This overlay will guide you through the buttons:

| |
|
ततो मूर्ध्ना निपतितं वानरं वानरर्षभः । दृष्ट्वैवोद्विग्नहृदयो वाक्यमेतदुवाच ह ॥१॥
ततस् मूर्ध्ना निपतितम् वानरम् वानर-ऋषभः । दृष्ट्वा एव उद्विग्न-हृदयः वाक्यम् एतत् उवाच ह ॥१॥
tatas mūrdhnā nipatitam vānaram vānara-ṛṣabhaḥ . dṛṣṭvā eva udvigna-hṛdayaḥ vākyam etat uvāca ha ..1..
उत्तिष्ठोत्तिष्ठ कस्मात्त्वं पादयोः पतितो मम । अभयं ते भवेद्वीर सत्यमेवाभिधीयताम् ॥२॥
उत्तिष्ठ उत्तिष्ठ कस्मात् त्वम् पादयोः पतितः मम । अभयम् ते भवेत् वीर सत्यम् एव अभिधीयताम् ॥२॥
uttiṣṭha uttiṣṭha kasmāt tvam pādayoḥ patitaḥ mama . abhayam te bhavet vīra satyam eva abhidhīyatām ..2..
किं सम्भ्रमाध्दितं कृत्स्त्रं ब्रूहि यद् वक्तुमर्हसि।कच्चिन्मधुवने स्वस्ति श्रोतुमिच्छामि वानर॥३॥
किम् सम्भ्रम-आध्दितम् कृत्स्त्रम् ब्रूहि यत् वक्तुम् अर्हसि।कच्चित् मधुवने स्वस्ति श्रोतुम् इच्छामि वानर॥३॥
kim sambhrama-ādhditam kṛtstram brūhi yat vaktum arhasi.kaccit madhuvane svasti śrotum icchāmi vānara..3..
स तु विश्वासितस्तेन सुग्रीवेण महात्मना । उत्थाय च महाप्राज्ञो वाक्यं दधिमुखोऽब्रवीत् ॥४॥
स तु विश्वासितः तेन सुग्रीवेण महात्मना । उत्थाय च महा-प्राज्ञः वाक्यम् दधिमुखः अब्रवीत् ॥४॥
sa tu viśvāsitaḥ tena sugrīveṇa mahātmanā . utthāya ca mahā-prājñaḥ vākyam dadhimukhaḥ abravīt ..4..
नैवर्क्षरजसा राजन्न त्वया नापि वालिना । वनं निसृष्टपूर्वं हि भक्षितं तत्तु वानरैः ॥५॥
न एव ऋक्षरजसा राजन् न त्वया ना अपि वालिना । वनम् निसृष्ट-पूर्वम् हि भक्षितम् तत् तु वानरैः ॥५॥
na eva ṛkṣarajasā rājan na tvayā nā api vālinā . vanam nisṛṣṭa-pūrvam hi bhakṣitam tat tu vānaraiḥ ..5..
न्यवारयमहं सर्वान् सहैभिर्वनचारिभिः।अचिन्तयित्वा मां ह्यष्टा भक्षयन्ति पिबन्ति च॥६॥
न्यवारयम् अहम् सर्वान् सह एभिः वन-चारिभिः।अ चिन्तयित्वा माम् हि अष्टा भक्षयन्ति पिबन्ति च॥६॥
nyavārayam aham sarvān saha ebhiḥ vana-cāribhiḥ.a cintayitvā mām hi aṣṭā bhakṣayanti pibanti ca..6..
एभिः प्रधर्षिताश्चैव वारिता वनरक्षिभिः । मधून्यचिन्तयित्वेमान्भक्षयन्ति पिबन्ति च ॥७॥
एभिः प्रधर्षिताः च एव वारिताः वन-रक्षिभिः । मधूनि अ चिन्तयित्वा इमान् भक्षयन्ति पिबन्ति च ॥७॥
ebhiḥ pradharṣitāḥ ca eva vāritāḥ vana-rakṣibhiḥ . madhūni a cintayitvā imān bhakṣayanti pibanti ca ..7..
