This overlay will guide you through the buttons:

| |
|
तानुवाच हरिश्रेष्ठो हनूमान्वानरर्षभः । अव्यग्रमनसो यूयं मधु सेवत वानराः ॥१॥
तान् उवाच हरि-श्रेष्ठः हनूमान् वानर-ऋषभः । अव्यग्र-मनसः यूयम् मधु सेवत वानराः ॥१॥
tān uvāca hari-śreṣṭhaḥ hanūmān vānara-ṛṣabhaḥ . avyagra-manasaḥ yūyam madhu sevata vānarāḥ ..1..
अहमावारयिष्यामि युष्माकं परिपन्थिनः।श्रुत्वा हनुमतो वाक्यं हरीणां प्रवरोऽङ्गदः ॥२॥
अहम् आवारयिष्यामि युष्माकम् परिपन्थिनः।श्रुत्वा हनुमतः वाक्यम् हरीणाम् प्रवरः अङ्गदः ॥२॥
aham āvārayiṣyāmi yuṣmākam paripanthinaḥ.śrutvā hanumataḥ vākyam harīṇām pravaraḥ aṅgadaḥ ..2..
प्रत्युवाच प्रसन्नात्मा पिबन्तु हरयो मधु ।अवश्यं कृतकार्यस्य वाक्यं हनुमतो मया ॥३॥
प्रत्युवाच प्रसन्न-आत्मा पिबन्तु हरयः मधु ।अवश्यम् कृत-कार्यस्य वाक्यम् हनुमतः मया ॥३॥
pratyuvāca prasanna-ātmā pibantu harayaḥ madhu .avaśyam kṛta-kāryasya vākyam hanumataḥ mayā ..3..
अकार्यमपि कर्तव्यं किमङ्ग पुनरीदृशम् ।अन्दगस्य मुखाच्छ्रुत्वा वचनं वानरर्षभाः ॥४॥
अकार्यम् अपि कर्तव्यम् किम् अङ्ग पुनर् ईदृशम् ।अन्दगस्य मुखात् श्रुत्वा वचनम् वानर-ऋषभाः ॥४॥
akāryam api kartavyam kim aṅga punar īdṛśam .andagasya mukhāt śrutvā vacanam vānara-ṛṣabhāḥ ..4..
साधु साध्विति संहृष्टा वानराः प्रत्यपूजयन् ।पूजयित्वाङ्गदं सर्वे वानरा वानरर्षभम् ॥५॥
साधु साधु इति संहृष्टाः वानराः प्रत्यपूजयन् ।पूजयित्वा अङ्गदम् सर्वे वानराः वानर-ऋषभम् ॥५॥
sādhu sādhu iti saṃhṛṣṭāḥ vānarāḥ pratyapūjayan .pūjayitvā aṅgadam sarve vānarāḥ vānara-ṛṣabham ..5..
जग्मुर्मधुवनं यत्र नदीवेग इव द्रुतम् ।ते प्रहृष्टा मधुवनं पालानाक्रम्य वीर्यतः ॥६॥
जग्मुः मधुवनम् यत्र नदी-वेगः इव द्रुतम् ।ते प्रहृष्टाः मधुवनम् पालान् आक्रम्य वीर्यतः ॥६॥
jagmuḥ madhuvanam yatra nadī-vegaḥ iva drutam .te prahṛṣṭāḥ madhuvanam pālān ākramya vīryataḥ ..6..
अतिसर्गाच्च पटवो दृष्ट्वा श्रुत्वा च मैथिलीम् ।पपुस्सर्वे मधु तदा रसवत्फलमाददुः॥७॥
अतिसर्गात् च पटवः दृष्ट्वा श्रुत्वा च मैथिलीम् ।पपुः सर्वे मधु तदा रसवत् फलम् आददुः॥७॥
atisargāt ca paṭavaḥ dṛṣṭvā śrutvā ca maithilīm .papuḥ sarve madhu tadā rasavat phalam ādaduḥ..7..
उत्पत्य च ततः सर्वे वनपालान्समागताः ।ते ताडयन्ति स्म शतशः सक्तान्मधुवने तदा ॥८॥
उत्पत्य च ततस् सर्वे वनपालान् समागताः ।ते ताडयन्ति स्म शतशस् सक्तान् मधुवने तदा ॥८॥
utpatya ca tatas sarve vanapālān samāgatāḥ .te tāḍayanti sma śataśas saktān madhuvane tadā ..8..
