This overlay will guide you through the buttons:

| |
|
वीक्षमाणस्ततो लङ्कां कपिः कृतमनोरथः । वर्धमानसमुत्साहः कार्यशेषमचिन्तयत् ॥ १॥
वीक्षमाणः ततस् लङ्काम् कपिः कृत-मनोरथः । वर्धमान-समुत्साहः कार्य-शेषम् अचिन्तयत् ॥ १॥
vīkṣamāṇaḥ tatas laṅkām kapiḥ kṛta-manorathaḥ . vardhamāna-samutsāhaḥ kārya-śeṣam acintayat .. 1..
किं नु खल्वविशिष्टं मे कर्तव्यमिह साम्प्रतम् । यदेषां रक्षसां भूयः सन्तापजननं भवेत् ॥ २॥
किम् नु खलु अविशिष्टम् मे कर्तव्यम् इह साम्प्रतम् । यत् एषाम् रक्षसाम् भूयः सन्ताप-जननम् भवेत् ॥ २॥
kim nu khalu aviśiṣṭam me kartavyam iha sāmpratam . yat eṣām rakṣasām bhūyaḥ santāpa-jananam bhavet .. 2..
वनं तावत्प्रमथितं प्रकृष्टा राक्षसा हताः । बलैकदेशः क्षपितः शेषं दुर्गविनाशनम् ॥ ३॥
वनम् तावत् प्रमथितम् प्रकृष्टाः राक्षसाः हताः । बल-एक-देशः क्षपितः शेषम् दुर्ग-विनाशनम् ॥ ३॥
vanam tāvat pramathitam prakṛṣṭāḥ rākṣasāḥ hatāḥ . bala-eka-deśaḥ kṣapitaḥ śeṣam durga-vināśanam .. 3..
दुर्गे विनाशिते कर्म भवेत्सुखपरिश्रमम् । अल्पयत्नेन कार्येऽस्मिन्मम स्यात्सफलः श्रमः ॥ ४॥
दुर्गे विनाशिते कर्म भवेत् सुख-परिश्रमम् । अल्प-यत्नेन कार्ये अस्मिन् मम स्यात् सफलः श्रमः ॥ ४॥
durge vināśite karma bhavet sukha-pariśramam . alpa-yatnena kārye asmin mama syāt saphalaḥ śramaḥ .. 4..
यो ह्ययं मम लाङ्गूले दीप्यते हव्यवाहनः । अस्य सन्तर्पणं न्याय्यं कर्तुमेभिर्गृहोत्तमैः ॥ ५॥
यः हि अयम् मम लाङ्गूले दीप्यते हव्यवाहनः । अस्य सन्तर्पणम् न्याय्यम् कर्तुम् एभिः गृह-उत्तमैः ॥ ५॥
yaḥ hi ayam mama lāṅgūle dīpyate havyavāhanaḥ . asya santarpaṇam nyāyyam kartum ebhiḥ gṛha-uttamaiḥ .. 5..
ततः प्रदीप्तलाङ्गूलः सविद्युदिव तोयदः । भवनाग्रेषु लङ्काया विचचार महाकपिः ॥ ६॥
ततस् प्रदीप्त-लाङ्गूलः स विद्युत् इव तोयदः । भवन-अग्रेषु लङ्कायाः विचचार महा-कपिः ॥ ६॥
tatas pradīpta-lāṅgūlaḥ sa vidyut iva toyadaḥ . bhavana-agreṣu laṅkāyāḥ vicacāra mahā-kapiḥ .. 6..
गृहाद्गृहं राक्षसानामुद्यानानि च वानरः।वीक्षमाणो ह्यसन्त्रस्तः प्रासादांश्च चचार सः॥७॥
गृहात् गृहम् राक्षसानाम् उद्यानानि च वानरः।वीक्षमाणः हि असन्त्रस्तः प्रासादान् च चचार सः॥७॥
gṛhāt gṛham rākṣasānām udyānāni ca vānaraḥ.vīkṣamāṇaḥ hi asantrastaḥ prāsādān ca cacāra saḥ..7..