शिष्टमत्रापविध्यन्ति भक्षयन्ति तथापरे । निवार्यमाणास्ते सर्वे भ्रुवौ वै दर्शयन्ति हि ॥८॥
शिष्टम् अत्र अपविध्यन्ति भक्षयन्ति तथा अपरे । निवार्यमाणाः ते सर्वे भ्रुवौ वै दर्शयन्ति हि ॥८॥
śiṣṭam atra apavidhyanti bhakṣayanti tathā apare . nivāryamāṇāḥ te sarve bhruvau vai darśayanti hi ..8..
इमे हि संरब्धतरास्तथा तैः सम्प्रधर्षिताः । वारयन्तो वनात्तस्मात्क्रुद्धैर्वानरपुङ्गवैः ॥९॥
इमे हि संरब्धतराः तथा तैः सम्प्रधर्षिताः । वारयन्तः वनात् तस्मात् क्रुद्धैः वानर-पुङ्गवैः ॥९॥
ime hi saṃrabdhatarāḥ tathā taiḥ sampradharṣitāḥ . vārayantaḥ vanāt tasmāt kruddhaiḥ vānara-puṅgavaiḥ ..9..
ततस्तैर्बहुभिर्वीरैर्वानरैर्वानरर्षभाः । संरक्तनयनैः क्रोधाद्धरयः सम्प्रचालिताः ॥१०॥
ततस् तैः बहुभिः वीरैः वानरैः वानर-ऋषभाः । संरक्त-नयनैः क्रोधात् हरयः सम्प्रचालिताः ॥१०॥
tatas taiḥ bahubhiḥ vīraiḥ vānaraiḥ vānara-ṛṣabhāḥ . saṃrakta-nayanaiḥ krodhāt harayaḥ sampracālitāḥ ..10..
पाणिभिर्निहताः के चित्के चिज्जानुभिराहताः । प्रकृष्टाश्च यथाकामं देवमार्गं च दर्शिताः ॥११॥
पाणिभिः निहताः के चित् के चित् जानुभिः आहताः । प्रकृष्टाः च यथाकामम् देवमार्गम् च दर्शिताः ॥११॥
pāṇibhiḥ nihatāḥ ke cit ke cit jānubhiḥ āhatāḥ . prakṛṣṭāḥ ca yathākāmam devamārgam ca darśitāḥ ..11..
एवमेते हताः शूरास्त्वयि तिष्ठति भर्तरि । कृत्स्नं मधुवनं चैव प्रकामं तैः प्रभक्ष्यते ॥१२॥
एवम् एते हताः शूराः त्वयि तिष्ठति भर्तरि । कृत्स्नम् मधुवनम् च एव प्रकामम् तैः प्रभक्ष्यते ॥१२॥
evam ete hatāḥ śūrāḥ tvayi tiṣṭhati bhartari . kṛtsnam madhuvanam ca eva prakāmam taiḥ prabhakṣyate ..12..
एवं विज्ञाप्यमानं तु सुग्रीवं वानरर्षभम् । अपृच्छत्तं महाप्राज्ञो लक्ष्मणः परवीरहा ॥१३॥
एवम् विज्ञाप्यमानम् तु सुग्रीवम् वानर-ऋषभम् । अपृच्छत् तम् महा-प्राज्ञः लक्ष्मणः पर-वीर-हा ॥१३॥
evam vijñāpyamānam tu sugrīvam vānara-ṛṣabham . apṛcchat tam mahā-prājñaḥ lakṣmaṇaḥ para-vīra-hā ..13..
किमयं वानरो राजन्वनपः प्रत्युपस्थितः । कं चार्थमभिनिर्दिश्य दुःखितो वाक्यमब्रवीत् ॥१४॥
किम् अयम् वानरः राजन् वनपः प्रत्युपस्थितः । कम् च अर्थम् अभिनिर्दिश्य दुःखितः वाक्यम् अब्रवीत् ॥१४॥
kim ayam vānaraḥ rājan vanapaḥ pratyupasthitaḥ . kam ca artham abhinirdiśya duḥkhitaḥ vākyam abravīt ..14..
एवमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना । लक्ष्मणं प्रत्युवाचेदं वाक्यं वाक्यविशारदः ॥१५॥
एवम् उक्तः तु सुग्रीवः लक्ष्मणेन महात्मना । लक्ष्मणम् प्रत्युवाच इदम् वाक्यम् वाक्य-विशारदः ॥१५॥
evam uktaḥ tu sugrīvaḥ lakṣmaṇena mahātmanā . lakṣmaṇam pratyuvāca idam vākyam vākya-viśāradaḥ ..15..
आर्य लक्ष्मण सम्प्राह वीरो दधिमुखः कपिः । अङ्गदप्रमुखैर्वीरैर्भक्षितं मधुवानरैः ॥१६॥
आर्य लक्ष्मण सम्प्राह वीरः दधिमुखः कपिः । अङ्गद-प्रमुखैः वीरैः भक्षितम् मधु-वानरैः ॥१६॥
ārya lakṣmaṇa samprāha vīraḥ dadhimukhaḥ kapiḥ . aṅgada-pramukhaiḥ vīraiḥ bhakṣitam madhu-vānaraiḥ ..16..
नैषामकृतकृत्यानामीदृशः स्यादुपक्रमः । वनं यथाभिपन्नं तैः साधितं कर्म वानरैः ॥१७॥
न एषाम् अकृतकृत्यानाम् ईदृशः स्यात् उपक्रमः । वनम् यथा अभिपन्नम् तैः साधितम् कर्म वानरैः ॥१७॥
na eṣām akṛtakṛtyānām īdṛśaḥ syāt upakramaḥ . vanam yathā abhipannam taiḥ sādhitam karma vānaraiḥ ..17..
वारयन्तो भृशं प्राप्ता पाला जानुभिराहताः।तथा न गणितश्चायं कपिर्दिषुलो बली॥१८॥
वारयन्तः भृशम् प्राप्ता पालाः जानुभिः आहताः।तथा न गणितः च अयम् कपिः दिषुलः बली॥१८॥
vārayantaḥ bhṛśam prāptā pālāḥ jānubhiḥ āhatāḥ.tathā na gaṇitaḥ ca ayam kapiḥ diṣulaḥ balī..18..
पतिर्मम वनस्यायमस्माभिः स्थापितः स्वयम्।दृष्टा देवी न सन्देहो न चान्येन हनूमता ॥१९॥
पतिः मम वनस्य अयम् अस्माभिः स्थापितः स्वयम्।दृष्टा देवी न सन्देहः न च अन्येन हनूमता ॥१९॥
patiḥ mama vanasya ayam asmābhiḥ sthāpitaḥ svayam.dṛṣṭā devī na sandehaḥ na ca anyena hanūmatā ..19..
न ह्यन्यः साधने हेतुः कर्मणोऽस्य हनूमतः ।कार्यसिद्धिर्हनुमति मतिश्च हरिपुङ्गव ॥२०॥
न हि अन्यः साधने हेतुः कर्मणः अस्य हनूमतः ।कार्य-सिद्धिः हनुमति मतिः च हरि-पुङ्गव ॥२०॥
na hi anyaḥ sādhane hetuḥ karmaṇaḥ asya hanūmataḥ .kārya-siddhiḥ hanumati matiḥ ca hari-puṅgava ..20..
व्यवसायश्च वीर्यं च श्रुतं चापि प्रतिष्ठितम् ।जाम्बवान्यत्र नेता स्यादङ्गदस्य बलेश्वरः ॥२१॥
व्यवसायः च वीर्यम् च श्रुतम् च अपि प्रतिष्ठितम् ।जाम्बवान् यत्र नेता स्यात् अङ्गदस्य बल-ईश्वरः ॥२१॥
vyavasāyaḥ ca vīryam ca śrutam ca api pratiṣṭhitam .jāmbavān yatra netā syāt aṅgadasya bala-īśvaraḥ ..21..