मधूनि द्रोणमात्राणि बहुभिः परिगृह्य ते ।पिबन्ति सहिता स्सर्वे निघ्नन्ति स्म तथापरे॥९॥
मधूनि द्रोण-मात्राणि बहुभिः परिगृह्य ते ।पिबन्ति सहिताः स्सर्वे निघ्नन्ति स्म तथा अपरे॥९॥
madhūni droṇa-mātrāṇi bahubhiḥ parigṛhya te .pibanti sahitāḥ ssarve nighnanti sma tathā apare..9..
घ्नन्ति स्म सहिताः सर्वे भक्षयन्ति तथापरे ।केचित् पीत्वापविध्यन्ति मधूनि मधुपिङ्गलाः ॥१०॥
घ्नन्ति स्म सहिताः सर्वे भक्षयन्ति तथा अपरे ।केचिद् पीत्वा अपविध्यन्ति मधूनि मधु-पिङ्गलाः ॥१०॥
ghnanti sma sahitāḥ sarve bhakṣayanti tathā apare .kecid pītvā apavidhyanti madhūni madhu-piṅgalāḥ ..10..
मधूच्चिष्टेन के चिच्च जघ्नुरन्योन्यमुत्कटाः ।अपरे वृक्षमूलेषु शाखां गृह्य व्यवस्थितः ॥११॥
मधूच्चिष्टेन के चित् च जघ्नुः अन्योन्यम् उत्कटाः ।अपरे वृक्ष-मूलेषु शाखाम् गृह्य व्यवस्थितः ॥११॥
madhūcciṣṭena ke cit ca jaghnuḥ anyonyam utkaṭāḥ .apare vṛkṣa-mūleṣu śākhām gṛhya vyavasthitaḥ ..11..
अत्यर्थं च मदग्लानाः पर्णान्यास्तीर्य शेरते ।उन्मत्तभूताः प्लवगा मधुमत्ताश्च हृष्टवत् ॥१२॥
अत्यर्थम् च मद-ग्लानाः पर्णानि आस्तीर्य शेरते ।उन्मत्त-भूताः प्लवगाः मधु-मत्ताः च हृष्ट-वत् ॥१२॥
atyartham ca mada-glānāḥ parṇāni āstīrya śerate .unmatta-bhūtāḥ plavagāḥ madhu-mattāḥ ca hṛṣṭa-vat ..12..
क्षिपन्त्यपि तथान्योन्यं स्खलन्त्यपि तथापरे ।के चित्क्ष्वेडान्प्रकुर्वन्ति के चित्कूजन्ति हृष्टवत् ॥१३॥
क्षिपन्ति अपि तथा अन्योन्यम् स्खलन्ति अपि तथा अपरे ।के चित् क्ष्वेडान् प्रकुर्वन्ति के चित् कूजन्ति हृष्ट-वत् ॥१३॥
kṣipanti api tathā anyonyam skhalanti api tathā apare .ke cit kṣveḍān prakurvanti ke cit kūjanti hṛṣṭa-vat ..13..
हरयो मधुना मत्ताः के चित्सुप्ता महीतले ।धृष्टा केचिद्धसन्त्यन्ये केचित्कुर्वन्ति चेतरत्॥१४॥
हरयः मधुना मत्ताः के चित् सुप्ताः मही-तले ।धृष्टा केचिद् हसन्ति अन्ये केचिद् कुर्वन्ति च इतरत्॥१४॥
harayaḥ madhunā mattāḥ ke cit suptāḥ mahī-tale .dhṛṣṭā kecid hasanti anye kecid kurvanti ca itarat..14..
कृत्वा केचिद्वदन्त्यन्ये केचिद्बुध्यन्ति चेतरत्।येऽप्यत्र मधुपालाः स्युः प्रेष्या दधिमुखस्य तु ॥१५॥
कृत्वा केचिद् वदन्ति अन्ये केचिद् बुध्यन्ति च इतरत्।ये अपि अत्र मधुपालाः स्युः प्रेष्याः दधिमुखस्य तु ॥१५॥
kṛtvā kecid vadanti anye kecid budhyanti ca itarat.ye api atra madhupālāḥ syuḥ preṣyāḥ dadhimukhasya tu ..15..