अवप्लुत्य महावेगः प्रहस्तस्य निवेशनम्।अग्निं तत्र स निक्षिप्य श्वसनेन समो बली॥८॥
अवप्लुत्य महा-वेगः प्रहस्तस्य निवेशनम्।अग्निम् तत्र स निक्षिप्य श्वसनेन समः बली॥८॥
avaplutya mahā-vegaḥ prahastasya niveśanam.agnim tatra sa nikṣipya śvasanena samaḥ balī..8..
ततोऽन्यत्पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान्।मुमोच हनुमानग्निं कालानलशिखोपमम्॥९॥
ततस् अन्यत् पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान्।मुमोच हनुमान् अग्निम् काल-अनल-शिखा-उपमम्॥९॥
tatas anyat pupluve veśma mahāpārśvasya vīryavān.mumoca hanumān agnim kāla-anala-śikhā-upamam..9..
वज्रदंष्ट्रस्य च तदा पुप्लुवे स महाकपिः।शुकस्य च महातेजास्सारणस्य च धीमतः॥१०॥
वज्रदंष्ट्रस्य च तदा पुप्लुवे स महा-कपिः।शुकस्य च महा-तेजाः सारणस्य च धीमतः॥१०॥
vajradaṃṣṭrasya ca tadā pupluve sa mahā-kapiḥ.śukasya ca mahā-tejāḥ sāraṇasya ca dhīmataḥ..10..
तथा चेन्द्रजितो वेश्म ददाह हरियूथपः।जम्बुमाले स्सुमालेश्च ददाह भवनं ततः॥११॥
तथा च इन्द्रजितः वेश्म ददाह हरि-यूथपः।जम्बुमालेः स्सुमालेः च ददाह भवनम् ततस्॥११॥
tathā ca indrajitaḥ veśma dadāha hari-yūthapaḥ.jambumāleḥ ssumāleḥ ca dadāha bhavanam tatas..11..
रश्मिकेतोश्च भवनं सूर्यशत्रोस्तथैव च।ह्रस्वकर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः॥१२॥
रश्मिकेतोः च भवनम् सूर्यशत्रोः तथा एव च।ह्रस्वकर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः॥१२॥
raśmiketoḥ ca bhavanam sūryaśatroḥ tathā eva ca.hrasvakarṇasya daṃṣṭrasya romaśasya ca rakṣasaḥ..12..
युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य रक्षसः।विद्युज्जिह्वस्य घोरस्य तथा हस्तिमुखस्य च॥१३॥
युद्ध-उन्मत्तस्य मत्तस्य ध्वजग्रीवस्य रक्षसः।विद्युज्जिह्वस्य घोरस्य तथा हस्तिमुखस्य च॥१३॥
yuddha-unmattasya mattasya dhvajagrīvasya rakṣasaḥ.vidyujjihvasya ghorasya tathā hastimukhasya ca..13..
करालस्य पिशाचस्य शोणिताक्षस्य चैव हि।कुम्भकर्णस्य भवनं मकराक्षस्य चैव हि॥१४॥
करालस्य पिशाचस्य शोणिताक्षस्य च एव हि।कुम्भकर्णस्य भवनम् मकराक्षस्य च एव हि॥१४॥
karālasya piśācasya śoṇitākṣasya ca eva hi.kumbhakarṇasya bhavanam makarākṣasya ca eva hi..14..
नरान्तकस्य कुम्भस्य निकुम्भस्य दुरात्मनः।यज्ञशत्रोश्च भवनं ब्रह्मशत्रोस्तथैव च॥१५॥
नरान्तकस्य कुम्भस्य निकुम्भस्य दुरात्मनः।यज्ञशत्रोः च भवनम् ब्रह्मशत्रोः तथा एव च॥१५॥
narāntakasya kumbhasya nikumbhasya durātmanaḥ.yajñaśatroḥ ca bhavanam brahmaśatroḥ tathā eva ca..15..
