This overlay will guide you through the buttons:

| |
|
ततस्तस्य गिरेः शृङ्गे महेन्द्रस्य महाबलाः । हनुमत्प्रमुखाः प्रीतिं हरयो जग्मुरुत्तमाम् ॥१॥
ततस् तस्य गिरेः शृङ्गे महेन्द्रस्य महा-बलाः । हनुमत्-प्रमुखाः प्रीतिम् हरयः जग्मुः उत्तमाम् ॥१॥
tatas tasya gireḥ śṛṅge mahendrasya mahā-balāḥ . hanumat-pramukhāḥ prītim harayaḥ jagmuḥ uttamām ..1..
प्रीतिमत्सुपविष्टेषु वानरेषु महात्मसु।तं ततः प्रतिसंहृष्टः प्रीतिमन्तं महाकपिम् ॥२॥
प्रीतिमत् सु पविष्टेषु वानरेषु महात्मसु।तम् ततस् प्रतिसंहृष्टः प्रीतिमन्तम् महा-कपिम् ॥२॥
prītimat su paviṣṭeṣu vānareṣu mahātmasu.tam tatas pratisaṃhṛṣṭaḥ prītimantam mahā-kapim ..2..
जाम्बवान्कार्यवृत्तान्तमपृच्छदनिलात्मजम् ।कथं दृष्टा त्वया देवी कथं वा तत्र वर्तते ॥३॥
जाम्बवान् कार्य-वृत्तान्तम् अपृच्छत् अनिलात्मजम् ।कथम् दृष्टा त्वया देवी कथम् वा तत्र वर्तते ॥३॥
jāmbavān kārya-vṛttāntam apṛcchat anilātmajam .katham dṛṣṭā tvayā devī katham vā tatra vartate ..3..
तस्यां चापि कथं वृत्तः क्रूरकर्मा दशाननः ।तत्त्वतः सर्वमेतन्नः प्रब्रूहि त्वं महाकपे ॥४॥
तस्याम् च अपि कथम् वृत्तः क्रूर-कर्मा दशाननः ।तत्त्वतः सर्वम् एतत् नः प्रब्रूहि त्वम् महा-कपे ॥४॥
tasyām ca api katham vṛttaḥ krūra-karmā daśānanaḥ .tattvataḥ sarvam etat naḥ prabrūhi tvam mahā-kape ..4..
संमार्गिता कथं देवी किं च सा प्रलमाषत। श्रुतार्थाश्चिन्तयिष्यामो भूयः कार्यविनिश्चयम् ॥५॥
संमार्गिता कथम् देवी किम् च सा प्रलमाषत। श्रुत-अर्थाः चिन्तयिष्यामः भूयस् कार्य-विनिश्चयम् ॥५॥
saṃmārgitā katham devī kim ca sā pralamāṣata. śruta-arthāḥ cintayiṣyāmaḥ bhūyas kārya-viniścayam ..5..
यश्चार्थस्तत्र वक्तव्यो गतैरस्माभिरात्मवान् । रक्षितव्यं च यत्तत्र तद्भवान्व्याकरोतु नः ॥६॥
यः च अर्थः तत्र वक्तव्यः गतैः अस्माभिः आत्मवान् । रक्षितव्यम् च यत् तत्र तत् भवान् व्याकरोतु नः ॥६॥
yaḥ ca arthaḥ tatra vaktavyaḥ gataiḥ asmābhiḥ ātmavān . rakṣitavyam ca yat tatra tat bhavān vyākarotu naḥ ..6..
स नियुक्तस्ततस्तेन सम्प्रहृष्टतनूरुहः । नमस्यञ्शिरसा देव्यै सीतायै प्रत्यभाषत ॥७॥
स नियुक्तः ततस् तेन सम्प्रहृष्ट-तनूरुहः । नमस्यन् शिरसा देव्यै सीतायै प्रत्यभाषत ॥७॥
sa niyuktaḥ tatas tena samprahṛṣṭa-tanūruhaḥ . namasyan śirasā devyai sītāyai pratyabhāṣata ..7..
प्रत्यक्षमेव भवतां महेन्द्राग्रात्खमाप्लुतः । उदधेर्दक्षिणं पारं काङ्क्षमाणः समाहितः ॥८॥
प्रत्यक्षम् एव भवताम् महेन्द्र-अग्रात् खम् आप्लुतः । उदधेः दक्षिणम् पारम् काङ्क्षमाणः समाहितः ॥८॥
pratyakṣam eva bhavatām mahendra-agrāt kham āplutaḥ . udadheḥ dakṣiṇam pāram kāṅkṣamāṇaḥ samāhitaḥ ..8..
गच्छतश्च हि मे घोरं विघ्नरूपमिवाभवत् । काञ्चनं शिखरं दिव्यं पश्यामि सुमनोहरम् ॥९॥
गच्छतः च हि मे घोरम् विघ्न-रूपम् इव अभवत् । काञ्चनम् शिखरम् दिव्यम् पश्यामि सु मनोहरम् ॥९॥
gacchataḥ ca hi me ghoram vighna-rūpam iva abhavat . kāñcanam śikharam divyam paśyāmi su manoharam ..9..
स्थितं पन्थानमावृत्य मेने विघ्नं च तं नगम् ।उपसङ्गम्य तं दिव्यं काञ्चनं नगसत्तमम् ॥१०॥
स्थितम् पन्थानम् आवृत्य मेने विघ्नम् च तम् नगम् ।उपसङ्गम्य तम् दिव्यम् काञ्चनम् नग-सत्तमम् ॥१०॥
sthitam panthānam āvṛtya mene vighnam ca tam nagam .upasaṅgamya tam divyam kāñcanam naga-sattamam ..10..
कृता मे मनसा बुद्धिर्भेत्तव्योऽयं मयेति च ।प्रहतस्य मया तस्य लाङ्गूलेन महागिरेः ॥११॥
कृता मे मनसा बुद्धिः भेत्तव्यः अयम् मया इति च ।प्रहतस्य मया तस्य लाङ्गूलेन महा-गिरेः ॥११॥
kṛtā me manasā buddhiḥ bhettavyaḥ ayam mayā iti ca .prahatasya mayā tasya lāṅgūlena mahā-gireḥ ..11..
शिखरं सूर्यसङ्काशं व्यशीर्यत सहस्रधा ।व्यवसायं च मे बुद्ध्वा स होवाच महागिरिः ॥१२॥
शिखरम् सूर्य-सङ्काशम् व्यशीर्यत सहस्रधा ।व्यवसायम् च मे बुद्ध्वा स ह उवाच महा-गिरिः ॥१२॥
śikharam sūrya-saṅkāśam vyaśīryata sahasradhā .vyavasāyam ca me buddhvā sa ha uvāca mahā-giriḥ ..12..
पुत्रेति मधुरां बाणीं मनःप्रह्लादयन्निव ।पितृव्यं चापि मां विद्धि सखायं मातरिश्वनः ॥१३॥
पुत्र इति मधुराम् बाणीम् मनः प्रह्लादयन् इव ।पितृव्यम् च अपि माम् विद्धि सखायम् मातरिश्वनः ॥१३॥
putra iti madhurām bāṇīm manaḥ prahlādayan iva .pitṛvyam ca api mām viddhi sakhāyam mātariśvanaḥ ..13..
मैनाकमिति विख्यातं निवसन्तं महोदधौ ।पक्ष्ववन्तः पुरा पुत्र बभूवुः पर्वतोत्तमाः ॥१४॥
मैनाकम् इति विख्यातम् निवसन्तम् महा-उदधौ ।पक्ष्ववन्तः पुरा पुत्र बभूवुः पर्वत-उत्तमाः ॥१४॥
mainākam iti vikhyātam nivasantam mahā-udadhau .pakṣvavantaḥ purā putra babhūvuḥ parvata-uttamāḥ ..14..
छन्दतः पृथिवीं चेरुर्बाधमानाः समन्ततः ।श्रुत्वा नगानां चरितं महेन्द्रः पाकशासनः ॥१५॥
छन्दतस् पृथिवीम् चेरुः बाधमानाः समन्ततः ।श्रुत्वा नगानाम् चरितम् महा-इन्द्रः पाकशासनः ॥१५॥
chandatas pṛthivīm ceruḥ bādhamānāḥ samantataḥ .śrutvā nagānām caritam mahā-indraḥ pākaśāsanaḥ ..15..
वज्रेण भगवान् पक्षौ चिच्छेदैषां सहस्रशः ।अहं तु मोक्षितस्तस्मात्तव पित्रा महात्मना ॥१६॥
वज्रेण भगवान् पक्षौ चिच्छेद एषाम् सहस्रशस् ।अहम् तु मोक्षितः तस्मात् तव पित्रा महात्मना ॥१६॥
vajreṇa bhagavān pakṣau ciccheda eṣām sahasraśas .aham tu mokṣitaḥ tasmāt tava pitrā mahātmanā ..16..
मारुतेन तदा वत्स प्रक्षिप्तोऽस्मि महार्णवे ।राघवस्य मया साह्ये वर्तितव्यमरिन्दम ॥१७॥
मारुतेन तदा वत्स प्रक्षिप्तः अस्मि महा-अर्णवे ।राघवस्य मया साह्ये वर्तितव्यम् अरिन्दम ॥१७॥
mārutena tadā vatsa prakṣiptaḥ asmi mahā-arṇave .rāghavasya mayā sāhye vartitavyam arindama ..17..
रामो धर्मभृतां श्रेष्ठो महेन्द्रसमविक्रमः ।एतच्छ्रुत्वा मया तस्य मैनाकस्य महात्मनः ॥१८॥
रामः धर्म-भृताम् श्रेष्ठः महा-इन्द्र-सम-विक्रमः ।एतत् श्रुत्वा मया तस्य मैनाकस्य महात्मनः ॥१८॥
rāmaḥ dharma-bhṛtām śreṣṭhaḥ mahā-indra-sama-vikramaḥ .etat śrutvā mayā tasya mainākasya mahātmanaḥ ..18..
कार्यमावेद्य तु गिरेरुद्धतं च मनो मम ।तेन चाहमनुज्ञातो मैनाकेन महात्मना ॥१९॥
कार्यम् आवेद्य तु गिरेः उद्धतम् च मनः मम ।तेन च अहम् अनुज्ञातः मैनाकेन महात्मना ॥१९॥
kāryam āvedya tu gireḥ uddhatam ca manaḥ mama .tena ca aham anujñātaḥ mainākena mahātmanā ..19..
स चाप्यन्तर्हितः शैलो मानुपेण वुष्मता।शरीरेण महारोलः शैलेन च महोदधौ॥२०॥
स च अपि अन्तर्हितः शैलः मानुपेण।शरीरेण महारोलः शैलेन च महा-उदधौ॥२०॥
sa ca api antarhitaḥ śailaḥ mānupeṇa.śarīreṇa mahārolaḥ śailena ca mahā-udadhau..20..
उत्तमं जवमास्थाय शेषमध्वानमास्थितः ।ततोऽहं सुचिरं कालं वेगेनाभ्यगमं पथि ॥२१॥
उत्तमम् जवम् आस्थाय शेषम् अध्वानम् आस्थितः ।ततस् अहम् सु चिरम् कालम् वेगेन अभ्यगमम् पथि ॥२१॥
uttamam javam āsthāya śeṣam adhvānam āsthitaḥ .tatas aham su ciram kālam vegena abhyagamam pathi ..21..
