This overlay will guide you through the buttons:

| |
|
सुग्रीवेणैवमुक्तस्तु हृष्टो दधिमुखः कपिः । राघवं लक्ष्मणं चैव सुग्रीवं चाभ्यवादयत् ॥ १॥
सुग्रीवेण एवम् उक्तः तु हृष्टः दधिमुखः कपिः । राघवम् लक्ष्मणम् च एव सुग्रीवम् च अभ्यवादयत् ॥ १॥
sugrīveṇa evam uktaḥ tu hṛṣṭaḥ dadhimukhaḥ kapiḥ . rāghavam lakṣmaṇam ca eva sugrīvam ca abhyavādayat .. 1..
स प्रणम्य च सुग्रीवं राघवौ च महाबलौ । वानरैः सहितैः शूरैर्दिवमेवोत्पपात ह ॥ २॥
स प्रणम्य च सुग्रीवम् राघवौ च महा-बलौ । वानरैः सहितैः शूरैः दिवम् एवा उत्पपात ह ॥ २॥
sa praṇamya ca sugrīvam rāghavau ca mahā-balau . vānaraiḥ sahitaiḥ śūraiḥ divam evā utpapāta ha .. 2..
स यथैवागतः पूर्वं तथैव त्वरितो गतः । निपत्य गगनाद्भूमौ तद्वनं प्रविवेश ह ॥ ३॥
स यथा एव आगतः पूर्वम् तथा एव त्वरितः गतः । निपत्य गगनात् भूमौ तत् वनम् प्रविवेश ह ॥ ३॥
sa yathā eva āgataḥ pūrvam tathā eva tvaritaḥ gataḥ . nipatya gaganāt bhūmau tat vanam praviveśa ha .. 3..
स प्रविष्टो मधुवनं ददर्श हरियूथपान् । विमदानुद्धतान्सर्वान्मेहमानान्मधूदकम् ॥ ४॥
स प्रविष्टः मधुवनम् ददर्श हरि-यूथपान् । विमदान् उद्धतान् सर्वान् मेहमानान् मधूदकम् ॥ ४॥
sa praviṣṭaḥ madhuvanam dadarśa hari-yūthapān . vimadān uddhatān sarvān mehamānān madhūdakam .. 4..
स तानुपागमद्वीरो बद्ध्वा करपुटाञ्जलिम् । उवाच वचनं श्लक्ष्णमिदं हृष्टवदङ्गदम् ॥ ५॥
स तान् उपागमत् वीरः बद्ध्वा कर-पुट-अञ्जलिम् । उवाच वचनम् श्लक्ष्णम् इदम् हृष्ट-वत् अङ्गदम् ॥ ५॥
sa tān upāgamat vīraḥ baddhvā kara-puṭa-añjalim . uvāca vacanam ślakṣṇam idam hṛṣṭa-vat aṅgadam .. 5..
सौम्य रोषो न कर्तव्यो यदेभिरभिवारितः । अज्ञानाद्रक्षिभिः क्रोधाद्भवन्तः प्रतिषेधिताः ॥ ६॥
सौम्य रोषः न कर्तव्यः यत् एभिः अभिवारितः । अज्ञानात् रक्षिभिः क्रोधात् भवन्तः प्रतिषेधिताः ॥ ६॥
saumya roṣaḥ na kartavyaḥ yat ebhiḥ abhivāritaḥ . ajñānāt rakṣibhiḥ krodhāt bhavantaḥ pratiṣedhitāḥ .. 6..
श्रान्तो दूरादनुप्राप्तो भक्षयस्व स्वकं मधु।युवराजस्त्वमीशश्च वनस्यास्य महाबल ॥७॥
श्रान्तः दूरात् अनुप्राप्तः भक्षयस्व स्वकम् मधु।युवराजः त्वम् ईशः च वनस्य अस्य महा-बल ॥७॥
śrāntaḥ dūrāt anuprāptaḥ bhakṣayasva svakam madhu.yuvarājaḥ tvam īśaḥ ca vanasya asya mahā-bala ..7..
