This overlay will guide you through the buttons:

| |
|
सन्दीप्यमानां विध्वस्तां त्रस्तरक्षो गणां पुरीम् । अवेक्ष्य हानुमाँल्लङ्कां चिन्तयामास वानरः ॥ १॥
सन्दीप्यमानाम् विध्वस्ताम् त्रस्त-रक्षः गणाम् पुरीम् । अवेक्ष्य ह अनुमान् लङ्काम् चिन्तयामास वानरः ॥ १॥
sandīpyamānām vidhvastām trasta-rakṣaḥ gaṇām purīm . avekṣya ha anumān laṅkām cintayāmāsa vānaraḥ .. 1..
तस्याभूत्सुमहांस्त्रासः कुत्सा चात्मन्यजायत । लङ्कां प्रदहता कर्म किंस्वित्कृतमिदं मया ॥ २॥
तस्य अभूत् सु महान् त्रासः कुत्सा च आत्मनि अजायत । लङ्काम् प्रदहता कर्म किम् स्विद् कृतम् इदम् मया ॥ २॥
tasya abhūt su mahān trāsaḥ kutsā ca ātmani ajāyata . laṅkām pradahatā karma kim svid kṛtam idam mayā .. 2..
धन्या खलु ये बुद्ध्या कोपमुत्थितम् । निरुन्धन्ति महात्मानो दीप्तमग्निमिवाम्भसा ॥ ३॥
धन्या खलु ये बुद्ध्या कोपम् उत्थितम् । निरुन्धन्ति महात्मानः दीप्तम् अग्निम् इव अम्भसा ॥ ३॥
dhanyā khalu ye buddhyā kopam utthitam . nirundhanti mahātmānaḥ dīptam agnim iva ambhasā .. 3..
क्रुद्धः पापं न कुर्यात्कः क्रुद्धो हन्याद्गुरूनपि।क्रुद्धः परुषया वाचा नरस्साधूनधिक्षिपेत्॥४॥
क्रुद्धः पापम् न कुर्यात् कः क्रुद्धः हन्यात् गुरून् अपि।क्रुद्धः परुषया वाचा नरः साधून् अधिक्षिपेत्॥४॥
kruddhaḥ pāpam na kuryāt kaḥ kruddhaḥ hanyāt gurūn api.kruddhaḥ paruṣayā vācā naraḥ sādhūn adhikṣipet..4..
वाच्यावाच्यं प्रकुपितो न विजानाति कर्हिचित्।नाकार्यमस्ति क्रुद्धस्य नावाच्यं विद्यते क्वचित्॥५॥
वाच्य-अवाच्यम् प्रकुपितः न विजानाति कर्हिचित्।न अकार्यम् अस्ति क्रुद्धस्य न अवाच्यम् विद्यते क्वचिद्॥५॥
vācya-avācyam prakupitaḥ na vijānāti karhicit.na akāryam asti kruddhasya na avācyam vidyate kvacid..5..
यः समुत्पतितं क्रोधं क्षमयैव निरस्यति।यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते॥६॥
यः समुत्पतितम् क्रोधम् क्षमया एव निरस्यति।यथा उरगः त्वचम् जीर्णाम् स वै पुरुषः उच्यते॥६॥
yaḥ samutpatitam krodham kṣamayā eva nirasyati.yathā uragaḥ tvacam jīrṇām sa vai puruṣaḥ ucyate..6..
धिगस्तु मां सुदुर्बुद्धिं निर्लज्जं पापकृत्तमम्।अचिन्तयित्वा तां सीतामग्निदं स्वामिघातुकम्॥७॥
धिक् अस्तु माम् सु दुर्बुद्धिम् निर्लज्जम् पाप-कृत्तमम्।अ चिन्तयित्वा ताम् सीताम् अग्निदम् स्वामि-घातुकम्॥७॥
dhik astu mām su durbuddhim nirlajjam pāpa-kṛttamam.a cintayitvā tām sītām agnidam svāmi-ghātukam..7..