ततः पश्याम्यहं देवीं सुरसां नागमातरम् ।समुद्रमध्ये सा देवी वचनं मामभाषत ॥२२॥
ततस् पश्यामि अहम् देवीम् सुरसाम् नागमातरम् ।समुद्र-मध्ये सा देवी वचनम् माम् अभाषत ॥२२॥
tatas paśyāmi aham devīm surasām nāgamātaram .samudra-madhye sā devī vacanam mām abhāṣata ..22..
मम भक्ष्यः प्रदिष्टस्त्वममारैर्हरिसत्तमम् । ततस्त्वां भक्षयिष्यामि विहितस्त्वं चिरस्य मे ॥२३॥
मम भक्ष्यः प्रदिष्टः त्वम् अमारैः हरि-सत्तमम् । ततस् त्वाम् भक्षयिष्यामि विहितः त्वम् चिरस्य मे ॥२३॥
mama bhakṣyaḥ pradiṣṭaḥ tvam amāraiḥ hari-sattamam . tatas tvām bhakṣayiṣyāmi vihitaḥ tvam cirasya me ..23..
एवमुक्तः सुरसया प्राञ्जलिः प्रणतः स्थितः । विवर्णवदनो भूत्वा वाक्यं चेदमुदीरयम् ॥२४॥
एवम् उक्तः सुरसया प्राञ्जलिः प्रणतः स्थितः । विवर्ण-वदनः भूत्वा वाक्यम् च इदम् उदीरयम् ॥२४॥
evam uktaḥ surasayā prāñjaliḥ praṇataḥ sthitaḥ . vivarṇa-vadanaḥ bhūtvā vākyam ca idam udīrayam ..24..
रामो दाशरथिः श्रीमान्प्रविष्टो दण्डकावनम् । लक्ष्मणेन सह भ्रात्रा सीतया च परन्तपः ॥२५॥
रामः दाशरथिः श्रीमान् प्रविष्टः दण्डक-वनम् । लक्ष्मणेन सह भ्रात्रा सीतया च परन्तपः ॥२५॥
rāmaḥ dāśarathiḥ śrīmān praviṣṭaḥ daṇḍaka-vanam . lakṣmaṇena saha bhrātrā sītayā ca parantapaḥ ..25..
तस्य सीता हृता भार्या रावणेन दुरात्मना । तस्याः सकाशं दूतोऽहं गमिष्ये रामशासनात् ॥२६॥
तस्य सीता हृता भार्या रावणेन दुरात्मना । तस्याः सकाशम् दूतः अहम् गमिष्ये राम-शासनात् ॥२६॥
tasya sītā hṛtā bhāryā rāvaṇena durātmanā . tasyāḥ sakāśam dūtaḥ aham gamiṣye rāma-śāsanāt ..26..
कर्तुमर्हसि रामस्य साह्यं विषयवासिनि ।अथ वा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम् ॥२७॥
कर्तुम् अर्हसि रामस्य साह्यम् विषय-वासिनि ।अथ वा मैथिलीम् दृष्ट्वा रामम् च अक्लिष्ट-कारिणम् ॥२७॥
kartum arhasi rāmasya sāhyam viṣaya-vāsini .atha vā maithilīm dṛṣṭvā rāmam ca akliṣṭa-kāriṇam ..27..
आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोति मे ।एवमुक्ता मया सा तु सुरसा कामरूपिणी ॥२८॥
आगमिष्यामि ते वक्त्रम् सत्यम् प्रतिशृणोति मे ।एवम् उक्ता मया सा तु सुरसा कामरूपिणी ॥२८॥
āgamiṣyāmi te vaktram satyam pratiśṛṇoti me .evam uktā mayā sā tu surasā kāmarūpiṇī ..28..
अब्रवीन्नातिवर्तेत कश्चिदेष वरो मम ।एवमुक्तः सुरसया दशयोजनमायतः ॥२९॥
अब्रवीत् न अतिवर्तेत कश्चिद् एष वरः मम ।एवम् उक्तः सुरसया दश-योजनम् आयतः ॥२९॥
abravīt na ativarteta kaścid eṣa varaḥ mama .evam uktaḥ surasayā daśa-yojanam āyataḥ ..29..
ततोऽर्धगुणविस्तारो बभूवाहं क्षणेन तु ।मत्प्रमाणानुरूपं च व्यादितं तन्मुखं तया ॥३०॥
ततस् अर्ध-गुण-विस्तारः बभूव अहम् क्षणेन तु ।मद्-प्रमाण-अनुरूपम् च व्यादितम् तद्-मुखम् तया ॥३०॥
tatas ardha-guṇa-vistāraḥ babhūva aham kṣaṇena tu .mad-pramāṇa-anurūpam ca vyāditam tad-mukham tayā ..30..
तद्दृष्ट्वा व्यादितं त्वास्यं ह्रस्वं ह्यकरवं वपुः ।तस्मिन्मुहूर्ते च पुनर्बभूवाङ्गुष्ठसंमितः ॥३१॥
तत् दृष्ट्वा व्यादितम् तु आस्यम् ह्रस्वम् हि अकरवम् वपुः ।तस्मिन् मुहूर्ते च पुनर् बभूव अङ्गुष्ठ-संमितः ॥३१॥
tat dṛṣṭvā vyāditam tu āsyam hrasvam hi akaravam vapuḥ .tasmin muhūrte ca punar babhūva aṅguṣṭha-saṃmitaḥ ..31..
अभिपत्याशु तद्वक्त्रं निर्गतोऽहं ततः क्षणात् ।अब्रवीत्सुरसा देवी स्वेन रूपेण मां पुनः ॥३२॥
अभिपत्य आशु तद्-वक्त्रम् निर्गतः अहम् ततस् क्षणात् ।अब्रवीत् सुरसा देवी स्वेन रूपेण माम् पुनर् ॥३२॥
abhipatya āśu tad-vaktram nirgataḥ aham tatas kṣaṇāt .abravīt surasā devī svena rūpeṇa mām punar ..32..
अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम् ।समानय च वैदेहीं राघवेण महात्मना ॥३३॥
अर्थ-सिद्ध्यै हरि-श्रेष्ठ गच्छ सौम्य यथासुखम् ।समानय च वैदेहीम् राघवेण महात्मना ॥३३॥
artha-siddhyai hari-śreṣṭha gaccha saumya yathāsukham .samānaya ca vaidehīm rāghaveṇa mahātmanā ..33..
सुखी भव महाबाहो प्रीतास्मि तव वानर ।ततोऽहं साधु साध्वीति सर्वभूतैः प्रशंसितः ॥३४॥
सुखी भव महा-बाहो प्रीता अस्मि तव वानर ।ततस् अहम् साधु साध्वी इति सर्व-भूतैः प्रशंसितः ॥३४॥
sukhī bhava mahā-bāho prītā asmi tava vānara .tatas aham sādhu sādhvī iti sarva-bhūtaiḥ praśaṃsitaḥ ..34..
ततोऽन्तरिक्षं विपुलं प्लुतोऽहं गरुडो यथा ।छाया मे निगृहीता च न च पश्यामि किं चन ॥३५॥
ततस् अन्तरिक्षम् विपुलम् प्लुतः अहम् गरुडः यथा ।छाया मे निगृहीता च न च पश्यामि किम् चन ॥३५॥
tatas antarikṣam vipulam plutaḥ aham garuḍaḥ yathā .chāyā me nigṛhītā ca na ca paśyāmi kim cana ..35..
सोऽहं विगतवेगस्तु दिशो दश विलोकयन् । न किं चित्तत्र पश्यामि येन मेऽपहृता गतिः ॥३६॥
सः अहम् विगत-वेगः तु दिशः दश विलोकयन् । न किम् चित् तत्र पश्यामि येन मे अपहृता गतिः ॥३६॥
saḥ aham vigata-vegaḥ tu diśaḥ daśa vilokayan . na kim cit tatra paśyāmi yena me apahṛtā gatiḥ ..36..
अथ मे बुद्धिरुत्पन्ना किं नाम गमने मम । ईदृशो विघ्न उत्पन्नो रूपं यत्र न दृश्यते ॥३७॥
अथ मे बुद्धिः उत्पन्ना किम् नाम गमने मम । ईदृशः विघ्नः उत्पन्नः रूपम् यत्र न दृश्यते ॥३७॥
atha me buddhiḥ utpannā kim nāma gamane mama . īdṛśaḥ vighnaḥ utpannaḥ rūpam yatra na dṛśyate ..37..
अधो भागेन मे दृष्टिः शोचता पातिता मया । ततोऽद्राक्षमहं भीमां राक्षसीं सलिले शयाम् ॥३८॥
अधस् भागेन मे दृष्टिः शोचता पातिता मया । ततस् अद्राक्षम् अहम् भीमाम् राक्षसीम् सलिले शयाम् ॥३८॥
adhas bhāgena me dṛṣṭiḥ śocatā pātitā mayā . tatas adrākṣam aham bhīmām rākṣasīm salile śayām ..38..
प्रहस्य च महानादमुक्तोऽहं भीमया तया । अवस्थितमसम्भ्रान्तमिदं वाक्यमशोभनम् ॥३९॥
प्रहस्य च महा-नाद-मुक्तः अहम् भीमया तया । अवस्थितम् असम्भ्रान्तम् इदम् वाक्यम् अशोभनम् ॥३९॥
prahasya ca mahā-nāda-muktaḥ aham bhīmayā tayā . avasthitam asambhrāntam idam vākyam aśobhanam ..39..
क्वासि गन्ता महाकाय क्षुधिताया ममेप्सितः । भक्षः प्रीणय मे देहं चिरमाहारवर्जितम् ॥४०॥
क्व असि गन्ता महा-काय क्षुधितायाः मम ईप्सितः । भक्षः प्रीणय मे देहम् चिरम् आहार-वर्जितम् ॥४०॥
kva asi gantā mahā-kāya kṣudhitāyāḥ mama īpsitaḥ . bhakṣaḥ prīṇaya me deham ciram āhāra-varjitam ..40..
बाढमित्येव तां वाणीं प्रत्यगृह्णामहं ततः । आस्य प्रमाणादधिकं तस्याः कायमपूरयम् ॥४१॥
बाढम् इति एव ताम् वाणीम् प्रत्यगृह्णाम् अहम् ततस् । आ अस्य प्रमाणात् अधिकम् तस्याः कायम् अपूरयम् ॥४१॥
bāḍham iti eva tām vāṇīm pratyagṛhṇām aham tatas . ā asya pramāṇāt adhikam tasyāḥ kāyam apūrayam ..41..
तस्याश्चास्यं महद्भीमं वर्धते मम भक्षणे । न च मां सा तु बुबुधे मम वा विकृतं कृतम् ॥४२॥
तस्याः च आस्यम् महत् भीमम् वर्धते मम भक्षणे । न च माम् सा तु बुबुधे मम वा विकृतम् कृतम् ॥४२॥
tasyāḥ ca āsyam mahat bhīmam vardhate mama bhakṣaṇe . na ca mām sā tu bubudhe mama vā vikṛtam kṛtam ..42..
ततोऽहं विपुलं रूपं सङ्क्षिप्य निमिषान्तरात् । तस्या हृदयमादाय प्रपतामि नभस्तलम् ॥४३॥
ततस् अहम् विपुलम् रूपम् सङ्क्षिप्य निमिष-अन्तरात् । तस्याः हृदयम् आदाय प्रपतामि नभः-तलम् ॥४३॥
tatas aham vipulam rūpam saṅkṣipya nimiṣa-antarāt . tasyāḥ hṛdayam ādāya prapatāmi nabhaḥ-talam ..43..