मौर्ख्यात्पूर्वं कृतो दोषस्तद्भवान्क्षन्तुमर्हति ।यथैव हि पिता तेऽभूत्पूर्वं हरिगणेश्वरः ॥८॥
मौर्ख्यात् पूर्वम् कृतः दोषः तत् भवान् क्षन्तुम् अर्हति ।यथा एव हि पिता ते अभूत् पूर्वम् हरि-गण-ईश्वरः ॥८॥
maurkhyāt pūrvam kṛtaḥ doṣaḥ tat bhavān kṣantum arhati .yathā eva hi pitā te abhūt pūrvam hari-gaṇa-īśvaraḥ ..8..
तथा त्वमपि सुग्रीवो नान्यस्तु हरिसत्तम ।आख्यातं हि मया गत्वा पितृव्यस्य तवानघ ॥९॥
तथा त्वम् अपि सुग्रीवः ना अन्यः तु हरि-सत्तम ।आख्यातम् हि मया गत्वा पितृव्यस्य तव अनघ ॥९॥
tathā tvam api sugrīvaḥ nā anyaḥ tu hari-sattama .ākhyātam hi mayā gatvā pitṛvyasya tava anagha ..9..
इहोपयानं सर्वेषामेतेषां वनचारिणाम् ।स त्वदागमनं श्रुत्वा सहैभिर्हरियूथपैः ॥१०॥
इह उपयानम् सर्वेषाम् एतेषाम् वन-चारिणाम् ।स त्वद्-आगमनम् श्रुत्वा सह एभिः हरि-यूथपैः ॥१०॥
iha upayānam sarveṣām eteṣām vana-cāriṇām .sa tvad-āgamanam śrutvā saha ebhiḥ hari-yūthapaiḥ ..10..
प्रहृष्टो न तु रुष्टोऽसौ वनं श्रुत्वा प्रधर्षितम् ।प्रहृष्टो मां पितृव्यस्ते सुग्रीवो वानरेश्वरः ॥११॥
प्रहृष्टः न तु रुष्टः असौ वनम् श्रुत्वा प्रधर्षितम् ।प्रहृष्टः माम् पितृव्यः ते सुग्रीवः वानर-ईश्वरः ॥११॥
prahṛṣṭaḥ na tu ruṣṭaḥ asau vanam śrutvā pradharṣitam .prahṛṣṭaḥ mām pitṛvyaḥ te sugrīvaḥ vānara-īśvaraḥ ..11..
शीघ्रं प्रेषय सर्वांस्तानिति होवाच पार्थिवः ।श्रुत्वा दधिमुखस्यैतद्वचनं श्लक्ष्णमङ्गदः ॥१२॥
शीघ्रम् प्रेषय सर्वान् तान् इति ह उवाच पार्थिवः ।श्रुत्वा दधिमुखस्य एतत् वचनम् श्लक्ष्णम् अङ्गदः ॥१२॥
śīghram preṣaya sarvān tān iti ha uvāca pārthivaḥ .śrutvā dadhimukhasya etat vacanam ślakṣṇam aṅgadaḥ ..12..
अब्रवीत्तान्हरिश्रेष्ठो वाक्यं वाक्यविशारदः ।शङ्के श्रुतोऽयं वृत्तान्तो रामेण हरियूथपाः ॥१३॥
अब्रवीत् तान् हरि-श्रेष्ठः वाक्यम् वाक्य-विशारदः ।शङ्के श्रुतः अयम् वृत्तान्तः रामेण हरि-यूथपाः ॥१३॥
abravīt tān hari-śreṣṭhaḥ vākyam vākya-viśāradaḥ .śaṅke śrutaḥ ayam vṛttāntaḥ rāmeṇa hari-yūthapāḥ ..13..
