This overlay will guide you through the buttons:

| |
|
ततो जाम्बवतो वाक्यमगृह्णन्त वनौकसः । अङ्गदप्रमुखा वीरा हनूमांश्च महाकपिः ॥१॥
ततस् जाम्बवतः वाक्यम् अगृह्णन्त वनौकसः । अङ्गद-प्रमुखाः वीराः हनूमान् च महा-कपिः ॥१॥
tatas jāmbavataḥ vākyam agṛhṇanta vanaukasaḥ . aṅgada-pramukhāḥ vīrāḥ hanūmān ca mahā-kapiḥ ..1..
प्रीतिमन्तस्ततः सर्वे वायुपुत्रपुरःसराः । महेन्द्राग्रं परित्यज्य पुप्लुवुः प्लवगर्षभाः ॥२॥
प्रीतिमन्तः ततस् सर्वे वायुपुत्र-पुरःसराः । महेन्द्र-अग्रम् परित्यज्य पुप्लुवुः प्लवग-ऋषभाः ॥२॥
prītimantaḥ tatas sarve vāyuputra-puraḥsarāḥ . mahendra-agram parityajya pupluvuḥ plavaga-ṛṣabhāḥ ..2..
मेरुमन्दरसङ्काशा मत्ता इव महागजाः । छादयन्त इवाकाशं महाकाया महाबलाः ॥३॥
मेरु-मन्दर-सङ्काशाः मत्ताः इव महा-गजाः । छादयन्तः इव आकाशम् महा-कायाः महा-बलाः ॥३॥
meru-mandara-saṅkāśāḥ mattāḥ iva mahā-gajāḥ . chādayantaḥ iva ākāśam mahā-kāyāḥ mahā-balāḥ ..3..
सभाज्यमानं भूतैस्तमात्मवन्तं महाबलम् । हनूमन्तं महावेगं वहन्त इव दृष्टिभिः ॥४॥
सभाज्यमानम् भूतैः तम् आत्मवन्तम् महा-बलम् । हनूमन्तम् महा-वेगम् वहन्तः इव दृष्टिभिः ॥४॥
sabhājyamānam bhūtaiḥ tam ātmavantam mahā-balam . hanūmantam mahā-vegam vahantaḥ iva dṛṣṭibhiḥ ..4..
राघवे चार्थनिर्वृत्तिं भर्तुश्च परमं यशः । समाधाय समृद्धार्थाः कर्मसिद्धिभिरुन्नताः ॥५॥
राघवे च अर्थ-निर्वृत्तिम् भर्तुः च परमम् यशः । समाधाय समृद्ध-अर्थाः कर्म-सिद्धिभिः उन्नताः ॥५॥
rāghave ca artha-nirvṛttim bhartuḥ ca paramam yaśaḥ . samādhāya samṛddha-arthāḥ karma-siddhibhiḥ unnatāḥ ..5..
प्रियाख्यानोन्मुखाः सर्वे सर्वे युद्धाभिनन्दिनः । सर्वे रामप्रतीकारे निश्चितार्था मनस्विनः ॥६॥
प्रिय-आख्यान-उन्मुखाः सर्वे सर्वे युद्ध-अभिनन्दिनः । सर्वे राम-प्रतीकारे निश्चित-अर्थाः मनस्विनः ॥६॥
priya-ākhyāna-unmukhāḥ sarve sarve yuddha-abhinandinaḥ . sarve rāma-pratīkāre niścita-arthāḥ manasvinaḥ ..6..
प्लवमानाः खमाप्लुत्य ततस्ते काननौक्षकः । नन्दनोपममासेदुर्वनं द्रुमलतायुतम् ॥७॥
प्लवमानाः खम् आप्लुत्य ततस् ते कानन-ओक्षकः । नन्दन-उपमम् आसेदुः वनम् द्रुम-लता-युतम् ॥७॥
plavamānāḥ kham āplutya tatas te kānana-okṣakaḥ . nandana-upamam āseduḥ vanam druma-latā-yutam ..7..
यत्तन्मधुवनं नाम सुग्रीवस्याभिरक्षितम् । अधृष्यं सर्वभूतानां सर्वभूतमनोहरम् ॥८॥
यत् तत् मधुवनम् नाम सुग्रीवस्य अभिरक्षितम् । अधृष्यम् सर्व-भूतानाम् सर्व-भूत-मनोहरम् ॥८॥
yat tat madhuvanam nāma sugrīvasya abhirakṣitam . adhṛṣyam sarva-bhūtānām sarva-bhūta-manoharam ..8..
यद्रक्षति महावीर्यः सदा दधिमुखः कपिः । मातुलः कपिमुख्यस्य सुग्रीवस्य महात्मनः ॥९॥
यत् रक्षति महा-वीर्यः सदा दधिमुखः कपिः । मातुलः कपि-मुख्यस्य सुग्रीवस्य महात्मनः ॥९॥
yat rakṣati mahā-vīryaḥ sadā dadhimukhaḥ kapiḥ . mātulaḥ kapi-mukhyasya sugrīvasya mahātmanaḥ ..9..
