । रावणः संवृताकारश्चकार मतिमुत्तमाम् ॥१॥
हतान् मन्त्रि-सुतान् बुद्ध्वा वानरेण महात्मना । रावणः संवृत-आकारः चकार मतिम् उत्तमाम् ॥१॥
hatān mantri-sutān buddhvā vānareṇa mahātmanā . rāvaṇaḥ saṃvṛta-ākāraḥ cakāra matim uttamām ..1..
स विरूपाक्षयूपाक्षौ दुर्धरं चैव राक्षसं । प्रघसं भासकर्णं च पञ्चसेनाग्रनायकान् ॥२॥
स विरूपाक्ष-यूपाक्षौ दुर्धरम् च एव राक्षसम् । प्रघसम् भासकर्णम् च पञ्च-सेना-अग्र-नायकान् ॥२॥
sa virūpākṣa-yūpākṣau durdharam ca eva rākṣasam . praghasam bhāsakarṇam ca pañca-senā-agra-nāyakān ..2..
सन्दिदेश दशग्रीवो वीरान्नयविशारदान् । हनूमद्ग्रहणे व्यग्रान्वायुवेगसमान्युधि ॥३॥
सन्दिदेश दशग्रीवः वीरान् नय-विशारदान् । व्यग्रान् वायु-वेग-समान् युधि ॥३॥
sandideśa daśagrīvaḥ vīrān naya-viśāradān . vyagrān vāyu-vega-samān yudhi ..3..
यात सेनाग्रगाः सर्वे महाबलपरिग्रहाः । सवाजिरथमातङ्गाः स कपिः शास्यताम् इति ॥४॥
यात सेना-अग्रगाः सर्वे महा-बल-परिग्रहाः । स वाजि-रथ-मातङ्गाः स कपिः शास्यताम् इति ॥४॥
yāta senā-agragāḥ sarve mahā-bala-parigrahāḥ . sa vāji-ratha-mātaṅgāḥ sa kapiḥ śāsyatām iti ..4..
यत्तैश्च खलु भाव्यं स्यात्तमासाद्य वनालयम् । कर्म चापि समाधेयं देशकालविरोधितम् ॥५॥
यत् तैः च खलु भाव्यम् स्यात् तम् आसाद्य वन-आलयम् । कर्म च अपि समाधेयम् देश-काल-विरोधितम् ॥५॥
yat taiḥ ca khalu bhāvyam syāt tam āsādya vana-ālayam . karma ca api samādheyam deśa-kāla-virodhitam ..5..
न ह्यहं तं कपिं मन्ये कर्मणा प्रतितर्कयन् । सर्वथा तन्महद्भूतं महाबलपरिग्रहम् ॥६॥
न हि अहम् तम् कपिम् मन्ये कर्मणा प्रतितर्कयन् । सर्वथा तत् महत् भूतम् महा-बल-परिग्रहम् ॥६॥
na hi aham tam kapim manye karmaṇā pratitarkayan . sarvathā tat mahat bhūtam mahā-bala-parigraham ..6..
वानरोयमिति ज्ञात्वा नहि शुध्दयति मे मनः।नैवाह तं कंपि मन्ये यथेयं प्रस्तुता कथा॥७॥
वानरः इयम् इति ज्ञात्वा नहि मे मनः।न एव आह तम् कंपि मन्ये यथा इयम् प्रस्तुता कथा॥७॥
vānaraḥ iyam iti jñātvā nahi me manaḥ.na eva āha tam kaṃpi manye yathā iyam prastutā kathā..7..
भवेदिन्द्रेण वा सृष्टमस्मदर्थं तपोबलात् ।सनागयक्षगन्धर्वा देवासुरमहर्षयः ॥८॥
भवेत् इन्द्रेण वा सृष्टम् अस्मद्-अर्थम् तपः-बलात् ।स नाग-यक्ष-गन्धर्वाः देव-असुर-महा-ऋषयः ॥८॥
bhavet indreṇa vā sṛṣṭam asmad-artham tapaḥ-balāt .sa nāga-yakṣa-gandharvāḥ deva-asura-mahā-ṛṣayaḥ ..8..