सा विसृष्टभुजा भीमा पपात लवणाम्भसि । मया पर्वतसङ्काशा निकृत्तहृदया सती ॥४४॥
सा विसृष्ट-भुजा भीमा पपात लवणाम्भसि । मया पर्वत-सङ्काशा निकृत्त-हृदया सती ॥४४॥
sā visṛṣṭa-bhujā bhīmā papāta lavaṇāmbhasi . mayā parvata-saṅkāśā nikṛtta-hṛdayā satī ..44..
शृणोमि खगतानां च सिद्धानां चारणैः सह । राक्षसी सिंहिका भीमा क्षिप्रं हनुमता हृता ॥४५॥
शृणोमि ख-गतानाम् च सिद्धानाम् चारणैः सह । राक्षसी सिंहिका भीमा क्षिप्रम् हनुमता हृता ॥४५॥
śṛṇomi kha-gatānām ca siddhānām cāraṇaiḥ saha . rākṣasī siṃhikā bhīmā kṣipram hanumatā hṛtā ..45..
तां हत्वा पुनरेवाहं कृत्यमात्ययिकं स्मरन् । गत्वा च महदध्वानं पश्यामि नगमण्डितम् ॥४६॥
ताम् हत्वा पुनर् एव अहम् कृत्यम् आत्ययिकम् स्मरन् । गत्वा च महत्-अध्वानम् पश्यामि नग-मण्डितम् ॥४६॥
tām hatvā punar eva aham kṛtyam ātyayikam smaran . gatvā ca mahat-adhvānam paśyāmi naga-maṇḍitam ..46..
दक्षिणं तीरमुदधेर्लङ्का यत्र च सा पुरी ।अस्तं दिनकरे याते रक्षसां निलयं पुरीम् ॥४७॥
दक्षिणम् तीरम् उदधेः लङ्का यत्र च सा पुरी ।अस्तम् दिनकरे याते रक्षसाम् निलयम् पुरीम् ॥४७॥
dakṣiṇam tīram udadheḥ laṅkā yatra ca sā purī .astam dinakare yāte rakṣasām nilayam purīm ..47..
प्रविष्टोऽहमविज्ञातो रक्षोभिर्भीमविक्रमैः ।तत्र प्रविशतश्चापि कल्पान्तघनसन्निभा॥४८॥
प्रविष्टः अहम् अविज्ञातः रक्षोभिः भीम-विक्रमैः ।तत्र प्रविशतः च अपि कल्पान्त-घन-सन्निभा॥४८॥
praviṣṭaḥ aham avijñātaḥ rakṣobhiḥ bhīma-vikramaiḥ .tatra praviśataḥ ca api kalpānta-ghana-sannibhā..48..
अट्टहासं विमुञ्चन्ती नारी काप्युत्थिता पुरः।जिघांसन्तीं ततस्तां तु ज्वलदग्निशिरोरुहाम्॥४९॥
अट्टहासम् विमुञ्चन्ती नारी का अपि उत्थिता पुरस्।जिघांसन्तीम् ततस् ताम् तु ज्वलत्-अग्नि-शिरोरुहाम्॥४९॥
aṭṭahāsam vimuñcantī nārī kā api utthitā puras.jighāṃsantīm tatas tām tu jvalat-agni-śiroruhām..49..
सव्यमुष्टिप्रहारेण पराजित्य सुभैरवाम्।प्रदोषकाले प्रविशं भीतयाऽहं तयोदितः॥५०॥
सव्य-मुष्टि-प्रहारेण पराजित्य सु भैरवाम्।प्रदोष-काले प्रविशम् भीतया अहम् तया उदितः॥५०॥
savya-muṣṭi-prahāreṇa parājitya su bhairavām.pradoṣa-kāle praviśam bhītayā aham tayā uditaḥ..50..
अहं लङ्कापुरी वीर निर्जिता विक्रमेण ते।यस्मात्तस्माद्विजेतासि सर्वरक्षांस्यशेषतः॥५१॥
अहम् लङ्का-पुरी वीर निर्जिता विक्रमेण ते।यस्मात् तस्मात् विजेतासि सर्व-रक्षांसि अशेषतस्॥५१॥
aham laṅkā-purī vīra nirjitā vikrameṇa te.yasmāt tasmāt vijetāsi sarva-rakṣāṃsi aśeṣatas..51..
तत्राहं सर्वरात्रं तु विचिन्वञ्जनकात्मजाम् । रावणान्तःपुरगतो न चापश्यं सुमध्यमाम् ॥५२॥
तत्र अहम् सर्व-रात्रम् तु विचिन्वन् जनकात्मजाम् । रावण-अन्तःपुर-गतः न च अपश्यम् सुमध्यमाम् ॥५२॥
tatra aham sarva-rātram tu vicinvan janakātmajām . rāvaṇa-antaḥpura-gataḥ na ca apaśyam sumadhyamām ..52..
ततः सीतामपश्यंस्तु रावणस्य निवेशने । शोकसागरमासाद्य न पारमुपलक्षये ॥५३॥
ततस् सीताम् अपश्यन् तु रावणस्य निवेशने । शोक-सागरम् आसाद्य न पारम् उपलक्षये ॥५३॥
tatas sītām apaśyan tu rāvaṇasya niveśane . śoka-sāgaram āsādya na pāram upalakṣaye ..53..
शोचता च मया दृष्टं प्राकारेण समावृतम् । काञ्चनेन विकृष्टेन गृहोपवनमुत्तमम् ॥५४॥
शोचता च मया दृष्टम् प्राकारेण समावृतम् । काञ्चनेन विकृष्टेन गृह-उपवनम् उत्तमम् ॥५४॥
śocatā ca mayā dṛṣṭam prākāreṇa samāvṛtam . kāñcanena vikṛṣṭena gṛha-upavanam uttamam ..54..
सप्राकारमवप्लुत्य पश्यामि बहुपादपम् ।अशोकवनिकामध्ये शिंशपापादपो महान् ॥५५॥
स प्राकारम् अवप्लुत्य पश्यामि बहु-पादपम् ।अशोक-वनिका-मध्ये शिंशपा-पादपः महान् ॥५५॥
sa prākāram avaplutya paśyāmi bahu-pādapam .aśoka-vanikā-madhye śiṃśapā-pādapaḥ mahān ..55..
तमारुह्य च पश्यामि काञ्चनं कदली वनम् ।अदूराच्छिंशपावृक्षात्पश्यामि वनवर्णिनीम् ॥५६॥
तम् आरुह्य च पश्यामि काञ्चनम् कदली वनम् ।अदूरात् शिंशपा-वृक्षात् पश्यामि वन-वर्णिनीम् ॥५६॥
tam āruhya ca paśyāmi kāñcanam kadalī vanam .adūrāt śiṃśapā-vṛkṣāt paśyāmi vana-varṇinīm ..56..
श्यामां कमलपत्राक्षीमुपवासकृशाननाम् ।तदेकवासस्संवीतां रजोध्वस्तशिरोरुहाम्॥५७॥
श्यामाम् कमल-पत्र-अक्षीम् उपवास-कृश-आननाम् ।तद्-एक-वासः-संवीताम् रजः-ध्वस्त-शिरोरुहाम्॥५७॥
śyāmām kamala-patra-akṣīm upavāsa-kṛśa-ānanām .tad-eka-vāsaḥ-saṃvītām rajaḥ-dhvasta-śiroruhām..57..
शोकसन्तापदीनाङ्गीं सीतां भर्तृहिते स्थिताम्।राक्षसीभिर्विरूपाभिः क्रूराभिरभिसंवृताम् ॥५८॥
शोक-सन्ताप-दीन-अङ्गीम् सीताम् भर्तृ-हिते स्थिताम्।राक्षसीभिः विरूपाभिः क्रूराभिः अभिसंवृताम् ॥५८॥
śoka-santāpa-dīna-aṅgīm sītām bhartṛ-hite sthitām.rākṣasībhiḥ virūpābhiḥ krūrābhiḥ abhisaṃvṛtām ..58..
मांसशोणितभक्ष्याभिर्व्याघ्रीभिर्हरिणीं यथा ।सा मया राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः॥५९॥
मांस-शोणित-भक्ष्याभिः व्याघ्रीभिः हरिणीम् यथा ।सा मया राक्षसी-मध्ये तर्ज्यमाना मुहुर् मुहुर्॥५९॥
māṃsa-śoṇita-bhakṣyābhiḥ vyāghrībhiḥ hariṇīm yathā .sā mayā rākṣasī-madhye tarjyamānā muhur muhur..59..
एकवेणीधरा दीना भर्तृचिन्तापरायणा।भूमिशय्या विवर्णाङ्गी पद्मिनीव हिमागमे॥६०॥
एक-वेणी-धरा दीना भर्तृ-चिन्ता-परायणा।भूमि-शय्या विवर्ण-अङ्गी पद्मिनी इव हिम-आगमे॥६०॥
eka-veṇī-dharā dīnā bhartṛ-cintā-parāyaṇā.bhūmi-śayyā vivarṇa-aṅgī padminī iva hima-āgame..60..
रावणाद्विनिवृत्तार्था मर्तव्यकृतनिश्चया।कथञ्चिन्मृगशाबाक्षी तूर्णमासादिता मया॥६१॥
रावणात् विनिवृत्त-अर्था मर्तव्य-कृत-निश्चया।कथञ्चिद् मृगशाबाक्षी तूर्णम् आसादिता मया॥६१॥
rāvaṇāt vinivṛtta-arthā martavya-kṛta-niścayā.kathañcid mṛgaśābākṣī tūrṇam āsāditā mayā..61..
तां दृष्ट्वा तादृशीं नारीं रामपत्नीमनिन्दिताम् । तत्रैव शिंशपावृक्षे पश्यन्नहमवस्थितः ॥६२॥
ताम् दृष्ट्वा तादृशीम् नारीम् राम-पत्नीम् अनिन्दिताम् । तत्र एव शिंशपा-वृक्षे पश्यन् अहम् अवस्थितः ॥६२॥
tām dṛṣṭvā tādṛśīm nārīm rāma-patnīm aninditām . tatra eva śiṃśapā-vṛkṣe paśyan aham avasthitaḥ ..62..
ततो हलहलाशब्दं काञ्चीनूपुरमिश्रितम् । शृणोम्यधिकगम्भीरं रावणस्य निवेशने ॥६३॥
ततस् हलहला शब्दम् काञ्ची-नूपुर-मिश्रितम् । शृणोमि अधिक-गम्भीरम् रावणस्य निवेशने ॥६३॥
tatas halahalā śabdam kāñcī-nūpura-miśritam . śṛṇomi adhika-gambhīram rāvaṇasya niveśane ..63..
ततोऽहं परमोद्विग्नः स्वरूपं प्रत्यसंहरम् । अहं च शिंशपावृक्षे पक्षीव गहने स्थितः ॥६४॥
ततस् अहम् परम-उद्विग्नः स्व-रूपम् प्रत्यसंहरम् । अहम् च शिंशपा-वृक्षे पक्षी इव गहने स्थितः ॥६४॥
tatas aham parama-udvignaḥ sva-rūpam pratyasaṃharam . aham ca śiṃśapā-vṛkṣe pakṣī iva gahane sthitaḥ ..64..