तेऽपि तैर्वानरैर्भीमैः प्रतिषिद्धा दिशो गताः ।जानुभिश्च प्रकृष्टाश्च देवमार्गं च दर्शिताः ॥१६॥
ते अपि तैः वानरैः भीमैः प्रतिषिद्धाः दिशः गताः ।जानुभिः च प्रकृष्टाः च देवमार्गम् च दर्शिताः ॥१६॥
te api taiḥ vānaraiḥ bhīmaiḥ pratiṣiddhāḥ diśaḥ gatāḥ .jānubhiḥ ca prakṛṣṭāḥ ca devamārgam ca darśitāḥ ..16..
अब्रुवन्परमोद्विग्ना गत्वा दधिमुखं वचः । हनूमता दत्तवरैर्हतं मधुवनं बलात् । वयं च जानुभिः कृष्टा देवमार्गं च दर्शिताः ॥१७॥
अब्रुवन् परम-उद्विग्नाः गत्वा दधिमुखम् वचः । हनूमता दत्त-वरैः हतम् मधुवनम् बलात् । वयम् च जानुभिः कृष्टाः देवमार्गम् च दर्शिताः ॥१७॥
abruvan parama-udvignāḥ gatvā dadhimukham vacaḥ . hanūmatā datta-varaiḥ hatam madhuvanam balāt . vayam ca jānubhiḥ kṛṣṭāḥ devamārgam ca darśitāḥ ..17..
तदा दधिमुखः क्रुद्धो वनपस्तत्र वानरः । हतं मधुवनं श्रुत्वा सान्त्वयामास तान्हरीन् ॥१८॥
तदा दधिमुखः क्रुद्धः वनपः तत्र वानरः । हतम् मधुवनम् श्रुत्वा सान्त्वयामास तान् हरीन् ॥१८॥
tadā dadhimukhaḥ kruddhaḥ vanapaḥ tatra vānaraḥ . hatam madhuvanam śrutvā sāntvayāmāsa tān harīn ..18..
एतागच्छत गच्छामो वानरानतिदर्पितान् । बलेनावारयिष्यामो मधु भक्षयतो वयम् ॥१९॥
एत अगच्छत गच्छामः वानरान् अति दर्पितान् । बलेन आवारयिष्यामः मधु भक्षयतः वयम् ॥१९॥
eta agacchata gacchāmaḥ vānarān ati darpitān . balena āvārayiṣyāmaḥ madhu bhakṣayataḥ vayam ..19..
श्रुत्वा दधिमुखस्येदं वचनं वानरर्षभाः । पुनर्वीरा मधुवनं तेनैव सहिता ययुः ॥२०॥
श्रुत्वा दधिमुखस्य इदम् वचनम् वानर-ऋषभाः । पुनर् वीराः मधुवनम् तेन एव सहिताः ययुः ॥२०॥
śrutvā dadhimukhasya idam vacanam vānara-ṛṣabhāḥ . punar vīrāḥ madhuvanam tena eva sahitāḥ yayuḥ ..20..
मध्ये चैषां दधिमुखः प्रगृह्य सुमहातरुम् । समभ्यधावद्वेगेना ते च सर्वे प्लवङ्गमाः ॥२१॥
मध्ये च एषाम् दधिमुखः प्रगृह्य सु महा-तरुम् । समभ्यधावत् वेगेन आ ते च सर्वे प्लवङ्गमाः ॥२१॥
madhye ca eṣām dadhimukhaḥ pragṛhya su mahā-tarum . samabhyadhāvat vegena ā te ca sarve plavaṅgamāḥ ..21..
ते शिलाः पादपांश्चापि पाषाणांश्चापि वानराः । गृहीत्वाभ्यागमन्क्रुद्धा यत्र ते कपिकुञ्जराः ॥२२॥
ते शिलाः पादपान् च अपि पाषाणान् च अपि वानराः । गृहीत्वा अभ्यागमन् क्रुद्धाः यत्र ते कपि-कुञ्जराः ॥२२॥
te śilāḥ pādapān ca api pāṣāṇān ca api vānarāḥ . gṛhītvā abhyāgaman kruddhāḥ yatra te kapi-kuñjarāḥ ..22..
