This overlay will guide you through the buttons:

| |
|
तस्य तद्वचनं श्रुत्वा वानरस्य महात्मनः । आज्ञापयद्वधं तस्य रावणः क्रोधमूर्छितः ॥ १॥
तस्य तत् वचनम् श्रुत्वा वानरस्य महात्मनः । आज्ञापयत् वधम् तस्य रावणः क्रोध-मूर्छितः ॥ १॥
tasya tat vacanam śrutvā vānarasya mahātmanaḥ . ājñāpayat vadham tasya rāvaṇaḥ krodha-mūrchitaḥ .. 1..
वधे तस्य समाज्ञप्ते रावणेन दुरात्मना । निवेदितवतो दौत्यं नानुमेने विभीषणः ॥ २॥
वधे तस्य समाज्ञप्ते रावणेन दुरात्मना । निवेदितवतः दौत्यम् न अनुमेने विभीषणः ॥ २॥
vadhe tasya samājñapte rāvaṇena durātmanā . niveditavataḥ dautyam na anumene vibhīṣaṇaḥ .. 2..
तं रक्षोऽधिपतिं क्रुद्धं तच्च कार्यमुपस्थितम् । विदित्वा चिन्तयामास कार्यं कार्यविधौ स्थितः ॥ ३॥
तम् रक्षः-अधिपतिम् क्रुद्धम् तत् च कार्यम् उपस्थितम् । विदित्वा चिन्तयामास कार्यम् कार्य-विधौ स्थितः ॥ ३॥
tam rakṣaḥ-adhipatim kruddham tat ca kāryam upasthitam . viditvā cintayāmāsa kāryam kārya-vidhau sthitaḥ .. 3..
निश्चितार्थस्ततः साम्नापूज्य शत्रुजिदग्रजम् । उवाच हितमत्यर्थं वाक्यं वाक्यविशारदः ॥ ४॥
निश्चित-अर्थः ततस् साम्ना आपूज्य शत्रुजित्-अग्रजम् । उवाच हितम् अत्यर्थम् वाक्यम् वाक्य-विशारदः ॥ ४॥
niścita-arthaḥ tatas sāmnā āpūjya śatrujit-agrajam . uvāca hitam atyartham vākyam vākya-viśāradaḥ .. 4..
क्षमस्व रोषं त्यज राक्षसेन्द्र प्रसीद मद्वाक्यमिदं शृणुष्व।वधं न कुर्वन्ति परावरज्ञा दूतस्य सन्तो वसुधाधिपेन्द्राः॥५॥
क्षमस्व रोषम् त्यज राक्षस-इन्द्र प्रसीद मद्-वाक्यम् इदम् शृणुष्व।वधम् न कुर्वन्ति परावर-ज्ञाः दूतस्य सन्तः वसुधाधिप-इन्द्राः॥५॥
kṣamasva roṣam tyaja rākṣasa-indra prasīda mad-vākyam idam śṛṇuṣva.vadham na kurvanti parāvara-jñāḥ dūtasya santaḥ vasudhādhipa-indrāḥ..5..
राजन् धर्मविरुद्धं च लोकवृत्तेश् च गर्हितम् । तव चासदृशं वीर कपेरस्य प्रमापणम् ॥६॥
राजन् धर्म-विरुद्धम् च लोक-वृत्तेः च गर्हितम् । तव च अ सदृशम् वीर कपेः अस्य प्रमापणम् ॥६॥
rājan dharma-viruddham ca loka-vṛtteḥ ca garhitam . tava ca a sadṛśam vīra kapeḥ asya pramāpaṇam ..6..
धर्मज्ञश्च कृतज्ञश्च राजधर्मविशारदः।परावरज्ञो भूतानां त्वमेव परमार्थवित्॥७॥
धर्म-ज्ञः च कृतज्ञः च राज-धर्म-विशारदः।परावर-ज्ञः भूतानाम् त्वम् एव परम-अर्थ-विद्॥७॥
dharma-jñaḥ ca kṛtajñaḥ ca rāja-dharma-viśāradaḥ.parāvara-jñaḥ bhūtānām tvam eva parama-artha-vid..7..
गृह्यन्ते यदि रोषेण त्वादृशोऽपि विचक्षणः।तत श्शास्त्रविपश्चित्त्वं श्रम एव हि केवलम्॥८॥
गृह्यन्ते यदि रोषेण त्वादृशः अपि विचक्षणः।ततस् शास्त्र-विपश्चित्-त्वम् श्रमः एव हि केवलम्॥८॥
gṛhyante yadi roṣeṇa tvādṛśaḥ api vicakṣaṇaḥ.tatas śāstra-vipaścit-tvam śramaḥ eva hi kevalam..8..