हनूमांश्चाप्यधिष्ठाता न तस्य गतिरन्यथा ।अङ्गदप्रमुखैर्वीरैर्हतं मधुवनं किल ॥२२॥
हनूमान् च अपि अधिष्ठाता न तस्य गतिः अन्यथा ।अङ्गद-प्रमुखैः वीरैः हतम् मधुवनम् किल ॥२२॥
hanūmān ca api adhiṣṭhātā na tasya gatiḥ anyathā .aṅgada-pramukhaiḥ vīraiḥ hatam madhuvanam kila ..22..
विचिन्त्य दक्षिणामाशामागतैर्हरिपुङ्गवैः ।आगतैश्च प्रविष्टं तद्यथा मधुवनं हि तैः ॥२३॥
विचिन्त्य दक्षिणाम् आशाम् आगतैः हरि-पुङ्गवैः ।आगतैः च प्रविष्टम् तत् यथा मधुवनम् हि तैः ॥२३॥
vicintya dakṣiṇām āśām āgataiḥ hari-puṅgavaiḥ .āgataiḥ ca praviṣṭam tat yathā madhuvanam hi taiḥ ..23..
धर्षितं च वनं कृत्स्नमुपयुक्तं च वानरैः ।पातिता वनापालास्ते तदा जानुभिराहताः॥२४॥
धर्षितम् च वनम् कृत्स्नम् उपयुक्तम् च वानरैः ।पातिताः वनापालाः ते तदा जानुभिः आहताः॥२४॥
dharṣitam ca vanam kṛtsnam upayuktam ca vānaraiḥ .pātitāḥ vanāpālāḥ te tadā jānubhiḥ āhatāḥ..24..
एतदर्थमयं प्राप्तो वक्तुं मधुरवागिह । नाम्ना दधिमुखो नाम हरिः प्रख्यातविक्रमः ॥२५॥
एतद्-अर्थम् अयम् प्राप्तः वक्तुम् मधुर-वाच् इह । नाम्ना दधिमुखः नाम हरिः प्रख्यात-विक्रमः ॥२५॥
etad-artham ayam prāptaḥ vaktum madhura-vāc iha . nāmnā dadhimukhaḥ nāma hariḥ prakhyāta-vikramaḥ ..25..
दृष्टा सीता महाबाहो सौमित्रे पश्य तत्त्वतः । अभिगम्य यथा सर्वे पिबन्ति मधु वानराः ॥२६॥
दृष्टा सीता महा-बाहो सौमित्रे पश्य तत्त्वतः । अभिगम्य यथा सर्वे पिबन्ति मधु वानराः ॥२६॥
dṛṣṭā sītā mahā-bāho saumitre paśya tattvataḥ . abhigamya yathā sarve pibanti madhu vānarāḥ ..26..
न चाप्यदृष्ट्वा वैदेहीं विश्रुताः पुरुषर्षभ । वनं दात्त वरं दिव्यं धर्षयेयुर्वनौकसः ॥२७॥
न च अपि अ दृष्ट्वा वैदेहीम् विश्रुताः पुरुष-ऋषभ । वनम् दात्त वरम् दिव्यम् धर्षयेयुः वनौकसः ॥२७॥
na ca api a dṛṣṭvā vaidehīm viśrutāḥ puruṣa-ṛṣabha . vanam dātta varam divyam dharṣayeyuḥ vanaukasaḥ ..27..
ततः प्रहृष्टो धर्मात्मा लक्ष्मणः सहराघवः । श्रुत्वा कर्णसुखां वाणीं सुग्रीववदनाच्च्युताम् ॥२८॥
ततस् प्रहृष्टः धर्म-आत्मा लक्ष्मणः सह राघवः । श्रुत्वा कर्ण-सुखाम् वाणीम् सुग्रीव-वदनात् च्युताम् ॥२८॥
tatas prahṛṣṭaḥ dharma-ātmā lakṣmaṇaḥ saha rāghavaḥ . śrutvā karṇa-sukhām vāṇīm sugrīva-vadanāt cyutām ..28..