ततो रावणदाराश्च रावणश्च महाबलः । तं देशं समनुप्राप्ता यत्र सीताभवत्स्थिता ॥६५॥
ततस् रावण-दाराः च रावणः च महा-बलः । तम् देशम् समनुप्राप्ताः यत्र सीता भवत् स्थिता ॥६५॥
tatas rāvaṇa-dārāḥ ca rāvaṇaḥ ca mahā-balaḥ . tam deśam samanuprāptāḥ yatra sītā bhavat sthitā ..65..
तं दृष्ट्वाथ वरारोहा सीता रक्षोगणेश्वरम् । सङ्कुच्योरू स्तनौ पीनौ बाहुभ्यां परिरभ्य च ॥६६॥
तम् दृष्ट्वा अथ वरारोहा सीता रक्षः-गण-ईश्वरम् । सङ्कुच्य ऊरू स्तनौ पीनौ बाहुभ्याम् परिरभ्य च ॥६६॥
tam dṛṣṭvā atha varārohā sītā rakṣaḥ-gaṇa-īśvaram . saṅkucya ūrū stanau pīnau bāhubhyām parirabhya ca ..66..
वित्रस्तां परमोद्विग्नां वीक्षमाणां ततस्ततः।त्राणं किञ्चिदपश्यन्तीं वेपमानां तपस्विनीम्॥६७॥
वित्रस्ताम् परम-उद्विग्नाम् वीक्षमाणाम् ततस् ततस्।त्राणम् किञ्चिद् अपश्यन्तीम् वेपमानाम् तपस्विनीम्॥६७॥
vitrastām parama-udvignām vīkṣamāṇām tatas tatas.trāṇam kiñcid apaśyantīm vepamānām tapasvinīm..67..
तामुवाच दशग्रीवः सीतां परमदुःखिताम् । अवाक्षिराः प्रपतितो बहु मन्यस्व माम् इति ॥६८॥
ताम् उवाच दशग्रीवः सीताम् परम-दुःखिताम् । अवाक्षिराः प्रपतितः बहु मन्यस्व माम् इति ॥६८॥
tām uvāca daśagrīvaḥ sītām parama-duḥkhitām . avākṣirāḥ prapatitaḥ bahu manyasva mām iti ..68..
यदि चेत्त्वं तु मां दर्पान्नाभिनन्दसि गर्विते । द्विमासानन्तरं सीते पास्यामि रुधिरं तव ॥६९॥
यदि चेद् त्वम् तु माम् दर्पात् न अभिनन्दसि गर्विते । द्वि-मास-अनन्तरम् सीते पास्यामि रुधिरम् तव ॥६९॥
yadi ced tvam tu mām darpāt na abhinandasi garvite . dvi-māsa-anantaram sīte pāsyāmi rudhiram tava ..69..
एतच्छ्रुत्वा वचस्तस्य रावणस्य दुरात्मनः । उवाच परमक्रुद्धा सीता वचनमुत्तमम् ॥७०॥
एतत् श्रुत्वा वचः तस्य रावणस्य दुरात्मनः । उवाच परम-क्रुद्धा सीता वचनम् उत्तमम् ॥७०॥
etat śrutvā vacaḥ tasya rāvaṇasya durātmanaḥ . uvāca parama-kruddhā sītā vacanam uttamam ..70..
राक्षसाधम रामस्य भार्याममिततेजसः । इक्ष्वाकुकुलनाथस्य स्नुषां दशरथस्य च ॥७१॥
राक्षस-अधम रामस्य भार्याम् अमित-तेजसः । इक्ष्वाकु-कुल-नाथस्य स्नुषाम् दशरथस्य च ॥७१॥
rākṣasa-adhama rāmasya bhāryām amita-tejasaḥ . ikṣvāku-kula-nāthasya snuṣām daśarathasya ca ..71..
अवाच्यं वदतो जिह्वा कथं न पतिता तव ।किंस्विद्वीर्यं तवानार्य यो मां भर्तुरसंनिधौ ॥७२॥
अवाच्यम् वदतः जिह्वा कथम् न पतिता तव ।किम् स्विद् वीर्यम् तव अनार्य यः माम् भर्तुः असंनिधौ ॥७२॥
avācyam vadataḥ jihvā katham na patitā tava .kim svid vīryam tava anārya yaḥ mām bhartuḥ asaṃnidhau ..72..
अपहृत्यागतः पाप तेनादृष्टो महात्मना ।न त्वं रामस्य सदृशो दास्येऽप्यस्या न युज्यसे ॥७३॥
अपहृत्य आगतः पाप तेन अदृष्टः महात्मना ।न त्वम् रामस्य सदृशः दास्ये अपि अस्याः न युज्यसे ॥७३॥
apahṛtya āgataḥ pāpa tena adṛṣṭaḥ mahātmanā .na tvam rāmasya sadṛśaḥ dāsye api asyāḥ na yujyase ..73..
अजेयः सत्यवाक्चैव रणश्लाघी च राघवः ।जानक्या परुषं वाक्यमेवमुक्तो दशाननः ॥७४॥
अजेयः सत्य-वाच् च एव रण-श्लाघी च राघवः ।जानक्या परुषम् वाक्यम् एवम् उक्तः दशाननः ॥७४॥
ajeyaḥ satya-vāc ca eva raṇa-ślāghī ca rāghavaḥ .jānakyā paruṣam vākyam evam uktaḥ daśānanaḥ ..74..
जज्वाल सहसा कोपाच्चितास्थ इव पावकः ।विवृत्य नयने क्रूरे मुष्टिमुद्यम्य दक्षिणम् ॥७५॥
जज्वाल सहसा कोपात् चिता-स्थः इव पावकः ।विवृत्य नयने क्रूरे मुष्टिम् उद्यम्य दक्षिणम् ॥७५॥
jajvāla sahasā kopāt citā-sthaḥ iva pāvakaḥ .vivṛtya nayane krūre muṣṭim udyamya dakṣiṇam ..75..
मैथिलीं हन्तुमारब्धः स्त्रीभिर्हाहाकृतं तदा ।स्त्रीणां मध्यात्समुत्पत्य तस्य भार्या दुरात्मनः ॥७६॥
मैथिलीम् हन्तुम् आरब्धः स्त्रीभिः हाहाकृतम् तदा ।स्त्रीणाम् मध्यात् समुत्पत्य तस्य भार्या दुरात्मनः ॥७६॥
maithilīm hantum ārabdhaḥ strībhiḥ hāhākṛtam tadā .strīṇām madhyāt samutpatya tasya bhāryā durātmanaḥ ..76..
वरा मन्दोदरी नाम तया स प्रतिषेधितः ।उक्तश्च मधुरां वाणीं तया स मदनार्दितः ॥७७॥
वरा मन्दोदरी नाम तया स प्रतिषेधितः ।उक्तः च मधुराम् वाणीम् तया स मदन-अर्दितः ॥७७॥
varā mandodarī nāma tayā sa pratiṣedhitaḥ .uktaḥ ca madhurām vāṇīm tayā sa madana-arditaḥ ..77..
सीतया तव किं कार्यं महेन्द्रसमविक्रम ।मया सह रमस्वाघ मव्दिशिष्टा न जानकी॥७८॥
सीतया तव किम् कार्यम् महा-इन्द्र-सम-विक्रम ।मया सह रमस्व अघ मद्-दिशिष्टा न जानकी॥७८॥
sītayā tava kim kāryam mahā-indra-sama-vikrama .mayā saha ramasva agha mad-diśiṣṭā na jānakī..78..
देवगन्धर्वकन्याभिर्यक्षकन्याभिरेव च । सार्धं प्रभो रमस्वेह सीतया किं करिष्यसि ॥७९॥
देव-गन्धर्व-कन्याभिः यक्ष-कन्याभिः एव च । सार्धम् प्रभोः रमस्व इह सीतया किम् करिष्यसि ॥७९॥
deva-gandharva-kanyābhiḥ yakṣa-kanyābhiḥ eva ca . sārdham prabhoḥ ramasva iha sītayā kim kariṣyasi ..79..
ततस्ताभिः समेताभिर्नारीभिः स महाबलः । उत्थाप्य सहसा नीतो भवनं स्वं निशाचरः ॥८०॥
ततस् ताभिः समेताभिः नारीभिः स महा-बलः । उत्थाप्य सहसा नीतः भवनम् स्वम् निशाचरः ॥८०॥
tatas tābhiḥ sametābhiḥ nārībhiḥ sa mahā-balaḥ . utthāpya sahasā nītaḥ bhavanam svam niśācaraḥ ..80..
याते तस्मिन्दशग्रीवे राक्षस्यो विकृताननाः । सीतां निर्भर्त्सयामासुर्वाक्यैः क्रूरैः सुदारुणैः ॥८१॥
याते तस्मिन् दशग्रीवे राक्षस्यः विकृत-आननाः । सीताम् निर्भर्त्सयामासुः वाक्यैः क्रूरैः सु दारुणैः ॥८१॥
yāte tasmin daśagrīve rākṣasyaḥ vikṛta-ānanāḥ . sītām nirbhartsayāmāsuḥ vākyaiḥ krūraiḥ su dāruṇaiḥ ..81..
तृणवद्भाषितं तासां गणयामास जानकी । गर्जितं च तदा तासां सीतां प्राप्य निरर्थकम् ॥८२॥
तृण-वत् भाषितम् तासाम् गणयामास जानकी । गर्जितम् च तदा तासाम् सीताम् प्राप्य निरर्थकम् ॥८२॥
tṛṇa-vat bhāṣitam tāsām gaṇayāmāsa jānakī . garjitam ca tadā tāsām sītām prāpya nirarthakam ..82..
वृथागर्जितनिश्चेष्टा राक्षस्यः पिशिताशनाः । रावणाय शशंसुस्ताः सीताव्यवसितं महत् ॥८३॥
वृथा गर्जित-निश्चेष्टाः राक्षस्यः पिशित-अशनाः । रावणाय शशंसुः ताः सीता-व्यवसितम् महत् ॥८३॥
vṛthā garjita-niśceṣṭāḥ rākṣasyaḥ piśita-aśanāḥ . rāvaṇāya śaśaṃsuḥ tāḥ sītā-vyavasitam mahat ..83..
ततस्ताः सहिताः सर्वा विहताशा निरुद्यमाः । परिक्षिप्य समन्तात्तां निद्रावशमुपागताः ॥८४॥
ततस् ताः सहिताः सर्वाः विहत-आशाः निरुद्यमाः । परिक्षिप्य समन्तात् ताम् निद्रा-वशम् उपागताः ॥८४॥
tatas tāḥ sahitāḥ sarvāḥ vihata-āśāḥ nirudyamāḥ . parikṣipya samantāt tām nidrā-vaśam upāgatāḥ ..84..
तासु चैव प्रसुप्तासु सीता भर्तृहिते रता । विलप्य करुणं दीना प्रशुशोच सुदुःखिता ॥८५॥
तासु च एव प्रसुप्तासु सीता भर्तृ-हिते रता । विलप्य करुणम् दीना प्रशुशोच सु दुःखिता ॥८५॥
tāsu ca eva prasuptāsu sītā bhartṛ-hite ratā . vilapya karuṇam dīnā praśuśoca su duḥkhitā ..85..
