This overlay will guide you through the buttons:

| |
|
ततः स कर्मणा तस्य विस्मितो भीमविक्रमः । हनुमान्रोषताम्राक्षो रक्षोऽधिपमवैक्षत ॥ १॥
ततस् स कर्मणा तस्य विस्मितः भीम-विक्रमः । हनुमान् रोष-ताम्र-अक्षः रक्षः-अधिपम् अवैक्षत ॥ १॥
tatas sa karmaṇā tasya vismitaḥ bhīma-vikramaḥ . hanumān roṣa-tāmra-akṣaḥ rakṣaḥ-adhipam avaikṣata .. 1..
भाजमानं महार्हेण काञ्चनेन विराजता । मुक्ताजालावृतेनाथ मुकुटेन महाद्युतिम् ॥ २॥
भाजमानम् महार्हेण काञ्चनेन विराजता । मुक्ता-जाल-आवृतेन अथ मुकुटेन महा-द्युतिम् ॥ २॥
bhājamānam mahārheṇa kāñcanena virājatā . muktā-jāla-āvṛtena atha mukuṭena mahā-dyutim .. 2..
वज्रसंयोगसंयुक्तैर्महार्हमणिविग्रहैः । हैमैराभरणैश्चित्रैर्मनसेव प्रकल्पितैः ॥ ३॥
वज्र-संयोग-संयुक्तैः महार्ह-मणि-विग्रहैः । हैमैः आभरणैः चित्रैः मनसा इव प्रकल्पितैः ॥ ३॥
vajra-saṃyoga-saṃyuktaiḥ mahārha-maṇi-vigrahaiḥ . haimaiḥ ābharaṇaiḥ citraiḥ manasā iva prakalpitaiḥ .. 3..
महार्हक्षौमसंवीतं रक्तचन्दनरूषितम् । स्वनुलिप्तं विचित्राभिर्विविधभिश्च भक्तिभिः ॥ ४॥
महार्ह-क्षौम-संवीतम् रक्तचन्दन-रूषितम् । सु अनुलिप्तम् विचित्राभिः विविधभिः च भक्तिभिः ॥ ४॥
mahārha-kṣauma-saṃvītam raktacandana-rūṣitam . su anuliptam vicitrābhiḥ vividhabhiḥ ca bhaktibhiḥ .. 4..
विचित्रं र्दर्शनीयैश्च रक्षाक्षैर्भीमदर्शनैः । दीप्ततीक्ष्णमहादंष्ट्रैः प्रलम्बदशनच्छदैः ॥ ५॥
विचित्रम् र्दर्शनीयैः च रक्ष-अक्षैः भीम-दर्शनैः । दीप्त-तीक्ष्ण-महा-दंष्ट्रैः प्रलम्ब-दशनच्छदैः ॥ ५॥
vicitram rdarśanīyaiḥ ca rakṣa-akṣaiḥ bhīma-darśanaiḥ . dīpta-tīkṣṇa-mahā-daṃṣṭraiḥ pralamba-daśanacchadaiḥ .. 5..
शिरोभिर्दशभिर्वीरं भ्राजमानं महौजसं । नानाव्यालसमाकीर्णैः शिखरैरिव मन्दरम् ॥ ६॥
शिरोभिः दशभिः वीरम् भ्राजमानम् महा-ओजसम् । नाना व्याल-समाकीर्णैः शिखरैः इव मन्दरम् ॥ ६॥
śirobhiḥ daśabhiḥ vīram bhrājamānam mahā-ojasam . nānā vyāla-samākīrṇaiḥ śikharaiḥ iva mandaram .. 6..
नीलाञ्जनचय प्रख्यं हारेणोरसि राजता । पूर्णचन्द्राभवक्त्रेण सबलाकमिवाम्बुदम् ॥ ७॥
नीलाञ्जन-चय प्रख्यम् हारेण उरसि राजता । पूर्ण-चन्द्र-आभ-वक्त्रेण स बलाकम् इव अम्बुदम् ॥ ७॥
nīlāñjana-caya prakhyam hāreṇa urasi rājatā . pūrṇa-candra-ābha-vaktreṇa sa balākam iva ambudam .. 7..
