This overlay will guide you through the buttons:

| |
|
तमुद्वीक्ष्य महाबाहुः पिङ्गाक्षं पुरतः स्थितम् । रोषेण महताविष्टो रावणो लोकरावणः ॥१॥
तम् उद्वीक्ष्य महा-बाहुः पिङ्ग-अक्षम् पुरतस् स्थितम् । रोषेण महता आविष्टः रावणः लोक-रावणः ॥१॥
tam udvīkṣya mahā-bāhuḥ piṅga-akṣam puratas sthitam . roṣeṇa mahatā āviṣṭaḥ rāvaṇaḥ loka-rāvaṇaḥ ..1..
शङ्काहृतात्मा दध्यौ स कपीन्द्रं तेजसावृतम्।किमेष भगवान्नन्दी भवेत्साक्षादिहागतः॥२॥
शङ्का-हृत-आत्मा दध्यौ स कपीन्द्रम् तेजसा आवृतम्।किम् एष भगवान् नन्दी भवेत् साक्षात् इह आगतः॥२॥
śaṅkā-hṛta-ātmā dadhyau sa kapīndram tejasā āvṛtam.kim eṣa bhagavān nandī bhavet sākṣāt iha āgataḥ..2..
येन शप्तोऽस्मि कैलासे मया सञ्चालिते पुरा।सोऽयं वानरमूर्तिस्स्यात्किंस्विद्बाणो महाऽसुरः॥३॥
येन शप्तः अस्मि कैलासे मया सञ्चालिते पुरा।सः अयम् वानर-मूर्तिः स्यात् किम् स्विद् बाणः महा-असुरः॥३॥
yena śaptaḥ asmi kailāse mayā sañcālite purā.saḥ ayam vānara-mūrtiḥ syāt kim svid bāṇaḥ mahā-asuraḥ..3..
स राजा रोषताम्राक्षः प्रहस्तं मन्त्रिसत्तमम् । कालयुक्तमुवाचेदं वचो विपुलमर्थवत् ॥४॥
स राजा रोष-ताम्र-अक्षः प्रहस्तम् मन्त्रि-सत्तमम् । काल-युक्तम् उवाच इदम् वचः विपुलम् अर्थवत् ॥४॥
sa rājā roṣa-tāmra-akṣaḥ prahastam mantri-sattamam . kāla-yuktam uvāca idam vacaḥ vipulam arthavat ..4..
दुरात्मा पृच्छ्यतामेष कुतः किं वास्य कारणम् । वनभङ्गे च कोऽस्यार्थो राक्षसीनां च तर्जने ॥५॥
दुरात्मा पृच्छ्यताम् एष कुतस् किम् वा अस्य कारणम् । वन-भङ्गे च कः अस्य अर्थः राक्षसीनाम् च तर्जने ॥५॥
durātmā pṛcchyatām eṣa kutas kim vā asya kāraṇam . vana-bhaṅge ca kaḥ asya arthaḥ rākṣasīnām ca tarjane ..5..
मत्पुरीमप्रधृष्यां वाऽगमने किं प्रयोजनम्।आयोधने वा किं कार्यं पृच्छयतामेष दुर्मतिः॥६॥
मद्-पुरीम् अप्रधृष्याम् वा अगमने किम् प्रयोजनम्।आयोधने वा किम् कार्यम् पृच्छयताम् एष दुर्मतिः॥६॥
mad-purīm apradhṛṣyām vā agamane kim prayojanam.āyodhane vā kim kāryam pṛcchayatām eṣa durmatiḥ..6..
रावणस्य वचः श्रुत्वा प्रहस्तो वाक्यमब्रवीत् । समाश्वसिहि भद्रं ते न भीः कार्या त्वया कपे ॥७॥
रावणस्य वचः श्रुत्वा प्रहस्तः वाक्यम् अब्रवीत् । समाश्वसिहि भद्रम् ते न भीः कार्या त्वया कपे ॥७॥
rāvaṇasya vacaḥ śrutvā prahastaḥ vākyam abravīt . samāśvasihi bhadram te na bhīḥ kāryā tvayā kape ..7..
यदि तावत्त्वमिन्द्रेण प्रेषितो रावणालयम् । तत्त्वमाख्याहि मा ते भूद्भयं वानर मोक्ष्यसे ॥८॥
यदि तावत् त्वम् इन्द्रेण प्रेषितः रावण-आलयम् । तत् त्वम् आख्याहि मा ते भूत् भयम् वानर मोक्ष्यसे ॥८॥
yadi tāvat tvam indreṇa preṣitaḥ rāvaṇa-ālayam . tat tvam ākhyāhi mā te bhūt bhayam vānara mokṣyase ..8..
यदि वैश्रवणस्य त्वं यमस्य वरुणस्य च । चारुरूपमिदं कृत्वा यमस्य वरुणस्य च ॥९॥
यदि वैश्रवणस्य त्वम् यमस्य वरुणस्य च । चारु-रूपम् इदम् कृत्वा यमस्य वरुणस्य च ॥९॥
yadi vaiśravaṇasya tvam yamasya varuṇasya ca . cāru-rūpam idam kṛtvā yamasya varuṇasya ca ..9..