वर्जयित्वा महातेजा विभीषणगृहं प्रति।क्रममाणः क्रमेणैव ददाह हरिपुङ्गवः॥१६॥
वर्जयित्वा महा-तेजाः विभीषण-गृहम् प्रति।क्रममाणः क्रमेण एव ददाह हरि-पुङ्गवः॥१६॥
varjayitvā mahā-tejāḥ vibhīṣaṇa-gṛham prati.kramamāṇaḥ krameṇa eva dadāha hari-puṅgavaḥ..16..
तेषु तेषु महार्हेषु भवनेषु महायशाः।गृहेष्वृद्धिमतामृद्धिं ददाह स महाकपिः॥१७॥
तेषु तेषु महार्हेषु भवनेषु महा-यशाः।गृहेषु ऋद्धिमताम् ऋद्धिम् ददाह स महा-कपिः॥१७॥
teṣu teṣu mahārheṣu bhavaneṣu mahā-yaśāḥ.gṛheṣu ṛddhimatām ṛddhim dadāha sa mahā-kapiḥ..17..
सर्वेषां समतिक्रम्य राक्षसेन्द्रस्य वीर्यवान्।आससादाथ लक्ष्मीवान् रावणस्य निवेशनम्॥१८॥
सर्वेषाम् समतिक्रम्य राक्षस-इन्द्रस्य वीर्यवान्।आससाद अथ लक्ष्मीवान् रावणस्य निवेशनम्॥१८॥
sarveṣām samatikramya rākṣasa-indrasya vīryavān.āsasāda atha lakṣmīvān rāvaṇasya niveśanam..18..
ततस्तस्मिन्गृहे मुख्ये नानारत्नविभूषिते।मेरुमन्दरसङ्काशे सर्वमङ्गळशोभिते॥१९॥
ततस् तस्मिन् गृहे मुख्ये नाना रत्न-विभूषिते।मेरु-मन्दर-सङ्काशे सर्व-मङ्गळ-शोभिते॥१९॥
tatas tasmin gṛhe mukhye nānā ratna-vibhūṣite.meru-mandara-saṅkāśe sarva-maṅgal̤a-śobhite..19..
प्रदीप्तमग्निमुत्सृज्य लाङ्गूलाग्रे प्रतिष्ठितम्।ननाद हनुमान्वीरो युगान्तजलदो यथा॥२०॥
प्रदीप्तम् अग्निम् उत्सृज्य लाङ्गूल-अग्रे प्रतिष्ठितम्।ननाद हनुमान् वीरः युगान्त-जलदः यथा॥२०॥
pradīptam agnim utsṛjya lāṅgūla-agre pratiṣṭhitam.nanāda hanumān vīraḥ yugānta-jaladaḥ yathā..20..
श्वसनेन च संयोगादतिवेगो महाबलः।कालाग्निरिव जज्वाल प्रावर्धत हुताशनः॥२१॥
श्वसनेन च संयोगात् अतिवेगः महा-बलः।कालाग्निः इव जज्वाल प्रावर्धत हुताशनः॥२१॥
śvasanena ca saṃyogāt ativegaḥ mahā-balaḥ.kālāgniḥ iva jajvāla prāvardhata hutāśanaḥ..21..
प्रदीप्तमग्निं पवनस्तेषु वेश्मस्वचारयत्।तानि काञ्चनजालानि मुक्तामणिमयानि च॥२२॥
प्रदीप्तम् अग्निम् पवनः तेषु वेश्मसु अचारयत्।तानि काञ्चन-जालानि मुक्तामणि-मयानि च॥२२॥
pradīptam agnim pavanaḥ teṣu veśmasu acārayat.tāni kāñcana-jālāni muktāmaṇi-mayāni ca..22..
