This overlay will guide you through the buttons:

| |
|
स निकामं विनामेषु विचरन्कामरूपधृक् । विचचार कपिर्लङ्कां लाघवेन समन्वितः ॥ १॥
स निकामम् विनामेषु विचरन् काम-रूप-धृक् । विचचार कपिः लङ्काम् लाघवेन समन्वितः ॥ १॥
sa nikāmam vināmeṣu vicaran kāma-rūpa-dhṛk . vicacāra kapiḥ laṅkām lāghavena samanvitaḥ .. 1..
आससादाथ लक्ष्मीवान्राक्षसेन्द्रनिवेशनम् । प्राकारेणार्कवर्णेन भास्वरेणाभिसंवृतम् ॥ २॥
आससाद अथ लक्ष्मीवान् राक्षस-इन्द्र-निवेशनम् । प्राकारेण अर्क-वर्णेन भास्वरेण अभिसंवृतम् ॥ २॥
āsasāda atha lakṣmīvān rākṣasa-indra-niveśanam . prākāreṇa arka-varṇena bhāsvareṇa abhisaṃvṛtam .. 2..
रक्षितं राक्षसैर्भीमैः सिंहैरिव महद्वनम् । समीक्षमाणो भवनं चकाशे कपिकुञ्जरः ॥ ३॥
रक्षितम् राक्षसैः भीमैः सिंहैः इव महत् वनम् । समीक्षमाणः भवनम् चकाशे कपि-कुञ्जरः ॥ ३॥
rakṣitam rākṣasaiḥ bhīmaiḥ siṃhaiḥ iva mahat vanam . samīkṣamāṇaḥ bhavanam cakāśe kapi-kuñjaraḥ .. 3..
रूप्यकोपहितैश्चित्रैस्तोरणैर्हेमभूषितैः । विचित्राभिश्च कक्ष्याभिर्द्वारैश्च रुचिरैर्वृतम् ॥ ४॥
रूप्यक-उपहितैः चित्रैः तोरणैः हेम-भूषितैः । विचित्राभिः च कक्ष्याभिः द्वारैः च रुचिरैः वृतम् ॥ ४॥
rūpyaka-upahitaiḥ citraiḥ toraṇaiḥ hema-bhūṣitaiḥ . vicitrābhiḥ ca kakṣyābhiḥ dvāraiḥ ca ruciraiḥ vṛtam .. 4..
गजास्थितैर्महामात्रैः शूरैश्च विगतश्रमैः । उपस्थितमसंहार्यैर्हयैः स्यन्दनयायिभिः ॥ ५॥
गज-आस्थितैः महामात्रैः शूरैः च विगत-श्रमैः । उपस्थितम् असंहार्यैः हयैः स्यन्दन-यायिभिः ॥ ५॥
gaja-āsthitaiḥ mahāmātraiḥ śūraiḥ ca vigata-śramaiḥ . upasthitam asaṃhāryaiḥ hayaiḥ syandana-yāyibhiḥ .. 5..
सिंहव्याघ्रतनुत्राणैर्दान्तकाञ्चनराजतैः । घोषवद्भिर्विचित्रैश्च सदा विचरितं रथैः ॥ ६॥
सिंह-व्याघ्र-तनुत्राणैः दान्त-काञ्चन-राजतैः । घोषवद्भिः विचित्रैः च सदा विचरितम् रथैः ॥ ६॥
siṃha-vyāghra-tanutrāṇaiḥ dānta-kāñcana-rājataiḥ . ghoṣavadbhiḥ vicitraiḥ ca sadā vicaritam rathaiḥ .. 6..
बहुरत्नसमाकीर्णं परार्ध्यासनभाजनम् । महारथसमावासं महारथमहासनम् ॥ ७॥
बहु-रत्न-समाकीर्णम् परार्ध्य-आसन-भाजनम् । महा-रथ-समावासम् महा-रथ-महा-आसनम् ॥ ७॥
bahu-ratna-samākīrṇam parārdhya-āsana-bhājanam . mahā-ratha-samāvāsam mahā-ratha-mahā-āsanam .. 7..