ते तद्वनमुपागम्य बभूवुः परमोत्कटाः । वानरा वानरेन्द्रस्य मनःकान्ततमं महत् ॥१०॥
ते तत् वनम् उपागम्य बभूवुः परम-उत्कटाः । वानराः वानर-इन्द्रस्य मनः-कान्ततमम् महत् ॥१०॥
te tat vanam upāgamya babhūvuḥ parama-utkaṭāḥ . vānarāḥ vānara-indrasya manaḥ-kāntatamam mahat ..10..
ततस्ते वानरा हृष्टा दृष्ट्वा मधुवनं महत् । कुमारमभ्ययाचन्त मधूनि मधुपिङ्गलाः ॥११॥
ततस् ते वानराः हृष्टाः दृष्ट्वा मधुवनम् महत् । कुमारम् अभ्ययाचन्त मधूनि मधु-पिङ्गलाः ॥११॥
tatas te vānarāḥ hṛṣṭāḥ dṛṣṭvā madhuvanam mahat . kumāram abhyayācanta madhūni madhu-piṅgalāḥ ..11..
ततः कुमारस्तान्वृद्धाञ्जाम्बवत्प्रमुखान्कपीन् । अनुमान्य ददौ तेषां निसर्गं मधुभक्षणे ॥१२॥
ततस् कुमारः तान् वृद्धान् जाम्बवत्-प्रमुखान् कपीन् । अनुमान्य ददौ तेषाम् निसर्गम् मधु-भक्षणे ॥१२॥
tatas kumāraḥ tān vṛddhān jāmbavat-pramukhān kapīn . anumānya dadau teṣām nisargam madhu-bhakṣaṇe ..12..
ते निसृष्टा कुमारेण धीमता वालिसूनुना।हरयः समपद्यन्त द्रुमान् मधुकराकुलान्॥१३॥
ते निसृष्टा कुमारेण धीमता वालि-सूनुना।हरयः समपद्यन्त द्रुमान् मधुकर-आकुलान्॥१३॥
te nisṛṣṭā kumāreṇa dhīmatā vāli-sūnunā.harayaḥ samapadyanta drumān madhukara-ākulān..13..
भक्षयन्तः सुगन्धीनि मूलानि च फलानि च।जग्मुः प्रहर्षं ते सर्वे बभूवुश्च मदोत्कटाः॥१४॥
भक्षयन्तः सुगन्धीनि मूलानि च फलानि च।जग्मुः प्रहर्षम् ते सर्वे बभूवुः च मद-उत्कटाः॥१४॥
bhakṣayantaḥ sugandhīni mūlāni ca phalāni ca.jagmuḥ praharṣam te sarve babhūvuḥ ca mada-utkaṭāḥ..14..
ततश्चानुमताः सर्वे सम्प्रहृष्टा वनौकसः । मुदिताश्च ततस्ते च प्रनृत्यन्ति ततस्ततः ॥१५॥
ततस् च अनुमताः सर्वे सम्प्रहृष्टाः वनौकसः । मुदिताः च ततस् ते च प्रनृत्यन्ति ततस् ततस् ॥१५॥
tatas ca anumatāḥ sarve samprahṛṣṭāḥ vanaukasaḥ . muditāḥ ca tatas te ca pranṛtyanti tatas tatas ..15..
गायन्ति के चित्प्रणमन्ति के चिन् नृत्यन्ति के चित्प्रहसन्ति के चित् । पतन्ति के चिद्विचरन्ति के चित् प्लवन्ति के चित्प्रलपन्ति के चित् ॥१६॥
गायन्ति के चित् प्रणमन्ति के चित् नृत्यन्ति के चित् प्रहसन्ति के चित् । पतन्ति के चित् विचरन्ति के चित् प्लवन्ति के चित् प्रलपन्ति के चित् ॥१६॥
gāyanti ke cit praṇamanti ke cit nṛtyanti ke cit prahasanti ke cit . patanti ke cit vicaranti ke cit plavanti ke cit pralapanti ke cit ..16..
परस्परं के चिदुपाश्रयन्ते परस्परं के चिदतिब्रुवन्ते । द्रुमाद्द्रुमं के चिदभिप्लवन्ते क्षितौ नगाग्रान्निपतन्ति के चित् ॥१७॥
परस्परम् के चित् उपाश्रयन्ते परस्परम् के चित् अतिब्रुवन्ते । द्रुमात् द्रुमम् के चित् अभिप्लवन्ते क्षितौ नग-अग्रात् निपतन्ति के चित् ॥१७॥
parasparam ke cit upāśrayante parasparam ke cit atibruvante . drumāt drumam ke cit abhiplavante kṣitau naga-agrāt nipatanti ke cit ..17..