तासां मध्यात्समुत्थाय त्रिजटा वाक्यमब्रवीत्।आत्मानं खादत क्षिप्रं न सीता विनशिष्यति॥८६॥
तासाम् मध्यात् समुत्थाय त्रिजटा वाक्यम् अब्रवीत्।आत्मानम् खादत क्षिप्रम् न सीता विनशिष्यति॥८६॥
tāsām madhyāt samutthāya trijaṭā vākyam abravīt.ātmānam khādata kṣipram na sītā vinaśiṣyati..86..
जनकस्यात्मजा साध्वी स्नुषा दशरथस्य च।स्वप्नो ह्यद्य मया दृष्टो दारुणो रोमहर्षणः॥८७॥
जनकस्य आत्मजा साध्वी स्नुषा दशरथस्य च।स्वप्नः हि अद्य मया दृष्टः दारुणः रोम-हर्षणः॥८७॥
janakasya ātmajā sādhvī snuṣā daśarathasya ca.svapnaḥ hi adya mayā dṛṣṭaḥ dāruṇaḥ roma-harṣaṇaḥ..87..
रक्षसां च विनाशाय भर्तुरस्या जयाय च।अलमस्मात्परित्रातुं राघवाद्राक्षसीगणम्॥८८॥
रक्षसाम् च विनाशाय भर्तुः अस्याः जयाय च।अलम् अस्मात् परित्रातुम् राघवात् राक्षसी-गणम्॥८८॥
rakṣasām ca vināśāya bhartuḥ asyāḥ jayāya ca.alam asmāt paritrātum rāghavāt rākṣasī-gaṇam..88..
अभियाचाम वैदेहीमेतद्धि मम रोचते।यदि ह्येवंविधस्स्वप्नो दुःखितायाः प्रदृश्यते॥८९॥
अभियाचाम वैदेहीम् एतत् हि मम रोचते।यदि हि एवंविधः स्वप्नः दुःखितायाः प्रदृश्यते॥८९॥
abhiyācāma vaidehīm etat hi mama rocate.yadi hi evaṃvidhaḥ svapnaḥ duḥkhitāyāḥ pradṛśyate..89..
सा दुःखैर्विविधैर्मुक्ता सुखमाप्नोत्यनुत्तमम्।प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा॥९०॥
सा दुःखैः विविधैः मुक्ता सुखम् आप्नोति अनुत्तमम्।प्रणिपात-प्रसन्ना हि मैथिली जनकात्मजा॥९०॥
sā duḥkhaiḥ vividhaiḥ muktā sukham āpnoti anuttamam.praṇipāta-prasannā hi maithilī janakātmajā..90..
अलमेषा परित्रातु राक्षस्यो महतो भयात्।ततः सा ह्रीमती बाला भर्तुर्विजयहर्षिता॥९१॥
अलम् एषा परित्रातु राक्षस्यः महतः भयात्।ततस् सा ह्रीमती बाला भर्तुः विजय-हर्षिता॥९१॥
alam eṣā paritrātu rākṣasyaḥ mahataḥ bhayāt.tatas sā hrīmatī bālā bhartuḥ vijaya-harṣitā..91..
अवोचद्यदि तत्तथ्यं भवेयं शरणं हि वः।तां चाहं तादृशीं दृष्ट्वा सीताया दारुणां दशाम् ॥९२॥
अवोचत् यदि तत् तथ्यम् भवेयम् शरणम् हि वः।ताम् च अहम् तादृशीम् दृष्ट्वा सीतायाः दारुणाम् दशाम् ॥९२॥
avocat yadi tat tathyam bhaveyam śaraṇam hi vaḥ.tām ca aham tādṛśīm dṛṣṭvā sītāyāḥ dāruṇām daśām ..92..
चिन्तयामास विश्रान्तो न च मे निर्वृतं मनः ।सम्भाषणार्थे च मया जानक्याश्चिन्तितो विधिः ॥९३॥
चिन्तयामास विश्रान्तः न च मे निर्वृतम् मनः ।सम्भाषण-अर्थे च मया जानक्याः चिन्तितः विधिः ॥९३॥
cintayāmāsa viśrāntaḥ na ca me nirvṛtam manaḥ .sambhāṣaṇa-arthe ca mayā jānakyāḥ cintitaḥ vidhiḥ ..93..
इक्ष्वाकुकुलवंशस्तु ततो मम पुरस्कृतः ।श्रुत्वा तु गदितां वाचं राजर्षिगणपूजिताम् ॥९४॥
इक्ष्वाकु-कुल-वंशः तु ततस् मम पुरस्कृतः ।श्रुत्वा तु गदिताम् वाचम् राजर्षि-गण-पूजिताम् ॥९४॥
ikṣvāku-kula-vaṃśaḥ tu tatas mama puraskṛtaḥ .śrutvā tu gaditām vācam rājarṣi-gaṇa-pūjitām ..94..
प्रत्यभाषत मां देवी बाष्पैः पिहितलोचना ।कस्त्वं केन कथं चेह प्राप्तो वानरपुङ्गव ॥९५॥
प्रत्यभाषत माम् देवी बाष्पैः पिहित-लोचना ।कः त्वम् केन कथम् च इह प्राप्तः वानर-पुङ्गव ॥९५॥
pratyabhāṣata mām devī bāṣpaiḥ pihita-locanā .kaḥ tvam kena katham ca iha prāptaḥ vānara-puṅgava ..95..
का च रामेण ते प्रीतिस्तन्मे शंसितुमर्हसि ।तस्यास्तद्वचनं श्रुत्वा अहमप्यब्रुवं वचः ॥९६॥
का च रामेण ते प्रीतिः तत् मे शंसितुम् अर्हसि ।तस्याः तत् वचनम् श्रुत्वा अहम् अपि अब्रुवम् वचः ॥९६॥
kā ca rāmeṇa te prītiḥ tat me śaṃsitum arhasi .tasyāḥ tat vacanam śrutvā aham api abruvam vacaḥ ..96..
देवि रामस्य भर्तुस्ते सहायो भीमविक्रमः । सुग्रीवो नाम विक्रान्तो वानरेन्दो महाबलः ॥९७॥
देवि रामस्य भर्तुः ते सहायः भीम-विक्रमः । सुग्रीवः नाम विक्रान्तः वानर-इन्दो महा-बलः ॥९७॥
devi rāmasya bhartuḥ te sahāyaḥ bhīma-vikramaḥ . sugrīvaḥ nāma vikrāntaḥ vānara-indo mahā-balaḥ ..97..
तस्य मां विद्धि भृत्यं त्वं हनूमन्तमिहागतम् । भर्त्राहं प्रहितस्तुभ्यं रामेणाक्लिष्टकर्मणा ॥९८॥
तस्य माम् विद्धि भृत्यम् त्वम् हनूमन्तम् इह आगतम् । भर्त्रा अहम् प्रहितः तुभ्यम् रामेण अक्लिष्ट-कर्मणा ॥९८॥
tasya mām viddhi bhṛtyam tvam hanūmantam iha āgatam . bhartrā aham prahitaḥ tubhyam rāmeṇa akliṣṭa-karmaṇā ..98..
इदं च पुरुषव्याघ्रः श्रीमान्दाशरथिः स्वयम् । अङ्गुलीयमभिज्ञानमदात्तुभ्यं यशस्विनि ॥९९॥
इदम् च पुरुष-व्याघ्रः श्रीमान् दाशरथिः स्वयम् । अङ्गुलीयम् अभिज्ञानम् अदात् तुभ्यम् यशस्विनि ॥९९॥
idam ca puruṣa-vyāghraḥ śrīmān dāśarathiḥ svayam . aṅgulīyam abhijñānam adāt tubhyam yaśasvini ..99..
तदिच्छामि त्वयाज्ञप्तं देवि किं करवाण्यहम् । रामलक्ष्मणयोः पार्श्वं नयामि त्वां किमुत्तरम् ॥१००॥
तत् इच्छामि त्वया आज्ञप्तम् देवि किम् करवाणि अहम् । राम-लक्ष्मणयोः पार्श्वम् नयामि त्वाम् किम् उत्तरम् ॥१००॥
tat icchāmi tvayā ājñaptam devi kim karavāṇi aham . rāma-lakṣmaṇayoḥ pārśvam nayāmi tvām kim uttaram ..100..
एतच्छ्रुत्वा विदित्वा च सीता जनकनन्दिनी । आह रावणमुत्साद्य राघवो मां नयत्विति ॥१०१॥
एतत् श्रुत्वा विदित्वा च सीता जनकनन्दिनी । आह रावणम् उत्साद्य राघवः माम् नयतु इति ॥१०१॥
etat śrutvā viditvā ca sītā janakanandinī . āha rāvaṇam utsādya rāghavaḥ mām nayatu iti ..101..
प्रणम्य शिरसा देवीमहमार्यामनिन्दिताम् । राघवस्य मनोह्लादमभिज्ञानमयाचिषम् ॥१०२॥
प्रणम्य शिरसा देवीम् अहम् आर्याम् अनिन्दिताम् । राघवस्य मनः-ह्लादम् अभिज्ञानम् अयाचिषम् ॥१०२॥
praṇamya śirasā devīm aham āryām aninditām . rāghavasya manaḥ-hlādam abhijñānam ayāciṣam ..102..
अथ मामब्रवीत्सीता गृह्यतामयमुत्तमः।मणिर्येन महाबाहू रामस्त्वां बहुमन्यते॥१०३॥
अथ माम् अब्रवीत् सीता गृह्यताम् अयम् उत्तमः।मणिः येन महा-बाहुः रामः त्वाम् बहु मन्यते॥१०३॥
atha mām abravīt sītā gṛhyatām ayam uttamaḥ.maṇiḥ yena mahā-bāhuḥ rāmaḥ tvām bahu manyate..103..
इत्युक्त्वा तु वरारोहा मणिप्रवरमुत्तमम् । प्रायच्छत्परमोद्विग्ना वाचा मां सन्दिदेश ह ॥१०४॥
इति उक्त्वा तु वरारोहा मणि-प्रवरम् उत्तमम् । प्रायच्छत् परम-उद्विग्ना वाचा माम् सन्दिदेश ह ॥१०४॥
iti uktvā tu varārohā maṇi-pravaram uttamam . prāyacchat parama-udvignā vācā mām sandideśa ha ..104..
ततस्तस्यै प्रणम्याहं राजपुत्र्यै समाहितः । प्रदक्षिणं परिक्राममिहाभ्युद्गतमानसः ॥१०५॥
ततस् तस्यै प्रणम्य अहम् राज-पुत्र्यै समाहितः । प्रदक्षिणम् परिक्रामम् इह अभ्युद्गत-मानसः ॥१०५॥
tatas tasyai praṇamya aham rāja-putryai samāhitaḥ . pradakṣiṇam parikrāmam iha abhyudgata-mānasaḥ ..105..
उत्तरं पुनरेवाह निश्चित्य मनसा तदा । हनूमन्मम वृत्तान्तं वक्तुमर्हसि राघवे ॥१०६॥
उत्तरम् पुनर् एव आह निश्चित्य मनसा तदा । हनूमन् मम वृत्तान्तम् वक्तुम् अर्हसि राघवे ॥१०६॥
uttaram punar eva āha niścitya manasā tadā . hanūman mama vṛttāntam vaktum arhasi rāghave ..106..