दृश्यैश्च परमोदारैस्तैस्तैश्च मृगपक्षिभिः । विविधैर्बहुसाहस्रैः परिपूर्णं समन्ततः ॥ ८॥
दृश्यैः च परम-उदारैः तैः तैः च मृग-पक्षिभिः । विविधैः बहु-साहस्रैः परिपूर्णम् समन्ततः ॥ ८॥
dṛśyaiḥ ca parama-udāraiḥ taiḥ taiḥ ca mṛga-pakṣibhiḥ . vividhaiḥ bahu-sāhasraiḥ paripūrṇam samantataḥ .. 8..
विनीतैरन्तपालैश्च रक्षोभिश्च सुरक्षितम् । मुख्याभिश्च वरस्त्रीभिः परिपूर्णं समन्ततः ॥ ९॥
विनीतैः अन्तपालैः च रक्षोभिः च सु रक्षितम् । मुख्याभिः च वर-स्त्रीभिः परिपूर्णम् समन्ततः ॥ ९॥
vinītaiḥ antapālaiḥ ca rakṣobhiḥ ca su rakṣitam . mukhyābhiḥ ca vara-strībhiḥ paripūrṇam samantataḥ .. 9..
मुदितप्रमदा रत्नं राक्षसेन्द्रनिवेशनम् । वराभरणनिर्ह्रादैः समुद्रस्वननिःस्वनम् ॥ १०॥
मुदित-प्रमदा रत्नम् राक्षस-इन्द्र-निवेशनम् । वर-आभरण-निर्ह्रादैः समुद्र-स्वन-निःस्वनम् ॥ १०॥
mudita-pramadā ratnam rākṣasa-indra-niveśanam . vara-ābharaṇa-nirhrādaiḥ samudra-svana-niḥsvanam .. 10..
तद्राजगुणसम्पन्नं मुख्यैश्च वरचन्दनैः । भेरीमृदङ्गाभिरुतं शङ्खघोषविनादितम् ॥ ११॥
तत् राज-गुण-सम्पन्नम् मुख्यैः च वरचन्दनैः । भेरी-मृदङ्ग-अभिरुतम् शङ्ख-घोष-विनादितम् ॥ ११॥
tat rāja-guṇa-sampannam mukhyaiḥ ca varacandanaiḥ . bherī-mṛdaṅga-abhirutam śaṅkha-ghoṣa-vināditam .. 11..
भेरीमृदङ्गाभिरुतं शङ्खघोषनिनादितम् ।नित्यार्चितं पर्वहुतं पूजितं राक्षसैः सदा ॥१२॥
भेरी-मृदङ्ग-अभिरुतम् शङ्ख-घोष-निनादितम् ।नित्य-अर्चितम् पर्व-हुतम् पूजितम् राक्षसैः सदा ॥१२॥
bherī-mṛdaṅga-abhirutam śaṅkha-ghoṣa-nināditam .nitya-arcitam parva-hutam pūjitam rākṣasaiḥ sadā ..12..
समुद्रमिव गम्भीरं समुद्रमिव निःस्वनम् ।महात्मानो महद्वेश्म महारत्नपरिच्छदम् ॥१३॥
समुद्रम् इव गम्भीरम् समुद्रम् इव निःस्वनम् ।महात्मानः महत् वेश्म महा-रत्न-परिच्छदम् ॥१३॥
samudram iva gambhīram samudram iva niḥsvanam .mahātmānaḥ mahat veśma mahā-ratna-paricchadam ..13..
महाजनसमाकीर्णं ददर्श स महाकपिः ।विराजमानं वपुषा गजाश्वरथसङ्कुलम् ॥१४॥
महाजन-समाकीर्णम् ददर्श स महा-कपिः ।विराजमानम् वपुषा गज-अश्व-रथ-सङ्कुलम् ॥१४॥
mahājana-samākīrṇam dadarśa sa mahā-kapiḥ .virājamānam vapuṣā gaja-aśva-ratha-saṅkulam ..14..
