This overlay will guide you through the buttons:

| |
|
ततस्तु रक्षोऽधिपतिर्महात्मा हनूमताक्षे निहते कुमारे । मनः समाधाय तदेन्द्रकल्पं समादिदेशेन्द्रजितं स रोषात् ॥ १॥
ततस् तु रक्षः-अधिपतिः महात्मा हनूमता अक्षे निहते कुमारे । मनः समाधाय तदा इन्द्र-कल्पम् समादिदेश इन्द्रजितम् स रोषात् ॥ १॥
tatas tu rakṣaḥ-adhipatiḥ mahātmā hanūmatā akṣe nihate kumāre . manaḥ samādhāya tadā indra-kalpam samādideśa indrajitam sa roṣāt .. 1..
त्वमस्त्रविच्छस्त्रभृतां वरिष्ठः सुरासुराणामपि शोकदाता । सुरेषु सेन्द्रेषु च दृष्टकर्मा पितामहाराधनसञ्चितास्त्रः ॥ २॥
त्वम् अस्त्र-विद् शस्त्रभृताम् वरिष्ठः सुर-असुराणाम् अपि शोक-दाता । सुरेषु स इन्द्रेषु च दृष्ट-कर्मा पितामह-आराधन-सञ्चित-अस्त्रः ॥ २॥
tvam astra-vid śastrabhṛtām variṣṭhaḥ sura-asurāṇām api śoka-dātā . sureṣu sa indreṣu ca dṛṣṭa-karmā pitāmaha-ārādhana-sañcita-astraḥ .. 2..
त्वदस्त्रबलमासाद्य नासुरा न मरुद्गणाः । न कश्चित्त्रिषु लोकेषु संयुगे न गतश्रमः ॥ ३॥
त्वद्-अस्त्र-बलम् आसाद्य न असुराः न मरुत्-गणाः । न कश्चिद् त्रिषु लोकेषु संयुगे न गत-श्रमः ॥ ३॥
tvad-astra-balam āsādya na asurāḥ na marut-gaṇāḥ . na kaścid triṣu lokeṣu saṃyuge na gata-śramaḥ .. 3..
न कश्चित्त्रिषु लोकेषु संयुगेन गतश्रमः। भुजवीर्याभिगुप्तश्च तपसा चाभिरक्षितः । देशकालविभागज्ञस्त्वमेव मतिसत्तमः ॥ ४॥
न कश्चिद् त्रिषु लोकेषु संयुगेन गत-श्रमः। भुज-वीर्य-अभिगुप्तः च तपसा च अभिरक्षितः । देश-काल-विभाग-ज्ञः त्वम् एव मति-सत्तमः ॥ ४॥
na kaścid triṣu lokeṣu saṃyugena gata-śramaḥ. bhuja-vīrya-abhiguptaḥ ca tapasā ca abhirakṣitaḥ . deśa-kāla-vibhāga-jñaḥ tvam eva mati-sattamaḥ .. 4..
न तेऽस्त्यशक्यं समरेषु कर्मणा न तेऽस्त्यकार्यं मतिपूर्वमन्त्रणे । न सोऽस्ति कश्चित्त्रिषु सङ्ग्रहेषु वै न वेद यस्तेऽस्त्रबलं बलं च ते ॥ ५॥
न ते अस्ति अशक्यम् समरेषु कर्मणा न ते अस्ति अकार्यम् मति-पूर्व-मन्त्रणे । न सः अस्ति कश्चिद् त्रिषु सङ्ग्रहेषु वै न वेद यः ते अस्त्र-बलम् बलम् च ते ॥ ५॥
na te asti aśakyam samareṣu karmaṇā na te asti akāryam mati-pūrva-mantraṇe . na saḥ asti kaścid triṣu saṅgraheṣu vai na veda yaḥ te astra-balam balam ca te .. 5..
ममानुरूपं तपसो बलं च ते पराक्रमश्चास्त्रबलं च संयुगे । न त्वां समासाद्य रणावमर्दे मनः श्रमं गच्छति निश्चितार्थम् ॥ ६॥
मम अनुरूपम् तपसः बलम् च ते पराक्रमः च अस्त्र-बलम् च संयुगे । न त्वाम् समासाद्य रण-अवमर्दे मनः श्रमम् गच्छति निश्चित-अर्थम् ॥ ६॥
mama anurūpam tapasaḥ balam ca te parākramaḥ ca astra-balam ca saṃyuge . na tvām samāsādya raṇa-avamarde manaḥ śramam gacchati niścita-artham .. 6..
निहता इङ्कराः सर्वे जम्बुमाली च राक्षसः । अमात्यपुत्रा वीराश्च पञ्च सेनाग्रयायिनः ॥ ७॥
निहताः इङ्कराः सर्वे जम्बुमाली च राक्षसः । अमात्य-पुत्राः वीराः च पञ्च सेना-अग्र-यायिनः ॥ ७॥
nihatāḥ iṅkarāḥ sarve jambumālī ca rākṣasaḥ . amātya-putrāḥ vīrāḥ ca pañca senā-agra-yāyinaḥ .. 7..
