This overlay will guide you through the buttons:

| |
|
तं समीक्ष्य महासत्त्वं सत्त्ववान्हरिसत्तमः । वाक्यमर्थवदव्यग्रस्तमुवाच दशाननम् ॥ १॥
तम् समीक्ष्य महासत्त्वम् सत्त्ववान् हरि-सत्तमः । वाक्यम् अर्थवत् अव्यग्रः तम् उवाच दशाननम् ॥ १॥
tam samīkṣya mahāsattvam sattvavān hari-sattamaḥ . vākyam arthavat avyagraḥ tam uvāca daśānanam .. 1..
अहं सुग्रीवसन्देशादिह प्राप्तस्तवालयम् । राक्षसेन्द्र हरीशस्त्वां भ्राता कुशलमब्रवीत् ॥ २॥
अहम् सुग्रीव-सन्देशात् इह प्राप्तः तव आलयम् । राक्षस-इन्द्र हरि-ईशः त्वाम् भ्राता कुशलम् अब्रवीत् ॥ २॥
aham sugrīva-sandeśāt iha prāptaḥ tava ālayam . rākṣasa-indra hari-īśaḥ tvām bhrātā kuśalam abravīt .. 2..
भ्रातुः शृणु समादेशं सुग्रीवस्य महात्मनः । धर्मार्थोपहितं वाक्यमिह चामुत्र च क्षमम् ॥ ३॥
भ्रातुः शृणु समादेशम् सुग्रीवस्य महात्मनः । धर्म-अर्थ-उपहितम् वाक्यम् इह च अमुत्र च क्षमम् ॥ ३॥
bhrātuḥ śṛṇu samādeśam sugrīvasya mahātmanaḥ . dharma-artha-upahitam vākyam iha ca amutra ca kṣamam .. 3..
राजा दशरथो नाम रथकुञ्जरवाजिमान् । पितेव बन्धुर्लोकस्य सुरेश्वरसमद्युतिः ॥ ४॥
राजा दशरथः नाम रथ-कुञ्जर-वाजिमान् । पिता इव बन्धुः लोकस्य सुरेश्वर-सम-द्युतिः ॥ ४॥
rājā daśarathaḥ nāma ratha-kuñjara-vājimān . pitā iva bandhuḥ lokasya sureśvara-sama-dyutiḥ .. 4..
ज्येष्ठस्तस्य महाबाहुः पुत्रः प्रियकरः प्रभुः । पितुर्निदेशान्निष्क्रान्तः प्रविष्टो दण्डकावनम् ॥ ५॥
ज्येष्ठः तस्य महा-बाहुः पुत्रः प्रिय-करः प्रभुः । पितुः निदेशात् निष्क्रान्तः प्रविष्टः दण्डक-वनम् ॥ ५॥
jyeṣṭhaḥ tasya mahā-bāhuḥ putraḥ priya-karaḥ prabhuḥ . pituḥ nideśāt niṣkrāntaḥ praviṣṭaḥ daṇḍaka-vanam .. 5..
लक्ष्मणेन सह भ्रात्रा सीतया चापि भार्यया । रामो नाम महातेजा धर्म्यं पन्थानमाश्रितः ॥ ६॥
लक्ष्मणेन सह भ्रात्रा सीतया च अपि भार्यया । रामः नाम महा-तेजाः धर्म्यम् पन्थानम् आश्रितः ॥ ६॥
lakṣmaṇena saha bhrātrā sītayā ca api bhāryayā . rāmaḥ nāma mahā-tejāḥ dharmyam panthānam āśritaḥ .. 6..
तस्य भार्या वने नष्टा सीता पतिमनुव्रता । वैदेहस्य सुता राज्ञो जनकस्य महात्मनः ॥ ७॥
तस्य भार्या वने नष्टा सीता पतिम् अनुव्रता । वैदेहस्य सुताः राज्ञः जनकस्य महात्मनः ॥ ७॥
tasya bhāryā vane naṣṭā sītā patim anuvratā . vaidehasya sutāḥ rājñaḥ janakasya mahātmanaḥ .. 7..
मार्गमाणस्तु तां देवीं राजपुत्रः सहानुजः । ऋश्यमूकमनुप्राप्तः सुग्रीवेण च सङ्गतः ॥ ८॥
मार्गमाणः तु ताम् देवीम् राज-पुत्रः सहानुजः । ऋश्यमूकम् अनुप्राप्तः सुग्रीवेण च सङ्गतः ॥ ८॥
mārgamāṇaḥ tu tām devīm rāja-putraḥ sahānujaḥ . ṛśyamūkam anuprāptaḥ sugrīveṇa ca saṅgataḥ .. 8..