युष्माभिः सहितैः सर्वैर्मया सह विनिर्जिताः ।तैरवश्यं विधातव्यं व्यलीकं किं चिदेव नः ॥९॥
युष्माभिः सहितैः सर्वैः मया सह विनिर्जिताः ।तैः अवश्यम् विधातव्यम् व्यलीकम् किम् चित् एव नः ॥९॥
yuṣmābhiḥ sahitaiḥ sarvaiḥ mayā saha vinirjitāḥ .taiḥ avaśyam vidhātavyam vyalīkam kim cit eva naḥ ..9..
तदेव नात्र सन्देहः प्रसह्य परिगृह्यताम् ।यात सेनाग्रगाः सर्वे महाबलपरिग्रहाः॥१०॥
तत् एव न अत्र सन्देहः प्रसह्य परिगृह्यताम् ।यात सेना-अग्रगाः सर्वे महा-बल-परिग्रहाः॥१०॥
tat eva na atra sandehaḥ prasahya parigṛhyatām .yāta senā-agragāḥ sarve mahā-bala-parigrahāḥ..10..
सवाजिरथामाङ्गा स संदेह प्रसह्य परिगृह्यताम्।नावमन्यो भवद्भिश्च हरिः क्रूरपराक्रमः ॥११॥
स वाजि-रथ-अमाङ्गा स संदेह प्रसह्य परिगृह्यताम्।न अवमन्यः भवद्भिः च हरिः क्रूर-पराक्रमः ॥११॥
sa vāji-ratha-amāṅgā sa saṃdeha prasahya parigṛhyatām.na avamanyaḥ bhavadbhiḥ ca hariḥ krūra-parākramaḥ ..11..
दृष्टा हि हरयः शीघ्रा मया विपुलविक्रमाः ।वाली च सह सुग्रीवो जाम्बवांश्च महाबलः ॥१२॥
दृष्टाः हि हरयः शीघ्राः मया विपुल-विक्रमाः ।वाली च सह सुग्रीवः जाम्बवान् च महा-बलः ॥१२॥
dṛṣṭāḥ hi harayaḥ śīghrāḥ mayā vipula-vikramāḥ .vālī ca saha sugrīvaḥ jāmbavān ca mahā-balaḥ ..12..
नीलः सेनापतिश्चैव ये चान्ये द्विविदादयः ।नैव तेषां गतिर्भीमा न तेजो न पराक्रमः ॥१३॥
नीलः सेनापतिः च एव ये च अन्ये द्विविद-आदयः ।न एव तेषाम् गतिः भीमा न तेजः न पराक्रमः ॥१३॥
nīlaḥ senāpatiḥ ca eva ye ca anye dvivida-ādayaḥ .na eva teṣām gatiḥ bhīmā na tejaḥ na parākramaḥ ..13..
न मतिर्न बलोत्साहो न रूपपरिकल्पनम् ।महत्सत्त्वमिदं ज्ञेयं कपिरूपं व्यवस्थितम् ॥१४॥
न मतिः न बल-उत्साहः न रूप-परिकल्पनम् ।महत् सत्त्वम् इदम् ज्ञेयम् कपि-रूपम् व्यवस्थितम् ॥१४॥
na matiḥ na bala-utsāhaḥ na rūpa-parikalpanam .mahat sattvam idam jñeyam kapi-rūpam vyavasthitam ..14..
प्रयत्नं महदास्थाय क्रियतामस्य निग्रहः ।कामं लोकास्त्रयः सेन्द्राः ससुरासुरमानवाः ॥१५॥
प्रयत्नम् महत् आस्थाय क्रियताम् अस्य निग्रहः ।कामम् लोकाः त्रयः स इन्द्राः स सुर-असुर-मानवाः ॥१५॥
prayatnam mahat āsthāya kriyatām asya nigrahaḥ .kāmam lokāḥ trayaḥ sa indrāḥ sa sura-asura-mānavāḥ ..15..