यदि दग्धा त्वियं लङ्का नूनमार्यापि जानकी । दग्धा तेन मया भर्तुर्हतं कार्यमजानता ॥८॥
यदि दग्धा तु इयम् लङ्का नूनम् आर्या अपि जानकी । दग्धा तेन मया भर्तुः हतम् कार्यम् अ जानता ॥८॥
yadi dagdhā tu iyam laṅkā nūnam āryā api jānakī . dagdhā tena mayā bhartuḥ hatam kāryam a jānatā ..8..
यदर्थमयमारम्भस्तत्कार्यमवसादितम् । मया हि दहता लङ्कां न सीता परिरक्षिता ॥९॥
यद्-अर्थम् अयम् आरम्भः तत् कार्यम् अवसादितम् । मया हि दहता लङ्काम् न सीता परिरक्षिता ॥९॥
yad-artham ayam ārambhaḥ tat kāryam avasāditam . mayā hi dahatā laṅkām na sītā parirakṣitā ..9..
ईषत्कार्यमिदं कार्यं कृतमासीन्न संशयः । तस्य क्रोधाभिभूतेन मया मूलक्षयः कृतः ॥१०॥
ईषत्कार्यम् इदम् कार्यम् कृतम् आसीत् न संशयः । तस्य क्रोध-अभिभूतेन मया मूल-क्षयः कृतः ॥१०॥
īṣatkāryam idam kāryam kṛtam āsīt na saṃśayaḥ . tasya krodha-abhibhūtena mayā mūla-kṣayaḥ kṛtaḥ ..10..
विनष्टा जानकी व्यक्तं न ह्यदग्धः प्रदृश्यते । लङ्कायाः कश्चिदुद्देशः सर्वा भस्मीकृता पुरी ॥११॥
विनष्टा जानकी व्यक्तम् न हि अदग्धः प्रदृश्यते । लङ्कायाः कश्चिद् उद्देशः सर्वा भस्मीकृता पुरी ॥११॥
vinaṣṭā jānakī vyaktam na hi adagdhaḥ pradṛśyate . laṅkāyāḥ kaścid uddeśaḥ sarvā bhasmīkṛtā purī ..11..
यदि तद्विहतं कार्यं मया प्रज्ञाविपर्ययात् । इहैव प्राणसंन्यासो ममापि ह्यतिरोचते ॥१२॥
यदि तत् विहतम् कार्यम् मया प्रज्ञा-विपर्ययात् । इह एव प्राण-संन्यासः मम अपि हि अतिरोचते ॥१२॥
yadi tat vihatam kāryam mayā prajñā-viparyayāt . iha eva prāṇa-saṃnyāsaḥ mama api hi atirocate ..12..
किमग्नौ निपताम्यद्य आहोस्विद्वडवामुखे । शरीरमाहो सत्त्वानां दद्मि सागरवासिनाम् ॥१३॥
किम् अग्नौ निपतामि अद्य आहोस्वित् वडवामुखे । शरीरम् आहो सत्त्वानाम् दद्मि सागर-वासिनाम् ॥१३॥
kim agnau nipatāmi adya āhosvit vaḍavāmukhe . śarīram āho sattvānām dadmi sāgara-vāsinām ..13..
कथं नु जीवता शक्यो मया द्रष्टुं हरीश्वरः । तौ वा पुरुषशार्दूलौ कार्यसर्वस्वघातिना ॥१४॥
कथम् नु जीवता शक्यः मया द्रष्टुम् हरि-ईश्वरः । तौ वा पुरुष-शार्दूलौ कार्य-सर्वस्व-घातिना ॥१४॥
katham nu jīvatā śakyaḥ mayā draṣṭum hari-īśvaraḥ . tau vā puruṣa-śārdūlau kārya-sarvasva-ghātinā ..14..