प्राहृष्यत भृशं रामो लक्ष्मणश्च महायशाः । श्रुत्वा दधिमुखस्येदं सुग्रीवस्तु प्रहृष्य च ॥२९॥
प्राहृष्यत भृशम् रामः लक्ष्मणः च महा-यशाः । श्रुत्वा दधिमुखस्य इदम् सुग्रीवः तु प्रहृष्य च ॥२९॥
prāhṛṣyata bhṛśam rāmaḥ lakṣmaṇaḥ ca mahā-yaśāḥ . śrutvā dadhimukhasya idam sugrīvaḥ tu prahṛṣya ca ..29..
वनपालं पुनर्वाक्यं सुग्रीवः प्रत्यभाषत ।प्रीतोऽस्मि सौम्य यद्भुक्तं वनं तैः कृतकर्मभिः ॥३०॥
वन-पालम् पुनर् वाक्यम् सुग्रीवः प्रत्यभाषत ।प्रीतः अस्मि सौम्य यत् भुक्तम् वनम् तैः कृत-कर्मभिः ॥३०॥
vana-pālam punar vākyam sugrīvaḥ pratyabhāṣata .prītaḥ asmi saumya yat bhuktam vanam taiḥ kṛta-karmabhiḥ ..30..
धर्षितं मर्षणीयं च चेष्टितं कृतकर्मणाम् ।गच्छ शीघ्रम मधुवनं संरक्षस्व त्वमेव हि । शाघ्रं प्रेषय सर्वास्तान् हनूमत्प्रमुखान् कपीन्॥३१॥
धर्षितम् मर्षणीयम् च चेष्टितम् कृत-कर्मणाम् ।गच्छ मधुवनम् संरक्षस्व त्वम् एव हि । शाघ्रम् प्रेषय सर्वाः तान् हनुमत् प्रमुखान् कपीन्॥३१॥
dharṣitam marṣaṇīyam ca ceṣṭitam kṛta-karmaṇām .gaccha madhuvanam saṃrakṣasva tvam eva hi . śāghram preṣaya sarvāḥ tān hanumat pramukhān kapīn..31..
इच्छामि शीघ्रं हनुमत्प्रधानान् शाखामृगांस्तान्मृगराजदर्पान् ।प्रष्टुं कृतार्थान्सह राघवाभ्यां श्रोतुं च सीताधिगमे प्रयत्नम् ॥३२॥
इच्छामि शीघ्रम् हनुमत्-प्रधानान् शाखामृगान् तान् मृग-राज-दर्पान् ।प्रष्टुम् कृतार्थान् सह राघवाभ्याम् श्रोतुम् च सीता-अधिगमे प्रयत्नम् ॥३२॥
icchāmi śīghram hanumat-pradhānān śākhāmṛgān tān mṛga-rāja-darpān .praṣṭum kṛtārthān saha rāghavābhyām śrotum ca sītā-adhigame prayatnam ..32..
प्रीतिस्फीताक्षौ सम्प्रहृष्टौ कुमारौ दृष्ट्वा सिद्धार्थौ वानराणां च राजा।अङ्गैः संहृष्टैः कर्मसिद्धिं विदित्वा बाह्वोरासन्नां सोऽतिमात्रं ननन्द॥३३॥
प्रीति-स्फीत-अक्षौ सम्प्रहृष्टौ कुमारौ दृष्ट्वा सिद्धार्थौ वानराणाम् च राजा।अङ्गैः संहृष्टैः कर्म-सिद्धिम् विदित्वा बाह्वोः आसन्नाम् सः अतिमात्रम् ननन्द॥३३॥
prīti-sphīta-akṣau samprahṛṣṭau kumārau dṛṣṭvā siddhārthau vānarāṇām ca rājā.aṅgaiḥ saṃhṛṣṭaiḥ karma-siddhim viditvā bāhvoḥ āsannām saḥ atimātram nananda..33..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In