अयं च हर्षादाख्याति तेन जानामि हेतुना। तत्क्षमं नेह नः स्थातुं कृते कार्ये परन्तपाः ॥१४॥
अयम् च हर्षात् आख्याति तेन जानामि हेतुना। तत् क्षमम् ना इह नः स्थातुम् कृते कार्ये परन्तपाः ॥१४॥
ayam ca harṣāt ākhyāti tena jānāmi hetunā. tat kṣamam nā iha naḥ sthātum kṛte kārye parantapāḥ ..14..
पीत्वा मधु यथाकामं विश्रान्ता वनचारिणः । किं शेषं गमनं तत्र सुग्रीवो यत्र मे गुरुः ॥१५॥
पीत्वा मधु यथाकामम् विश्रान्ताः वन-चारिणः । किम् शेषम् गमनम् तत्र सुग्रीवः यत्र मे गुरुः ॥१५॥
pītvā madhu yathākāmam viśrāntāḥ vana-cāriṇaḥ . kim śeṣam gamanam tatra sugrīvaḥ yatra me guruḥ ..15..
सर्वे यथा मां वक्ष्यन्ति समेत्य हरियूथपाः । तथास्मि कर्ता कर्तव्ये भवद्भिः परवानहम् ॥१६॥
सर्वे यथा माम् वक्ष्यन्ति समेत्य हरि-यूथपाः । तथा अस्मि कर्ता कर्तव्ये भवद्भिः परवान् अहम् ॥१६॥
sarve yathā mām vakṣyanti sametya hari-yūthapāḥ . tathā asmi kartā kartavye bhavadbhiḥ paravān aham ..16..
नाज्ञापयितुमीशोऽहं युवराजोऽस्मि यद्यपि । अयुक्तं कृतकर्माणो यूयं धर्षयितुं मया ॥१७॥
न आज्ञापयितुम् ईशः अहम् युवराजः अस्मि यदि अपि । अयुक्तम् कृत-कर्माणः यूयम् धर्षयितुम् मया ॥१७॥
na ājñāpayitum īśaḥ aham yuvarājaḥ asmi yadi api . ayuktam kṛta-karmāṇaḥ yūyam dharṣayitum mayā ..17..
ब्रुवतश्चाङ्गदश्चैवं श्रुत्वा वचनमव्ययम् । प्रहृष्टमनसो वाक्यमिदमूचुर्वनौकसः ॥१८॥
ब्रुवतः च अङ्गदः च एवम् श्रुत्वा वचनम् अव्ययम् । प्रहृष्ट-मनसः वाक्यम् इदम् ऊचुः वनौकसः ॥१८॥
bruvataḥ ca aṅgadaḥ ca evam śrutvā vacanam avyayam . prahṛṣṭa-manasaḥ vākyam idam ūcuḥ vanaukasaḥ ..18..
एवं वक्ष्यति को राजन्प्रभुः सन्वानरर्षभ । ऐश्वर्यमदमत्तो हि सर्वोऽहमिति मन्यते ॥१९॥
एवम् वक्ष्यति कः राजन् प्रभुः सन् वानर-ऋषभ । ऐश्वर्य-मद-मत्तः हि सर्वः अहम् इति मन्यते ॥१९॥
evam vakṣyati kaḥ rājan prabhuḥ san vānara-ṛṣabha . aiśvarya-mada-mattaḥ hi sarvaḥ aham iti manyate ..19..
तव चेदं सुसदृशं वाक्यं नान्यस्य कस्य चित् । संनतिर्हि तवाख्याति भविष्यच्छुभभाग्यताम् ॥२०॥
तव च इदम् सु सदृशम् वाक्यम् न अन्यस्य कस्य चित् । संनतिः हि तव आख्याति भविष्यत्-शुभ-भाग्य-ताम् ॥२०॥
tava ca idam su sadṛśam vākyam na anyasya kasya cit . saṃnatiḥ hi tava ākhyāti bhaviṣyat-śubha-bhāgya-tām ..20..