भवतामग्रतः स्थातुं न पर्याप्ता रणाजिरे ।तथापि तु नयज्ञेन जयमाकाङ्क्षता रणे ॥१६॥
भवताम् अग्रतस् स्थातुम् न पर्याप्ताः रण-अजिरे ।तथा अपि तु नय-ज्ञेन जयम् आकाङ्क्षता रणे ॥१६॥
bhavatām agratas sthātum na paryāptāḥ raṇa-ajire .tathā api tu naya-jñena jayam ākāṅkṣatā raṇe ..16..
आत्मा रक्ष्यः प्रयत्नेन युद्धसिद्धिर्हि चञ्चला ।ते स्वामिवचनं सर्वे प्रतिगृह्य महौजसः ॥१७॥
आत्मा रक्ष्यः प्रयत्नेन युद्ध-सिद्धिः हि चञ्चला ।ते स्वामि-वचनम् सर्वे प्रतिगृह्य महा-ओजसः ॥१७॥
ātmā rakṣyaḥ prayatnena yuddha-siddhiḥ hi cañcalā .te svāmi-vacanam sarve pratigṛhya mahā-ojasaḥ ..17..
समुत्पेतुर्महावेगा हुताशसमतेजसः ।रथैश्च मत्तैर्नागैश्च वाजिभिश्च महाजवैः ॥१८॥
समुत्पेतुः महा-वेगाः हुताश-सम-तेजसः ।रथैः च मत्तैः नागैः च वाजिभिः च महा-जवैः ॥१८॥
samutpetuḥ mahā-vegāḥ hutāśa-sama-tejasaḥ .rathaiḥ ca mattaiḥ nāgaiḥ ca vājibhiḥ ca mahā-javaiḥ ..18..
शस्त्रैश्च विविधैस्तीक्ष्णैः सर्वैश्चोपचिता बलैः ।ततस्तं ददृशुर्वीरा दीप्यमानं महाकपिम् ॥१९॥
शस्त्रैः च विविधैः तीक्ष्णैः सर्वैः च उपचिताः बलैः ।ततस् तम् ददृशुः वीराः दीप्यमानम् महा-कपिम् ॥१९॥
śastraiḥ ca vividhaiḥ tīkṣṇaiḥ sarvaiḥ ca upacitāḥ balaiḥ .tatas tam dadṛśuḥ vīrāḥ dīpyamānam mahā-kapim ..19..
रश्मिमन्तमिवोद्यन्तं स्वतेजोरश्मिमालिनम् ।तोरणस्थं महावेगं महासत्त्वं महाबलम् ॥२०॥
रश्मिमन्तम् इव उद्यन्तम् स्व-तेजः-रश्मि-मालिनम् ।तोरण-स्थम् महा-वेगम् महा-सत्त्वम् महा-बलम् ॥२०॥
raśmimantam iva udyantam sva-tejaḥ-raśmi-mālinam .toraṇa-stham mahā-vegam mahā-sattvam mahā-balam ..20..
महामतिं महोत्साहं महाकायं महाबलम् ।तं समीक्ष्यैव ते सर्वे दिक्षु सर्वास्ववस्थिताः ॥२१॥
महामतिम् महा-उत्साहम् महा-कायम् महा-बलम् ।तम् समीक्ष्य एव ते सर्वे दिक्षु सर्वासु अवस्थिताः ॥२१॥
mahāmatim mahā-utsāham mahā-kāyam mahā-balam .tam samīkṣya eva te sarve dikṣu sarvāsu avasthitāḥ ..21..