बलन्निवारयन्तश्च आसेदुर्हरयो हरीन्।संदष्टौष्ठपुटा क्रुध्दा भर्त्सयन्तो मुहर्मुहुः॥२३॥
बलन् निवारयन्तः च आसेदुः हरयः हरीन्।संदष्ट-ओष्ठ-पुटा क्रुध्दा भर्त्सयन्तः मुहर् मुहुर्॥२३॥
balan nivārayantaḥ ca āseduḥ harayaḥ harīn.saṃdaṣṭa-oṣṭha-puṭā krudhdā bhartsayantaḥ muhar muhur..23..
अथ दृष्ट्वा दधिमुखं क्रुद्धं वानरपुङ्गवाः । अभ्यधावन्त वेगेन हनूमत्प्रमुखास्तदा ॥२४॥
अथ दृष्ट्वा दधिमुखम् क्रुद्धम् वानर-पुङ्गवाः । अभ्यधावन्त वेगेन हनूमत्-प्रमुखाः तदा ॥२४॥
atha dṛṣṭvā dadhimukham kruddham vānara-puṅgavāḥ . abhyadhāvanta vegena hanūmat-pramukhāḥ tadā ..24..
सवृक्षं तं महाबाहुमापतन्तं महाबलम् ।वेगवन्तं विजग्राह बाहुभ्यां कुपितोङ्गदः॥२५॥
स वृक्षम् तम् महा-बाहुम् आपतन्तम् महा-बलम् ।वेगवन्तम् विजग्राह बाहुभ्याम् कुपित-उङ्गदः॥२५॥
sa vṛkṣam tam mahā-bāhum āpatantam mahā-balam .vegavantam vijagrāha bāhubhyām kupita-uṅgadaḥ..25..
मदान्धो न कृपां चक्रे आर्यकोऽयं ममेति सः। अथैनं निष्पिपेषाशु वेगवद्वसुधातले ॥२६॥
मद-अन्धः न कृपाम् चक्रे आर्यकः अयम् मम इति सः। अथा एनम् निष्पिपेष आशु वेगवत् वसुधा-तले ॥२६॥
mada-andhaḥ na kṛpām cakre āryakaḥ ayam mama iti saḥ. athā enam niṣpipeṣa āśu vegavat vasudhā-tale ..26..
स भग्नबाहुर्विमुखो विह्वलः शोणितोक्षितः । प्रमुमोह महावीरो मुहूर्तं कपिकुञ्जरः ॥२७॥
स भग्न-बाहुः विमुखः विह्वलः शोणित-उक्षितः । प्रमुमोह महा-वीरः मुहूर्तम् कपि-कुञ्जरः ॥२७॥
sa bhagna-bāhuḥ vimukhaḥ vihvalaḥ śoṇita-ukṣitaḥ . pramumoha mahā-vīraḥ muhūrtam kapi-kuñjaraḥ ..27..
स कथं चिद्विमुक्तस्तैर्वानरैर्वानरर्षभः । उवाचैकान्तमागम्य भृत्यांस्तान्समुपागतान् ॥२८॥
स कथम् चित् विमुक्तः तैः वानरैः वानर-ऋषभः । उवाच एकान्तम् आगम्य भृत्यान् तान् समुपागतान् ॥२८॥
sa katham cit vimuktaḥ taiḥ vānaraiḥ vānara-ṛṣabhaḥ . uvāca ekāntam āgamya bhṛtyān tān samupāgatān ..28..
एतागच्छत गच्छामो भर्ता नो यत्र वानरः । सुग्रीवो विपुलग्रीवः सह रामेण तिष्ठति ॥२९॥
एत अगच्छत गच्छामः भर्ता नः यत्र वानरः । सुग्रीवः विपुल-ग्रीवः सह रामेण तिष्ठति ॥२९॥
eta agacchata gacchāmaḥ bhartā naḥ yatra vānaraḥ . sugrīvaḥ vipula-grīvaḥ saha rāmeṇa tiṣṭhati ..29..
सर्वं चैवाङ्गदे दोषं श्रावयिष्यामि पार्थिव । अमर्षी वचनं श्रुत्वा घातयिष्यति वानरान् ॥३०॥
सर्वम् च एव अङ्गदे दोषम् श्रावयिष्यामि पार्थिव । अमर्षी वचनम् श्रुत्वा घातयिष्यति वानरान् ॥३०॥
sarvam ca eva aṅgade doṣam śrāvayiṣyāmi pārthiva . amarṣī vacanam śrutvā ghātayiṣyati vānarān ..30..
