This overlay will guide you through the buttons:

| |
|
तस्य तद्वचनं श्रुत्वा दशग्रीवो महाबलः । देशकालहितं वाक्यं भ्रातुरुत्तममब्रवीत् ॥ १॥
तस्य तत् वचनम् श्रुत्वा दशग्रीवः महा-बलः । देश-काल-हितम् वाक्यम् भ्रातुः उत्तमम् अब्रवीत् ॥ १॥
tasya tat vacanam śrutvā daśagrīvaḥ mahā-balaḥ . deśa-kāla-hitam vākyam bhrātuḥ uttamam abravīt .. 1..
सम्यगुक्तं हि भवता दूतवध्या विगर्हिता । अवश्यं तु वधादन्यः क्रियतामस्य निग्रहः ॥ २॥
सम्यक् उक्तम् हि भवता दूत-वध्या विगर्हिता । अवश्यम् तु वधात् अन्यः क्रियताम् अस्य निग्रहः ॥ २॥
samyak uktam hi bhavatā dūta-vadhyā vigarhitā . avaśyam tu vadhāt anyaḥ kriyatām asya nigrahaḥ .. 2..
कपीनां किल लाङ्गूलमिष्टं भवति भूषणम् । तदस्य दीप्यतां शीघ्रं तेन दग्धेन गच्छतु ॥ ३॥
कपीनाम् किल लाङ्गूलम् इष्टम् भवति भूषणम् । तत् अस्य दीप्यताम् शीघ्रम् तेन दग्धेन गच्छतु ॥ ३॥
kapīnām kila lāṅgūlam iṣṭam bhavati bhūṣaṇam . tat asya dīpyatām śīghram tena dagdhena gacchatu .. 3..
ततः पश्यन्त्विमं दीनमङ्गवैरूप्यकर्शितम् । समित्रा ज्ञातयः सर्वे बान्धवाः ससुहृज्जनाः ॥ ४॥
ततस् पश्यन्तु इमम् दीनम् अङ्ग-वैरूप्य-कर्शितम् । स मित्राः ज्ञातयः सर्वे बान्धवाः स सुहृद्-जनाः ॥ ४॥
tatas paśyantu imam dīnam aṅga-vairūpya-karśitam . sa mitrāḥ jñātayaḥ sarve bāndhavāḥ sa suhṛd-janāḥ .. 4..
आज्ञापयद्राक्षसेन्द्रः पुरं सर्वं सचत्वरम् । लाङ्गूलेन प्रदीप्तेन रक्षोभिः परिणीयताम् ॥ ५॥
आज्ञापयत् राक्षस-इन्द्रः पुरम् सर्वम् स चत्वरम् । लाङ्गूलेन प्रदीप्तेन रक्षोभिः परिणीयताम् ॥ ५॥
ājñāpayat rākṣasa-indraḥ puram sarvam sa catvaram . lāṅgūlena pradīptena rakṣobhiḥ pariṇīyatām .. 5..
तस्य तद्वचनं श्रुत्वा राक्षसाः कोपकर्कशाः । वेष्टन्ते तस्य लाङ्गूलं जीर्णैः कार्पासिकैः पटैः ॥ ६॥
तस्य तत् वचनम् श्रुत्वा राक्षसाः कोप-कर्कशाः । वेष्टन्ते तस्य लाङ्गूलम् जीर्णैः कार्पासिकैः पटैः ॥ ६॥
tasya tat vacanam śrutvā rākṣasāḥ kopa-karkaśāḥ . veṣṭante tasya lāṅgūlam jīrṇaiḥ kārpāsikaiḥ paṭaiḥ .. 6..
संवेष्ट्यमाने लाङ्गूले व्यवर्धत महाकपिः । शुष्कमिन्धनमासाद्य वनेष्विव हुताशनः ॥ ७॥
संवेष्ट्यमाने लाङ्गूले व्यवर्धत महा-कपिः । शुष्कम् इन्धनम् आसाद्य वनेषु इव हुताशनः ॥ ७॥
saṃveṣṭyamāne lāṅgūle vyavardhata mahā-kapiḥ . śuṣkam indhanam āsādya vaneṣu iva hutāśanaḥ .. 7..