तस्मात्प्रसीद शत्रुघ्न राक्षसेन्द्र दुरासद।युक्तायुक्तं विनिश्चित्य दूतदण्डो विधीयताम्॥९॥
तस्मात् प्रसीद शत्रुघ्न राक्षस-इन्द्र दुरासद।युक्त-अयुक्तम् विनिश्चित्य दूत-दण्डः विधीयताम्॥९॥
tasmāt prasīda śatrughna rākṣasa-indra durāsada.yukta-ayuktam viniścitya dūta-daṇḍaḥ vidhīyatām..9..
विभीषणवचः श्रुत्वा रावणो राक्षसेश्वरः।रोषेण महताविष्टो वाक्यमुत्तरमब्रवीत्॥१०॥
विभीषण-वचः श्रुत्वा रावणः राक्षसेश्वरः।रोषेण महता आविष्टः वाक्यम् उत्तरम् अब्रवीत्॥१०॥
vibhīṣaṇa-vacaḥ śrutvā rāvaṇaḥ rākṣaseśvaraḥ.roṣeṇa mahatā āviṣṭaḥ vākyam uttaram abravīt..10..
न पापानां वधे पापं विद्यते शत्रुसूदन।तस्मादेनं वधिष्यामि वानरं पापचारिणम्॥११॥
न पापानाम् वधे पापम् विद्यते शत्रु-सूदन।तस्मात् एनम् वधिष्यामि वानरम् पाप-चारिणम्॥११॥
na pāpānām vadhe pāpam vidyate śatru-sūdana.tasmāt enam vadhiṣyāmi vānaram pāpa-cāriṇam..11..
अधर्ममूलं बहुदोषयुक्तमनार्यजुष्टं वचनं निशम्य।उवाच वाक्यं परमार्थतत्त्वं विभीषणो बुद्धिमतां वरिष्ठः॥१२॥
अधर्म-मूलम् बहु-दोष-युक्तम् अनार्य-जुष्टम् वचनम् निशम्य।उवाच वाक्यम् परम-अर्थ-तत्त्वम् विभीषणः बुद्धिमताम् वरिष्ठः॥१२॥
adharma-mūlam bahu-doṣa-yuktam anārya-juṣṭam vacanam niśamya.uvāca vākyam parama-artha-tattvam vibhīṣaṇaḥ buddhimatām variṣṭhaḥ..12..
प्रसीद लङ्केश्वर राक्षसेन्द्र धर्मार्थयुक्तं वचनं शृणुष्व।दूतानवध्यान् समयेषु राजन् सर्वेषु सर्वत्र वदन्ति सन्तः॥१३॥
प्रसीद लङ्का-ईश्वर राक्षस-इन्द्र धर्म-अर्थ-युक्तम् वचनम् शृणुष्व।दूतान् अवध्यान् समयेषु राजन् सर्वेषु सर्वत्र वदन्ति सन्तः॥१३॥
prasīda laṅkā-īśvara rākṣasa-indra dharma-artha-yuktam vacanam śṛṇuṣva.dūtān avadhyān samayeṣu rājan sarveṣu sarvatra vadanti santaḥ..13..
असंशयं शत्रुरयं प्रवृद्धः कृतं ह्यनेनाप्रियमप्रमेयम् । न दूतवध्यां प्रवदन्ति सन्तो दूतस्य दृष्टा बहवो हि दण्डाः ॥१४॥
असंशयम् शत्रुः अयम् प्रवृद्धः कृतम् हि अनेन अप्रियम् अप्रमेयम् । न दूत-वध्याम् प्रवदन्ति सन्तः दूतस्य दृष्टाः बहवः हि दण्डाः ॥१४॥
asaṃśayam śatruḥ ayam pravṛddhaḥ kṛtam hi anena apriyam aprameyam . na dūta-vadhyām pravadanti santaḥ dūtasya dṛṣṭāḥ bahavaḥ hi daṇḍāḥ ..14..
वैरूप्यामङ्गेषु कशाभिघातो मौण्ड्यं तथा लक्ष्मणसंनिपातः । एतान्हि दूते प्रवदन्ति दण्डान् वधस्तु दूतस्य न नः श्रुतोऽपि ॥१५॥
वैरूप्याम् अङ्गेषु कशा-अभिघातः मौण्ड्यम् तथा लक्ष्मण-संनिपातः । एतान् हि दूते प्रवदन्ति दण्डान् वधः तु दूतस्य न नः श्रुतः अपि ॥१५॥
vairūpyām aṅgeṣu kaśā-abhighātaḥ mauṇḍyam tathā lakṣmaṇa-saṃnipātaḥ . etān hi dūte pravadanti daṇḍān vadhaḥ tu dūtasya na naḥ śrutaḥ api ..15..