विष्णुना प्रेषितो वापि दूतो विजयकाङ्क्षिणा । न हि ते वानरं तेजो रूपमात्रं तु वानरम् ॥१०॥
विष्णुना प्रेषितः वा अपि दूतः विजय-काङ्क्षिणा । न हि ते वानरम् तेजः रूप-मात्रम् तु वानरम् ॥१०॥
viṣṇunā preṣitaḥ vā api dūtaḥ vijaya-kāṅkṣiṇā . na hi te vānaram tejaḥ rūpa-mātram tu vānaram ..10..
तत्त्वतः कथयस्वाद्य ततो वानर मोक्ष्यसे । अनृतं वदतश्चापि दुर्लभं तव जीवितम् ॥११॥
तत्त्वतः कथयस्व अद्य ततस् वानर मोक्ष्यसे । अनृतम् वदतः च अपि दुर्लभम् तव जीवितम् ॥११॥
tattvataḥ kathayasva adya tatas vānara mokṣyase . anṛtam vadataḥ ca api durlabham tava jīvitam ..11..
अथ वा यन्निमित्तस्ते प्रवेशो रावणालये ।एवमुक्तो हरिवरस्तदा रक्षोगणेश्वरम् ॥१२॥
अथ वा यद्-निमित्तः ते प्रवेशः रावण-आलये ।एवम् उक्तः हरि-वरः तदा रक्षः-गण-ईश्वरम् ॥१२॥
atha vā yad-nimittaḥ te praveśaḥ rāvaṇa-ālaye .evam uktaḥ hari-varaḥ tadā rakṣaḥ-gaṇa-īśvaram ..12..
अब्रवीन्नास्मि शक्रस्य यमस्य वरुणस्य वा ।धनदेन न मे सख्यं विष्णुना नास्मि चोदितः ॥१३॥
अब्रवीत् न अस्मि शक्रस्य यमस्य वरुणस्य वा ।धनदेन न मे सख्यम् विष्णुना ना अस्मि चोदितः ॥१३॥
abravīt na asmi śakrasya yamasya varuṇasya vā .dhanadena na me sakhyam viṣṇunā nā asmi coditaḥ ..13..
जातिरेव मम त्वेषा वानरोऽहमिहागतः ।दर्शने राक्षसेन्द्रस्य दुर्लभे तदिदं मया ॥१४॥
जातिः एव मम तु एषा वानरः अहम् इह आगतः ।दर्शने राक्षस-इन्द्रस्य दुर्लभे तत् इदम् मया ॥१४॥
jātiḥ eva mama tu eṣā vānaraḥ aham iha āgataḥ .darśane rākṣasa-indrasya durlabhe tat idam mayā ..14..
वनं राक्षसराजस्य दर्शनार्थे विनाशितम् ।ततस्ते राक्षसाः प्राप्ता बलिनो युद्धकाङ्क्षिणः ॥१५॥
वनम् राक्षस-राजस्य दर्शन-अर्थे विनाशितम् ।ततस् ते राक्षसाः प्राप्ताः बलिनः युद्ध-काङ्क्षिणः ॥१५॥
vanam rākṣasa-rājasya darśana-arthe vināśitam .tatas te rākṣasāḥ prāptāḥ balinaḥ yuddha-kāṅkṣiṇaḥ ..15..
रक्षणार्थं च देहस्य प्रतियुद्धा मया रणे ।अस्त्रपाशैर्न शक्योऽहं बद्धुं देवासुरैरपि ॥१६॥
रक्षण-अर्थम् च देहस्य प्रतियुद्धाः मया रणे ।अस्त्र-पाशैः न शक्यः अहम् बद्धुम् देव-असुरैः अपि ॥१६॥
rakṣaṇa-artham ca dehasya pratiyuddhāḥ mayā raṇe .astra-pāśaiḥ na śakyaḥ aham baddhum deva-asuraiḥ api ..16..
पितामहादेव वरो ममाप्येषोऽभ्युपागतः ।राजानं द्रष्टुकामेन मयास्त्रमनुवर्तितम् ॥१७॥
पितामहादेव वरः मम अपि एषः अभ्युपागतः ।राजानम् द्रष्टु-कामेन मया अस्त्रम् अनुवर्तितम् ॥१७॥
pitāmahādeva varaḥ mama api eṣaḥ abhyupāgataḥ .rājānam draṣṭu-kāmena mayā astram anuvartitam ..17..
विमुक्तो अहमस्त्रेण राक्षसैस्त्वतिपीडितः ।दूतोऽहमिति विज्ञेयो राघवस्यामितौजसः ॥१८॥
विमुक्तः अहम् अस्त्रेण राक्षसैः तु अतिपीडितः ।दूतः अहम् इति विज्ञेयः राघवस्य अमित-ओजसः ॥१८॥
vimuktaḥ aham astreṇa rākṣasaiḥ tu atipīḍitaḥ .dūtaḥ aham iti vijñeyaḥ rāghavasya amita-ojasaḥ ..18..
दूतोऽहमिति विज्ञेयो राघवस्यामितौजसः । श्रूयतां चापि वचनं मम पथ्यमिदं प्रभो ॥१९॥
दूतः अहम् इति विज्ञेयः राघवस्य अमित-ओजसः । श्रूयताम् च अपि वचनम् मम पथ्यम् इदम् प्रभो ॥१९॥
dūtaḥ aham iti vijñeyaḥ rāghavasya amita-ojasaḥ . śrūyatām ca api vacanam mama pathyam idam prabho ..19..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In