बलानि सुसमृद्धानि साश्वनागरथानि च। सहोदरस्ते दयितः कुमारोऽक्षश्च सूदितः । न तु तेष्वेव मे सारो यस्त्वय्यरिनिषूदन ॥ ८॥
बलानि सु समृद्धानि स अश्व-नाग-रथानि च। सहोदरः ते दयितः कुमारः अक्षः च सूदितः । न तु तेषु एव मे सारः यः त्वयि अरि-निषूदन ॥ ८॥
balāni su samṛddhāni sa aśva-nāga-rathāni ca. sahodaraḥ te dayitaḥ kumāraḥ akṣaḥ ca sūditaḥ . na tu teṣu eva me sāraḥ yaḥ tvayi ari-niṣūdana .. 8..
इदं हि दृष्ट्वा मतिमन्महद्बलं कपेः प्रभावं च पराक्रमं च । त्वमात्मनश्चापि समीक्ष्य सारं कुरुष्व वेगं स्वबलानुरूपम् ॥ ९॥
इदम् हि दृष्ट्वा मतिमत् महत् बलम् कपेः प्रभावम् च पराक्रमम् च । त्वम् आत्मनः च अपि समीक्ष्य सारम् कुरुष्व वेगम् स्व-बल-अनुरूपम् ॥ ९॥
idam hi dṛṣṭvā matimat mahat balam kapeḥ prabhāvam ca parākramam ca . tvam ātmanaḥ ca api samīkṣya sāram kuruṣva vegam sva-bala-anurūpam .. 9..
बलावमर्दस्त्वयि संनिकृष्टे यथा गते शाम्यति शान्तशत्रौ । तथा समीक्ष्यात्मबलं परं च समारभस्वास्त्रविदां वरिष्ठ ॥ १०॥
बल-अवमर्दः त्वयि संनिकृष्टे यथा गते शाम्यति शान्त-शत्रौ । तथा समीक्ष्य आत्म-बलम् परम् च समारभस्व अस्त्र-विदाम् वरिष्ठ ॥ १०॥
bala-avamardaḥ tvayi saṃnikṛṣṭe yathā gate śāmyati śānta-śatrau . tathā samīkṣya ātma-balam param ca samārabhasva astra-vidām variṣṭha .. 10..
न वीरसेना गणशोच्यवन्ति न वज्रमादाय विशालसारम्॥न मारुतस्यास्य गतेः प्रमाणं न चाग्निकल्पः करणेन हन्तुम्॥११॥
न वीरसेनाः गण-शोच्यवन्ति न वज्रम् आदाय विशाल-सारम्॥न मारुतस्य अस्य गतेः प्रमाणम् न च अग्नि-कल्पः करणेन हन्तुम्॥११॥
na vīrasenāḥ gaṇa-śocyavanti na vajram ādāya viśāla-sāram..na mārutasya asya gateḥ pramāṇam na ca agni-kalpaḥ karaṇena hantum..11..
तमेवमर्थं प्रसमीक्ष्य सम्यक् स्वकर्मसाम्याद्धि समाहितात्मा।स्मरंश्च दिव्यं धनुषोऽस्त्रवीर्यं व्रजाक्षतं कर्म समारभस्व॥१२॥
तम् एवम् अर्थम् प्रसमीक्ष्य सम्यक् स्व-कर्म-साम्यात् हि समाहित-आत्मा।स्मरन् च दिव्यम् धनुषः अस्त्र-वीर्यम् व्रज अक्षतम् कर्म समारभस्व॥१२॥
tam evam artham prasamīkṣya samyak sva-karma-sāmyāt hi samāhita-ātmā.smaran ca divyam dhanuṣaḥ astra-vīryam vraja akṣatam karma samārabhasva..12..
न खल्वियं मतिः श्रेष्ठा यत्त्वां सम्प्रेषयाम्यहम् । इयं च राजधर्माणां क्षत्रस्य च मतिर्मता ॥१३॥
न खलु इयम् मतिः श्रेष्ठा यत् त्वाम् सम्प्रेषयामि अहम् । इयम् च राज-धर्माणाम् क्षत्रस्य च मतिः मता ॥१३॥
na khalu iyam matiḥ śreṣṭhā yat tvām sampreṣayāmi aham . iyam ca rāja-dharmāṇām kṣatrasya ca matiḥ matā ..13..
नानाशस्त्रैश्च सङ्ग्रामे वैशारद्यमरिन्दम । अवश्यमेव बोद्धव्यं काम्यश्च विजयो रणे ॥१४॥
नाना शस्त्रैः च सङ्ग्रामे वैशारद्यम् अरिन्दम । अवश्यम् एव बोद्धव्यम् काम्यः च विजयः रणे ॥१४॥
nānā śastraiḥ ca saṅgrāme vaiśāradyam arindama . avaśyam eva boddhavyam kāmyaḥ ca vijayaḥ raṇe ..14..