मया खलु तदेवेदं रोषदोषात्प्रदर्शितम् । प्रथितं त्रिषु लोकेषु कपितमनवस्थितम् ॥१५॥
मया खलु तत् एव इदम् रोष-दोषात् प्रदर्शितम् । प्रथितम् त्रिषु लोकेषु कपितम् अनवस्थितम् ॥१५॥
mayā khalu tat eva idam roṣa-doṣāt pradarśitam . prathitam triṣu lokeṣu kapitam anavasthitam ..15..
धिगस्तु राजसं भावमनीशमनवस्थितम् । ईश्वरेणापि यद्रागान्मया सीता न रक्षिता ॥१६॥
धिक् अस्तु राजसम् भावम् अनीशम् अनवस्थितम् । ईश्वरेण अपि यद्-रागात् मया सीता न रक्षिता ॥१६॥
dhik astu rājasam bhāvam anīśam anavasthitam . īśvareṇa api yad-rāgāt mayā sītā na rakṣitā ..16..
विनष्टायां तु सीतायां तावुभौ विनशिष्यतः । तयोर्विनाशे सुग्रीवः सबन्धुर्विनशिष्यति ॥१७॥
विनष्टायाम् तु सीतायाम् तौ उभौ विनशिष्यतः । तयोः विनाशे सुग्रीवः स बन्धुः विनशिष्यति ॥१७॥
vinaṣṭāyām tu sītāyām tau ubhau vinaśiṣyataḥ . tayoḥ vināśe sugrīvaḥ sa bandhuḥ vinaśiṣyati ..17..
एतदेव वचः श्रुत्वा भरतो भ्रातृवत्सलः । धर्मात्मा सहशत्रुघ्नः कथं शक्ष्यति जीवितुम् ॥१८॥
एतत् एव वचः श्रुत्वा भरतः भ्रातृ-वत्सलः । धर्म-आत्मा सह शत्रुघ्नः कथम् शक्ष्यति जीवितुम् ॥१८॥
etat eva vacaḥ śrutvā bharataḥ bhrātṛ-vatsalaḥ . dharma-ātmā saha śatrughnaḥ katham śakṣyati jīvitum ..18..
इक्ष्वाकुवंशे धर्मिष्ठे गते नाशमसंशयम् । भविष्यन्ति प्रजाः सर्वाः शोकसन्तापपीडिताः ॥१९॥
इक्ष्वाकु-वंशे धर्मिष्ठे गते नाशम् असंशयम् । भविष्यन्ति प्रजाः सर्वाः शोक-सन्ताप-पीडिताः ॥१९॥
ikṣvāku-vaṃśe dharmiṣṭhe gate nāśam asaṃśayam . bhaviṣyanti prajāḥ sarvāḥ śoka-santāpa-pīḍitāḥ ..19..
तदहं भाग्यरहितो लुप्तधर्मार्थसङ्ग्रहः । रोषदोषपरीतात्मा व्यक्तं लोकविनाशनः ॥२०॥
तत् अहम् भाग्य-रहितः लुप्त-धर्म-अर्थ-सङ्ग्रहः । रोष-दोष-परीत-आत्मा व्यक्तम् लोक-विनाशनः ॥२०॥
tat aham bhāgya-rahitaḥ lupta-dharma-artha-saṅgrahaḥ . roṣa-doṣa-parīta-ātmā vyaktam loka-vināśanaḥ ..20..
इति चिन्तयतस्तस्य निमित्तान्युपपेदिरे । पूरमप्युपलब्धानि साक्षात्पुनरचिन्तयत् ॥२१॥
इति चिन्तयतः तस्य निमित्तानि उपपेदिरे । पूरम् अपि उपलब्धानि साक्षात् पुनर् अचिन्तयत् ॥२१॥
iti cintayataḥ tasya nimittāni upapedire . pūram api upalabdhāni sākṣāt punar acintayat ..21..