तस्य तेन प्रतिज्ञातं सीतायाः परिमार्गणम् । सुग्रीवस्यापि रामेण हरिराज्यं निवेदितम् ॥ ९॥
तस्य तेन प्रतिज्ञातम् सीतायाः परिमार्गणम् । सुग्रीवस्य अपि रामेण हरि-राज्यम् निवेदितम् ॥ ९॥
tasya tena pratijñātam sītāyāḥ parimārgaṇam . sugrīvasya api rāmeṇa hari-rājyam niveditam .. 9..
ततस्तेन मृधे हत्वा राजपुत्रेण वालिनम् । सुग्रीवः स्थापितो राज्ये हर्यृक्षाणां गणेश्वरः ॥ १०॥
ततस् तेन मृधे हत्वा राज-पुत्रेण वालिनम् । सुग्रीवः स्थापितः राज्ये हरि-ऋक्षाणाम् गण-ईश्वरः ॥ १०॥
tatas tena mṛdhe hatvā rāja-putreṇa vālinam . sugrīvaḥ sthāpitaḥ rājye hari-ṛkṣāṇām gaṇa-īśvaraḥ .. 10..
ततस्तेन मृधे हत्वा राजपुत्रेण वालिनम्।सुग्रीवः स्थापितो राज्ये हर्यृक्षाणां गणेश्वरः॥११॥
ततस् तेन मृधे हत्वा राज-पुत्रेण वालिनम्।सुग्रीवः स्थापितः राज्ये हरि-ऋक्षाणाम् गण-ईश्वरः॥११॥
tatas tena mṛdhe hatvā rāja-putreṇa vālinam.sugrīvaḥ sthāpitaḥ rājye hari-ṛkṣāṇām gaṇa-īśvaraḥ..11..
त्वया विज्ञातपूर्वश्च वाली वानरपुङ्गवः।रामेण निहतस्सङ्ख्ये शरेणैकेन वानरः॥१२॥
त्वया विज्ञात-पूर्वः च वाली वानर-पुङ्गवः।रामेण निहतः सङ्ख्ये शरेण एकेन वानरः॥१२॥
tvayā vijñāta-pūrvaḥ ca vālī vānara-puṅgavaḥ.rāmeṇa nihataḥ saṅkhye śareṇa ekena vānaraḥ..12..
स सीतामार्गणे व्यग्रः सुग्रीवः सत्यसङ्गरः । हरीन्सम्प्रेषयामास दिशः सर्वा हरीश्वरः ॥१३॥
स सीता-मार्गणे व्यग्रः सुग्रीवः सत्य-सङ्गरः । हरीन् सम्प्रेषयामास दिशः सर्वाः हरि-ईश्वरः ॥१३॥
sa sītā-mārgaṇe vyagraḥ sugrīvaḥ satya-saṅgaraḥ . harīn sampreṣayāmāsa diśaḥ sarvāḥ hari-īśvaraḥ ..13..
तां हरीणां सहस्राणि शतानि नियुतानि च । दिक्षु सर्वासु मार्गन्ते अधश्चोपरि चाम्बरे ॥१४॥
ताम् हरीणाम् सहस्राणि शतानि नियुतानि च । दिक्षु सर्वासु मार्गन्ते अधस् च उपरि च अम्बरे ॥१४॥
tām harīṇām sahasrāṇi śatāni niyutāni ca . dikṣu sarvāsu mārgante adhas ca upari ca ambare ..14..
वैनतेय समाः के चित्के चित्तत्रानिलोपमाः । असङ्गगतयः शीघ्रा हरिवीरा महाबलाः ॥१५॥
वैनतेय समाः के चित् के चित् तत्र अनिल-उपमाः । असङ्ग-गतयः शीघ्राः हरि-वीराः महा-बलाः ॥१५॥
vainateya samāḥ ke cit ke cit tatra anila-upamāḥ . asaṅga-gatayaḥ śīghrāḥ hari-vīrāḥ mahā-balāḥ ..15..