सर्वे वयमपि प्राप्तास्तत्र गन्तुं कृतक्षणाः । स यत्र हरिवीराणां सुग्रीवः पतिरव्ययः ॥२१॥
सर्वे वयम् अपि प्राप्ताः तत्र गन्तुम् कृतक्षणाः । स यत्र हरि-वीराणाम् सुग्रीवः पतिः अव्ययः ॥२१॥
sarve vayam api prāptāḥ tatra gantum kṛtakṣaṇāḥ . sa yatra hari-vīrāṇām sugrīvaḥ patiḥ avyayaḥ ..21..
त्वया ह्यनुक्तैर्हरिभिर्नैव शक्यं पदात्पदम् । क्व चिद्गन्तुं हरिश्रेष्ठ ब्रूमः सत्यमिदं तु ते ॥२२॥
त्वया हि अनुक्तैः हरिभिः ना एव शक्यम् पदात् पदम् । क्व चित् गन्तुम् हरि-श्रेष्ठ ब्रूमः सत्यम् इदम् तु ते ॥२२॥
tvayā hi anuktaiḥ haribhiḥ nā eva śakyam padāt padam . kva cit gantum hari-śreṣṭha brūmaḥ satyam idam tu te ..22..
एवं तु वदतां तेषामङ्गदः प्रत्यभाषत । बाढं गच्छाम इत्युक्त्वा उत्पपात महीतलात् ॥२३॥
एवम् तु वदताम् तेषाम् अङ्गदः प्रत्यभाषत । बाढम् गच्छामः इति उक्त्वा उत्पपात मही-तलात् ॥२३॥
evam tu vadatām teṣām aṅgadaḥ pratyabhāṣata . bāḍham gacchāmaḥ iti uktvā utpapāta mahī-talāt ..23..
उत्पतन्तमनूत्पेतुः सर्वे ते हरियूथपाः । कृत्वाकाशं निराकाशं यज्ञोत्क्षिप्ता इवानलाः ॥२४॥
उत्पतन्तम् अनूत्पेतुः सर्वे ते हरि-यूथपाः । कृत्वा आकाशम् निराकाशम् यज्ञ-उत्क्षिप्ताः इव अनलाः ॥२४॥
utpatantam anūtpetuḥ sarve te hari-yūthapāḥ . kṛtvā ākāśam nirākāśam yajña-utkṣiptāḥ iva analāḥ ..24..
अङ्गदं पुरतः कृत्वा हनूमन्तं च वानरम्।तेऽम्बरं सहसोत्पत्य वेगवन्तः प्लवङ्गमाः ॥२५॥
अङ्गदम् पुरतस् कृत्वा हनूमन्तम् च वानरम्।ते अम्बरम् सहसा उत्पत्य वेगवन्तः प्लवङ्गमाः ॥२५॥
aṅgadam puratas kṛtvā hanūmantam ca vānaram.te ambaram sahasā utpatya vegavantaḥ plavaṅgamāḥ ..25..
विनदन्तो महानादं घना वातेरिता यथा ।अङ्गदे ह्यननुप्राप्ते सुग्रीवो वानराधिपः ॥२६॥
विनदन्तः महा-नादम् घनाः वात-ईरिताः यथा ।अङ्गदे हि अन् अनुप्राप्ते सुग्रीवः वानर-अधिपः ॥२६॥
vinadantaḥ mahā-nādam ghanāḥ vāta-īritāḥ yathā .aṅgade hi an anuprāpte sugrīvaḥ vānara-adhipaḥ ..26..
उवाच शोकोपहतं रामं कमललोचनम् ।समाश्वसिहि भद्रं ते दृष्टा देवी न संशयः ॥२७॥
उवाच शोक-उपहतम् रामम् कमल-लोचनम् ।समाश्वसिहि भद्रम् ते दृष्टा देवी न संशयः ॥२७॥
uvāca śoka-upahatam rāmam kamala-locanam .samāśvasihi bhadram te dṛṣṭā devī na saṃśayaḥ ..27..