इष्टं मधुवनं ह्येतत्सुग्रीवस्य महात्मनः । पितृपैतामहं दिव्यं देवैरपि दुरासदम् ॥३१॥
इष्टम् मधुवनम् हि एतत् सुग्रीवस्य महात्मनः । पितृपैतामहम् दिव्यम् देवैः अपि दुरासदम् ॥३१॥
iṣṭam madhuvanam hi etat sugrīvasya mahātmanaḥ . pitṛpaitāmaham divyam devaiḥ api durāsadam ..31..
स वानरानिमान्सर्वान्मधुलुब्धान्गतायुषः । घातयिष्यति दण्डेन सुग्रीवः ससुहृज्जनान् ॥३२॥
स वानरान् इमान् सर्वान् मधु-लुब्धान् गत-आयुषः । घातयिष्यति दण्डेन सुग्रीवः स सुहृद्-जनान् ॥३२॥
sa vānarān imān sarvān madhu-lubdhān gata-āyuṣaḥ . ghātayiṣyati daṇḍena sugrīvaḥ sa suhṛd-janān ..32..
वध्या ह्येते दुरात्मानो नृपाज्ञा परिभाविनः।अमर्षप्रभवो रोषः सफलो नो भविष्यति ॥३३॥
वध्याः हि एते दुरात्मानः नृप-आज्ञा परिभाविनः।अमर्ष-प्रभवः रोषः सफलः नः भविष्यति ॥३३॥
vadhyāḥ hi ete durātmānaḥ nṛpa-ājñā paribhāvinaḥ.amarṣa-prabhavaḥ roṣaḥ saphalaḥ naḥ bhaviṣyati ..33..
एवमुक्त्वा दधिमुखो वनपालान्महाबलः । जगाम सहसोत्पत्य वनपालैः समन्वितः ॥३४॥
एवम् उक्त्वा दधिमुखः वनपालान् महा-बलः । जगाम सहसा उत्पत्य वनपालैः समन्वितः ॥३४॥
evam uktvā dadhimukhaḥ vanapālān mahā-balaḥ . jagāma sahasā utpatya vanapālaiḥ samanvitaḥ ..34..
निमेषान्तरमात्रेण स हि प्राप्तो वनालयः । सहस्रांशुसुतो धीमान्सुग्रीवो यत्र वानरः ॥३५॥
निमेष-अन्तर-मात्रेण स हि प्राप्तः वन-आलयः । सहस्रांशु-सुतः धीमान् सुग्रीवः यत्र वानरः ॥३५॥
nimeṣa-antara-mātreṇa sa hi prāptaḥ vana-ālayaḥ . sahasrāṃśu-sutaḥ dhīmān sugrīvaḥ yatra vānaraḥ ..35..
रामं च लक्ष्मणं चैव दृष्ट्वा सुग्रीवमेव च । समप्रतिष्ठां जगतीमाकाशान्निपपात ह ॥३६॥
रामम् च लक्ष्मणम् च एव दृष्ट्वा सुग्रीवम् एव च । सम-प्रतिष्ठाम् जगतीम् आकाशात् निपपात ह ॥३६॥
rāmam ca lakṣmaṇam ca eva dṛṣṭvā sugrīvam eva ca . sama-pratiṣṭhām jagatīm ākāśāt nipapāta ha ..36..
स निपत्य महावीर्यः सर्वैस्तैः परिवारितः । हरिर्दधिमुखः पालैः पालानां परमेश्वरः ॥३७॥
स निपत्य महा-वीर्यः सर्वैः तैः परिवारितः । हरिः दधिमुखः पालैः पालानाम् परम-ईश्वरः ॥३७॥
sa nipatya mahā-vīryaḥ sarvaiḥ taiḥ parivāritaḥ . hariḥ dadhimukhaḥ pālaiḥ pālānām parama-īśvaraḥ ..37..
स दीनवदनो भूत्वा कृत्वा शिरसि चाञ्जलिम् । सुग्रीवस्य शुभौ मूर्ध्ना चरणौ प्रत्यपीडयत् ॥३८॥
स दीन-वदनः भूत्वा कृत्वा शिरसि च अञ्जलिम् । सुग्रीवस्य शुभौ मूर्ध्ना चरणौ प्रत्यपीडयत् ॥३८॥
sa dīna-vadanaḥ bhūtvā kṛtvā śirasi ca añjalim . sugrīvasya śubhau mūrdhnā caraṇau pratyapīḍayat ..38..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In