तैलेन परिषिच्याथ तेऽग्निं तत्रावपातयन् ।लाङ्गूलेन प्रदीप्तेन राक्षसांस्तानपातयत् ॥८॥
तैलेन परिषिच्य अथ ते अग्निम् तत्र अवपातयन् ।लाङ्गूलेन प्रदीप्तेन राक्षसान् तान् अपातयत् ॥८॥
tailena pariṣicya atha te agnim tatra avapātayan .lāṅgūlena pradīptena rākṣasān tān apātayat ..8..
रोषामर्षपरीतात्मा बालसूर्यसमाननः ।स भूयः सङ्गतैः क्रूरै राकसैर्हरिसत्तमः ॥९॥
रोष-अमर्ष-परीत-आत्मा बाल-सूर्य-सम-आननः ।स भूयस् सङ्गतैः क्रूरैः राकसैः हरि-सत्तमः ॥९॥
roṣa-amarṣa-parīta-ātmā bāla-sūrya-sama-ānanaḥ .sa bhūyas saṅgataiḥ krūraiḥ rākasaiḥ hari-sattamaḥ ..9..
सहस्त्रीबालवृद्धाश्च जग्मुः प्रीता निशाचराः। निबद्धः कृतवान्वीरस्तत्कालसदृशीं मतिम् ॥१०॥
सह स्त्री-बाल-वृद्धाः च जग्मुः प्रीताः निशाचराः। निबद्धः कृतवान् वीरः तद्-काल-सदृशीम् मतिम् ॥१०॥
saha strī-bāla-vṛddhāḥ ca jagmuḥ prītāḥ niśācarāḥ. nibaddhaḥ kṛtavān vīraḥ tad-kāla-sadṛśīm matim ..10..
कामं खलु न मे शक्ता निबधस्यापि राक्षसाः । छित्त्वा पाशान्समुत्पत्य हन्यामहमिमान्पुनः ॥११॥
कामम् खलु न मे शक्ताः राक्षसाः । छित्त्वा पाशान् समुत्पत्य हन्याम् अहम् इमान् पुनर् ॥११॥
kāmam khalu na me śaktāḥ rākṣasāḥ . chittvā pāśān samutpatya hanyām aham imān punar ..11..
यदि भर्तुर्हितार्थाय चरन्तं भर्तृशासनात्।निबध्नन्ते दुरात्मनो न तु मे निष्कृतिः कृता॥१२॥
यदि भर्तुः हित-अर्थाय चरन्तम् भर्तृ-शासनात्।निबध्नन्ते दुरात्मनः न तु मे निष्कृतिः कृता॥१२॥
yadi bhartuḥ hita-arthāya carantam bhartṛ-śāsanāt.nibadhnante durātmanaḥ na tu me niṣkṛtiḥ kṛtā..12..
सर्वेषामेव पर्याप्तो राक्षसानामहं युधि । किं तु रामस्य प्रीत्यर्थं विषहिष्येऽहमीदृशम् ॥१३॥
सर्वेषाम् एव पर्याप्तः राक्षसानाम् अहम् युधि । किम् तु रामस्य प्रीति-अर्थम् विषहिष्ये अहम् ईदृशम् ॥१३॥
sarveṣām eva paryāptaḥ rākṣasānām aham yudhi . kim tu rāmasya prīti-artham viṣahiṣye aham īdṛśam ..13..
लङ्का चरयितव्या मे पुनरेव भवेदिति । रात्रौ न हि सुदृष्टा मे दुर्गकर्मविधानतः ॥१४॥
लङ्का चरयितव्या मे पुनर् एव भवेत् इति । रात्रौ न हि सु दृष्टा मे दुर्ग-कर्म-विधानतः ॥१४॥
laṅkā carayitavyā me punar eva bhavet iti . rātrau na hi su dṛṣṭā me durga-karma-vidhānataḥ ..14..
अवश्यमेव द्रष्टव्या मया लङ्का निशाक्षये ।कामं बन्धैश्च मे भूयः पुच्छस्योद्दीपनेन च ॥१५॥
अवश्यम् एव द्रष्टव्या मया लङ्का निशा-क्षये ।कामम् बन्धैः च मे भूयस् पुच्छस्य उद्दीपनेन च ॥१५॥
avaśyam eva draṣṭavyā mayā laṅkā niśā-kṣaye .kāmam bandhaiḥ ca me bhūyas pucchasya uddīpanena ca ..15..