कथं च धर्मार्थविनीतबुद्धिः परावरप्रत्ययनिश्चितार्थः । भवद्विधः कोपवशे हि तिष्ठेत् कोपं नियच्छन्ति हि सत्त्ववन्तः ॥१६॥
कथम् च धर्म-अर्थ-विनीत-बुद्धिः परावर-प्रत्यय-निश्चित-अर्थः । भवद्विधः कोप-वशे हि तिष्ठेत् कोपम् नियच्छन्ति हि सत्त्ववन्तः ॥१६॥
katham ca dharma-artha-vinīta-buddhiḥ parāvara-pratyaya-niścita-arthaḥ . bhavadvidhaḥ kopa-vaśe hi tiṣṭhet kopam niyacchanti hi sattvavantaḥ ..16..
न धर्मवादे न च लोकवृत्ते न शास्त्रबुद्धिग्रहणेषु वापि । विद्येत कश्चित्तव वीरतुल्यस् त्वं ह्युत्तमः सर्वसुरासुराणाम् ॥१७॥
न धर्म-वादे न च लोक-वृत्ते न शास्त्र-बुद्धि-ग्रहणेषु वा अपि । विद्येत कश्चिद् तव वीर-तुल्यः त्वम् हि उत्तमः सर्व-सुर-असुराणाम् ॥१७॥
na dharma-vāde na ca loka-vṛtte na śāstra-buddhi-grahaṇeṣu vā api . vidyeta kaścid tava vīra-tulyaḥ tvam hi uttamaḥ sarva-sura-asurāṇām ..17..
पराक्रमोत्साहमनस्विनां च सुरासुराणामपि दुर्जयेन।त्वयाप्रमेयेण सुरेन्द्रसंघा जिताश्च युध्देष्वसकृन्नरेन्द्राः॥१८॥
पराक्रम-उत्साह-मनस्विनाम् च सुर-असुराणाम् अपि दुर्जयेन।त्वया अप्रमेयेण सुर-इन्द्र-संघाः जिताः च युध्-देषु असकृत् नरेन्द्राः॥१८॥
parākrama-utsāha-manasvinām ca sura-asurāṇām api durjayena.tvayā aprameyeṇa sura-indra-saṃghāḥ jitāḥ ca yudh-deṣu asakṛt narendrāḥ..18..
इत्थंविधस्यामरदैत्यशत्रोः शूरस्य वीरस्य तवाजितस्य।कुर्वन्ति वीरा मनसाप्यलीकं प्राणैर्विमुक्ता न तु भो पुरा ते॥१९॥
इत्थंविधस्य अमर-दैत्य-शत्रोः शूरस्य वीरस्य तव अजितस्य।कुर्वन्ति वीराः मनसा अपि अलीकम् प्राणैः विमुक्ताः न तु भो पुरा ते॥१९॥
itthaṃvidhasya amara-daitya-śatroḥ śūrasya vīrasya tava ajitasya.kurvanti vīrāḥ manasā api alīkam prāṇaiḥ vimuktāḥ na tu bho purā te..19..
न चाप्यस्य कपेर्घाते कं चित्पश्याम्यहं गुणम् । तेष्वयं पात्यतां दण्डो यैरयं प्रेषितः कपिः ॥२०॥
न च अपि अस्य कपेः घाते कम् चित् पश्यामि अहम् गुणम् । तेषु अयम् पात्यताम् दण्डः यैः अयम् प्रेषितः कपिः ॥२०॥
na ca api asya kapeḥ ghāte kam cit paśyāmi aham guṇam . teṣu ayam pātyatām daṇḍaḥ yaiḥ ayam preṣitaḥ kapiḥ ..20..
साधुर्वा यदि वासाधुर्परैरेष समर्पितः । ब्रुवन्परार्थं परवान्न दूतो वधमर्हति ॥२१॥
साधुः वा यदि वा असाधुः परैः एष समर्पितः । ब्रुवन् पर-अर्थम् परवान् न दूतः वधम् अर्हति ॥२१॥
sādhuḥ vā yadi vā asādhuḥ paraiḥ eṣa samarpitaḥ . bruvan para-artham paravān na dūtaḥ vadham arhati ..21..