यथा श्रुत्वैव नचिरात्तावुभौ रामलक्ष्मणौ । सुग्रीवसहितौ वीरावुपेयातां तथा कुरु ॥१०७॥
यथा श्रुत्वा एव नचिरात् तौ उभौ राम-लक्ष्मणौ । सुग्रीव-सहितौ वीरौ उपेयाताम् तथा कुरु ॥१०७॥
yathā śrutvā eva nacirāt tau ubhau rāma-lakṣmaṇau . sugrīva-sahitau vīrau upeyātām tathā kuru ..107..
यद्यन्यथा भवेदेतद्द्वौ मासौ जीवितं मम । न मां द्रक्ष्यति काकुत्स्थो म्रिये साहमनाथवत् ॥१०८॥
यदि अन्यथा भवेत् एतत् द्वौ मासौ जीवितम् मम । न माम् द्रक्ष्यति काकुत्स्थः म्रिये सा अहम् अनाथ-वत् ॥१०८॥
yadi anyathā bhavet etat dvau māsau jīvitam mama . na mām drakṣyati kākutsthaḥ mriye sā aham anātha-vat ..108..
तच्छ्रुत्वा करुणं वाक्यं क्रोधो माम् अभ्यवर्तत । उत्तरं च मया दृष्टं कार्यशेषमनन्तरम् ॥१०९॥
तत् श्रुत्वा करुणम् वाक्यम् क्रोधः माम् अभ्यवर्तत । उत्तरम् च मया दृष्टम् कार्य-शेषम् अनन्तरम् ॥१०९॥
tat śrutvā karuṇam vākyam krodhaḥ mām abhyavartata . uttaram ca mayā dṛṣṭam kārya-śeṣam anantaram ..109..
ततोऽवर्धत मे कायस्तदा पर्वतसंनिभः । युद्धकाङ्क्षी वनं तच्च विनाशयितुमारभे ॥११०॥
ततस् अवर्धत मे कायः तदा पर्वत-संनिभः । युद्ध-काङ्क्षी वनम् तत् च विनाशयितुम् आरभे ॥११०॥
tatas avardhata me kāyaḥ tadā parvata-saṃnibhaḥ . yuddha-kāṅkṣī vanam tat ca vināśayitum ārabhe ..110..
तद्भग्नं वनषण्डं तु भ्रान्तत्रस्तमृगद्विजम् । प्रतिबुद्धा निरीक्षन्ते राक्षस्यो विकृताननाः ॥१११॥
तत् भग्नम् वन-षण्डम् तु भ्रान्त-त्रस्त-मृग-द्विजम् । प्रतिबुद्धाः निरीक्षन्ते राक्षस्यः विकृत-आननाः ॥१११॥
tat bhagnam vana-ṣaṇḍam tu bhrānta-trasta-mṛga-dvijam . pratibuddhāḥ nirīkṣante rākṣasyaḥ vikṛta-ānanāḥ ..111..
मां च दृष्ट्वा वने तस्मिन्समागम्य ततस्ततः । ताः समभ्यागताः क्षिप्रं रावणायाचचक्षिरे ॥११२॥
माम् च दृष्ट्वा वने तस्मिन् समागम्य ततस् ततस् । ताः समभ्यागताः क्षिप्रम् रावणाय आचचक्षिरे ॥११२॥
mām ca dṛṣṭvā vane tasmin samāgamya tatas tatas . tāḥ samabhyāgatāḥ kṣipram rāvaṇāya ācacakṣire ..112..
राजन्वनमिदं दुर्गं तव भग्नं दुरात्मना । वानरेण ह्यविज्ञाय तव वीर्यं महाबल ॥११३॥
राजन् वनम् इदम् दुर्गम् तव भग्नम् दुरात्मना । वानरेण हि अ विज्ञाय तव वीर्यम् महा-बल ॥११३॥
rājan vanam idam durgam tava bhagnam durātmanā . vānareṇa hi a vijñāya tava vīryam mahā-bala ..113..
तस्य दुर्बुद्धिती राजंस्तव विप्रियकारिणः । वधमाज्ञापय क्षिप्रं यथासौ विलयं व्रजेत् ॥११४॥
तस्य दुर्बुद्धितिः राजन् तव विप्रिय-कारिणः । वधम् आज्ञापय क्षिप्रम् यथा असौ विलयम् व्रजेत् ॥११४॥
tasya durbuddhitiḥ rājan tava vipriya-kāriṇaḥ . vadham ājñāpaya kṣipram yathā asau vilayam vrajet ..114..
तच्छ्रुत्वा राक्षसेन्द्रेण विसृष्टा भृशदुर्जयाः । राक्षसाः किङ्करा नाम रावणस्य मनोऽनुगाः ॥११५॥
तत् श्रुत्वा राक्षस-इन्द्रेण विसृष्टाः भृश-दुर्जयाः । राक्षसाः किङ्कराः नाम रावणस्य मनः-अनुगाः ॥११५॥
tat śrutvā rākṣasa-indreṇa visṛṣṭāḥ bhṛśa-durjayāḥ . rākṣasāḥ kiṅkarāḥ nāma rāvaṇasya manaḥ-anugāḥ ..115..
तेषामशीतिसाहस्रं शूलमुद्गरपाणिनाम् । मया तस्मिन्वनोद्देशे परिघेण निषूदितम् ॥११६॥
तेषाम् अशीति-साहस्रम् शूल-मुद्गर-पाणिनाम् । मया तस्मिन् वन-उद्देशे परिघेण निषूदितम् ॥११६॥
teṣām aśīti-sāhasram śūla-mudgara-pāṇinām . mayā tasmin vana-uddeśe parigheṇa niṣūditam ..116..
तेषां तु हतशेषा ये ते गता लघुविक्रमाः । निहतं च मया सैन्यं रावणायाचचक्षिरे ॥११७॥
तेषाम् तु हत-शेषाः ये ते गताः लघु-विक्रमाः । निहतम् च मया सैन्यम् रावणाय आचचक्षिरे ॥११७॥
teṣām tu hata-śeṣāḥ ye te gatāḥ laghu-vikramāḥ . nihatam ca mayā sainyam rāvaṇāya ācacakṣire ..117..
ततो मे बुद्धिरुत्पन्ना चैत्यप्रासादमाक्रमम् ।तत्रस्थान्राक्षसान्हत्वा शतं स्तम्भेन वै पुनः ॥११८॥
ततस् मे बुद्धिः उत्पन्ना चैत्य-प्रासादम् आक्रमम् ।तत्रस्थान् राक्षसान् हत्वा शतम् स्तम्भेन वै पुनर् ॥११८॥
tatas me buddhiḥ utpannā caitya-prāsādam ākramam .tatrasthān rākṣasān hatvā śatam stambhena vai punar ..118..
ललाम भूतो लङ्काया मया विध्वंसितो रुषा ।ततः प्रहस्तस्य सुतं जम्बुमालिनमादिशत् ॥११९॥
ललाम भूतः लङ्कायाः मया विध्वंसितः रुषा ।ततस् प्रहस्तस्य सुतम् जम्बुमालिनम् आदिशत् ॥११९॥
lalāma bhūtaḥ laṅkāyāḥ mayā vidhvaṃsitaḥ ruṣā .tatas prahastasya sutam jambumālinam ādiśat ..119..
राक्षसैर्बहुभिस्सार्धं घोररूपैर्भयानकैः।तमहं बलसम्पन्नं राक्षसं रणकोविदम् ॥१२०॥
राक्षसैः बहुभिः सार्धम् घोर-रूपैः भयानकैः।तम् अहम् बल-सम्पन्नम् राक्षसम् रण-कोविदम् ॥१२०॥
rākṣasaiḥ bahubhiḥ sārdham ghora-rūpaiḥ bhayānakaiḥ.tam aham bala-sampannam rākṣasam raṇa-kovidam ..120..
परिघेणातिघोरेण सूदयामि सहानुगम् ।तच्छ्रुत्वा राक्षसेन्द्रस्तु मन्त्रिपुत्रान्महाबलान् ॥१२१॥
परिघेण अति घोरेण सूदयामि सह अनुगम् ।तत् श्रुत्वा राक्षस-इन्द्रः तु मन्त्रि-पुत्रान् महा-बलान् ॥१२१॥
parigheṇa ati ghoreṇa sūdayāmi saha anugam .tat śrutvā rākṣasa-indraḥ tu mantri-putrān mahā-balān ..121..
पदातिबलसम्पन्नान्प्रेषयामास रावणः ।परिघेणैव तान् सर्वान्नयामि यमसादनम्॥१२२॥
पदाति-बल-सम्पन्नान् प्रेषयामास रावणः ।परिघेण एव तान् सर्वान् नयामि यम-सादनम्॥१२२॥
padāti-bala-sampannān preṣayāmāsa rāvaṇaḥ .parigheṇa eva tān sarvān nayāmi yama-sādanam..122..
मन्त्रिपुत्रान्हताञ्श्रुत्वा समरे लघुविक्रमान् । पञ्चसेनाग्रगाञ्शूरान्प्रेषयामास रावणः ॥१२३॥
मन्त्रि-पुत्रान् हतान् श्रुत्वा समरे लघु-विक्रमान् । पञ्च-सेना-अग्रगान् शूरान् प्रेषयामास रावणः ॥१२३॥
mantri-putrān hatān śrutvā samare laghu-vikramān . pañca-senā-agragān śūrān preṣayāmāsa rāvaṇaḥ ..123..
तानहं सहसैन्यान्वै सर्वानेवाभ्यसूदयम्।ततः पुनर्दशग्रीवः पुत्रमक्षं महाबलम् ॥१२४॥
तान् अहम् सह सैन्यान् वै सर्वान् एव अभ्यसूदयम्।ततस् पुनर् दशग्रीवः पुत्रम् अक्षम् महा-बलम् ॥१२४॥
tān aham saha sainyān vai sarvān eva abhyasūdayam.tatas punar daśagrīvaḥ putram akṣam mahā-balam ..124..
बहुभी राकसैः सार्धं प्रेषयामास संयुगे ।तं तु मन्दोदरी पुत्रं कुमारं रणपण्डितम् ॥१२५॥
बहुभिः राकसैः सार्धम् प्रेषयामास संयुगे ।तम् तु मन्दोदरी पुत्रम् कुमारम् रण-पण्डितम् ॥१२५॥
bahubhiḥ rākasaiḥ sārdham preṣayāmāsa saṃyuge .tam tu mandodarī putram kumāram raṇa-paṇḍitam ..125..
सहसा खं समुत्क्रान्तं पादयोश्च गृहीतवान् ।तमासिनं शतगुणं भ्रामयित्वा व्यपेषयम्॥१२६॥
सहसा खम् समुत्क्रान्तम् पादयोः च गृहीतवान् ।तम् आसिनम् शतगुणम् भ्रामयित्वा व्यपेषयम्॥१२६॥
sahasā kham samutkrāntam pādayoḥ ca gṛhītavān .tam āsinam śataguṇam bhrāmayitvā vyapeṣayam..126..
तमक्षमागतं भग्नं निशम्य स दशाननः । तत इन्द्रजितं नाम द्वितीयं रावणः सुतम् ॥१२७॥
तम् अक्षम् आगतम् भग्नम् निशम्य स दशाननः । ततस् इन्द्रजितम् नाम द्वितीयम् रावणः सुतम् ॥१२७॥
tam akṣam āgatam bhagnam niśamya sa daśānanaḥ . tatas indrajitam nāma dvitīyam rāvaṇaḥ sutam ..127..