ततः पितुस्तद्वचनं निशम्य प्रदक्षिणं दक्षसुतप्रभावः । चकार भर्तारमदीनसत्त्वो रणाय वीरः प्रतिपन्नबुद्धिः ॥१५॥
ततस् पितुः तत् वचनम् निशम्य प्रदक्षिणम् दक्षसुत-प्रभावः । चकार भर्तारम् अदीन-सत्त्वः रणाय वीरः प्रतिपन्न-बुद्धिः ॥१५॥
tatas pituḥ tat vacanam niśamya pradakṣiṇam dakṣasuta-prabhāvaḥ . cakāra bhartāram adīna-sattvaḥ raṇāya vīraḥ pratipanna-buddhiḥ ..15..
ततस्तैः स्वगणैरिष्टैरिन्द्रजित्प्रतिपूजितः । युद्धोद्धतकृतोत्साहः सङ्ग्रामं प्रतिपद्यत ॥१६॥
ततस् तैः स्व-गणैः इष्टैः इन्द्रजित् प्रतिपूजितः । युद्ध-उद्धत-कृत-उत्साहः सङ्ग्रामम् प्रतिपद्यत ॥१६॥
tatas taiḥ sva-gaṇaiḥ iṣṭaiḥ indrajit pratipūjitaḥ . yuddha-uddhata-kṛta-utsāhaḥ saṅgrāmam pratipadyata ..16..
श्रीमान्पद्मपलाशाक्षो राक्षसाधिपतेः सुतः । निर्जगाम महातेजाः समुद्र इव पर्वसु ॥१७॥
श्रीमान् पद्म-पलाश-अक्षः राक्षस-अधिपतेः सुतः । निर्जगाम महा-तेजाः समुद्रः इव पर्वसु ॥१७॥
śrīmān padma-palāśa-akṣaḥ rākṣasa-adhipateḥ sutaḥ . nirjagāma mahā-tejāḥ samudraḥ iva parvasu ..17..
स पक्षि राजोपमतुल्यवेगैर् व्यालैश्चतुर्भिः सिततीक्ष्णदंष्ट्रैः । रथं समायुक्तमसङ्गवेगं समारुरोहेन्द्रजिदिन्द्रकल्पः ॥१८॥
स पक्षि राज-उपम-तुल्य-वेगैः व्यालैः चतुर्भिः सित-तीक्ष्ण-दंष्ट्रैः । रथम् समायुक्तम् असङ्ग-वेगम् समारुरोह इन्द्रजित् इन्द्र-कल्पः ॥१८॥
sa pakṣi rāja-upama-tulya-vegaiḥ vyālaiḥ caturbhiḥ sita-tīkṣṇa-daṃṣṭraiḥ . ratham samāyuktam asaṅga-vegam samāruroha indrajit indra-kalpaḥ ..18..
स रथी धन्विनां श्रेष्ठः शस्त्रज्ञोऽस्त्रविदां वरः । रथेनाभिययौ क्षिप्रं हनूमान्यत्र सोऽभवत् ॥१९॥
स रथी धन्विनाम् श्रेष्ठः शस्त्र-ज्ञः अस्त्र-विदाम् वरः । रथेन अभिययौ क्षिप्रम् हनूमान् यत्र सः अभवत् ॥१९॥
sa rathī dhanvinām śreṣṭhaḥ śastra-jñaḥ astra-vidām varaḥ . rathena abhiyayau kṣipram hanūmān yatra saḥ abhavat ..19..
स तस्य रथनिर्घोषं ज्यास्वनं कार्मुकस्य च । निशम्य हरिवीरोऽसौ सम्प्रहृष्टतरोऽभवत् ॥२०॥
स तस्य रथ-निर्घोषम् ज्या-स्वनम् कार्मुकस्य च । निशम्य हरि-वीरः असौ संप्रहृष्टतरः अभवत् ॥२०॥
sa tasya ratha-nirghoṣam jyā-svanam kārmukasya ca . niśamya hari-vīraḥ asau saṃprahṛṣṭataraḥ abhavat ..20..
इन्द्रजिच्चापमादाय शितशल्यांश्च सायकान् । हनूमन्तमभिप्रेत्य जगाम रणपण्डितः ॥२१॥
इन्द्रजित्-चापम् आदाय शित-शल्यान् च सायकान् । हनूमन्तम् अभिप्रेत्य जगाम रणपण्डितः ॥२१॥
indrajit-cāpam ādāya śita-śalyān ca sāyakān . hanūmantam abhipretya jagāma raṇapaṇḍitaḥ ..21..
तस्मिंस्ततः संयति जातहर्षे रणाय निर्गच्छति बाणपाणौ । दिशश्च सर्वाः कलुषा बभूवुर् मृगाश्च रौद्रा बहुधा विनेदुः ॥२२॥
तस्मिन् ततस् संयति जात-हर्षे रणाय निर्गच्छति बाण-पाणौ । दिशः च सर्वाः कलुषाः बभूवुः मृगाः च रौद्राः बहुधा विनेदुः ॥२२॥
tasmin tatas saṃyati jāta-harṣe raṇāya nirgacchati bāṇa-pāṇau . diśaḥ ca sarvāḥ kaluṣāḥ babhūvuḥ mṛgāḥ ca raudrāḥ bahudhā vineduḥ ..22..
