This overlay will guide you through the buttons:

| |
|
तस्य तद्वचनं श्रुत्वा वालिसूनुरभाषत ।अश्विपुत्रौ महावेगावेतौ प्लवगसत्तमौ ॥१॥
तस्य तत् वचनम् श्रुत्वा वालि-सूनुः अभाषत ।अश्वि-पुत्रौ महा-वेगौ एतौ प्लवग-सत्तमौ ॥१॥
tasya tat vacanam śrutvā vāli-sūnuḥ abhāṣata .aśvi-putrau mahā-vegau etau plavaga-sattamau ..1..
पितामहवरोत्सेकात्परमं दर्पमास्थितौ ।अश्विनोर्माननार्थं हि सर्वलोकपितामहः ॥२॥
पितामह-वर-उत्सेकात् परमम् दर्पम् आस्थितौ ।अश्विनोः मानन-अर्थम् हि सर्व-लोक-पितामहः ॥२॥
pitāmaha-vara-utsekāt paramam darpam āsthitau .aśvinoḥ mānana-artham hi sarva-loka-pitāmahaḥ ..2..
सर्वावध्यत्वमतुलमनयोर्दत्तवान्पुरा ।वरोत्सेकेन मत्तौ च प्रमथ्य महतीं चमूम् ॥३॥
सर्व-अवध्य-त्वम् अतुलम् अनयोः दत्तवान् पुरा ।वर-उत्सेकेन मत्तौ च प्रमथ्य महतीम् चमूम् ॥३॥
sarva-avadhya-tvam atulam anayoḥ dattavān purā .vara-utsekena mattau ca pramathya mahatīm camūm ..3..
सुराणाममृतं वीरौ पीतवन्तौ प्लवङ्गमौ ।एतावेव हि सङ्क्रुद्धौ सवाजिरथकुञ्जराम् ॥४॥
सुराणाम् अमृतम् वीरौ पीतवन्तौ प्लवङ्गमौ ।एतौ एव हि सङ्क्रुद्धौ स वाजि-रथ-कुञ्जराम् ॥४॥
surāṇām amṛtam vīrau pītavantau plavaṅgamau .etau eva hi saṅkruddhau sa vāji-ratha-kuñjarām ..4..
लङ्कां नाशयितुं शक्तौ सर्वे तिष्ठन्तु वानराः ।अहमेकोऽपि पर्याप्तः सराक्षसगणां पुरीम् ॥५॥
लङ्काम् नाशयितुम् शक्तौ सर्वे तिष्ठन्तु वानराः ।अहम् एकः अपि पर्याप्तः सराक्षस-गणाम् पुरीम् ॥५॥
laṅkām nāśayitum śaktau sarve tiṣṭhantu vānarāḥ .aham ekaḥ api paryāptaḥ sarākṣasa-gaṇām purīm ..5..
तां लङ्कां तरसा हन्तुं रावणं च महाबलम् ।किं पुनः सहितो वीरैर्बलवद्भिः कृतात्मभिः ॥६॥
ताम् लङ्काम् तरसा हन्तुम् रावणम् च महा-बलम् ।किम् पुनर् सहितः वीरैः बलवद्भिः कृतात्मभिः ॥६॥
tām laṅkām tarasā hantum rāvaṇam ca mahā-balam .kim punar sahitaḥ vīraiḥ balavadbhiḥ kṛtātmabhiḥ ..6..
कृतास्त्रैः प्लवगैः शक्तैर्भवद्भिर्विजयैषिभिः ।वायुसूनोर्बलेनैव दग्धा लङ्केति नः श्रुतम्॥७॥
कृतास्त्रैः प्लवगैः शक्तैः भवद्भिः विजय-एषिभिः ।वायुसूनोः बलेन एव दग्धा लङ्का इति नः श्रुतम्॥७॥
kṛtāstraiḥ plavagaiḥ śaktaiḥ bhavadbhiḥ vijaya-eṣibhiḥ .vāyusūnoḥ balena eva dagdhā laṅkā iti naḥ śrutam..7..