व्यादिदेश सुसंकृद्धो बलिनम् युद्धदुर्मदम्।तस्याप्यहं बलं सर्वं तं च राक्षसपुङ्गवम् ॥१२८॥
व्यादिदेश सु संकृद्धः बलिनम् युद्ध-दुर्मदम्।तस्य अपि अहम् बलम् सर्वम् तम् च राक्षस-पुङ्गवम् ॥१२८॥
vyādideśa su saṃkṛddhaḥ balinam yuddha-durmadam.tasya api aham balam sarvam tam ca rākṣasa-puṅgavam ..128..
नष्टौजसं रणे कृत्वा परं हर्षमुपागमम् ।महतापि महाबाहुः प्रत्ययेन महाबलः ॥१२९॥
नष्ट-ओजसम् रणे कृत्वा परम् हर्षम् उपागमम् ।महता अपि महा-बाहुः प्रत्ययेन महा-बलः ॥१२९॥
naṣṭa-ojasam raṇe kṛtvā param harṣam upāgamam .mahatā api mahā-bāhuḥ pratyayena mahā-balaḥ ..129..
प्रेषितो रावणेनैष सह वीरैर्मदोत्कटैः ।सोऽविषह्यं हि मां बुद्ध्वा स्वं बलं चावमर्दितम्॥१३०॥
प्रेषितः रावणेन एष सह वीरैः मद-उत्कटैः ।सः अविषह्यम् हि माम् बुद्ध्वा स्वम् बलम् च अवमर्दितम्॥१३०॥
preṣitaḥ rāvaṇena eṣa saha vīraiḥ mada-utkaṭaiḥ .saḥ aviṣahyam hi mām buddhvā svam balam ca avamarditam..130..
ब्राह्मेणास्त्रेण स तु मां प्रबध्नाच्चातिवेगतः । रज्जूभिरभिबध्नन्ति ततो मां तत्र राक्षसाः ॥१३१॥
ब्राह्मेण अस्त्रेण स तु माम् प्रबध्नात् च अतिवेगतः । रज्जूभिः अभिबध्नन्ति ततस् माम् तत्र राक्षसाः ॥१३१॥
brāhmeṇa astreṇa sa tu mām prabadhnāt ca ativegataḥ . rajjūbhiḥ abhibadhnanti tatas mām tatra rākṣasāḥ ..131..
रावणस्य समीपं च गृहीत्वा मामुपानयन् । दृष्ट्वा सम्भाषितश्चाहं रावणेन दुरात्मना ॥१३२॥
रावणस्य समीपम् च गृहीत्वा माम् उपानयन् । दृष्ट्वा सम्भाषितः च अहम् रावणेन दुरात्मना ॥१३२॥
rāvaṇasya samīpam ca gṛhītvā mām upānayan . dṛṣṭvā sambhāṣitaḥ ca aham rāvaṇena durātmanā ..132..
पृष्टश्च लङ्कागमनं राक्षसानां च तद्वधम् । तत्सर्वं च मया तत्र सीतार्थमिति जल्पितम् ॥१३३॥
पृष्टः च लङ्का-आगमनम् राक्षसानाम् च तद्-वधम् । तत् सर्वम् च मया तत्र सीता-अर्थम् इति जल्पितम् ॥१३३॥
pṛṣṭaḥ ca laṅkā-āgamanam rākṣasānām ca tad-vadham . tat sarvam ca mayā tatra sītā-artham iti jalpitam ..133..
तस्यासतु दर्शनाकाङ्क्षी प्राप्तस्त्वद्भवनं विभो । मारुतस्यौरसः पुत्रो वानरो हनुमानहम् ॥१३४॥
तस्य आसतु दर्शन-आकाङ्क्षी प्राप्तः त्वद्-भवनम् विभो । मारुतस्य औरसः पुत्रः वानरः हनुमान् अहम् ॥१३४॥
tasya āsatu darśana-ākāṅkṣī prāptaḥ tvad-bhavanam vibho . mārutasya aurasaḥ putraḥ vānaraḥ hanumān aham ..134..
रामदूतं च मां विद्धि सुग्रीवसचिवं कपिम् । सोऽहं दौत्येन रामस्य त्वत्समीपमिहागतः ॥१३५॥
राम-दूतम् च माम् विद्धि सुग्रीव-सचिवम् कपिम् । सः अहम् दौत्येन रामस्य त्वद्-समीपम् इह आगतः ॥१३५॥
rāma-dūtam ca mām viddhi sugrīva-sacivam kapim . saḥ aham dautyena rāmasya tvad-samīpam iha āgataḥ ..135..
शृणु चापि समादेशं यदहं प्रब्रवीमि ते । राक्षसेश हरीशस्त्वां वाक्यमाह समाहितम् ॥१३६॥
शृणु च अपि समादेशम् यत् अहम् प्रब्रवीमि ते । राक्षस-ईश हरि-ईशः त्वाम् वाक्यम् आह समाहितम् ॥१३६॥
śṛṇu ca api samādeśam yat aham prabravīmi te . rākṣasa-īśa hari-īśaḥ tvām vākyam āha samāhitam ..136..
सुग्रीवश्च महातेजास्सत्वां कुशलमब्रवीत्।धर्मार्थकामसहितं हितं पथ्यमुवाच च॥१३७॥
सुग्रीवः च महा-तेजाः सत्वाम् कुशलम् अब्रवीत्।धर्म-अर्थ-काम-सहितम् हितम् पथ्यम् उवाच च॥१३७॥
sugrīvaḥ ca mahā-tejāḥ satvām kuśalam abravīt.dharma-artha-kāma-sahitam hitam pathyam uvāca ca..137..
वसतो ऋष्यमूके मे पर्वते विपुलद्रुमे । राघवो रणविक्रान्तो मित्रत्वं समुपागतः ॥१३८॥
वसतः ऋष्यमूके मे पर्वते विपुल-द्रुमे । राघवः रण-विक्रान्तः मित्र-त्वम् समुपागतः ॥१३८॥
vasataḥ ṛṣyamūke me parvate vipula-drume . rāghavaḥ raṇa-vikrāntaḥ mitra-tvam samupāgataḥ ..138..
तेन मे कथितं राजन्भार्या मे रक्षसा हृता । तत्र साहाय्यहेतोर्मे समयं कर्तुमर्हसि ॥१३९॥
तेन मे कथितम् राजन् भार्या मे रक्षसा हृता । तत्र साहाय्य-हेतोः मे समयम् कर्तुम् अर्हसि ॥१३९॥
tena me kathitam rājan bhāryā me rakṣasā hṛtā . tatra sāhāyya-hetoḥ me samayam kartum arhasi ..139..
वालिना हृतराज्येन सुग्रीवेण सह प्रभुः । चक्रेऽग्निसाक्षिकं सक्यं राघवः सहलक्ष्मणः ॥१४०॥
वालिना हृत-राज्येन सुग्रीवेण सह प्रभुः । चक्रे अग्नि-साक्षिकम् सक्यम् राघवः सहलक्ष्मणः ॥१४०॥
vālinā hṛta-rājyena sugrīveṇa saha prabhuḥ . cakre agni-sākṣikam sakyam rāghavaḥ sahalakṣmaṇaḥ ..140..
तेन वालिनमुत्साद्य शरेणैकेन संयुगे । वानराणां महाराजः कृतः सम्प्लवतां प्रभुः ॥१४१॥
तेन वालिनम् उत्साद्य शरेण एकेन संयुगे । वानराणाम् महा-राजः कृतः सम्प्लवताम् प्रभुः ॥१४१॥
tena vālinam utsādya śareṇa ekena saṃyuge . vānarāṇām mahā-rājaḥ kṛtaḥ samplavatām prabhuḥ ..141..
तस्य साहाय्यमस्माभिः कार्यं सर्वात्मना त्विह । तेन प्रस्थापितस्तुभ्यं समीपमिह धर्मतः ॥१४२॥
तस्य साहाय्यम् अस्माभिः कार्यम् सर्व-आत्मना तु इह । तेन प्रस्थापितः तुभ्यम् समीपम् इह धर्मतः ॥१४२॥
tasya sāhāyyam asmābhiḥ kāryam sarva-ātmanā tu iha . tena prasthāpitaḥ tubhyam samīpam iha dharmataḥ ..142..
क्षिप्रमानीयतां सीता दीयतां राघवस्य च । यावन्न हरयो वीरा विधमन्ति बलं तव ॥१४३॥
क्षिप्रम् आनीयताम् सीता दीयताम् राघवस्य च । यावत् न हरयः वीराः विधमन्ति बलम् तव ॥१४३॥
kṣipram ānīyatām sītā dīyatām rāghavasya ca . yāvat na harayaḥ vīrāḥ vidhamanti balam tava ..143..
वानराणां प्रभवो हि न केन विदितः पुरा । देवतानां सकाशं च ये गच्छन्ति निमन्त्रिताः ॥१४४॥
वानराणाम् प्रभवः हि न केन विदितः पुरा । देवतानाम् सकाशम् च ये गच्छन्ति निमन्त्रिताः ॥१४४॥
vānarāṇām prabhavaḥ hi na kena viditaḥ purā . devatānām sakāśam ca ye gacchanti nimantritāḥ ..144..
इति वानरराजस्त्वामाहेत्यभिहितो मया । मामैक्षत ततो रुष्टश्चक्षुषा प्रदहन्निव ॥१४५॥
इति वानर-राजः त्वाम् आह इति अभिहितः मया । माम् ऐक्षत ततस् रुष्टः चक्षुषा प्रदहन् इव ॥१४५॥
iti vānara-rājaḥ tvām āha iti abhihitaḥ mayā . mām aikṣata tatas ruṣṭaḥ cakṣuṣā pradahan iva ..145..
तेन वध्योऽहमाज्ञप्तो रक्षसा रौद्रकर्मणा।मत्प्रभावमविज्ञाय रावणेन दुरात्मना॥१४६॥
तेन वध्यः अहम् आज्ञप्तः रक्षसा रौद्र-कर्मणा।मद्-प्रभावम् अ विज्ञाय रावणेन दुरात्मना॥१४६॥
tena vadhyaḥ aham ājñaptaḥ rakṣasā raudra-karmaṇā.mad-prabhāvam a vijñāya rāvaṇena durātmanā..146..
ततो विभीषणो नाम तस्य भ्राता महामतिः । तेन राक्षसराजोऽसौ याचितो मम कारणात् ॥१४७॥
ततस् विभीषणः नाम तस्य भ्राता महामतिः । तेन राक्षस-राजः असौ याचितः मम कारणात् ॥१४७॥
tatas vibhīṣaṇaḥ nāma tasya bhrātā mahāmatiḥ . tena rākṣasa-rājaḥ asau yācitaḥ mama kāraṇāt ..147..
नैवं राक्षसशार्दूल त्यज्यतामेष निश्चयः।राजशास्त्रव्यपेतो हि मार्गः संसेव्यते त्वया॥।१४८॥
न एवम् राक्षस-शार्दूल त्यज्यताम् एष निश्चयः।राज-शास्त्र-व्यपेतः हि मार्गः संसेव्यते त्वया॥।१४८॥
na evam rākṣasa-śārdūla tyajyatām eṣa niścayaḥ.rāja-śāstra-vyapetaḥ hi mārgaḥ saṃsevyate tvayā...148..