समागतास्तत्र तु नागयक्षा महर्षयश्चक्रचराश्च सिद्धाः । नभः समावृत्य च पक्षिसङ्घा विनेदुरुच्चैः परमप्रहृष्टाः ॥२३॥
समागताः तत्र तु नाग-यक्षाः महा-ऋषयः चक्रचराः च सिद्धाः । नभः समावृत्य च पक्षि-सङ्घाः विनेदुः उच्चैस् परम-प्रहृष्टाः ॥२३॥
samāgatāḥ tatra tu nāga-yakṣāḥ mahā-ṛṣayaḥ cakracarāḥ ca siddhāḥ . nabhaḥ samāvṛtya ca pakṣi-saṅghāḥ vineduḥ uccais parama-prahṛṣṭāḥ ..23..
आयन्तं सरथं दृष्ट्वा तूर्णमिन्द्रजितं कपिः ।ननाद च महानादं व्यवर्धत च वेगवान् ॥२४॥
आयन्तम् स रथम् दृष्ट्वा तूर्णम् इन्द्रजितम् कपिः ।ननाद च महा-नादम् व्यवर्धत च वेगवान् ॥२४॥
āyantam sa ratham dṛṣṭvā tūrṇam indrajitam kapiḥ .nanāda ca mahā-nādam vyavardhata ca vegavān ..24..
इन्द्रजित्तु रथं दिव्यमास्थितश्चित्रकार्मुकः । धनुर्विस्फारयामास तडिदूर्जितनिःस्वनम् ॥२५॥
इन्द्रजित् तु रथम् दिव्यम् आस्थितः चित्र-कार्मुकः । धनुः विस्फारयामास तडित्-ऊर्जित-निःस्वनम् ॥२५॥
indrajit tu ratham divyam āsthitaḥ citra-kārmukaḥ . dhanuḥ visphārayāmāsa taḍit-ūrjita-niḥsvanam ..25..
ततः समेतावतितीक्ष्णवेगौ महाबलौ तौ रणनिर्विशङ्कौ । कपिश्च रक्षोऽधिपतेश्च पुत्रः सुरासुरेन्द्राविव बद्धवैरौ ॥२६॥
ततस् समेतौ अतितीक्ष्ण-वेगौ महा-बलौ तौ रण-निर्विशङ्कौ । कपिः च रक्षः-अधिपतेः च पुत्रः सुर-असुर-इन्द्रौ इव बद्ध-वैरौ ॥२६॥
tatas sametau atitīkṣṇa-vegau mahā-balau tau raṇa-nirviśaṅkau . kapiḥ ca rakṣaḥ-adhipateḥ ca putraḥ sura-asura-indrau iva baddha-vairau ..26..
स तस्य वीरस्य महारथस्या धनुष्मतः संयति संमतस्य । शरप्रवेगं व्यहनत्प्रवृद्धश् चचार मार्गे पितुरप्रमेयः ॥२७॥
स तस्य वीरस्य महा-रथस्य धनुष्मतः संयति संमतस्य । शर-प्रवेगम् व्यहनत् प्रवृद्धः चचार मार्गे पितुः अप्रमेयः ॥२७॥
sa tasya vīrasya mahā-rathasya dhanuṣmataḥ saṃyati saṃmatasya . śara-pravegam vyahanat pravṛddhaḥ cacāra mārge pituḥ aprameyaḥ ..27..
ततः शरानायततीक्ष्णशल्यान् सुपत्रिणः काञ्चनचित्रपुङ्खान् । मुमोच वीरः परवीरहन्ता सुसन्ततान्वज्रनिपातवेगान् ॥२८॥
ततस् शरान् आयत-तीक्ष्ण-शल्यान् सुपत्रिणः काञ्चन-चित्र-पुङ्खान् । मुमोच वीरः पर-वीर-हन्ता सुसन्ततान् वज्र-निपात-वेगान् ॥२८॥
tatas śarān āyata-tīkṣṇa-śalyān supatriṇaḥ kāñcana-citra-puṅkhān . mumoca vīraḥ para-vīra-hantā susantatān vajra-nipāta-vegān ..28..
ततः स तत्स्यन्दननिःस्वनं च मृदङ्गभेरीपटहस्वनं च । विकृष्यमाणस्य च कार्मुकस्य निशम्य घोषं पुनरुत्पपात ॥२९॥
ततस् स तद्-स्यन्दन-निःस्वनम् च मृदङ्ग-भेरी-पटह-स्वनम् च । विकृष्यमाणस्य च कार्मुकस्य निशम्य घोषम् पुनर् उत्पपात ॥२९॥
tatas sa tad-syandana-niḥsvanam ca mṛdaṅga-bherī-paṭaha-svanam ca . vikṛṣyamāṇasya ca kārmukasya niśamya ghoṣam punar utpapāta ..29..