तैस्तैः प्रहरणैर्भीमैरभिपेतुस्ततस्ततः । तस्य पञ्चायसास्तीक्ष्णाः सिताः पीतमुखाः शराः । शिरस्त्युत्पलपत्राभा दुर्धरेण निपातिताः ॥२२॥
तैः तैः प्रहरणैः भीमैः अभिपेतुः ततस् ततस् । तस्य पञ्च आयसाः तीक्ष्णाः सिताः पीत-मुखाः शराः । शिरस्ति-उत्पल-पत्र-आभाः दुर्धरेण निपातिताः ॥२२॥
taiḥ taiḥ praharaṇaiḥ bhīmaiḥ abhipetuḥ tatas tatas . tasya pañca āyasāḥ tīkṣṇāḥ sitāḥ pīta-mukhāḥ śarāḥ . śirasti-utpala-patra-ābhāḥ durdhareṇa nipātitāḥ ..22..
स तैः पञ्चभिराविद्धः शरैः शिरसि वानरः । उत्पपात नदन्व्योम्नि दिशो दश विनादयन् ॥२३॥
स तैः पञ्चभिः आविद्धः शरैः शिरसि वानरः । उत्पपात नदन् व्योम्नि दिशः दश विनादयन् ॥२३॥
sa taiḥ pañcabhiḥ āviddhaḥ śaraiḥ śirasi vānaraḥ . utpapāta nadan vyomni diśaḥ daśa vinādayan ..23..
ततस्तु दुर्धरो वीरः सरथः सज्जकार्मुकः । किरञ्शरशतैर्नैकैरभिपेदे महाबलः ॥२४॥
ततस् तु दुर्धरः वीरः स रथः सज्ज-कार्मुकः । किरन् शर-शतैः न एकैः अभिपेदे महा-बलः ॥२४॥
tatas tu durdharaḥ vīraḥ sa rathaḥ sajja-kārmukaḥ . kiran śara-śataiḥ na ekaiḥ abhipede mahā-balaḥ ..24..
स कपिर्वारयामास तं व्योम्नि शरवर्षिणम् । वृष्टिमन्तं पयोदान्ते पयोदमिव मारुतः ॥२५॥
स कपिः वारयामास तम् व्योम्नि शर-वर्षिणम् । वृष्टिमन्तम् पयोद-अन्ते पयोदम् इव मारुतः ॥२५॥
sa kapiḥ vārayāmāsa tam vyomni śara-varṣiṇam . vṛṣṭimantam payoda-ante payodam iva mārutaḥ ..25..
अर्द्यमानस्ततस्तेन दुर्धरेणानिलात्मजः । चकार निनदं भूयो व्यवर्धत च वेगवान् ॥२६॥
अर्द्यमानः ततस् तेन दुर्धरेण अनिलात्मजः । चकार निनदम् भूयस् व्यवर्धत च वेगवान् ॥२६॥
ardyamānaḥ tatas tena durdhareṇa anilātmajaḥ . cakāra ninadam bhūyas vyavardhata ca vegavān ..26..
स दूरं सहसोत्पत्य दुर्धरस्य रथे हरिः । निपपात महावेगो विद्युद्राशिर्गिराविव ॥२७॥
स दूरम् सहसा उत्पत्य दुर्धरस्य रथे हरिः । निपपात महा-वेगः विद्युत्-राशिः गिरौ इव ॥२७॥
sa dūram sahasā utpatya durdharasya rathe hariḥ . nipapāta mahā-vegaḥ vidyut-rāśiḥ girau iva ..27..
ततस्तं मथिताष्टाश्वं रथं भग्नाक्षकूवरम् । विहाय न्यपतद्भूमौ दुर्धरस्त्यक्तजीवितः ॥२८॥
ततस् तम् मथित-अष्ट-अश्वम् रथम् भग्न-अक्ष-कूवरम् । विहाय न्यपतत् भूमौ दुर्धरः त्यक्त-जीवितः ॥२८॥
tatas tam mathita-aṣṭa-aśvam ratham bhagna-akṣa-kūvaram . vihāya nyapatat bhūmau durdharaḥ tyakta-jīvitaḥ ..28..