पीडां कुर्वन्तु रक्षांसि न मेऽस्ति मनसः श्रमः ।ततस्ते संवृताकारं सत्त्ववन्तं महाकपिम् ॥१६॥
पीडाम् कुर्वन्तु रक्षांसि न मे अस्ति मनसः श्रमः ।ततस् ते संवृत-आकारम् सत्त्ववन्तम् महा-कपिम् ॥१६॥
pīḍām kurvantu rakṣāṃsi na me asti manasaḥ śramaḥ .tatas te saṃvṛta-ākāram sattvavantam mahā-kapim ..16..
परिगृह्य ययुर्हृष्टा राक्षसाः कपिकुञ्जरम् ।शङ्खभेरीनिनादैस्तैर्घोषयन्तः स्वकर्मभिः ॥१७॥
परिगृह्य ययुः हृष्टाः राक्षसाः कपि-कुञ्जरम् ।शङ्ख-भेरी-निनादैः तैः घोषयन्तः स्व-कर्मभिः ॥१७॥
parigṛhya yayuḥ hṛṣṭāḥ rākṣasāḥ kapi-kuñjaram .śaṅkha-bherī-ninādaiḥ taiḥ ghoṣayantaḥ sva-karmabhiḥ ..17..
राक्षसाः क्रूरकर्माणश्चारयन्ति स्म तां पुरीम् ।अन्वीयमानो रक्षोभिर्ययौ सुखमरिन्दमः॥१८॥
राक्षसाः क्रूर-कर्माणः चारयन्ति स्म ताम् पुरीम् ।अन्वीयमानः रक्षोभिः ययौ सुखम् अरिन्दमः॥१८॥
rākṣasāḥ krūra-karmāṇaḥ cārayanti sma tām purīm .anvīyamānaḥ rakṣobhiḥ yayau sukham arindamaḥ..18..
हनुमांश्चारयामास राक्षसानां महापुरीम् । अथापश्यद्विमानानि विचित्राणि महाकपिः ॥१९॥
हनुमान् चारयामास राक्षसानाम् महा-पुरीम् । अथा अपश्यत् विमानानि विचित्राणि महा-कपिः ॥१९॥
hanumān cārayāmāsa rākṣasānām mahā-purīm . athā apaśyat vimānāni vicitrāṇi mahā-kapiḥ ..19..
संवृतान्भूमिभागांश्च सुविभक्तांश्च चत्वरान् । रथ्याश्च गृहसम्बाधाः कपिः शृङ्गाटकानि च ॥२०॥
संवृतान् भूमि-भागान् च सुविभक्तान् च चत्वरान् । रथ्याः च गृह-सम्बाधाः कपिः शृङ्गाटकानि च ॥२०॥
saṃvṛtān bhūmi-bhāgān ca suvibhaktān ca catvarān . rathyāḥ ca gṛha-sambādhāḥ kapiḥ śṛṅgāṭakāni ca ..20..
तथा रथ्योपरथ्याश्च तथैव गृहकान्तरान्।चत्वरेषु चतुष्केषु राजमार्गे तथैव च ॥२१॥
तथा रथ्या-उपरथ्याः च तथा एव गृहक-अन्तरान्।चत्वरेषु चतुष्केषु राजमार्गे तथा एव च ॥२१॥
tathā rathyā-uparathyāḥ ca tathā eva gṛhaka-antarān.catvareṣu catuṣkeṣu rājamārge tathā eva ca ..21..
घोषयन्ति कपिं सर्वे चारीक इति राक्षसाः ।स्त्रीबालवृद्धाः निर्जग्मुस्तत्र तत्र कुतूहलात्॥२२॥
घोषयन्ति कपिम् सर्वे चारीकः इति राक्षसाः ।स्त्री-बाल-वृद्धाः निर्जग्मुः तत्र तत्र कुतूहलात्॥२२॥
ghoṣayanti kapim sarve cārīkaḥ iti rākṣasāḥ .strī-bāla-vṛddhāḥ nirjagmuḥ tatra tatra kutūhalāt..22..