शराणामन्तरेष्वाशु व्यवर्तत महाकपिः । हरिस्तस्याभिलक्षस्य मोक्षयँल्लक्ष्यसङ्ग्रहम् ॥३०॥
शराणाम् अन्तरेषु आशु व्यवर्तत महा-कपिः । हरिः तस्य अभिलक्षस्य मोक्षयन् लक्ष्य-सङ्ग्रहम् ॥३०॥
śarāṇām antareṣu āśu vyavartata mahā-kapiḥ . hariḥ tasya abhilakṣasya mokṣayan lakṣya-saṅgraham ..30..
शराणामग्रतस्तस्य पुनः समभिवर्तत । प्रसार्य हस्तौ हनुमानुत्पपातानिलात्मजः ॥३१॥
शराणाम् अग्रतस् तस्य पुनर् समभिवर्तत । प्रसार्य हस्तौ हनुमान् उत्पपात अनिलात्मजः ॥३१॥
śarāṇām agratas tasya punar samabhivartata . prasārya hastau hanumān utpapāta anilātmajaḥ ..31..
तावुभौ वेगसम्पन्नौ रणकर्मविशारदौ । सर्वभूतमनोग्राहि चक्रतुर्युद्धमुत्तमम् ॥३२॥
तौ उभौ वेग-सम्पन्नौ रण-कर्म-विशारदौ । सर्व-भूत-मनोग्राहि चक्रतुः युद्धम् उत्तमम् ॥३२॥
tau ubhau vega-sampannau raṇa-karma-viśāradau . sarva-bhūta-manogrāhi cakratuḥ yuddham uttamam ..32..
हनूमतो वेद न राक्षसोऽन्तरं न मारुतिस्तस्य महात्मनोऽन्तरम् । परस्परं निर्विषहौ बभूवतुः समेत्य तौ देवसमानविक्रमौ ॥३३॥
हनूमतः वेद न राक्षसः अन्तरम् न मारुतिः तस्य महात्मनः अन्तरम् । परस्परम् निर्विषहौ बभूवतुः समेत्य तौ देव-समान-विक्रमौ ॥३३॥
hanūmataḥ veda na rākṣasaḥ antaram na mārutiḥ tasya mahātmanaḥ antaram . parasparam nirviṣahau babhūvatuḥ sametya tau deva-samāna-vikramau ..33..
ततस्तु लक्ष्ये स विहन्यमाने शरेषु मोघेषु च सम्पतत्सु । जगाम चिन्तां महतीं महात्मा समाधिसंयोगसमाहितात्मा ॥३४॥
ततस् तु लक्ष्ये स विहन्यमाने शरेषु मोघेषु च सम्पतत्सु । जगाम चिन्ताम् महतीम् महात्मा समाधि-संयोग-समाहित-आत्मा ॥३४॥
tatas tu lakṣye sa vihanyamāne śareṣu mogheṣu ca sampatatsu . jagāma cintām mahatīm mahātmā samādhi-saṃyoga-samāhita-ātmā ..34..
ततो मतिं राक्षसराजसूनुश् चकार तस्मिन्हरिवीरमुख्ये । अवध्यतां तस्य कपेः समीक्ष्य कथं निगच्छेदिति निग्रहार्थम् ॥३५॥
ततस् मतिम् राक्षस-राज-सूनुः चकार तस्मिन् हरि-वीर-मुख्ये । अवध्य-ताम् तस्य कपेः समीक्ष्य कथम् निगच्छेत् इति निग्रह-अर्थम् ॥३५॥
tatas matim rākṣasa-rāja-sūnuḥ cakāra tasmin hari-vīra-mukhye . avadhya-tām tasya kapeḥ samīkṣya katham nigacchet iti nigraha-artham ..35..
ततः पैतामहां वीरः सोऽस्त्रमस्त्रविदां वरः । सन्दधे सुमहातेजास्तं हरिप्रवरं प्रति ॥३६॥
ततस् पैतामहाम् वीरः सः अस्त्रम् अस्त्र-विदाम् वरः । सन्दधे सु महा-तेजाः तम् हरि-प्रवरम् प्रति ॥३६॥
tatas paitāmahām vīraḥ saḥ astram astra-vidām varaḥ . sandadhe su mahā-tejāḥ tam hari-pravaram prati ..36..
अवध्योऽयमिति ज्ञात्वा तमस्त्रेणास्त्रतत्त्ववित् । निजग्राह महाबाहुर्मारुतात्मजमिन्द्रजित् ॥३७॥
अवध्यः अयम् इति ज्ञात्वा तम् अस्त्रेण अस्त्र-तत्त्व-विद् । निजग्राह महा-बाहुः मारुतात्मजम् इन्द्रजित् ॥३७॥
avadhyaḥ ayam iti jñātvā tam astreṇa astra-tattva-vid . nijagrāha mahā-bāhuḥ mārutātmajam indrajit ..37..
तेन बद्धस्ततोऽस्त्रेण राक्षसेन स वानरः । अभवन्निर्विचेष्टश्च पपात च महीतले ॥३८॥
तेन बद्धः ततस् अस्त्रेण राक्षसेन स वानरः । अभवत् निर्विचेष्टः च पपात च मही-तले ॥३८॥
tena baddhaḥ tatas astreṇa rākṣasena sa vānaraḥ . abhavat nirviceṣṭaḥ ca papāta ca mahī-tale ..38..