अपि चास्मिन्हते राजन्नान्यं पश्यामि खेचरम् । इह यः पुनरागच्छेत्परं पारं महोदधिः ॥२२॥
अपि च अस्मिन् हते राजन् न अन्यम् पश्यामि खेचरम् । इह यः पुनर् आगच्छेत् परम् पारम् महा-उदधिः ॥२२॥
api ca asmin hate rājan na anyam paśyāmi khecaram . iha yaḥ punar āgacchet param pāram mahā-udadhiḥ ..22..
तस्मान्नास्य वधे यत्नः कार्यः परपुरञ्जय । भवान्सेन्द्रेषु देवेषु यत्नमास्थातुमर्हति ॥२३॥
तस्मात् न अस्य वधे यत्नः कार्यः परपुरञ्जय । भवान् स इन्द्रेषु देवेषु यत्नम् आस्थातुम् अर्हति ॥२३॥
tasmāt na asya vadhe yatnaḥ kāryaḥ parapurañjaya . bhavān sa indreṣu deveṣu yatnam āsthātum arhati ..23..
अस्मिन्विनष्टे न हि दूतमन्यं पश्यामि यस्तौ नरराजपुत्रौ । युद्धाय युद्धप्रियदुर्विनीताव् उद्योजयेद्दीर्घपथावरुद्धौ ॥२४॥
अस्मिन् विनष्टे न हि दूतम् अन्यम् पश्यामि यः तौ नर-राज-पुत्रौ । युद्धाय युद्ध-प्रिय-दुर्विनीतौ उद्योजयेत् दीर्घ-पथ-अवरुद्धौ ॥२४॥
asmin vinaṣṭe na hi dūtam anyam paśyāmi yaḥ tau nara-rāja-putrau . yuddhāya yuddha-priya-durvinītau udyojayet dīrgha-patha-avaruddhau ..24..
पराक्रमोत्साहमनस्विनां च सुरासुराणाम् अपि दुर्जयेन । त्वया मनोनन्दन नैरृतानां युद्धायतिर्नाशयितुं न युक्ता ॥२५॥
पराक्रम-उत्साह-मनस्विनाम् च सुर-असुराणाम् अपि दुर्जयेन । त्वया मनः-नन्दन नैरृतानाम् युद्ध-आयतिः नाशयितुम् न युक्ता ॥२५॥
parākrama-utsāha-manasvinām ca sura-asurāṇām api durjayena . tvayā manaḥ-nandana nairṛtānām yuddha-āyatiḥ nāśayitum na yuktā ..25..
हिताश्च शूराश्च समाहिताश् च कुलेषु जाताश्च महागुणेषु । मनस्विनः शस्त्रभृतां वरिष्ठाः कोट्यग्रशस्ते सुभृताश्च योधाः ॥२६॥
हिताः च शूराः च समाहिताः च कुलेषु जाताः च महा-गुणेषु । मनस्विनः शस्त्रभृताम् वरिष्ठाः कोटि-अग्रशस् ते सुभृताः च योधाः ॥२६॥
hitāḥ ca śūrāḥ ca samāhitāḥ ca kuleṣu jātāḥ ca mahā-guṇeṣu . manasvinaḥ śastrabhṛtām variṣṭhāḥ koṭi-agraśas te subhṛtāḥ ca yodhāḥ ..26..
तदेकदेशेन बलस्य तावत् के चित्तवादेशकृतोऽपयान्तु । तौ राजपुत्रौ विनिगृह्य मूढौ परेषु ते भावयितुं प्रभावम् ॥२७॥
तद्-एक-देशेन बलस्य तावत् के चित् तव आदेश-कृतः अपयान्तु । तौ राज-पुत्रौ विनिगृह्य मूढौ परेषु ते भावयितुम् प्रभावम् ॥२७॥
tad-eka-deśena balasya tāvat ke cit tava ādeśa-kṛtaḥ apayāntu . tau rāja-putrau vinigṛhya mūḍhau pareṣu te bhāvayitum prabhāvam ..27..
निशाचराणामधिपोऽनुजस्य विभीषणस्योत्तमवाक्यमिष्टम्।जग्राह बुद्ध्या सुरलोकशत्रु र्महाबलो राक्षसराजमुख्यः॥२८॥
निशाचराणाम् अधिपः अनुजस्य विभीषणस्य उत्तम-वाक्यम् इष्टम्।जग्राह बुद्ध्या सुर-लोक-शत्रुः महा-बलः राक्षस-राज-मुख्यः॥२८॥
niśācarāṇām adhipaḥ anujasya vibhīṣaṇasya uttama-vākyam iṣṭam.jagrāha buddhyā sura-loka-śatruḥ mahā-balaḥ rākṣasa-rāja-mukhyaḥ..28..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In