तं प्रदीपितलाङ्गूलं हनुमन्तं दिदृक्षवः।दीप्यमाने ततस्तस्य लाङ्गूलाग्रे हनूमतः ॥२३॥
तम् प्रदीपित-लाङ्गूलम् हनुमन्तम् दिदृक्षवः।दीप्यमाने ततस् तस्य लाङ्गूल-अग्रे हनूमतः ॥२३॥
tam pradīpita-lāṅgūlam hanumantam didṛkṣavaḥ.dīpyamāne tatas tasya lāṅgūla-agre hanūmataḥ ..23..
राक्षस्यस्ता विरूपाक्ष्यः शंसुर्देव्यास्तदप्रियम् ।यस्त्वया कृतसंवादः सीते ताम्रमुखः कपिः ॥२४॥
राक्षस्यः ताः विरूप-अक्ष्यः शंसुः देव्याः तत् अप्रियम् ।यः त्वया कृत-संवादः सीते ताम्र-मुखः कपिः ॥२४॥
rākṣasyaḥ tāḥ virūpa-akṣyaḥ śaṃsuḥ devyāḥ tat apriyam .yaḥ tvayā kṛta-saṃvādaḥ sīte tāmra-mukhaḥ kapiḥ ..24..
लाङ्गूलेन प्रदीप्तेन स एष परिणीयते ।श्रुत्वा तद्वचनं क्रूरमात्मापहरणोपमम् ॥२५॥
लाङ्गूलेन प्रदीप्तेन सः एष परिणीयते ।श्रुत्वा तद्-वचनम् क्रूरम् आत्म-अपहरण-उपमम् ॥२५॥
lāṅgūlena pradīptena saḥ eṣa pariṇīyate .śrutvā tad-vacanam krūram ātma-apaharaṇa-upamam ..25..
वैदेही शोकसन्तप्ता हुताशनमुपागमत् ।मङ्गलाभिमुखी तस्य सा तदासीन्महाकपेः ॥२६॥
वैदेही शोक-सन्तप्ता हुताशनम् उपागमत् ।मङ्गल-अभिमुखी तस्य सा तदा आसीत् महा-कपेः ॥२६॥
vaidehī śoka-santaptā hutāśanam upāgamat .maṅgala-abhimukhī tasya sā tadā āsīt mahā-kapeḥ ..26..
उपतस्थे विशालाक्षी प्रयता हव्यवाहनम् । यद्यस्ति पतिशुश्रूषा यद्यस्ति चरितं तपः । यदि वा त्वेकपत्नीत्वं शीतो भव हनूमतः ॥२७॥
उपतस्थे विशाल-अक्षी प्रयता हव्यवाहनम् । यदि अस्ति पति-शुश्रूषा यदि अस्ति चरितम् तपः । यदि वा तु एकपत्नी-त्वम् शीतः भव हनूमतः ॥२७॥
upatasthe viśāla-akṣī prayatā havyavāhanam . yadi asti pati-śuśrūṣā yadi asti caritam tapaḥ . yadi vā tu ekapatnī-tvam śītaḥ bhava hanūmataḥ ..27..
यदि कश्चिदनुक्रोशस्तस्य मय्यस्ति धीमतः । यदि वा भाग्यशेषं मे शीतो भव हनूमतः ॥२८॥
यदि कश्चिद् अनुक्रोशः तस्य मयि अस्ति धीमतः । यदि वा भाग्य-शेषम् मे शीतः भव हनूमतः ॥२८॥
yadi kaścid anukrośaḥ tasya mayi asti dhīmataḥ . yadi vā bhāgya-śeṣam me śītaḥ bhava hanūmataḥ ..28..
यदि मां वृत्तसम्पन्नां तत्समागमलालसाम् । स विजानाति धर्मात्मा शीतो भव हनूमतः ॥२९॥
यदि माम् वृत्त-सम्पन्नाम् तद्-समागम-लालसाम् । स विजानाति धर्म-आत्मा शीतः भव हनूमतः ॥२९॥
yadi mām vṛtta-sampannām tad-samāgama-lālasām . sa vijānāti dharma-ātmā śītaḥ bhava hanūmataḥ ..29..
यदि मां तारयत्यार्यः सुग्रीवः सत्यसङ्गरः । अस्माद्दुःखान्महाबाहुः शीतो भव हनूमतः ॥३०॥
यदि माम् तारयति आर्यः सुग्रीवः सत्य-सङ्गरः । अस्मात् दुःखात् महा-बाहुः शीतः भव हनूमतः ॥३०॥
yadi mām tārayati āryaḥ sugrīvaḥ satya-saṅgaraḥ . asmāt duḥkhāt mahā-bāhuḥ śītaḥ bhava hanūmataḥ ..30..