ततोऽथ बुद्ध्वा स तदास्त्रबन्धं प्रभोः प्रभावाद्विगताल्पवेगः । पितामहानुग्रहमात्मनश् च विचिन्तयामास हरिप्रवीरः ॥३९॥
ततस् अथ बुद्ध्वा स तदा अस्त्रबन्धम् प्रभोः प्रभावात् विगत-अल्प-वेगः । पितामह-अनुग्रहम् आत्मनः च विचिन्तयामास हरि-प्रवीरः ॥३९॥
tatas atha buddhvā sa tadā astrabandham prabhoḥ prabhāvāt vigata-alpa-vegaḥ . pitāmaha-anugraham ātmanaḥ ca vicintayāmāsa hari-pravīraḥ ..39..
ततः स्वायम्भुवैर्मन्त्रैर्ब्रह्मास्त्रमभिमन्त्रितम् । हनूमांश्चिन्तयामास वरदानं पितामहात् ॥४०॥
ततस् स्वायम्भुवैः मन्त्रैः ब्रह्मास्त्रम् अभिमन्त्रितम् । हनूमान् चिन्तयामास वर-दानम् पितामहात् ॥४०॥
tatas svāyambhuvaiḥ mantraiḥ brahmāstram abhimantritam . hanūmān cintayāmāsa vara-dānam pitāmahāt ..40..
न मेऽस्त्रबन्धस्य च शक्तिरस्ति विमोक्षणे लोकगुरोः प्रभावात् । इत्येवमेवंविहितोऽस्त्रबन्धो मयात्मयोनेरनुवर्तितव्यः ॥४१॥
न मे अस्त्रबन्धस्य च शक्तिः अस्ति विमोक्षणे लोक-गुरोः प्रभावात् । इति एवम् एवम् विहितः अस्त्रबन्धः मया आत्मयोनेः अनुवर्तितव्यः ॥४१॥
na me astrabandhasya ca śaktiḥ asti vimokṣaṇe loka-guroḥ prabhāvāt . iti evam evam vihitaḥ astrabandhaḥ mayā ātmayoneḥ anuvartitavyaḥ ..41..
स वीर्यमस्त्रस्य कपिर्विचार्य पितामहानुग्रहमात्मनश् च । विमोक्षशक्तिं परिचिन्तयित्वा पितामहाज्ञाम् अनुवर्तते स्म ॥४२॥
स वीर्यम् अस्त्रस्य कपिः विचार्य पितामह-अनुग्रहम् आत्मनः च । विमोक्ष-शक्तिम् परिचिन्तयित्वा पितामह-आज्ञाम् अनुवर्तते स्म ॥४२॥
sa vīryam astrasya kapiḥ vicārya pitāmaha-anugraham ātmanaḥ ca . vimokṣa-śaktim paricintayitvā pitāmaha-ājñām anuvartate sma ..42..
अस्त्रेणापि हि बद्धस्य भयं मम न जायते । पितामहमहेन्द्राभ्यां रक्षितस्यानिलेन च ॥४३॥
अस्त्रेण अपि हि बद्धस्य भयम् मम न जायते । पितामह-महा-इन्द्राभ्याम् रक्षितस्य अनिलेन च ॥४३॥
astreṇa api hi baddhasya bhayam mama na jāyate . pitāmaha-mahā-indrābhyām rakṣitasya anilena ca ..43..
ग्रहणे चापि रक्षोभिर्महन्मे गुणदर्शनम् । राक्षसेन्द्रेण संवादस्तस्माद्गृह्णन्तु मां परे ॥४४॥
ग्रहणे च अपि रक्षोभिः महत् मे गुण-दर्शनम् । राक्षस-इन्द्रेण संवादः तस्मात् गृह्णन्तु माम् परे ॥४४॥
grahaṇe ca api rakṣobhiḥ mahat me guṇa-darśanam . rākṣasa-indreṇa saṃvādaḥ tasmāt gṛhṇantu mām pare ..44..
स निश्चितार्थः परवीरहन्ता समीक्ष्य करी विनिवृत्तचेष्टः । परैः प्रसह्याभिगतैर्निगृह्य ननाद तैस्तैः परिभर्त्स्यमानः ॥४५॥
स निश्चित-अर्थः पर-वीर-हन्ता समीक्ष्य करी विनिवृत्त-चेष्टः । परैः प्रसह्य अभिगतैः निगृह्य ननाद तैः तैः परिभर्त्स्यमानः ॥४५॥
sa niścita-arthaḥ para-vīra-hantā samīkṣya karī vinivṛtta-ceṣṭaḥ . paraiḥ prasahya abhigataiḥ nigṛhya nanāda taiḥ taiḥ paribhartsyamānaḥ ..45..