अथ वा चारुसर्वाङ्गी रक्षिता स्वेन तेजसा । न नशिष्यति कल्याणी नाग्निरग्नौ प्रवर्तते ॥२२॥
अथ वा चारु-सर्व-अङ्गी रक्षिता स्वेन तेजसा । न नशिष्यति कल्याणी न अग्निः अग्नौ प्रवर्तते ॥२२॥
atha vā cāru-sarva-aṅgī rakṣitā svena tejasā . na naśiṣyati kalyāṇī na agniḥ agnau pravartate ..22..
न हि धर्मान्मनस्तस्य भार्याममिततेजसः । स्वचारित्राभिगुप्तां तां स्प्रष्टुमर्हति पावकः ॥२३॥
न हि धर्मात् मनः तस्य भार्याम् अमित-तेजसः । स्व-चारित्र-अभिगुप्ताम् ताम् स्प्रष्टुम् अर्हति पावकः ॥२३॥
na hi dharmāt manaḥ tasya bhāryām amita-tejasaḥ . sva-cāritra-abhiguptām tām spraṣṭum arhati pāvakaḥ ..23..
नूनं रामप्रभावेन वैदेह्याः सुकृतेन च । यन्मां दहनकर्मायं नादहद्धव्यवाहनः ॥२४॥
नूनम् राम-प्रभावेन वैदेह्याः सुकृतेन च । यत् माम् दहन-कर्मा अयम् न अदहत् हव्यवाहनः ॥२४॥
nūnam rāma-prabhāvena vaidehyāḥ sukṛtena ca . yat mām dahana-karmā ayam na adahat havyavāhanaḥ ..24..
त्रयाणां भरतादीनां भ्रातॄणां देवता च या । रामस्य च मनःकान्ता सा कथं विनशिष्यति ॥२५॥
त्रयाणाम् भरत-आदीनाम् भ्रातॄणाम् देवता च या । रामस्य च मनः-कान्ता सा कथम् विनशिष्यति ॥२५॥
trayāṇām bharata-ādīnām bhrātṝṇām devatā ca yā . rāmasya ca manaḥ-kāntā sā katham vinaśiṣyati ..25..
यद्वा दहनकर्मायं सर्वत्र प्रभुरव्ययः । न मे दहति लाङ्गूलं कथमार्यां प्रधक्ष्यति ॥२६॥
यत् वा दहन-कर्मा अयम् सर्वत्र प्रभुः अव्ययः । न मे दहति लाङ्गूलम् कथम् आर्याम् प्रधक्ष्यति ॥२६॥
yat vā dahana-karmā ayam sarvatra prabhuḥ avyayaḥ . na me dahati lāṅgūlam katham āryām pradhakṣyati ..26..
पुनश्चाचिन्तयत्तत्र हनुमान्विस्मितस्तदा।हिरण्यनाभस्य गिरेर्जलमध्ये प्रदर्शनम्॥२७॥
पुनर् च अचिन्तयत् तत्र हनुमान् विस्मितः तदा।हिरण्यनाभस्य गिरेः जल-मध्ये प्रदर्शनम्॥२७॥
punar ca acintayat tatra hanumān vismitaḥ tadā.hiraṇyanābhasya gireḥ jala-madhye pradarśanam..27..
तपसा सत्यवाक्येन अनन्यत्वाच्च भर्तरि । अपि सा निर्दहेदग्निं न तामग्निः प्रधक्ष्यति ॥२८॥
तपसा सत्य-वाक्येन अनन्य-त्वात् च भर्तरि । अपि सा निर्दहेत् अग्निम् न ताम् अग्निः प्रधक्ष्यति ॥२८॥
tapasā satya-vākyena ananya-tvāt ca bhartari . api sā nirdahet agnim na tām agniḥ pradhakṣyati ..28..