ततस्तीक्ष्णार्चिरव्यग्रः प्रदक्षिणशिखोऽनलः । जज्वाल मृगशावाक्ष्याः शंसन्निव शिवं कपेः ॥३१॥
ततस् तीक्ष्ण-अर्चिः अव्यग्रः प्रदक्षिण-शिखः अनलः । जज्वाल मृगशावाक्ष्याः शंसन् इव शिवम् कपेः ॥३१॥
tatas tīkṣṇa-arciḥ avyagraḥ pradakṣiṇa-śikhaḥ analaḥ . jajvāla mṛgaśāvākṣyāḥ śaṃsan iva śivam kapeḥ ..31..
हनुमज्जनकश्चापि पुच्छानलयुतोऽनिलः।ववौ स्वास्थ्यकरो देव्याः प्रालेयानिलशीतलः॥३२॥
हनु-मज्जनकः च अपि पुच्छ-अनल-युतः अनिलः।ववौ स्वास्थ्य-करः देव्याः प्रालेय-अनिल-शीतलः॥३२॥
hanu-majjanakaḥ ca api puccha-anala-yutaḥ anilaḥ.vavau svāsthya-karaḥ devyāḥ prāleya-anila-śītalaḥ..32..
दह्यमाने च लाङ्गूले चिन्तयामास वानरः । प्रदीप्तोऽग्निरयं कस्मान्न मां दहति सर्वतः ॥३३॥
दह्यमाने च लाङ्गूले चिन्तयामास वानरः । प्रदीप्तः अग्निः अयम् कस्मात् न माम् दहति सर्वतस् ॥३३॥
dahyamāne ca lāṅgūle cintayāmāsa vānaraḥ . pradīptaḥ agniḥ ayam kasmāt na mām dahati sarvatas ..33..
दृश्यते च महाज्वालः करोति च न मे रुजम् । शिशिरस्येव सम्पातो लाङ्गूलाग्रे प्रतिष्ठितः ॥३४॥
दृश्यते च महा-ज्वालः करोति च न मे रुजम् । शिशिरस्य इव सम्पातः लाङ्गूल-अग्रे प्रतिष्ठितः ॥३४॥
dṛśyate ca mahā-jvālaḥ karoti ca na me rujam . śiśirasya iva sampātaḥ lāṅgūla-agre pratiṣṭhitaḥ ..34..
अथ वा तदिदं व्यक्तं यद्दृष्टं प्लवता मया । रामप्रभावादाश्चर्यं पर्वतः सरितां पतौ ॥३५॥
अथ वा तत् इदम् व्यक्तम् यत् दृष्टम् प्लवता मया । राम-प्रभावात् आश्चर्यम् पर्वतः सरिताम् पतौ ॥३५॥
atha vā tat idam vyaktam yat dṛṣṭam plavatā mayā . rāma-prabhāvāt āścaryam parvataḥ saritām patau ..35..
यदि तावत्समुद्रस्य मैनाकस्य च धीमथ । रामार्थं सम्भ्रमस्तादृक्किमग्निर्न करिष्यति ॥३६॥
यदि तावत् समुद्रस्य मैनाकस्य च धीम् अथ । राम-अर्थम् सम्भ्रमः तादृश् किम् अग्निः न करिष्यति ॥३६॥
yadi tāvat samudrasya mainākasya ca dhīm atha . rāma-artham sambhramaḥ tādṛś kim agniḥ na kariṣyati ..36..
सीतायाश्चानृशंस्येन तेजसा राघवस्य च । पितुश्च मम सख्येन न मां दहति पावकः ॥३७॥
सीतायाः च आनृशंस्येन तेजसा राघवस्य च । पितुः च मम सख्येन न माम् दहति पावकः ॥३७॥
sītāyāḥ ca ānṛśaṃsyena tejasā rāghavasya ca . pituḥ ca mama sakhyena na mām dahati pāvakaḥ ..37..