ततस्तं राक्षसा दृष्ट्वा निर्विचेष्टमरिन्दमम् । बबन्धुः शणवल्कैश्च द्रुमचीरैश्च संहतैः ॥४६॥
ततस् तम् राक्षसाः दृष्ट्वा निर्विचेष्टम् अरिन्दमम् । बबन्धुः शण-वल्कैः च द्रुम-चीरैः च संहतैः ॥४६॥
tatas tam rākṣasāḥ dṛṣṭvā nirviceṣṭam arindamam . babandhuḥ śaṇa-valkaiḥ ca druma-cīraiḥ ca saṃhataiḥ ..46..
स रोचयामास परैश्च बन्धनं प्रसह्य वीरैरभिनिग्रहं च । कौतूहलान्मां यदि राक्षसेन्द्रो द्रष्टुं व्यवस्येदिति निश्चितार्थः ॥४७॥
स रोचयामास परैः च बन्धनम् प्रसह्य वीरैः अभिनिग्रहम् च । कौतूहलात् माम् यदि राक्षस-इन्द्रः द्रष्टुम् व्यवस्येत् इति निश्चित-अर्थः ॥४७॥
sa rocayāmāsa paraiḥ ca bandhanam prasahya vīraiḥ abhinigraham ca . kautūhalāt mām yadi rākṣasa-indraḥ draṣṭum vyavasyet iti niścita-arthaḥ ..47..
स बद्धस्तेन वल्केन विमुक्तोऽस्त्रेण वीर्यवान् । अस्त्रबन्धः स चान्यं हि न बन्धमनुवर्तते ॥४८॥
स बद्धः तेन वल्केन विमुक्तः अस्त्रेण वीर्यवान् । अस्त्रबन्धः स च अन्यम् हि न बन्धम् अनुवर्तते ॥४८॥
sa baddhaḥ tena valkena vimuktaḥ astreṇa vīryavān . astrabandhaḥ sa ca anyam hi na bandham anuvartate ..48..
अथेन्द्रजित्तं द्रुमचीरबन्धं विचार्य वीरः कपिसत्तमं तम् । विमुक्तमस्त्रेण जगाम चिन्ताम् अन्येन बद्धो ह्यनुवर्ततेऽस्त्रम् ॥४९॥
अथा इन्द्रजित् तम् द्रुम-चीर-बन्धम् विचार्य वीरः कपि-सत्तमम् तम् । विमुक्तम् अस्त्रेण जगाम चिन्ताम् अन्येन बद्धः हि अनुवर्तते अस्त्रम् ॥४९॥
athā indrajit tam druma-cīra-bandham vicārya vīraḥ kapi-sattamam tam . vimuktam astreṇa jagāma cintām anyena baddhaḥ hi anuvartate astram ..49..
अहो महत्कर्म कृतं निरर्थकं न राक्षसैर्मन्त्रगतिर्विमृष्टा । पुनश्च नास्त्रे विहतेऽस्त्रमन्यत् प्रवर्तते संशयिताः स्म सर्वे ॥५०॥
अहो महत् कर्म कृतम् निरर्थकम् न राक्षसैः मन्त्र-गतिः विमृष्टा । पुनर् च न अस्त्रे विहते अस्त्रम् अन्यत् प्रवर्तते संशयिताः स्म सर्वे ॥५०॥
aho mahat karma kṛtam nirarthakam na rākṣasaiḥ mantra-gatiḥ vimṛṣṭā . punar ca na astre vihate astram anyat pravartate saṃśayitāḥ sma sarve ..50..
अस्त्रेण हनुमान्मुक्तो नात्मानमवबुध्यते । कृष्यमाणस्तु रक्षोभिस्तैश्च बन्धैर्निपीडितः ॥५१॥
अस्त्रेण हनुमान् मुक्तः न आत्मानम् अवबुध्यते । कृष्यमाणः तु रक्षोभिः तैः च बन्धैः निपीडितः ॥५१॥
astreṇa hanumān muktaḥ na ātmānam avabudhyate . kṛṣyamāṇaḥ tu rakṣobhiḥ taiḥ ca bandhaiḥ nipīḍitaḥ ..51..
हन्यमानस्ततः क्रूरै राक्षसैः काष्ठमुष्टिभिः । समीपं राक्षसेन्द्रस्य प्राकृष्यत स वानरः ॥५२॥
हन्यमानः ततस् राक्षसैः काष्ठ-मुष्टिभिः । समीपम् राक्षस-इन्द्रस्य प्राकृष्यत स वानरः ॥५२॥
hanyamānaḥ tatas rākṣasaiḥ kāṣṭha-muṣṭibhiḥ . samīpam rākṣasa-indrasya prākṛṣyata sa vānaraḥ ..52..
अथेन्द्रजित्तं प्रसमीक्ष्य मुक्तम् अस्त्रेण बद्धं द्रुमचीरसूत्रैः । व्यदर्शयत्तत्र महाबलं तं हरिप्रवीरं सगणाय राज्ञे ॥५३॥
अथा इन्द्रजित् तम् प्रसमीक्ष्य मुक्तम् अस्त्रेण बद्धम् द्रुम-चीर-सूत्रैः । व्यदर्शयत् तत्र महा-बलम् तम् हरि-प्रवीरम् स गणाय राज्ञे ॥५३॥
athā indrajit tam prasamīkṣya muktam astreṇa baddham druma-cīra-sūtraiḥ . vyadarśayat tatra mahā-balam tam hari-pravīram sa gaṇāya rājñe ..53..