भवनान्यवशीर्यन्त रत्नवन्ति महान्ति च।तानि भग्विमानानि निपेतुर्वसुधातले॥२३॥
भवनानि अवशीर्यन्त रत्नवन्ति महान्ति च।तानि भक्-विमानानि निपेतुः वसुधा-तले॥२३॥
bhavanāni avaśīryanta ratnavanti mahānti ca.tāni bhak-vimānāni nipetuḥ vasudhā-tale..23..
भवनानीव सिध्दानाम्बरात् पुण्यसंक्षये।संजज्ञे तुमुलश्शब्दो राक्षसानां प्रधावताम्॥२४॥
भवनानि इव सिध्दानाम् अम्बरात् पुण्य-संक्षये।संजज्ञे तुमुलः शब्दः राक्षसानाम् प्रधावताम्॥२४॥
bhavanāni iva sidhdānām ambarāt puṇya-saṃkṣaye.saṃjajñe tumulaḥ śabdaḥ rākṣasānām pradhāvatām..24..
स्वे स्वे गृहस्य परित्राणे भग्नोत्साहोर्जितश्रियाम्।नूनमेषोऽग्निरायातः कपिरूपेण हा इति॥२५॥
स्वे स्वे गृहस्य परित्राणे भग्न-उत्साह-ऊर्जित-श्रियाम्।नूनम् एषः अग्निः आयातः कपि-रूपेण हा इति॥२५॥
sve sve gṛhasya paritrāṇe bhagna-utsāha-ūrjita-śriyām.nūnam eṣaḥ agniḥ āyātaḥ kapi-rūpeṇa hā iti..25..
क्रन्दन्त्यस्सहसा पेतुः स्तनन्धयधराः स्त्रियः।काश्चिदग्निपरीतेभ्यो हर्मेभ्यो मुक्तमूर्धजाः॥२६॥
क्रन्दन्त्यः सहसा पेतुः स्तनन्धय-धराः स्त्रियः।काश्चिद् अग्नि-परीतेभ्यः हर्मेभ्यः मुक्त-मूर्धजाः॥२६॥
krandantyaḥ sahasā petuḥ stanandhaya-dharāḥ striyaḥ.kāścid agni-parītebhyaḥ harmebhyaḥ mukta-mūrdhajāḥ..26..
पतन्त्यो रेजिरेऽभ्रेभ्यस्सौदामन्य इवाम्बरात्।वज्रविद्रुमवैदूर्यमुक्तारजतसंहितान्॥२७॥
पतन्त्यः रेजिरे अभ्रेभ्यः सौदामन्यः इव अम्बरात्।वज्र-विद्रुम-वैदूर्य-मुक्ता-रजत-संहितान्॥२७॥
patantyaḥ rejire abhrebhyaḥ saudāmanyaḥ iva ambarāt.vajra-vidruma-vaidūrya-muktā-rajata-saṃhitān..27..
विचित्रान्भवनाद्धातून् स्यन्दमानान्ददर्श सः।नाग्निस्तृप्यति काष्ठानां तृणानां च यथा तथा॥२८॥
विचित्रान् भवनात् धातून् स्यन्दमानान् ददर्श सः।न अग्निः तृप्यति काष्ठानाम् तृणानाम् च यथा तथा॥२८॥
vicitrān bhavanāt dhātūn syandamānān dadarśa saḥ.na agniḥ tṛpyati kāṣṭhānām tṛṇānām ca yathā tathā..28..
हनूमान् राक्षसेन्दाणां वधे किंचिन्न न तृप्यति।न हनूमव्दिशस्तानां राक्षसानां वसुन्धरा॥२९॥
हनूमान् राक्षस-इन्दाणाम् वधे किंचिद् न न तृप्यति।न हनूमत् दिशः तानाम् राक्षसानाम् वसुन्धरा॥२९॥
hanūmān rākṣasa-indāṇām vadhe kiṃcid na na tṛpyati.na hanūmat diśaḥ tānām rākṣasānām vasundharā..29..