महीतलात् केचिदुदीर्णवेगा महाद्रुमाग्राण्यभिसम्पतन्ते । गायन्तमन्यः प्रहसन्नुपैति हसन्तमन्यः प्रहसन्नुपैति ॥१८॥
मही-तलात् केचिद् उदीर्ण-वेगाः महा-द्रुम-अग्राणि अभिसम्पतन्ते । गायन्तम् अन्यः प्रहसन् उपैति हसन्तम् अन्यः प्रहसन् उपैति ॥१८॥
mahī-talāt kecid udīrṇa-vegāḥ mahā-druma-agrāṇi abhisampatante . gāyantam anyaḥ prahasan upaiti hasantam anyaḥ prahasan upaiti ..18..
तुदन्तमन्यः प्ररुदन्नुपैति समाकुलं तत् कपिसैन्यमासीत्। न चात्र कश्चिन्न बभूव मत्तो न चात्र कश्चिन्न बभूव दृप्तो ॥१९॥
तुदन्तम् अन्यः प्ररुदन् उपैति समाकुलम् तत् कपि-सैन्यम् आसीत्। न च अत्र कश्चिद् न बभूव मत्तः न च अत्र कश्चिद् न बभूव दृप्तो ॥१९॥
tudantam anyaḥ prarudan upaiti samākulam tat kapi-sainyam āsīt. na ca atra kaścid na babhūva mattaḥ na ca atra kaścid na babhūva dṛpto ..19..
ततो वनं तत्परिभक्ष्यमाणं द्रुमांश्च विध्वंसितपत्रपुष्पान् । समीक्ष्य कोपाद्दधिवक्त्रनामा निवारयामास कपिः कपींस्तान् ॥२०॥
ततस् वनम् तत् परिभक्ष्यमाणम् द्रुमान् च विध्वंसित-पत्र-पुष्पान् । समीक्ष्य कोपात् दधिवक्त्र-नामा निवारयामास कपिः कपीन् तान् ॥२०॥
tatas vanam tat paribhakṣyamāṇam drumān ca vidhvaṃsita-patra-puṣpān . samīkṣya kopāt dadhivaktra-nāmā nivārayāmāsa kapiḥ kapīn tān ..20..
स तैः प्रवृद्धैः परिभर्त्स्यमानो वनस्य गोप्ता हरिवीरवृद्धः । चकार भूयो मतिमुग्रतेजा वनस्य रक्षां प्रति वानरेभ्यः ॥२१॥
स तैः प्रवृद्धैः परिभर्त्स्यमानः वनस्य गोप्ता हरि-वीर-वृद्धः । चकार भूयस् मतिम् उग्र-तेजाः वनस्य रक्षाम् प्रति वानरेभ्यः ॥२१॥
sa taiḥ pravṛddhaiḥ paribhartsyamānaḥ vanasya goptā hari-vīra-vṛddhaḥ . cakāra bhūyas matim ugra-tejāḥ vanasya rakṣām prati vānarebhyaḥ ..21..
उवाच कांश्चित्परुषाणि धृष्टम् असक्तमन्यांश्च तलैर्जघान । समेत्य कैश्चित्कलहं चकार तथैव साम्नोपजगाम कांश् चित् ॥२२॥
उवाच कांश्चिद् परुषाणि धृष्टम् असक्तम् अन्यान् च तलैः जघान । समेत्य कैश्चिद् कलहम् चकार तथा एव साम्ना उपजगाम कान् चित् ॥२२॥
uvāca kāṃścid paruṣāṇi dhṛṣṭam asaktam anyān ca talaiḥ jaghāna . sametya kaiścid kalaham cakāra tathā eva sāmnā upajagāma kān cit ..22..
स तैर्मदाच्चाप्रतिवार्य वेगैर् बलाच्च तेनाप्रतिवार्यमाणैः । प्रधर्षितस्त्यक्तभयैः समेत्य प्रकृष्यते चाप्यनवेक्ष्य दोषम् ॥२३॥
स तैः मदात् च अ प्रतिवार्य वेगैः बलात् च तेन अ प्रतिवार्यमाणैः । प्रधर्षितः त्यक्त-भयैः समेत्य प्रकृष्यते च अपि अन् अवेक्ष्य दोषम् ॥२३॥
sa taiḥ madāt ca a prativārya vegaiḥ balāt ca tena a prativāryamāṇaiḥ . pradharṣitaḥ tyakta-bhayaiḥ sametya prakṛṣyate ca api an avekṣya doṣam ..23..
नखैस्तुदन्तो दशनैर्दशन्तस् तलैश्च पादैश्च समाप्नुवन्तः । मदात्कपिं तं कपयः समग्रा महावनं निर्विषयं च चक्रुः ॥२४॥
नखैः तुदन्तः दशनैः दशन्तः तलैः च पादैः च समाप्नुवन्तः । मदात् कपिम् तम् कपयः समग्राः महा-वनम् निर्विषयम् च चक्रुः ॥२४॥
nakhaiḥ tudantaḥ daśanaiḥ daśantaḥ talaiḥ ca pādaiḥ ca samāpnuvantaḥ . madāt kapim tam kapayaḥ samagrāḥ mahā-vanam nirviṣayam ca cakruḥ ..24..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In