लङ्काभरणमित्येव सोऽमन्यत महाकपिः ।चचार हनुमांस्तत्र रावणस्य समीपतः॥१५॥
लङ्का-आभरणम् इति एव सः अमन्यत महा-कपिः ।चचार हनुमान् तत्र रावणस्य समीपतस्॥१५॥
laṅkā-ābharaṇam iti eva saḥ amanyata mahā-kapiḥ .cacāra hanumān tatra rāvaṇasya samīpatas..15..
गृहाद्गृहं राक्षसानामुद्यानानि च वानरः । वीक्षमाणो ह्यसन्त्रस्तः प्रासादांश्च चचार सः ॥१६॥
गृहात् गृहम् राक्षसानाम् उद्यानानि च वानरः । वीक्षमाणः हि असन्त्रस्तः प्रासादान् च चचार सः ॥१६॥
gṛhāt gṛham rākṣasānām udyānāni ca vānaraḥ . vīkṣamāṇaḥ hi asantrastaḥ prāsādān ca cacāra saḥ ..16..
अवप्लुत्य महावेगः प्रहस्तस्य निवेशनम् । ततोऽन्यत्पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान् ॥१७॥
अवप्लुत्य महा-वेगः प्रहस्तस्य निवेशनम् । ततस् अन्यत् पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान् ॥१७॥
avaplutya mahā-vegaḥ prahastasya niveśanam . tatas anyat pupluve veśma mahāpārśvasya vīryavān ..17..
अथ मेघप्रतीकाशं कुम्भकर्णनिवेशनम् । विभीषणस्य च तथा पुप्लुवे स महाकपिः ॥१८॥
अथ मेघ-प्रतीकाशम् कुम्भकर्ण-निवेशनम् । विभीषणस्य च तथा पुप्लुवे स महा-कपिः ॥१८॥
atha megha-pratīkāśam kumbhakarṇa-niveśanam . vibhīṣaṇasya ca tathā pupluve sa mahā-kapiḥ ..18..
महोदरस्य च तथा विरूपाक्षस्य चैव हि । विद्युज्जिह्वस्य भवनं विद्युन्मालेस्तथैव च ॥१९॥
महोदरस्य च तथा विरूपाक्षस्य च एव हि । विद्युज्जिह्वस्य भवनम् विद्युन्मालेः तथा एव च ॥१९॥
mahodarasya ca tathā virūpākṣasya ca eva hi . vidyujjihvasya bhavanam vidyunmāleḥ tathā eva ca ..19..
वज्रदंष्ट्रस्य च तथा पुप्लुवे स महाकपिः ।शुकस्य च महावेगः सारणस्य च धीमतः ॥२०॥
वज्रदंष्ट्रस्य च तथा पुप्लुवे स महा-कपिः ।शुकस्य च महा-वेगः सारणस्य च धीमतः ॥२०॥
vajradaṃṣṭrasya ca tathā pupluve sa mahā-kapiḥ .śukasya ca mahā-vegaḥ sāraṇasya ca dhīmataḥ ..20..
तथा चेन्द्रजितो वेश्म जगाम हरियूथपः ।जम्बुमालेः सुमालेश्च जगाम हरियूथपः ॥२१॥
तथा च इन्द्रजितः वेश्म जगाम हरि-यूथपः ।जम्बुमालेः सुमालेः च जगाम हरि-यूथपः ॥२१॥
tathā ca indrajitaḥ veśma jagāma hari-yūthapaḥ .jambumāleḥ sumāleḥ ca jagāma hari-yūthapaḥ ..21..
रश्मिकेतोश्च भवनं सूर्यशत्रोस्तथैव च ।विद्युद्रूपस्य भीमस्य घनस्य विघनस्य च॥२२॥
रश्मिकेतोः च भवनम् सूर्यशत्रोः तथा एव च ।विद्युत्-रूपस्य भीमस्य घनस्य विघनस्य च॥२२॥
raśmiketoḥ ca bhavanam sūryaśatroḥ tathā eva ca .vidyut-rūpasya bhīmasya ghanasya vighanasya ca..22..