अहं तु हनुमान्नाम मारुतस्यौरसः सुतः । सीतायास्तु कृते तूर्णं शतयोजनमायतम् ॥१६॥
अहम् तु हनुमान् नाम मारुतस्य औरसः सुतः । सीतायाः तु कृते तूर्णम् शत-योजनम् आयतम् ॥१६॥
aham tu hanumān nāma mārutasya aurasaḥ sutaḥ . sītāyāḥ tu kṛte tūrṇam śata-yojanam āyatam ..16..
तद्भवान्दृष्टधर्मार्थस्तपः कृतपरिग्रहः । परदारान्महाप्राज्ञ नोपरोद्धुं त्वमर्हसि ॥१७॥
तत् भवान् दृष्ट-धर्म-अर्थः तपः कृत-परिग्रहः । पर-दारान् महा-प्राज्ञ न उपरोद्धुम् त्वम् अर्हसि ॥१७॥
tat bhavān dṛṣṭa-dharma-arthaḥ tapaḥ kṛta-parigrahaḥ . para-dārān mahā-prājña na uparoddhum tvam arhasi ..17..
न हि धर्मविरुद्धेषु बह्वपायेषु कर्मसु । मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः ॥१८॥
न हि धर्म-विरुद्धेषु बहु-अपायेषु कर्मसु । मूल-घातिषु सज्जन्ते बुद्धिमन्तः भवद्विधाः ॥१८॥
na hi dharma-viruddheṣu bahu-apāyeṣu karmasu . mūla-ghātiṣu sajjante buddhimantaḥ bhavadvidhāḥ ..18..
कश्च लक्ष्मणमुक्तानां रामकोपानुवर्तिनाम् । शराणामग्रतः स्थातुं शक्तो देवासुरेष्वपि ॥१९॥
कः च लक्ष्मण-मुक्तानाम् राम-कोप-अनुवर्तिनाम् । शराणाम् अग्रतस् स्थातुम् शक्तः देव-असुरेषु अपि ॥१९॥
kaḥ ca lakṣmaṇa-muktānām rāma-kopa-anuvartinām . śarāṇām agratas sthātum śaktaḥ deva-asureṣu api ..19..
न चापि त्रिषु लोकेषु राजन्विद्येत कश् चन । राघवस्य व्यलीकं यः कृत्वा सुखमवाप्नुयात् ॥२०॥
न च अपि त्रिषु लोकेषु राजन् विद्येत कः चन । राघवस्य व्यलीकम् यः कृत्वा सुखम् अवाप्नुयात् ॥२०॥
na ca api triṣu lokeṣu rājan vidyeta kaḥ cana . rāghavasya vyalīkam yaḥ kṛtvā sukham avāpnuyāt ..20..
तत्त्रिकालहितं वाक्यं धर्म्यमर्थानुबन्धि च । मन्यस्व नरदेवाय जानकी प्रतिदीयताम् ॥२१॥
तत् त्रि-काल-हितम् वाक्यम् धर्म्यम् अर्थ-अनुबन्धि च । मन्यस्व नरदेवाय जानकी प्रतिदीयताम् ॥२१॥
tat tri-kāla-hitam vākyam dharmyam artha-anubandhi ca . manyasva naradevāya jānakī pratidīyatām ..21..
दृष्टा हीयं मया देवी लब्धं यदिह दुर्लभम् । उत्तरं कर्म यच्छेषं निमित्तं तत्र राघवः ॥२२॥
दृष्टा हि इयम् मया देवी लब्धम् यत् इह दुर्लभम् । उत्तरम् कर्म यत् शेषम् निमित्तम् तत्र राघवः ॥२२॥
dṛṣṭā hi iyam mayā devī labdham yat iha durlabham . uttaram karma yat śeṣam nimittam tatra rāghavaḥ ..22..
लक्षितेयं मया सीता तथा शोकपरायणा । गृह्य यां नाभिजानासि पञ्चास्यामिव पन्नगीम् ॥२३॥
लक्षिता इयम् मया सीता तथा शोक-परायणा । गृह्य याम् न अभिजानासि पञ्च-आस्याम् इव पन्नगीम् ॥२३॥
lakṣitā iyam mayā sītā tathā śoka-parāyaṇā . gṛhya yām na abhijānāsi pañca-āsyām iva pannagīm ..23..