दृष्टा देवी न चानीता इति तत्र निवेदनम् । नयुक्तमिव पश्यामि भवद्भिः ख्यातविक्रमैः ॥८॥
दृष्टा देवी न च आनीता इति तत्र निवेदनम् । न युक्तम् इव पश्यामि भवद्भिः ख्यात-विक्रमैः ॥८॥
dṛṣṭā devī na ca ānītā iti tatra nivedanam . na yuktam iva paśyāmi bhavadbhiḥ khyāta-vikramaiḥ ..8..
जित्वा लङ्कां सरक्षैघां हत्वा तं रावणं रणे।सीतामादाय गच्छामः सिध्दार्था ह्यष्टमानसाः॥९॥
जित्वा लङ्काम् स रक्ष-एघाम् हत्वा तम् रावणम् रणे।सीताम् आदाय गच्छामः सिध्दार्थाः हि अष्ट-मानसाः॥९॥
jitvā laṅkām sa rakṣa-eghām hatvā tam rāvaṇam raṇe.sītām ādāya gacchāmaḥ sidhdārthāḥ hi aṣṭa-mānasāḥ..9..
न हि वः प्लवते कश्चिन्नापि कश्चित्पराक्रमे । तुल्यः सामरदैत्येषु लोकेषु हरिसत्तमाः ॥१०॥
न हि वः प्लवते कश्चिद् न अपि कश्चिद् पराक्रमे । तुल्यः स अमर-दैत्येषु लोकेषु हरि-सत्तमाः ॥१०॥
na hi vaḥ plavate kaścid na api kaścid parākrame . tulyaḥ sa amara-daityeṣu lokeṣu hari-sattamāḥ ..10..
तेष्वेवं हतवीरेषु राक्षसेषु हनूमता । किमन्यदत्र कर्तव्यं गृहीत्वा याम जानकीम् ॥११॥
तेषु एवम् हत-वीरेषु राक्षसेषु हनूमता । किम् अन्यत् अत्र कर्तव्यम् गृहीत्वा याम जानकीम् ॥११॥
teṣu evam hata-vīreṣu rākṣaseṣu hanūmatā . kim anyat atra kartavyam gṛhītvā yāma jānakīm ..11..
रामलक्ष्मणयोर्मध्ये न्यस्याम राक्षसपुंगवान्।किंव्यलीकैस्तुतानसर्वान् वानरान् वानरर्षभान॥१२॥
राम-लक्ष्मणयोः मध्ये न्यस्याम राक्षस-पुंगवान्।किंव्यलीकैः तुतान् असर्वान् वानरान् वानर-ऋषभान्॥१२॥
rāma-lakṣmaṇayoḥ madhye nyasyāma rākṣasa-puṃgavān.kiṃvyalīkaiḥ tutān asarvān vānarān vānara-ṛṣabhān..12..
वयमेव हि गत्वा तान् हत्वा राक्षसपुंगवान्।राघवं द्रष्टुमर्होमः सुग्रीवं सहलक्ष्मणम्॥१३॥
वयम् एव हि गत्वा तान् हत्वा राक्षस-पुंगवान्।राघवम् द्रष्टुम् अर्होमः सुग्रीवम् सहलक्ष्मणम्॥१३॥
vayam eva hi gatvā tān hatvā rākṣasa-puṃgavān.rāghavam draṣṭum arhomaḥ sugrīvam sahalakṣmaṇam..13..
तमेवं कृतसङ्कल्पं जाम्बवान्हरिसत्तमः । उवाच परमप्रीतो वाक्यमर्थवदर्थवित् ॥१४॥
तम् एवम् कृत-सङ्कल्पम् जाम्बवान् हरि-सत्तमः । उवाच परम-प्रीतः वाक्यम् अर्थवत् अर्थ-विद् ॥१४॥
tam evam kṛta-saṅkalpam jāmbavān hari-sattamaḥ . uvāca parama-prītaḥ vākyam arthavat artha-vid ..14..