तं विरूपाक्षयूपाक्षौ दृष्ट्वा निपतितं भुवि । सञ्जातरोषौ दुर्धर्षावुत्पेततुररिन्दमौ ॥२९॥
तम् विरूपाक्ष-यूपाक्षौ दृष्ट्वा निपतितम् भुवि । सञ्जात-रोषौ दुर्धर्षौ उत्पेततुः अरिन्दमौ ॥२९॥
tam virūpākṣa-yūpākṣau dṛṣṭvā nipatitam bhuvi . sañjāta-roṣau durdharṣau utpetatuḥ arindamau ..29..
स ताभ्यां सहसोत्पत्य विष्ठितो विमलेऽम्बरे । मुद्गराभ्यां महाबाहुर्वक्षस्यभिहतः कपिः ॥३०॥
स ताभ्याम् सहसा उत्पत्य विष्ठितः विमले अम्बरे । मुद्गराभ्याम् महा-बाहुः वक्षसि अभिहतः कपिः ॥३०॥
sa tābhyām sahasā utpatya viṣṭhitaḥ vimale ambare . mudgarābhyām mahā-bāhuḥ vakṣasi abhihataḥ kapiḥ ..30..
तयोर्वेगवतोर्वेगं विनिहत्य महाबलः । निपपात पुनर्भूमौ सुपर्णसमविक्रमः ॥३१॥
तयोः वेगवतोः वेगम् विनिहत्य महा-बलः । निपपात पुनर् भूमौ सुपर्ण-सम-विक्रमः ॥३१॥
tayoḥ vegavatoḥ vegam vinihatya mahā-balaḥ . nipapāta punar bhūmau suparṇa-sama-vikramaḥ ..31..
स सालवृक्षमासाद्य समुत्पाट्य च वानरः । तावुभौ राक्षसौ वीरौ जघान पवनात्मजः ॥३२॥
स साल-वृक्षम् आसाद्य समुत्पाट्य च वानरः । तौ उभौ राक्षसौ वीरौ जघान पवनात्मजः ॥३२॥
sa sāla-vṛkṣam āsādya samutpāṭya ca vānaraḥ . tau ubhau rākṣasau vīrau jaghāna pavanātmajaḥ ..32..
ततस्तांस्त्रीन्हताञ्ज्ञात्वा वानरेण तरस्विना । अभिपेदे महावेगः प्रसह्य प्रघसो हरिम् ॥३३॥
ततस् तान् त्रीन् हतान् ज्ञात्वा वानरेण तरस्विना । अभिपेदे महा-वेगः प्रसह्य प्रघसः हरिम् ॥३३॥
tatas tān trīn hatān jñātvā vānareṇa tarasvinā . abhipede mahā-vegaḥ prasahya praghasaḥ harim ..33..
भासकर्णश्च सङ्क्रुद्धः शूलमादाय वीर्यवान् । एकतः कपिशार्दूलं यशस्विनमवस्थितौ ॥३४॥
भासकर्णः च सङ्क्रुद्धः शूलम् आदाय वीर्यवान् । एकतस् कपि-शार्दूलम् यशस्विनम् अवस्थितौ ॥३४॥
bhāsakarṇaḥ ca saṅkruddhaḥ śūlam ādāya vīryavān . ekatas kapi-śārdūlam yaśasvinam avasthitau ..34..
पट्टिशेन शिताग्रेण प्रघसः प्रत्यपोथयत् । भासकर्णश्च शूलेन राक्षसः कपिसत्तमम् ॥३५॥
पट्टिशेन शित-अग्रेण प्रघसः प्रत्यपोथयत् । भासकर्णः च शूलेन राक्षसः कपि-सत्तमम् ॥३५॥
paṭṭiśena śita-agreṇa praghasaḥ pratyapothayat . bhāsakarṇaḥ ca śūlena rākṣasaḥ kapi-sattamam ..35..