नेयं जरयितुं शक्या सासुरैरमरैरपि । विषसंसृष्टमत्यर्थं भुक्तमन्नमिवौजसा ॥२४॥
न इयम् जरयितुम् शक्या स असुरैः अमरैः अपि । विष-संसृष्टम् अत्यर्थम् भुक्तम् अन्नम् इव ओजसा ॥२४॥
na iyam jarayitum śakyā sa asuraiḥ amaraiḥ api . viṣa-saṃsṛṣṭam atyartham bhuktam annam iva ojasā ..24..
तपःसन्तापलब्धस्ते योऽयं धर्मपरिग्रहः । न स नाशयितुं न्याय्य आत्मप्राणपरिग्रहः ॥२५॥
तपः-सन्ताप-लब्धः ते यः अयम् धर्म-परिग्रहः । न स नाशयितुम् न्याय्यः आत्म-प्राण-परिग्रहः ॥२५॥
tapaḥ-santāpa-labdhaḥ te yaḥ ayam dharma-parigrahaḥ . na sa nāśayitum nyāyyaḥ ātma-prāṇa-parigrahaḥ ..25..
अवध्यतां तपोभिर्यां भवान्समनुपश्यति । आत्मनः सासुरैर्देवैर्हेतुस्तत्राप्ययं महान् ॥२६॥
अवध्य-ताम् तपोभिः याम् भवान् समनुपश्यति । आत्मनः स असुरैः देवैः हेतुः तत्र अपि अयम् महान् ॥२६॥
avadhya-tām tapobhiḥ yām bhavān samanupaśyati . ātmanaḥ sa asuraiḥ devaiḥ hetuḥ tatra api ayam mahān ..26..
सुग्रीवो न हि देवोऽयं न यक्षो न च राक्षसो । मानुषो राघवो राजन्सुग्रीवश्च हरीश्वरः । तस्मात्प्राणपरित्राणं कथं राजन्करिष्यसि ॥२७॥
सुग्रीवः न हि देवः अयम् न यक्षः न च राक्षसः । मानुषः राघवः राजन् सुग्रीवः च हरि-ईश्वरः । तस्मात् प्राण-परित्राणम् कथम् राजन् करिष्यसि ॥२७॥
sugrīvaḥ na hi devaḥ ayam na yakṣaḥ na ca rākṣasaḥ . mānuṣaḥ rāghavaḥ rājan sugrīvaḥ ca hari-īśvaraḥ . tasmāt prāṇa-paritrāṇam katham rājan kariṣyasi ..27..
न तु धर्मोपसंहारमधर्मफलसंहितम् । तदेव फलमन्वेति धर्मश्चाधर्मनाशनः ॥२८॥
न तु धर्म-उपसंहारम् अधर्म-फल-संहितम् । तत् एव फलम् अन्वेति धर्मः च अधर्म-नाशनः ॥२८॥
na tu dharma-upasaṃhāram adharma-phala-saṃhitam . tat eva phalam anveti dharmaḥ ca adharma-nāśanaḥ ..28..
प्राप्तं धर्मफलं तावद्भवता नात्र संशयः । फलमस्याप्यधर्मस्य क्षिप्रमेव प्रपत्स्यसे ॥२९॥
प्राप्तम् धर्म-फलम् तावत् भवता न अत्र संशयः । फलम् अस्य अपि अधर्मस्य क्षिप्रम् एव प्रपत्स्यसे ॥२९॥
prāptam dharma-phalam tāvat bhavatā na atra saṃśayaḥ . phalam asya api adharmasya kṣipram eva prapatsyase ..29..
जनस्थानवधं बुद्ध्वा बुद्ध्वा वालिवधं तथा । रामसुग्रीवसख्यं च बुध्यस्व हितमात्मनः ॥३०॥
जनस्थान-वधम् बुद्ध्वा बुद्ध्वा वालि-वधम् तथा । राम-सुग्रीव-सख्यम् च बुध्यस्व हितम् आत्मनः ॥३०॥
janasthāna-vadham buddhvā buddhvā vāli-vadham tathā . rāma-sugrīva-sakhyam ca budhyasva hitam ātmanaḥ ..30..
कामं खल्वहमप्येकः सवाजिरथकुञ्जराम् । लङ्कां नाशयितुं शक्तस्तस्यैष तु विनिश्चयः ॥३१॥
कामम् खलु अहम् अपि एकः स वाजि-रथ-कुञ्जराम् । लङ्काम् नाशयितुम् शक्तः तस्य एष तु विनिश्चयः ॥३१॥
kāmam khalu aham api ekaḥ sa vāji-ratha-kuñjarām . laṅkām nāśayitum śaktaḥ tasya eṣa tu viniścayaḥ ..31..