दूतवध्या न दृष्टा हि राजशास्त्रेषु राक्षस । दूतेन वेदितव्यं च यथार्थं हितवादिना ॥१४९॥
दूत-वध्या न दृष्टा हि राज-शास्त्रेषु राक्षस । दूतेन वेदितव्यम् च यथार्थम् हित-वादिना ॥१४९॥
dūta-vadhyā na dṛṣṭā hi rāja-śāstreṣu rākṣasa . dūtena veditavyam ca yathārtham hita-vādinā ..149..
सुमहत्यपराधेऽपि दूतस्यातुलविक्रमः । विरूपकरणं दृष्टं न वधोऽस्तीह शास्त्रतः ॥१५०॥
सु महति अपराधे अपि दूतस्य अतुल-विक्रमः । विरूप-करणम् दृष्टम् न वधः अस्ति इह शास्त्रतः ॥१५०॥
su mahati aparādhe api dūtasya atula-vikramaḥ . virūpa-karaṇam dṛṣṭam na vadhaḥ asti iha śāstrataḥ ..150..
विभीषणेनैवमुक्तो रावणः सन्दिदेश तान् । राक्षसानेतदेवाद्य लाङ्गूलं दह्यताम् इति ॥१५१॥
विभीषणेन एवम् उक्तः रावणः सन्दिदेश तान् । राक्षसान् एतत् एव अद्य लाङ्गूलम् दह्यताम् इति ॥१५१॥
vibhīṣaṇena evam uktaḥ rāvaṇaḥ sandideśa tān . rākṣasān etat eva adya lāṅgūlam dahyatām iti ..151..
ततस्तस्य वचः श्रुत्वा मम पुच्छं समन्ततः । वेष्टितं शणवल्कैश्च पटैः कार्पासकैस्तथा ॥१५२॥
ततस् तस्य वचः श्रुत्वा मम पुच्छम् समन्ततः । वेष्टितम् शण-वल्कैः च पटैः कार्पासकैः तथा ॥१५२॥
tatas tasya vacaḥ śrutvā mama puccham samantataḥ . veṣṭitam śaṇa-valkaiḥ ca paṭaiḥ kārpāsakaiḥ tathā ..152..
राक्षसाः सिद्धसंनाहास्ततस्ते चण्डविक्रमाः । तदादीप्यन्त मे पुच्छं हनन्तः काष्ठमुष्टिभिः ॥१५३॥
राक्षसाः सिद्ध-संनाहाः ततस् ते चण्ड-विक्रमाः । तदा अदीप्यन्त मे पुच्छम् हनन्तः काष्ठ-मुष्टिभिः ॥१५३॥
rākṣasāḥ siddha-saṃnāhāḥ tatas te caṇḍa-vikramāḥ . tadā adīpyanta me puccham hanantaḥ kāṣṭha-muṣṭibhiḥ ..153..
बद्धस्य बहुभिः पाशैर्यन्त्रितस्य च राक्षसैः । न मे पीडा भवेत्का चिद्दिदृक्षोर्नगरीं दिवा ॥१५४॥
बद्धस्य बहुभिः पाशैः यन्त्रितस्य च राक्षसैः । न मे पीडा भवेत् का चित् दिदृक्षोः नगरीम् दिवा ॥१५४॥
baddhasya bahubhiḥ pāśaiḥ yantritasya ca rākṣasaiḥ . na me pīḍā bhavet kā cit didṛkṣoḥ nagarīm divā ..154..
ततस्ते राक्षसाः शूरा बद्धं मामग्निसंवृतम् । अघोषयन्राजमार्गे नगरद्वारमागताः ॥१५५॥
ततस् ते राक्षसाः शूराः बद्धम् माम् अग्नि-संवृतम् । अघोषयन् राजमार्गे नगर-द्वारम् आगताः ॥१५५॥
tatas te rākṣasāḥ śūrāḥ baddham mām agni-saṃvṛtam . aghoṣayan rājamārge nagara-dvāram āgatāḥ ..155..
ततोऽहं सुमहद्रूपं सङ्क्षिप्य पुनरात्मनः । विमोचयित्वा तं बन्धं प्रकृतिष्ठः स्थितः पुनः ॥१५६॥
ततस् अहम् सु महत् रूपम् सङ्क्षिप्य पुनर् आत्मनः । विमोचयित्वा तम् बन्धम् प्रकृतिष्ठः स्थितः पुनर् ॥१५६॥
tatas aham su mahat rūpam saṅkṣipya punar ātmanaḥ . vimocayitvā tam bandham prakṛtiṣṭhaḥ sthitaḥ punar ..156..
आयसं परिघं गृह्य तानि रक्षांस्यसूदयम् । ततस्तन्नगरद्वारं वेगेनाप्लुतवानहम् ॥१५७॥
आयसम् परिघम् गृह्य तानि रक्षांसि असूदयम् । ततस् तत् नगर-द्वारम् वेगेन आप्लुतवान् अहम् ॥१५७॥
āyasam parigham gṛhya tāni rakṣāṃsi asūdayam . tatas tat nagara-dvāram vegena āplutavān aham ..157..
पुच्छेन च प्रदीप्तेन तां पुरीं साट्टगोपुराम् । दहाम्यहमसम्भ्रान्तो युगान्ताग्निरिव प्रजाः ॥१५८॥
पुच्छेन च प्रदीप्तेन ताम् पुरीम् स अट्ट-गोपुराम् । दहामि अहम् असम्भ्रान्तः युगान्त-अग्निः इव प्रजाः ॥१५८॥
pucchena ca pradīptena tām purīm sa aṭṭa-gopurām . dahāmi aham asambhrāntaḥ yugānta-agniḥ iva prajāḥ ..158..
विनष्टा जानकी व्यक्तं न ह्यदग्धः प्रदृश्यते।लङ्कायां कश्चिदुद्धेशः सर्वा भस्मीकृता पुरी॥१५९॥
विनष्टा जानकी व्यक्तम् न हि अदग्धः प्रदृश्यते।लङ्कायाम् कश्चिद् उद्धेशः सर्वा भस्मीकृता पुरी॥१५९॥
vinaṣṭā jānakī vyaktam na hi adagdhaḥ pradṛśyate.laṅkāyām kaścid uddheśaḥ sarvā bhasmīkṛtā purī..159..
दहता च मया लङ्कां दघ्दा सीता न संशयः ।रामस्य हि महत्कार्यं मयेदं वितथीकृतम्॥१६०॥
दहता च मया लङ्काम् दघ्दा सीता न संशयः ।रामस्य हि महत् कार्यम् मया इदम् वितथीकृतम्॥१६०॥
dahatā ca mayā laṅkām daghdā sītā na saṃśayaḥ .rāmasya hi mahat kāryam mayā idam vitathīkṛtam..160..
इति शोकसमाविष्टश्चिन्तामहमुपागतः।अथाहं वाचमश्रौषं चारणानां शुभाक्षराम्॥१६१॥
इति शोक-समाविष्टः चिन्ताम् अहम् उपागतः।अथ अहम् वाचम् अश्रौषम् चारणानाम् शुभ-अक्षराम्॥१६१॥
iti śoka-samāviṣṭaḥ cintām aham upāgataḥ.atha aham vācam aśrauṣam cāraṇānām śubha-akṣarām..161..
जानकी न च दग्धेति विस्मयोदन्तभाषिणाम्।ततो मे बुद्धिरुत्पन्ना श्रुत्वा तामद्भुतां गिरम्॥१६२॥
जानकी न च दग्धा इति विस्मय-उदन्त-भाषिणाम्।ततस् मे बुद्धिः उत्पन्ना श्रुत्वा ताम् अद्भुताम् गिरम्॥१६२॥
jānakī na ca dagdhā iti vismaya-udanta-bhāṣiṇām.tatas me buddhiḥ utpannā śrutvā tām adbhutām giram..162..
अदग्धा जानकीत्येवं निमित्तैश्चोपलक्षिता।दीप्यमाने तु लाङ्गूले न मां दहति पावकः॥१६३॥
अदग्धा जानकी इति एवम् निमित्तैः च उपलक्षिता।दीप्यमाने तु लाङ्गूले न माम् दहति पावकः॥१६३॥
adagdhā jānakī iti evam nimittaiḥ ca upalakṣitā.dīpyamāne tu lāṅgūle na mām dahati pāvakaḥ..163..
हृदयं च प्रहृष्टं मे वातास्सुरभिगन्धिनः।तैर्निमित्तैश्च दृष्टाथै: कारणैश्च महागुणैः॥१६४॥
हृदयम् च प्रहृष्टम् मे वाताः सुरभि-गन्धिनः।तैः निमित्तैः च कारणैः च महा-गुणैः॥१६४॥
hṛdayam ca prahṛṣṭam me vātāḥ surabhi-gandhinaḥ.taiḥ nimittaiḥ ca kāraṇaiḥ ca mahā-guṇaiḥ..164..
ऋषिवाक्यैश्च सिद्धार्थैरभवं हृष्टमानसः।पुनर्दृष्ट्वा च वैदेहीं विसृष्टश्च तया पुनः॥१६५॥
ऋषि-वाक्यैः च सिद्धार्थैः अभवम् हृष्ट-मानसः।पुनर् दृष्ट्वा च वैदेहीम् विसृष्टः च तया पुनर्॥१६५॥
ṛṣi-vākyaiḥ ca siddhārthaiḥ abhavam hṛṣṭa-mānasaḥ.punar dṛṣṭvā ca vaidehīm visṛṣṭaḥ ca tayā punar..165..
ततः पर्वतमासाद्य तत्रारिष्टमहं पुनः।प्रतिप्लवनमारेभे युष्मद्धर्शनकांक्षया॥१६६॥
ततस् पर्वतम् आसाद्य तत्र अरिष्टमहम् पुनर्।प्रतिप्लवनम् आरेभे युष्मद्-धर्शन-कांक्षया॥१६६॥
tatas parvatam āsādya tatra ariṣṭamaham punar.pratiplavanam ārebhe yuṣmad-dharśana-kāṃkṣayā..166..
ततः पवनचन्द्रार्कसिद्धगन्धर्वसेवितम्।पन्थानमहमाक्रम्य भवतो दृष्टवानिह॥१६७॥
ततस् पवन-चन्द्र-अर्क-सिद्ध-गन्धर्व-सेवितम्।पन्थानम् अहम् आक्रम्य भवतः दृष्टवान् इह॥१६७॥
tatas pavana-candra-arka-siddha-gandharva-sevitam.panthānam aham ākramya bhavataḥ dṛṣṭavān iha..167..
राघवस्य प्रभावेन भवतां चैव तेजसा । सुग्रीवस्य च कार्यार्थं मया सर्वमनुष्ठितम् ॥१६८॥
राघवस्य प्रभावेन भवताम् च एव तेजसा । सुग्रीवस्य च कार्य-अर्थम् मया सर्वम् अनुष्ठितम् ॥१६८॥
rāghavasya prabhāvena bhavatām ca eva tejasā . sugrīvasya ca kārya-artham mayā sarvam anuṣṭhitam ..168..
एतत्सर्वं मया तत्र यथावदुपपादितम् ।तत्र यन्न कृतं शेषं तत्सर्वं क्रियताम् इति ॥१६९॥
एतत् सर्वम् मया तत्र यथावत् उपपादितम् ।तत्र यत् न कृतम् शेषम् तत् सर्वम् क्रियताम् इति ॥१६९॥
etat sarvam mayā tatra yathāvat upapāditam .tatra yat na kṛtam śeṣam tat sarvam kriyatām iti ..169..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In