धूम्राक्षस्य च सम्पातेर्भवनं मारुतात्मजः । विद्युद्रूपस्य भीमस्य घनस्य विघनस्य च ॥२३॥
धूम्राक्षस्य च सम्पातेः भवनम् मारुतात्मजः । विद्युत्-रूपस्य भीमस्य घनस्य विघनस्य च ॥२३॥
dhūmrākṣasya ca sampāteḥ bhavanam mārutātmajaḥ . vidyut-rūpasya bhīmasya ghanasya vighanasya ca ..23..
शुकनाभस्य वक्रस्य शठस्य विकटस्य च । ह्रस्वकर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः ॥२४॥
शुकनाभस्य वक्रस्य शठस्य विकटस्य च । ह्रस्वकर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः ॥२४॥
śukanābhasya vakrasya śaṭhasya vikaṭasya ca . hrasvakarṇasya daṃṣṭrasya romaśasya ca rakṣasaḥ ..24..
युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य नादिनः । विद्युज्जिह्वेन्द्रजिह्वानां तथा हस्तिमुखस्य च ॥२५॥
युद्ध-उन्मत्तस्य मत्तस्य ध्वजग्रीवस्य नादिनः । विद्युज्जिह्व-इन्द्रजिह्वानाम् तथा हस्तिमुखस्य च ॥२५॥
yuddha-unmattasya mattasya dhvajagrīvasya nādinaḥ . vidyujjihva-indrajihvānām tathā hastimukhasya ca ..25..
करालस्य पिशाचस्य शोणिताक्षस्य चैव हि । क्रममाणः क्रमेणैव हनूमान्मारुतात्मजः ॥२६॥
करालस्य पिशाचस्य शोणिताक्षस्य च एव हि । क्रममाणः क्रमेण एव हनूमान् मारुतात्मजः ॥२६॥
karālasya piśācasya śoṇitākṣasya ca eva hi . kramamāṇaḥ krameṇa eva hanūmān mārutātmajaḥ ..26..
तेषु तेषु महार्हेषु भवनेषु महायशाः । तेषामृद्धिमतामृद्धिं ददर्श स महाकपिः ॥२७॥
तेषु तेषु महार्हेषु भवनेषु महा-यशाः । तेषाम् ऋद्धिमताम् ऋद्धिम् ददर्श स महा-कपिः ॥२७॥
teṣu teṣu mahārheṣu bhavaneṣu mahā-yaśāḥ . teṣām ṛddhimatām ṛddhim dadarśa sa mahā-kapiḥ ..27..
सर्वेषां समतिक्रम्य भवनानि समन्ततः । आससादाथ लक्ष्मीवान्राक्षसेन्द्रनिवेशनम् ॥२८॥
सर्वेषाम् समतिक्रम्य भवनानि समन्ततः । आससाद अथ लक्ष्मीवान् राक्षस-इन्द्र-निवेशनम् ॥२८॥
sarveṣām samatikramya bhavanāni samantataḥ . āsasāda atha lakṣmīvān rākṣasa-indra-niveśanam ..28..
रावणस्योपशायिन्यो ददर्श हरिसत्तमः । विचरन्हरिशार्दूलो राक्षसीर्विकृतेक्षणाः ॥२९॥
रावणस्य उपशायिन्यः ददर्श हरि-सत्तमः । विचरन् हरि-शार्दूलः राक्षसीः विकृत-ईक्षणाः ॥२९॥
rāvaṇasya upaśāyinyaḥ dadarśa hari-sattamaḥ . vicaran hari-śārdūlaḥ rākṣasīḥ vikṛta-īkṣaṇāḥ ..29..