तं मत्तमिव मातङ्गं बद्धं कपिवरोत्तमम् । राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन् ॥५४॥
तम् मत्तम् इव मातङ्गम् बद्धम् कपि-वर-उत्तमम् । राक्षसाः राक्षस-इन्द्राय रावणाय न्यवेदयन् ॥५४॥
tam mattam iva mātaṅgam baddham kapi-vara-uttamam . rākṣasāḥ rākṣasa-indrāya rāvaṇāya nyavedayan ..54..
कोऽयं कस्य कुतो वापि किं कार्यं को व्यपाश्रयः । इति राक्षसवीराणां तत्र सञ्जज्ञिरे कथाः ॥५५॥
कः अयम् कस्य कुतस् वा अपि किम् कार्यम् कः व्यपाश्रयः । इति राक्षस-वीराणाम् तत्र सञ्जज्ञिरे कथाः ॥५५॥
kaḥ ayam kasya kutas vā api kim kāryam kaḥ vyapāśrayaḥ . iti rākṣasa-vīrāṇām tatra sañjajñire kathāḥ ..55..
हन्यतां दह्यतां वापि भक्ष्यतामिति चापरे । राक्षसास्तत्र सङ्क्रुद्धाः परस्परमथाब्रुवन् ॥५६॥
हन्यताम् दह्यताम् वा अपि भक्ष्यताम् इति च अपरे । राक्षसाः तत्र सङ्क्रुद्धाः परस्परम् अथ अब्रुवन् ॥५६॥
hanyatām dahyatām vā api bhakṣyatām iti ca apare . rākṣasāḥ tatra saṅkruddhāḥ parasparam atha abruvan ..56..
अतीत्य मार्गं सहसा महात्मा स तत्र रक्षोऽधिपपादमूले । ददर्श राज्ञः परिचारवृद्धान् गृहं महारत्नविभूषितं च ॥५७॥
अतीत्य मार्गम् सहसा महात्मा स तत्र रक्षः-अधिपपाद-मूले । ददर्श राज्ञः परिचार-वृद्धान् गृहम् महा-रत्न-विभूषितम् च ॥५७॥
atītya mārgam sahasā mahātmā sa tatra rakṣaḥ-adhipapāda-mūle . dadarśa rājñaḥ paricāra-vṛddhān gṛham mahā-ratna-vibhūṣitam ca ..57..
स ददर्श महातेजा रावणः कपिसत्तमम् । रक्षोभिर्विकृताकारैः कृष्यमाणमितस्ततः ॥५८॥
स ददर्श महा-तेजाः रावणः कपि-सत्तमम् । रक्षोभिः विकृत-आकारैः कृष्यमाणम् इतस्ततस् ॥५८॥
sa dadarśa mahā-tejāḥ rāvaṇaḥ kapi-sattamam . rakṣobhiḥ vikṛta-ākāraiḥ kṛṣyamāṇam itastatas ..58..
राक्षसाधिपतिं चापि ददर्श कपिसत्तमः । तेजोबलसमायुक्तं तपन्तमिव भास्करम् ॥५९॥
राक्षस-अधिपतिम् च अपि ददर्श कपि-सत्तमः । तेजः-बल-समायुक्तम् तपन्तम् इव भास्करम् ॥५९॥
rākṣasa-adhipatim ca api dadarśa kapi-sattamaḥ . tejaḥ-bala-samāyuktam tapantam iva bhāskaram ..59..
स रोषसंवर्तितताम्रदृष्टिर् दशाननस्तं कपिमन्ववेक्ष्य । अथोपविष्टान्कुलशीलवृद्धान् समादिशत्तं प्रति मन्त्रमुख्यान् ॥६०॥
स रोष-संवर्तित-ताम्र-दृष्टिः दशाननः तम् कपिम् अन्ववेक्ष्य । अथ उपविष्टान् कुल-शील-वृद्धान् समादिशत् तम् प्रति मन्त्र-मुख्यान् ॥६०॥
sa roṣa-saṃvartita-tāmra-dṛṣṭiḥ daśānanaḥ tam kapim anvavekṣya . atha upaviṣṭān kula-śīla-vṛddhān samādiśat tam prati mantra-mukhyān ..60..
यथाक्रमं तैः स कपिश्च पृष्टः कार्यार्थमर्थस्य च मूलमादौ । निवेदयामास हरीश्वरस्य दूतः सकाशादहमागतोऽस्मि ॥६१॥
यथाक्रमम् तैः स कपिः च पृष्टः कार्य-अर्थम् अर्थस्य च मूलम् आदौ । निवेदयामास हरि-ईश्वरस्य दूतः सकाशात् अहम् आगतः अस्मि ॥६१॥
yathākramam taiḥ sa kapiḥ ca pṛṣṭaḥ kārya-artham arthasya ca mūlam ādau . nivedayāmāsa hari-īśvarasya dūtaḥ sakāśāt aham āgataḥ asmi ..61..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In