रामेण हि प्रतिज्ञातं हर्यृक्षगणसंनिधौ । उत्सादनममित्राणां सीता यैस्तु प्रधर्षिता ॥३२॥
रामेण हि प्रतिज्ञातम् हरि-ऋक्ष-गण-संनिधौ । उत्सादनम् अमित्राणाम् सीता यैः तु प्रधर्षिता ॥३२॥
rāmeṇa hi pratijñātam hari-ṛkṣa-gaṇa-saṃnidhau . utsādanam amitrāṇām sītā yaiḥ tu pradharṣitā ..32..
अपकुर्वन्हि रामस्य साक्षादपि पुरन्दरः । न सुखं प्राप्नुयादन्यः किं पुनस्त्वद्विधो जनः ॥३३॥
अपकुर्वन् हि रामस्य साक्षात् अपि पुरन्दरः । न सुखम् प्राप्नुयात् अन्यः किम् पुनर् त्वद्विधः जनः ॥३३॥
apakurvan hi rāmasya sākṣāt api purandaraḥ . na sukham prāpnuyāt anyaḥ kim punar tvadvidhaḥ janaḥ ..33..
यां सीतेत्यभिजानासि येयं तिष्ठति ते वशे । कालरात्रीति तां विद्धि सर्वलङ्काविनाशिनीम् ॥३४॥
याम् सीता इति अभिजानासि या इयम् तिष्ठति ते वशे । कालरात्री इति ताम् विद्धि सर्व-लङ्का-विनाशिनीम् ॥३४॥
yām sītā iti abhijānāsi yā iyam tiṣṭhati te vaśe . kālarātrī iti tām viddhi sarva-laṅkā-vināśinīm ..34..
तदलं कालपाशेन सीता विग्रहरूपिणा । स्वयं स्कन्धावसक्तेन क्षममात्मनि चिन्त्यताम् ॥३५॥
तत् अलम् काल-पाशेन सीता विग्रह-रूपिणा । स्वयम् स्कन्ध-अवसक्तेन क्षमम् आत्मनि चिन्त्यताम् ॥३५॥
tat alam kāla-pāśena sītā vigraha-rūpiṇā . svayam skandha-avasaktena kṣamam ātmani cintyatām ..35..
सीतायास्तेजसा दग्धां रामकोपप्रपीडिताम् । दह्यमनामिमां पश्य पुरीं साट्टप्रतोलिकाम् ॥३६॥
सीतायाः तेजसा दग्धाम् राम-कोप-प्रपीडिताम् । दह्य-मनाम् इमाम् पश्य पुरीम् स अट्ट-प्रतोलिकाम् ॥३६॥
sītāyāḥ tejasā dagdhām rāma-kopa-prapīḍitām . dahya-manām imām paśya purīm sa aṭṭa-pratolikām ..36..
स्वानि मित्राणि मन्त्रींश्च ज्ञातीन् भ्रात्रून् सुतान् हितान्।भोगान्दारांश्च लङ्कां च मा विनाशमुपानय॥।३७॥
स्वानि मित्राणि मन्त्रीन् च ज्ञातीन् भ्रात्रून् सुतान् हितान्।भोगान् दारान् च लङ्काम् च मा विनाशम् उपानय॥।३७॥
svāni mitrāṇi mantrīn ca jñātīn bhrātrūn sutān hitān.bhogān dārān ca laṅkām ca mā vināśam upānaya...37..
सत्यं राक्षसराजेन्द्र शृणुष्व वचनं मम।रामदासस्य दूतस्य वानरस्य विशेषतः॥।३८॥
सत्यम् राक्षस-राज-इन्द्र शृणुष्व वचनम् मम।राम-दासस्य दूतस्य वानरस्य विशेषतः॥।३८॥
satyam rākṣasa-rāja-indra śṛṇuṣva vacanam mama.rāma-dāsasya dūtasya vānarasya viśeṣataḥ...38..
सर्वान् लोकान् सुसंहृत्य सभूतान् सचराचरान्।पुनरेव तथा स्रष्टुं शक्तो रामो महायशाः॥३९॥
सर्वान् लोकान् सु संहृत्य स भूतान् स चराचरान्।पुनर् एव तथा स्रष्टुम् शक्तः रामः महा-यशाः॥३९॥
sarvān lokān su saṃhṛtya sa bhūtān sa carācarān.punar eva tathā sraṣṭum śaktaḥ rāmaḥ mahā-yaśāḥ..39..