स तथा चिन्तयंस्तत्र देव्या धर्मपरिग्रहम् । शुश्राव हनुमान्वाक्यं चारणानां महात्मनाम् ॥२९॥
स तथा चिन्तयन् तत्र देव्याः धर्म-परिग्रहम् । शुश्राव हनुमान् वाक्यम् चारणानाम् महात्मनाम् ॥२९॥
sa tathā cintayan tatra devyāḥ dharma-parigraham . śuśrāva hanumān vākyam cāraṇānām mahātmanām ..29..
अहो खलु कृतं कर्म दुर्विषह्यं हनूमता । अग्निं विसृजताभीक्ष्णं भीमं राक्षससद्मनि ॥३०॥
अहो खलु कृतम् कर्म दुर्विषह्यम् हनूमता । अग्निम् विसृजत अभीक्ष्णम् भीमम् राक्षस-सद्मनि ॥३०॥
aho khalu kṛtam karma durviṣahyam hanūmatā . agnim visṛjata abhīkṣṇam bhīmam rākṣasa-sadmani ..30..
प्रपलायितरक्षः स्त्रीबालवृद्धसमाकुला।जनकोलाहलाध्माता क्रन्दन्तीवाद्रिकन्दरै:॥३१॥
प्रपलायित-रक्षः स्त्री-बाल-वृद्ध-समाकुला।जन-कोलाहल-आध्माता क्रन्दन्ती इव अद्रि-कन्दरैः॥३१॥
prapalāyita-rakṣaḥ strī-bāla-vṛddha-samākulā.jana-kolāhala-ādhmātā krandantī iva adri-kandaraiḥ..31..
दग्धेयं नगरी लङ्का साट्टप्राकारतोरणा । जानकी न च दग्धेति विस्मयोऽद्भुत एव नः ॥३२॥
दग्धा इयम् नगरी लङ्का स अट्ट-प्राकार-तोरणा । जानकी न च दग्धा इति विस्मयः अद्भुतः एव नः ॥३२॥
dagdhā iyam nagarī laṅkā sa aṭṭa-prākāra-toraṇā . jānakī na ca dagdhā iti vismayaḥ adbhutaḥ eva naḥ ..32..
इति शुश्राव हनुमान् वाचं ताममृतोपमाम्।बभूव चास्य मनसो हर्षस्तत्कालसम्भवः॥३३॥
इति शुश्राव हनुमान् वाचम् ताम् अमृत-उपमाम्।बभूव च अस्य मनसः हर्षः तद्-काल-सम्भवः॥३३॥
iti śuśrāva hanumān vācam tām amṛta-upamām.babhūva ca asya manasaḥ harṣaḥ tad-kāla-sambhavaḥ..33..
स निमित्तैश्च दृष्टार्थैः कारणैश्च महागुणैः । ऋषिवाक्यैश्च हनुमानभवत्प्रीतमानसः ॥३४॥
स निमित्तैः च दृष्ट-अर्थैः कारणैः च महा-गुणैः । ऋषि-वाक्यैः च हनुमान् अभवत् प्रीत-मानसः ॥३४॥
sa nimittaiḥ ca dṛṣṭa-arthaiḥ kāraṇaiḥ ca mahā-guṇaiḥ . ṛṣi-vākyaiḥ ca hanumān abhavat prīta-mānasaḥ ..34..
ततः कपिः प्राप्तमनोरथार्थस् तामक्षतां राजसुतां विदित्वा । प्रत्यक्षतस्तां पुनरेव दृष्ट्वा प्रतिप्रयाणाय मतिं चकार ॥३५॥
ततस् कपिः प्राप्त-मनोरथ-अर्थः ताम् अक्षताम् राज-सुताम् विदित्वा । प्रत्यक्षतः ताम् पुनर् एव दृष्ट्वा प्रतिप्रयाणाय मतिम् चकार ॥३५॥
tatas kapiḥ prāpta-manoratha-arthaḥ tām akṣatām rāja-sutām viditvā . pratyakṣataḥ tām punar eva dṛṣṭvā pratiprayāṇāya matim cakāra ..35..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In