बाहुभिर्बद्धकेयूरैश्चन्दनोत्तमरूषितैः । भ्राजमानाङ्गदैः पीनैः पञ्चशीर्षैरिवोरगैः ॥ ८॥
बाहुभिः बद्ध-केयूरैः चन्दन-उत्तम-रूषितैः । भ्राजमान-अङ्गदैः पीनैः पञ्च-शीर्षैः इव उरगैः ॥ ८॥
bāhubhiḥ baddha-keyūraiḥ candana-uttama-rūṣitaiḥ . bhrājamāna-aṅgadaiḥ pīnaiḥ pañca-śīrṣaiḥ iva uragaiḥ .. 8..
महति स्फाटिके चित्रे रत्नसंयोगसंस्कृते । उत्तमास्तरणास्तीर्णे उपविष्टं वरासने ॥ ९॥
महति स्फाटिके चित्रे रत्न-संयोग-संस्कृते । उत्तम-आस्तरण-आस्तीर्णे उपविष्टम् वरासने ॥ ९॥
mahati sphāṭike citre ratna-saṃyoga-saṃskṛte . uttama-āstaraṇa-āstīrṇe upaviṣṭam varāsane .. 9..
अलङ्कृताभिरत्यर्थं प्रमदाभिः समन्ततः । वालव्यजनहस्ताभिरारात्समुपसेवितम् ॥ १०॥
अलङ्कृताभिः अत्यर्थम् प्रमदाभिः समन्ततः । वाल-व्यजन-हस्ताभिः आरात् समुपसेवितम् ॥ १०॥
alaṅkṛtābhiḥ atyartham pramadābhiḥ samantataḥ . vāla-vyajana-hastābhiḥ ārāt samupasevitam .. 10..
दुर्धरेण प्रहस्तेन महापार्श्वेन रक्षसा । मन्त्रिभिर्मन्त्रतत्त्वज्ञैर्निकुम्भेन च मन्त्रिणा ॥ ११॥
दुर्धरेण प्रहस्तेन महापार्श्वेन रक्षसा । मन्त्रिभिः मन्त्र-तत्त्व-ज्ञैः निकुम्भेन च मन्त्रिणा ॥ ११॥
durdhareṇa prahastena mahāpārśvena rakṣasā . mantribhiḥ mantra-tattva-jñaiḥ nikumbhena ca mantriṇā .. 11..
उपोपविष्टं रक्षोभिश्चतुर्भिर्बलदर्पितैः । कृत्स्नैः परिवृतं लोकं चतुर्भिरिव सागरैः ॥ १२॥
उपोपविष्टम् रक्षोभिः चतुर्भिः बल-दर्पितैः । कृत्स्नैः परिवृतम् लोकम् चतुर्भिः इव सागरैः ॥ १२॥
upopaviṣṭam rakṣobhiḥ caturbhiḥ bala-darpitaiḥ . kṛtsnaiḥ parivṛtam lokam caturbhiḥ iva sāgaraiḥ .. 12..
मन्त्रिभिर्मन्त्रतत्त्वज्ञैरन्यैश्च शुभबुद्धिभिः । अन्वास्यमानं सचिवैः सुरैरिव सुरेश्वरम् ॥ १३॥
मन्त्रिभिः मन्त्र-तत्त्व-ज्ञैः अन्यैः च शुभ-बुद्धिभिः । अन्वास्यमानम् सचिवैः सुरैः इव सुरेश्वरम् ॥ १३॥
mantribhiḥ mantra-tattva-jñaiḥ anyaiḥ ca śubha-buddhibhiḥ . anvāsyamānam sacivaiḥ suraiḥ iva sureśvaram .. 13..