हनूमता वेगवता वानरेण महात्मना।लङ्कापुरं प्रदग्धं तद्रुद्रेण त्रिपुरं यथा॥३०॥
हनूमता वेगवता वानरेण महात्मना।लङ्का-पुरम् प्रदग्धम् तत् रुद्रेण त्रिपुरम् यथा॥३०॥
hanūmatā vegavatā vānareṇa mahātmanā.laṅkā-puram pradagdham tat rudreṇa tripuram yathā..30..
ततः स् लङ्कापुरपर्वताग्रे समुत्थितो भीमपराक्रमोऽग्निः।प्रसार्य चूडावलयं प्रदीप्तो हनूमता वेगवता विसृष्टः॥३१॥
ततस् लङ्का-पुर-पर्वत-अग्रे समुत्थितः भीम-पराक्रमः अग्निः।प्रसार्य चूडा-वलयम् प्रदीप्तः हनूमता वेगवता विसृष्टः॥३१॥
tatas laṅkā-pura-parvata-agre samutthitaḥ bhīma-parākramaḥ agniḥ.prasārya cūḍā-valayam pradīptaḥ hanūmatā vegavatā visṛṣṭaḥ..31..
युगान्तकालानलतुल्यवेग स्समारुतोऽग्निर्ववृधे दिविस्पृक्।विधूमरश्मिर्भवनेषु सक्तो रक्षश्शरीराज्यसमर्पतार्चिः॥३२॥
युगान्त-काल-अनल-तुल्य-वेगः स मारुतः अग्निः ववृधे दिविस्पृश्।विधूम-रश्मिः भवनेषु सक्तः॥३२॥
yugānta-kāla-anala-tulya-vegaḥ sa mārutaḥ agniḥ vavṛdhe divispṛś.vidhūma-raśmiḥ bhavaneṣu saktaḥ..32..
आदित्यकोटीसदृशस्सुतेजा लङ्कां समस्तां परिवार्य तिष्ठन्।शब्दैरनेकैरशनिप्ररूढैर्भिन्दन्निवाण्डं प्रबभौ महाग्निः॥३३॥
आदित्य-कोटी-सदृशः सु तेजाः लङ्काम् समस्ताम् परिवार्य तिष्ठन्।शब्दैः अनेकैः अशनि-प्ररूढैः भिन्दन् इव अण्डम् प्रबभौ महा-अग्निः॥३३॥
āditya-koṭī-sadṛśaḥ su tejāḥ laṅkām samastām parivārya tiṣṭhan.śabdaiḥ anekaiḥ aśani-prarūḍhaiḥ bhindan iva aṇḍam prababhau mahā-agniḥ..33..
तत्राम्बरादग्निरतिप्रवृद्धो रूक्षप्रभः किंशुकपुष्पचूडः।निर्वाणधूमाकुलराजयश्च नीलोत्पलाभाः प्रचकाशिरेऽभ्राः॥३४॥
तत्र अम्बरात् अग्निः अतिप्रवृद्धः रूक्ष-प्रभः किंशुक-पुष्प-चूडः।निर्वाण-धूम-आकुल-राजयः च नीलोत्पल-आभाः प्रचकाशिरे अभ्राः॥३४॥
tatra ambarāt agniḥ atipravṛddhaḥ rūkṣa-prabhaḥ kiṃśuka-puṣpa-cūḍaḥ.nirvāṇa-dhūma-ākula-rājayaḥ ca nīlotpala-ābhāḥ pracakāśire abhrāḥ..34..
वज्री महेन्द्रस्त्रिदशेश्वरो वा साक्षाद्यमो वा वरुणोऽनिलो वा।रुद्रोऽग्निरर्को धनदश्च सोमो न वानरोऽयं स्वयमेव कालः॥३५॥
वज्री महेन्द्रः त्रिदशेश्वरः वा साक्षात् यमः वा वरुणः अनिलः वा।रुद्रः अग्निः अर्कः धनदः च सोमः न वानरः अयम् स्वयम् एव कालः॥३५॥
vajrī mahendraḥ tridaśeśvaraḥ vā sākṣāt yamaḥ vā varuṇaḥ anilaḥ vā.rudraḥ agniḥ arkaḥ dhanadaḥ ca somaḥ na vānaraḥ ayam svayam eva kālaḥ..35..