भूयः स चिन्तयामास मुहूर्तं कपिकुञ्जरः ।कथमस्मद् विधस्येह बन्धनं राक्षसाधमैः॥३८॥
भूयस् स चिन्तयामास मुहूर्तम् कपि-कुञ्जरः ।कथम् अस्मत् विधस्य इह बन्धनम् राक्षस-अधमैः॥३८॥
bhūyas sa cintayāmāsa muhūrtam kapi-kuñjaraḥ .katham asmat vidhasya iha bandhanam rākṣasa-adhamaiḥ..38..
प्रतिक्रियास्य युक्ता स्यात् सति मह्यं पराक्रमे।ततश्छित्तवा च तान् पाशान वेगवान वै महाकपिः॥३९॥
प्रतिक्रिया अस्य युक्ता स्यात् सति मह्यम् पराक्रमे।ततस् छित्तवा च तान् पाशान् वेगवान् वै महा-कपिः॥३९॥
pratikriyā asya yuktā syāt sati mahyam parākrame.tatas chittavā ca tān pāśān vegavān vai mahā-kapiḥ..39..
उत्पपाताथ वेगेन ननाद च महाकपिः ।पुरद्वारं ततश्श्रीमान् शैलशृङ्गमिवोन्नतम्॥४०॥
उत्पपात अथ वेगेन ननाद च महा-कपिः ।पुर-द्वारम् ततस् श्रीमान् शैल-शृङ्गम् इव उन्नतम्॥४०॥
utpapāta atha vegena nanāda ca mahā-kapiḥ .pura-dvāram tatas śrīmān śaila-śṛṅgam iva unnatam..40..
विभक्तरक्षःसम्बाधमाससादानिलात्मजः ।स भूत्वा शैलसङ्काशः क्षणेन पुनरात्मवान् ॥४१॥
विभक्त-रक्षः-सम्बाधम् आससाद अनिलात्मजः ।स भूत्वा शैल-सङ्काशः क्षणेन पुनर् आत्मवान् ॥४१॥
vibhakta-rakṣaḥ-sambādham āsasāda anilātmajaḥ .sa bhūtvā śaila-saṅkāśaḥ kṣaṇena punar ātmavān ..41..
ह्रस्वतां परमां प्राप्तो बन्धनान्यवशातयत् ।विमुक्तश्चाभवच्छ्रीमान्पुनः पर्वतसंनिभः ॥४२॥
ह्रस्वताम् परमाम् प्राप्तः बन्धनानि अवशातयत् ।विमुक्तः च अभवत् श्रीमान् पुनर् पर्वत-संनिभः ॥४२॥
hrasvatām paramām prāptaḥ bandhanāni avaśātayat .vimuktaḥ ca abhavat śrīmān punar parvata-saṃnibhaḥ ..42..
वीक्षमाणश्च ददृशे परिघं तोरणाश्रितम् । स तं गृह्य महाबाहुः कालायसपरिष्कृतम् । रक्षिणस्तान्पुनः सर्वान्सूदयामास मारुतिः ॥४३॥
वीक्षमाणः च ददृशे परिघम् तोरण-आश्रितम् । स तम् गृह्य महा-बाहुः कालायस-परिष्कृतम् । रक्षिणः तान् पुनर् सर्वान् सूदयामास मारुतिः ॥४३॥
vīkṣamāṇaḥ ca dadṛśe parigham toraṇa-āśritam . sa tam gṛhya mahā-bāhuḥ kālāyasa-pariṣkṛtam . rakṣiṇaḥ tān punar sarvān sūdayāmāsa mārutiḥ ..43..
स तान्निहत्वा रणचण्डविक्रमः समीक्षमाणः पुनरेव लङ्काम् । प्रदीप्तलाङ्गूलकृतार्चिमाली प्रकाशतादित्य इवांशुमाली ॥४४॥
स तान् निहत्वा रण-चण्ड-विक्रमः समीक्षमाणः पुनर् एव लङ्काम् । प्रदीप्त-लाङ्गूल-कृत-अर्चि-माली प्रकाशत आदित्यः इव अंशुमाली ॥४४॥
sa tān nihatvā raṇa-caṇḍa-vikramaḥ samīkṣamāṇaḥ punar eva laṅkām . pradīpta-lāṅgūla-kṛta-arci-mālī prakāśata ādityaḥ iva aṃśumālī ..44..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In