देवासुरनरेन्द्रेषु यक्षरक्षोगणेषु च ।विद्याधरेषु सर्वेषु गन्धर्वेषूरगेषु च॥४०॥
देव-असुर-नरेन्द्रेषु यक्ष-रक्षः-गणेषु च ।विद्याधरेषु सर्वेषु गन्धर्वेषु उरगेषु च॥४०॥
deva-asura-narendreṣu yakṣa-rakṣaḥ-gaṇeṣu ca .vidyādhareṣu sarveṣu gandharveṣu urageṣu ca..40..
सिद्धेषु किन्नरेन्द्रेषु पतत्रिषु च सर्वतः। सर्वत्र सर्वभूतेषु सर्वकालेषु नास्ति सः॥।४१॥
सिद्धेषु किन्नर-इन्द्रेषु पतत्रिषु च सर्वतस्। सर्वत्र सर्व-भूतेषु सर्व-कालेषु न अस्ति सः॥।४१॥
siddheṣu kinnara-indreṣu patatriṣu ca sarvatas. sarvatra sarva-bhūteṣu sarva-kāleṣu na asti saḥ...41..
यो रामं प्रतियुध्येत विष्णुतुल्यपराक्रमम्।सर्वलोकेश्वरस्यैवं कृत्वा विप्रियमुत्तमम्। रामस्य राजसिंहस्य दुर्लभं तव जीवितम्॥४२॥
यः रामम् प्रतियुध्येत विष्णु-तुल्य-पराक्रमम्।सर्व-लोक-ईश्वरस्य एवम् कृत्वा विप्रियम् उत्तमम्। रामस्य राज-सिंहस्य दुर्लभम् तव जीवितम्॥४२॥
yaḥ rāmam pratiyudhyeta viṣṇu-tulya-parākramam.sarva-loka-īśvarasya evam kṛtvā vipriyam uttamam. rāmasya rāja-siṃhasya durlabham tava jīvitam..42..
देवाश्च दैत्याश्च निशाचरेन्द्र गन्धर्वविद्याधरनागयक्षाः।रामस्य लोकत्रयनायकस्य स्थातुं न शक्तास्समरेषु सर्वे॥।४३॥
देवाः च दैत्याः च निशाचर-इन्द्र गन्धर्व-विद्याधर-नाग-यक्षाः।रामस्य लोकत्रय-नायकस्य स्थातुम् न शक्ताः समरेषु सर्वे॥।४३॥
devāḥ ca daityāḥ ca niśācara-indra gandharva-vidyādhara-nāga-yakṣāḥ.rāmasya lokatraya-nāyakasya sthātum na śaktāḥ samareṣu sarve...43..
ब्रह्मा स्वयम्भूश्चतुराननो वा रुद्रस्त्रिणेत्रस्त्रिपुरान्तको वा।इन्द्रो महेन्द्रस्सुरनायको वा त्रातुं न शक्ता युधि रामवध्यम्॥४४॥
ब्रह्मा स्वयम्भूः चतुराननः वा रुद्रः त्रिनेत्रः त्रिपुरान्तकः वा।इन्द्रः महा-इन्द्रः सुर-नायकः वा त्रातुम् न शक्ताः युधि राम-वध्यम्॥४४॥
brahmā svayambhūḥ caturānanaḥ vā rudraḥ trinetraḥ tripurāntakaḥ vā.indraḥ mahā-indraḥ sura-nāyakaḥ vā trātum na śaktāḥ yudhi rāma-vadhyam..44..
स सौष्ठवोपेतमदीनवादिनः कपेर्निशम्याप्रतिमोऽप्रियं वचः । दशाननः कोपविवृत्तलोचनः समादिशत्तस्य वधं महाकपेः ॥४५॥
स सौष्ठव-उपेतम् अदीन-वादिनः कपेः निशम्य अप्रतिमः अप्रियम् वचः । दशाननः कोप-विवृत्त-लोचनः समादिशत् तस्य वधम् महा-कपेः ॥४५॥
sa sauṣṭhava-upetam adīna-vādinaḥ kapeḥ niśamya apratimaḥ apriyam vacaḥ . daśānanaḥ kopa-vivṛtta-locanaḥ samādiśat tasya vadham mahā-kapeḥ ..45..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In