किं ब्रह्मणस्सर्वपितामहस्य सर्वस्य धातुश्चतुराननस्य।इहाऽऽगतो वानररूपधारी रक्षोपसंहारकरः प्रकोपः॥३६॥
किम् ब्रह्मणः सर्व-पितामहस्य सर्वस्य धातुः चतुराननस्य।इह आगतः वानर-रूप-धारी रक्षा-उपसंहार-करः प्रकोपः॥३६॥
kim brahmaṇaḥ sarva-pitāmahasya sarvasya dhātuḥ caturānanasya.iha āgataḥ vānara-rūpa-dhārī rakṣā-upasaṃhāra-karaḥ prakopaḥ..36..
किं वैष्णवं वा कपिरूपमेत्य रक्षोविनाशाय परं सुतेजः।अनन्तमव्यक्तमचिन्त्यमेकं स्वमायया साम्प्रतमागतं वा॥३७॥
किम् वैष्णवम् वा कपि-रूपम् एत्य रक्षः-विनाशाय परम् सु तेजः।अनन्तम् अव्यक्तम् अचिन्त्यम् एकम् स्व-मायया साम्प्रतम् आगतम् वा॥३७॥
kim vaiṣṇavam vā kapi-rūpam etya rakṣaḥ-vināśāya param su tejaḥ.anantam avyaktam acintyam ekam sva-māyayā sāmpratam āgatam vā..37..
इत्येवमूचुर्बहवो विशिष्टा रक्षोगणास्तत्र समेत्य सर्वे।सप्राणिसङ्घां सगृहां सवृक्षां दग्धां पुरीं तां सहसा समीक्ष्य॥३८॥
इति एवम् ऊचुः बहवः विशिष्टाः रक्षः-गणाः तत्र समेत्य सर्वे।स प्राणि-सङ्घाम् स गृहाम् स वृक्षाम् दग्धाम् पुरीम् ताम् सहसा समीक्ष्य॥३८॥
iti evam ūcuḥ bahavaḥ viśiṣṭāḥ rakṣaḥ-gaṇāḥ tatra sametya sarve.sa prāṇi-saṅghām sa gṛhām sa vṛkṣām dagdhām purīm tām sahasā samīkṣya..38..
ततस्तु लङ्का सहसा प्रदग्धा सराक्षसा साश्वरथा सनागा।सपक्षिसङ्घा समृगा सवृक्षा रुरोद दीना तुमुलं सशब्दम्॥३९॥
ततस् तु लङ्का सहसा प्रदग्धा स राक्षसा स अश्व-रथा स नागा।स पक्षि-सङ्घा स मृगा स वृक्षा रुरोद दीना तुमुलम् स शब्दम्॥३९॥
tatas tu laṅkā sahasā pradagdhā sa rākṣasā sa aśva-rathā sa nāgā.sa pakṣi-saṅghā sa mṛgā sa vṛkṣā ruroda dīnā tumulam sa śabdam..39..
सपक्षिसङ्घा समृगा सवृक्षा रुरोद दीना तुमुलं सशब्दम्।हा तात हा पुत्रक कान्त मित्र हा जीवितं भोगयुतं सुपुण्यम्॥४०॥
स पक्षि-सङ्घा स मृगा स वृक्षा रुरोद दीना तुमुलम् स शब्दम्।हा तात हा पुत्रक कान्त मित्र हा जीवितम् भोग-युतम् सु पुण्यम्॥४०॥
sa pakṣi-saṅghā sa mṛgā sa vṛkṣā ruroda dīnā tumulam sa śabdam.hā tāta hā putraka kānta mitra hā jīvitam bhoga-yutam su puṇyam..40..