स ताभ्यां विक्षतैर्गात्रैरसृग्दिग्धतनूरुहः । अभवद्वानरः क्रुद्धो बालसूर्यसमप्रभः ॥३६॥
स ताभ्याम् विक्षतैः गात्रैः असृज्-दिग्ध-तनूरुहः । अभवत् वानरः क्रुद्धः बाल-सूर्य-सम-प्रभः ॥३६॥
sa tābhyām vikṣataiḥ gātraiḥ asṛj-digdha-tanūruhaḥ . abhavat vānaraḥ kruddhaḥ bāla-sūrya-sama-prabhaḥ ..36..
समुत्पाट्य गिरेः शृङ्गं समृगव्यालपादपम् । जघान हनुमान्वीरो राक्षसौ कपिकुञ्जरः । गिरिशृङ्गसुनिष्रिष्टौ तिलशस्तौ बभूवतुः॥३७॥
समुत्पाट्य गिरेः शृङ्गम् स मृग-व्याल-पादपम् । जघान हनुमान् वीरः राक्षसौ कपि-कुञ्जरः । गिरिशृङ्ग-सुनिष्रिष्टौ तिलशस् तौ बभूवतुः॥३७॥
samutpāṭya gireḥ śṛṅgam sa mṛga-vyāla-pādapam . jaghāna hanumān vīraḥ rākṣasau kapi-kuñjaraḥ . giriśṛṅga-suniṣriṣṭau tilaśas tau babhūvatuḥ..37..
ततस्तेष्ववसन्नेषु सेनापतिषु पञ्चसु । बलं तदवशेषं तु नाशयामास वानरः ॥३८॥
ततस् तेषु अवसन्नेषु सेनापतिषु पञ्चसु । बलम् तद्-अवशेषम् तु नाशयामास वानरः ॥३८॥
tatas teṣu avasanneṣu senāpatiṣu pañcasu . balam tad-avaśeṣam tu nāśayāmāsa vānaraḥ ..38..
अश्वैरश्वान्गजैर्नागान्योधैर्योधान्रथै रथान् । स कपिर्नाशयामास सहस्राक्ष इवासुरान् ॥३९॥
अश्वैः अश्वान् गजैः नागान् योधैः योधान् रथैः रथान् । स कपिः नाशयामास सहस्राक्षः इव असुरान् ॥३९॥
aśvaiḥ aśvān gajaiḥ nāgān yodhaiḥ yodhān rathaiḥ rathān . sa kapiḥ nāśayāmāsa sahasrākṣaḥ iva asurān ..39..
हतैर्नागैश्च तुरगैर्भग्नाक्षैश्च महारथैः । हतैश्च राक्षसैर्भूमी रुद्धमार्गा समन्ततः ॥४०॥
हतैः नागैः च तुरगैः भग्न-अक्षैः च महा-रथैः । हतैः च राक्षसैः भूमी रुद्ध-मार्गा समन्ततः ॥४०॥
hataiḥ nāgaiḥ ca turagaiḥ bhagna-akṣaiḥ ca mahā-rathaiḥ . hataiḥ ca rākṣasaiḥ bhūmī ruddha-mārgā samantataḥ ..40..
ततः कपिस्तान्ध्वजिनीपतीन्रणे निहत्य वीरान्सबलान्सवाहनान् । तदेव वीरः परिगृह्य तोरणं कृतक्षणः काल इव प्रजाक्षये ॥४१॥
ततस् कपिः तान् ध्वजिनी-पतीन् रणे निहत्य वीरान् स बलान् स वाहनान् । तत् एव वीरः परिगृह्य तोरणम् कृतक्षणः कालः इव प्रजा-क्षये ॥४१॥
tatas kapiḥ tān dhvajinī-patīn raṇe nihatya vīrān sa balān sa vāhanān . tat eva vīraḥ parigṛhya toraṇam kṛtakṣaṇaḥ kālaḥ iva prajā-kṣaye ..41..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In