अपश्यद्राक्षसपतिं हनूमानतितेजसं । विष्ठितं मेरुशिखरे सतोयमिव तोयदम् ॥ १४॥
अपश्यत् राक्षस-पतिम् हनूमान् अति तेजसम् । विष्ठितम् मेरु-शिखरे स तोयम् इव तोयदम् ॥ १४॥
apaśyat rākṣasa-patim hanūmān ati tejasam . viṣṭhitam meru-śikhare sa toyam iva toyadam .. 14..
स तैः सम्पीड्यमानोऽपि रक्षोभिर्भीमविक्रमैः । विस्मयं परमं गत्वा रक्षोऽधिपमवैक्षत ॥ १५॥
स तैः सम्पीड्यमानः अपि रक्षोभिः भीम-विक्रमैः । विस्मयम् परमम् गत्वा रक्षः-अधिपम् अवैक्षत ॥ १५॥
sa taiḥ sampīḍyamānaḥ api rakṣobhiḥ bhīma-vikramaiḥ . vismayam paramam gatvā rakṣaḥ-adhipam avaikṣata .. 15..
भ्राजमानं ततो दृष्ट्वा हनुमान्राक्षसेश्वरम् । मनसा चिन्तयामास तेजसा तस्य मोहितः ॥ १६॥
भ्राजमानम् ततस् दृष्ट्वा हनुमान् राक्षसेश्वरम् । मनसा चिन्तयामास तेजसा तस्य मोहितः ॥ १६॥
bhrājamānam tatas dṛṣṭvā hanumān rākṣaseśvaram . manasā cintayāmāsa tejasā tasya mohitaḥ .. 16..
अहो रूपमहो धैर्यमहो सत्त्वमहो द्युतिः । अहो राक्षसराजस्य सर्वलक्षणयुक्तता ॥ १७॥
अहो रूपम् अहर् धैर्यम् अहो सत्त्वम् अहो द्युतिः । अहो राक्षस-राजस्य सर्व-लक्षण-युक्त-ता ॥ १७॥
aho rūpam ahar dhairyam aho sattvam aho dyutiḥ . aho rākṣasa-rājasya sarva-lakṣaṇa-yukta-tā .. 17..
यद्यधर्मो न बलवान्स्यादयं राक्षसेश्वरः । स्यादयं सुरलोकस्य सशक्रस्यापि रक्षिता ॥ १८॥
यदि अधर्मः न बलवान् स्यात् अयम् राक्षसेश्वरः । स्यात् अयम् सुर-लोकस्य स शक्रस्य अपि रक्षिता ॥ १८॥
yadi adharmaḥ na balavān syāt ayam rākṣaseśvaraḥ . syāt ayam sura-lokasya sa śakrasya api rakṣitā .. 18..
अस्य क्रूरैर्नृशंसैश्च कर्मभिर्लोककुत्सितैः। सर्वे बिभ्यति खल्वस्माल्लोकाः सामरदानवाः । अयं ह्युत्सहते क्रुद्धः कर्तुमेकार्णवं जगत् ॥ १९॥
अस्य क्रूरैः नृशंसैः च कर्मभिः लोक-कुत्सितैः। सर्वे बिभ्यति खलु अस्मात् लोकाः स अमर-दानवाः । अयम् हि उत्सहते क्रुद्धः कर्तुम् एकार्णवम् जगत् ॥ १९॥
asya krūraiḥ nṛśaṃsaiḥ ca karmabhiḥ loka-kutsitaiḥ. sarve bibhyati khalu asmāt lokāḥ sa amara-dānavāḥ . ayam hi utsahate kruddhaḥ kartum ekārṇavam jagat .. 19..
इति चिन्तां बहुविधामकरोन्मतिमान्कपिः । दृष्ट्वा राक्षसराजस्य प्रभावममितौजसः ॥ २०॥
इति चिन्ताम् बहुविधाम् अकरोत् मतिमान् कपिः । दृष्ट्वा राक्षस-राजस्य प्रभावम् अमित-ओजसः ॥ २०॥
iti cintām bahuvidhām akarot matimān kapiḥ . dṛṣṭvā rākṣasa-rājasya prabhāvam amita-ojasaḥ .. 20..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In