हा तात हा पुत्रक कान्त मित्र हा जीवितं भोगयुतं सुपुण्यम्।रक्षोभिरेवं बहुधा ब्रुवद्भि श्शब्दः कृतो घोरतरस्सुभीमः॥४१॥
हा तात हा पुत्रक कान्त मित्र हा जीवितम् भोग-युतम् सु पुण्यम्।रक्षोभिः एवम् बहुधा ब्रुवद्भिः शब्दः कृतः घोरतरः सु भीमः॥४१॥
hā tāta hā putraka kānta mitra hā jīvitam bhoga-yutam su puṇyam.rakṣobhiḥ evam bahudhā bruvadbhiḥ śabdaḥ kṛtaḥ ghorataraḥ su bhīmaḥ..41..
हुताशनज्वालसमावृता सा हतप्रवीरा परिवृत्तयोधा।हनूमतः क्रोधबलाभिभूता बभूव शापोपहतेव लङ्का॥४२॥
हुताशन-ज्वाल-समावृता सा हत-प्रवीरा परिवृत्त-योधा।हनूमतः क्रोध-बल-अभिभूता बभूव शाप-उपहता इव लङ्का॥४२॥
hutāśana-jvāla-samāvṛtā sā hata-pravīrā parivṛtta-yodhā.hanūmataḥ krodha-bala-abhibhūtā babhūva śāpa-upahatā iva laṅkā..42..
ससम्भ्रमं त्रस्तविषण्णराक्षसां समुज्ज्वलज्ज्वालहुताशनाङ्किताम्।ददर्श लङ्कां हनुमान्महामनाः स्वयम्भूकोपोपहतामिवावनिम्॥४३॥
स सम्भ्रमम् त्रस्त-विषण्ण-राक्षसाम् समुज्ज्वलत्-ज्वाल-हुताशन-अङ्किताम्।ददर्श लङ्काम् हनुमान् महा-मनाः स्वयम्भू-कोप-उपहताम् इव अवनिम्॥४३॥
sa sambhramam trasta-viṣaṇṇa-rākṣasām samujjvalat-jvāla-hutāśana-aṅkitām.dadarśa laṅkām hanumān mahā-manāḥ svayambhū-kopa-upahatām iva avanim..43..
भङ्क्त्वा वनं पादपरत्नसङ्कुलं हत्वा तु रक्षांसि महान्ति संयुगे।दग्ध्वा पुरीं तां गृहरत्नमालिनीं तस्थौ हनूमान्पवनात्मजः कपिः॥४४॥
भङ्क्त्वा वनम् पादप-रत्न-सङ्कुलम् हत्वा तु रक्षांसि महान्ति संयुगे।दग्ध्वा पुरीम् ताम् गृह-रत्न-मालिनीम् तस्थौ हनूमान् पवनात्मजः कपिः॥४४॥
bhaṅktvā vanam pādapa-ratna-saṅkulam hatvā tu rakṣāṃsi mahānti saṃyuge.dagdhvā purīm tām gṛha-ratna-mālinīm tasthau hanūmān pavanātmajaḥ kapiḥ..44..
स राक्षसांस्तान्सुबहूंश्च हत्वा वनं च भङ्क्त्वा बहुपादपं तत्।विसृज्य रक्षोभवनेषु चाग्निं जगाम रामं मनसा महात्मा॥४५॥
स राक्षसान् तान् सु बहून् च हत्वा वनम् च भङ्क्त्वा बहु-पादपम् तत्।विसृज्य रक्षः-भवनेषु च अग्निम् जगाम रामम् मनसा महात्मा॥४५॥
sa rākṣasān tān su bahūn ca hatvā vanam ca bhaṅktvā bahu-pādapam tat.visṛjya rakṣaḥ-bhavaneṣu ca agnim jagāma rāmam manasā mahātmā..45..