शूलमुद्गरहस्ताश्च शक्ति तोमरधारिणीः ।ददर्श विविधान्गुल्मांस्तस्य रक्षःपतेर्गृहे ॥३०॥
शूल-मुद्गर-हस्ताः च तोमर-धारिणीः ।ददर्श विविधान् गुल्मान् तस्य रक्षःपतेः गृहे ॥३०॥
śūla-mudgara-hastāḥ ca tomara-dhāriṇīḥ .dadarśa vividhān gulmān tasya rakṣaḥpateḥ gṛhe ..30..
राक्षसांश्च महाकायान्नानाप्रहरणोद्यतान्॥रक्ताञ्श्वेतान्सितांश्चैव हरींश्चैव महाजवान् ॥३१॥
राक्षसान् च महा-कायान् नाना प्रहरण-उद्यतान्॥रक्तान् श्वेतान् सितान् च एव हरीन् च एव महा-जवान् ॥३१॥
rākṣasān ca mahā-kāyān nānā praharaṇa-udyatān..raktān śvetān sitān ca eva harīn ca eva mahā-javān ..31..
कुलीनान्रूपसम्पन्नान्गजान्परगजारुजान् ।निष्ठितान् गजशिखायामैरावतसमान् युधि ॥३२॥
कुलीनान् रूप-सम्पन्नान् गजान् पर-गज-आरुजान् ।निष्ठितान् गज-शिखायाम् ऐरावत-समान् युधि ॥३२॥
kulīnān rūpa-sampannān gajān para-gaja-ārujān .niṣṭhitān gaja-śikhāyām airāvata-samān yudhi ..32..
निहन्तॄन् परसैन्यानां गृहे तस्मिन् ददर्श सः ।क्षरतश्च यथा मेघान्स्रवतश्च यथा गिरीन् ॥३३॥
निहन्तॄन् पर-सैन्यानाम् गृहे तस्मिन् ददर्श सः ।क्षरतः च यथा मेघान् स्रवतः च यथा गिरीन् ॥३३॥
nihantṝn para-sainyānām gṛhe tasmin dadarśa saḥ .kṣarataḥ ca yathā meghān sravataḥ ca yathā girīn ..33..
मेघस्तनितनिर्घोषान्दुर्धर्षान्समरे परैः ।सहस्रं वाहिनीस्तत्र जाम्बूनदपरिष्कृताः ॥३४॥
मेघ-स्तनित-निर्घोषान् दुर्धर्षान् समरे परैः ।सहस्रम् वाहिनीः तत्र जाम्बूनद-परिष्कृताः ॥३४॥
megha-stanita-nirghoṣān durdharṣān samare paraiḥ .sahasram vāhinīḥ tatra jāmbūnada-pariṣkṛtāḥ ..34..
हेमजालैरविच्छिन्नास्तरुणादित्यसंनिभाः ।ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने ॥३५॥
हेम-जालैः अविच्छिन्नाः तरुण-आदित्य-संनिभाः ।ददर्श राक्षस-इन्द्रस्य रावणस्य निवेशने ॥३५॥
hema-jālaiḥ avicchinnāḥ taruṇa-āditya-saṃnibhāḥ .dadarśa rākṣasa-indrasya rāvaṇasya niveśane ..35..
शिबिका विविधाकाराः स कपिर्मारुतात्मजः ।लतागृहाणि चित्राणि चित्रशालागृहाणि च ॥३६॥
शिबिकाः विविध-आकाराः स कपिः मारुतात्मजः ।लता-गृहाणि चित्राणि चित्रशाला-गृहाणि च ॥३६॥
śibikāḥ vividha-ākārāḥ sa kapiḥ mārutātmajaḥ .latā-gṛhāṇi citrāṇi citraśālā-gṛhāṇi ca ..36..
क्रीडागृहाणि चान्यानि दारुपर्वतकानपि ।कामस्य गृहकं रम्यं दिवागृहकमेव च ॥३७॥
क्रीडा-गृहाणि च अन्यानि दारु-पर्वतकान् अपि ।कामस्य गृहकम् रम्यम् दिवागृहकम् एव च ॥३७॥
krīḍā-gṛhāṇi ca anyāni dāru-parvatakān api .kāmasya gṛhakam ramyam divāgṛhakam eva ca ..37..
ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने ।स मन्दरतलप्रख्यं मयूरस्थानसङ्कुलम् ॥३८॥
ददर्श राक्षस-इन्द्रस्य रावणस्य निवेशने ।स मन्दर-तल-प्रख्यम् मयूर-स्थान-सङ्कुलम् ॥३८॥
dadarśa rākṣasa-indrasya rāvaṇasya niveśane .sa mandara-tala-prakhyam mayūra-sthāna-saṅkulam ..38..
ध्वजयष्टिभिराकीर्णं ददर्श भवनोत्तमम् । अनन्तरत्ननिचयं निधिजालं समन्ततः । धीरनिष्ठितकर्मान्तं गृहं भूतपतेरिव ॥३९॥
ध्वज-यष्टिभिः आकीर्णम् ददर्श भवन-उत्तमम् । अनन्त-रत्न-निचयम् निधि-जालम् समन्ततः । धीर-निष्ठित-कर्मान्तम् गृहम् भूतपतेः इव ॥३९॥
dhvaja-yaṣṭibhiḥ ākīrṇam dadarśa bhavana-uttamam . ananta-ratna-nicayam nidhi-jālam samantataḥ . dhīra-niṣṭhita-karmāntam gṛham bhūtapateḥ iva ..39..
अर्चिर्भिश्चापि रत्नानां तेजसा रावणस्य च । विरराजाथ तद्वेश्म रश्मिमानिव रश्मिभिः ॥४०॥
अर्चिर्भिः च अपि रत्नानाम् तेजसा रावणस्य च । विरराज अथ तत् वेश्म रश्मिमान् इव रश्मिभिः ॥४०॥
arcirbhiḥ ca api ratnānām tejasā rāvaṇasya ca . virarāja atha tat veśma raśmimān iva raśmibhiḥ ..40..
जाम्बूनदमयान्येव शयनान्यासनानि च । भाजनानि च शुभ्राणि ददर्श हरियूथपः ॥४१॥
जाम्बूनद-मयानि एव शयनानि आसनानि च । भाजनानि च शुभ्राणि ददर्श हरि-यूथपः ॥४१॥
jāmbūnada-mayāni eva śayanāni āsanāni ca . bhājanāni ca śubhrāṇi dadarśa hari-yūthapaḥ ..41..
मध्वासवकृतक्लेदं मणिभाजनसङ्कुलम् । मनोरममसम्बाधं कुबेरभवनं यथा ॥४२॥
मध्वासव-कृत-क्लेदम् मणि-भाजन-सङ्कुलम् । मनोरमम् असम्बाधम् कुबेर-भवनम् यथा ॥४२॥
madhvāsava-kṛta-kledam maṇi-bhājana-saṅkulam . manoramam asambādham kubera-bhavanam yathā ..42..
नूपुराणां च घोषेण काञ्चीनां निनदेन च । मृदङ्गतलघोषैश्च घोषवद्भिर्विनादितम् ॥४३॥
नूपुराणाम् च घोषेण काञ्चीनाम् निनदेन च । मृदङ्ग-तल-घोषैः च घोषवद्भिः विनादितम् ॥४३॥
nūpurāṇām ca ghoṣeṇa kāñcīnām ninadena ca . mṛdaṅga-tala-ghoṣaiḥ ca ghoṣavadbhiḥ vināditam ..43..
प्रासादसङ्घातयुतं स्त्रीरत्नशतसङ्कुलम् । सुव्यूढकक्ष्यं हनुमान्प्रविवेश महागृहम् ॥४४॥
प्रासाद-सङ्घात-युतम् स्त्री-रत्न-शत-सङ्कुलम् । सु व्यूढ-कक्ष्यम् हनुमान् प्रविवेश महा-गृहम् ॥४४॥
prāsāda-saṅghāta-yutam strī-ratna-śata-saṅkulam . su vyūḍha-kakṣyam hanumān praviveśa mahā-gṛham ..44..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In