नैषा कृतसंकल्पं जाम्बवान् हरिसत्तमः।विचेतुं वयमाज्ञप्ता वाक्यमर्थवदर्थवित्॥१५॥
न एषा कृत-संकल्पम् जाम्बवान् हरि-सत्तमः।विचेतुम् वयम् आज्ञप्ताः वाक्यम् अर्थवत् अर्थ-विद्॥१५॥
na eṣā kṛta-saṃkalpam jāmbavān hari-sattamaḥ.vicetum vayam ājñaptāḥ vākyam arthavat artha-vid..15..
नानेतुं कपिराजेन नैव रामेण धीमता।कथंचिन्निर्जितां सीतामस्माभिर्नाभिरोचयेत्॥१६॥
ना आनेतुम् कपि-राजेन ना एव रामेण धीमता।कथंचिद् निर्जिताम् सीताम् अस्माभिः न अभिरोचयेत्॥१६॥
nā ānetum kapi-rājena nā eva rāmeṇa dhīmatā.kathaṃcid nirjitām sītām asmābhiḥ na abhirocayet..16..
राघवो नृपशार्दलः कूलं व्यपदिशन् स्वकम्।प्रतिज्ञाय स्वयं राजा सीताविजयमग्रतः॥१७॥
राघवः नृप-शार्दलः कूलम् व्यपदिशन् स्वकम्।प्रतिज्ञाय स्वयम् राजा सीता-विजयम् अग्रतस्॥१७॥
rāghavaḥ nṛpa-śārdalaḥ kūlam vyapadiśan svakam.pratijñāya svayam rājā sītā-vijayam agratas..17..
सर्वेषा कपिमुख्यानां कथं मिथ्या करिष्यति।विफलं कर्म च कृतं भवेत् सीताविजयमग्रतः॥१८॥
सर्वेषाम् कपि-मुख्यानाम् कथम् मिथ्या करिष्यति।विफलम् कर्म च कृतम् भवेत् सीता-विजयम् अग्रतस्॥१८॥
sarveṣām kapi-mukhyānām katham mithyā kariṣyati.viphalam karma ca kṛtam bhavet sītā-vijayam agratas..18..
वृथा च दर्शितं वीर्यं भवेद् वानरपुंगवाः।तस्माद् गच्छाम् वै सर्वे यत्र रामः सलक्ष्मणः । सुग्रीवश्च महातेजाः कार्यस्यास्य निवेदने॥१९॥
वृथा च दर्शितम् वीर्यम् भवेत् वानर-पुंगवाः।तस्मात् गच्छाम् वै सर्वे यत्र रामः स लक्ष्मणः । सुग्रीवः च महा-तेजाः कार्यस्य अस्य निवेदने॥१९॥
vṛthā ca darśitam vīryam bhavet vānara-puṃgavāḥ.tasmāt gacchām vai sarve yatra rāmaḥ sa lakṣmaṇaḥ . sugrīvaḥ ca mahā-tejāḥ kāryasya asya nivedane..19..
न तावदेषा मतिरक्षमा नो यथा भवान्पश्यति राजपुत्र । यथा तु रामस्य मतिर्निविष्टा तथा भवान्पश्यतु कार्यसिद्धिम् ॥२०॥
न तावत् एषा मतिः अक्षमा नः यथा भवान् पश्यति राज-पुत्र । यथा तु रामस्य मतिः निविष्टा तथा भवान् पश्यतु कार्य-सिद्धिम् ॥२०॥
na tāvat eṣā matiḥ akṣamā naḥ yathā bhavān paśyati rāja-putra . yathā tu rāmasya matiḥ niviṣṭā tathā bhavān paśyatu kārya-siddhim ..20..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In