ततस्तु तं वानरवीरमुख्यं महाबलं मारुततुल्यवेगम्।महामतिं वायुसुतं वरिष्ठं प्रतुष्टुवुर्देवगणाश्च सर्वे॥४६॥
ततस् तु तम् वानर-वीर-मुख्यम् महा-बलम् मारुत-तुल्य-वेगम्।महामतिम् वायु-सुतम् वरिष्ठम् प्रतुष्टुवुः देव-गणाः च सर्वे॥४६॥
tatas tu tam vānara-vīra-mukhyam mahā-balam māruta-tulya-vegam.mahāmatim vāyu-sutam variṣṭham pratuṣṭuvuḥ deva-gaṇāḥ ca sarve..46..
देवाश्च सर्वे मुनिपुङ्गवाश्च गन्धर्वविद्याधरनागयक्षाः।भूतानि सर्वाणि महान्ति तत्र जग्मुः परां प्रीतिमतुल्यरूपाम्॥४७॥
देवाः च सर्वे मुनि-पुङ्गवाः च गन्धर्व-विद्याधर-नाग-यक्षाः।भूतानि सर्वाणि महान्ति तत्र जग्मुः पराम् प्रीतिम् अतुल्य-रूपाम्॥४७॥
devāḥ ca sarve muni-puṅgavāḥ ca gandharva-vidyādhara-nāga-yakṣāḥ.bhūtāni sarvāṇi mahānti tatra jagmuḥ parām prītim atulya-rūpām..47..
भङ्क्त्वा वनं महातेजा हत्वा रक्षांसि संयुगे।दग्ध्वा लङ्कापुरीं रम्यां रराज स महाकपिः॥४८॥
भङ्क्त्वा वनम् महा-तेजाः हत्वा रक्षांसि संयुगे।दग्ध्वा लङ्का-पुरीम् रम्याम् रराज स महा-कपिः॥४८॥
bhaṅktvā vanam mahā-tejāḥ hatvā rakṣāṃsi saṃyuge.dagdhvā laṅkā-purīm ramyām rarāja sa mahā-kapiḥ..48..
गृहग्यशृङ्गाग्रतले विचित्रे प्रतिष्ठितो वानरराजसिहं ।प्रदीप्तलाङ्गूलकृतार्चिमाली व्याराजतादित्य इवार्चिमाली॥४९॥
गृहग्य-शृङ्ग-अग्र-तले विचित्रे प्रतिष्ठितः वानर-राज-सिहम् ।प्रदीप्त-लाङ्गूल-कृत-अर्चि-माली व्याराजत आदित्यः इव अर्चि-माली॥४९॥
gṛhagya-śṛṅga-agra-tale vicitre pratiṣṭhitaḥ vānara-rāja-siham .pradīpta-lāṅgūla-kṛta-arci-mālī vyārājata ādityaḥ iva arci-mālī..49..
ततो देवाः सगन्धर्वास्सिद्धाश्च परमर्षयः।दृष्ट्वा लङ्कां प्रदग्धां तां विस्मयं परमं गताः॥५०॥
ततस् देवाः स गन्धर्वाः सिद्धाः च परम-ऋषयः।दृष्ट्वा लङ्काम् प्रदग्धाम् ताम् विस्मयम् परमम् गताः॥५०॥
tatas devāḥ sa gandharvāḥ siddhāḥ ca parama-ṛṣayaḥ.dṛṣṭvā laṅkām pradagdhām tām vismayam paramam gatāḥ..50..
तं दृष्ट्वा वानरश्रेष्ठं हनुमन्तं महाकपिम्।कालाग्निरिति सञ्चिन्त्य सर्वभूतानि तत्रसुः॥५१॥
तम् दृष्ट्वा वानर-श्रेष्ठम् हनुमन्तम् महा-कपिम्।कालाग्निः इति सञ्चिन्त्य सर्व-भूतानि तत्रसुः॥५१॥
tam dṛṣṭvā vānara-śreṣṭham hanumantam mahā-kapim.kālāgniḥ iti sañcintya sarva-bhūtāni tatrasuḥ..51..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In