नागन्तुमिह शक्यं तैरतीते समये हि नः ।अङ्गदंस्य प्रहर्षाच्च जानामि शुभदर्शन॥२८॥
ना आगन्तुम् इह शक्यम् तैः अतीते समये हि नः ।अङ्गदंस्य प्रहर्षात् च जानामि शुभ-दर्शन॥२८॥
nā āgantum iha śakyam taiḥ atīte samaye hi naḥ .aṅgadaṃsya praharṣāt ca jānāmi śubha-darśana..28..
न मत्सकाशमागच्छेत्कृत्ये हि विनिपातिते । युवराजो महाबाहुः प्लवतां प्रवरोऽङ्गदः ॥२९॥
न मद्-सकाशम् आगच्छेत् कृत्ये हि विनिपातिते । युवराजः महा-बाहुः प्लवताम् प्रवरः अङ्गदः ॥२९॥
na mad-sakāśam āgacchet kṛtye hi vinipātite . yuvarājaḥ mahā-bāhuḥ plavatām pravaraḥ aṅgadaḥ ..29..
यद्यप्यकृतकृत्यानामीदृशः स्यादुपक्रमः । भवेत्तु दीनवदनो भ्रान्तविप्लुतमानसः ॥३०॥
यदि अपि अकृत-कृत्यानाम् ईदृशः स्यात् उपक्रमः । भवेत् तु दीन-वदनः भ्रान्त-विप्लुत-मानसः ॥३०॥
yadi api akṛta-kṛtyānām īdṛśaḥ syāt upakramaḥ . bhavet tu dīna-vadanaḥ bhrānta-vipluta-mānasaḥ ..30..
पितृपैतामहं चैतत्पूर्वकैरभिरक्षितम् । न मे मधुवनं हन्यादहृष्टः प्लवगेश्वरः ॥३१॥
पितृपैतामहम् च एतत् पूर्वकैः अभिरक्षितम् । न मे मधुवनम् हन्यात् अहृष्टः प्लवग-ईश्वरः ॥३१॥
pitṛpaitāmaham ca etat pūrvakaiḥ abhirakṣitam . na me madhuvanam hanyāt ahṛṣṭaḥ plavaga-īśvaraḥ ..31..
कौसल्या सुप्रजा राम समाश्वसिहि सुव्रत । दृष्टा देवी न सन्देहो न चान्येन हनूमता ॥३२॥
कौसल्या सुप्रजाः राम समाश्वसिहि सुव्रत । दृष्टा देवी न सन्देहः न च अन्येन हनूमता ॥३२॥
kausalyā suprajāḥ rāma samāśvasihi suvrata . dṛṣṭā devī na sandehaḥ na ca anyena hanūmatā ..32..
न ह्यन्यः कर्मणो हेतुः साधने तद्विधो भवेत् ।हनूमति हि सिद्धिश्च मतिश् च मतिसत्तम ॥३३॥
न हि अन्यः कर्मणः हेतुः साधने तद्विधः भवेत् ।हनूमति हि सिद्धिः च मतिः च मति-सत्तम ॥३३॥
na hi anyaḥ karmaṇaḥ hetuḥ sādhane tadvidhaḥ bhavet .hanūmati hi siddhiḥ ca matiḥ ca mati-sattama ..33..
व्यवसायश्च वीर्यं च सूर्ये तेज इव ध्रुवम् ।जाम्बवान्यत्र नेता स्यादङ्गदश्च बलेश्वरः ॥३४॥
व्यवसायः च वीर्यम् च सूर्ये तेजः इव ध्रुवम् ।जाम्बवान् यत्र नेता स्यात् अङ्गदः च बल-ईश्वरः ॥३४॥
vyavasāyaḥ ca vīryam ca sūrye tejaḥ iva dhruvam .jāmbavān yatra netā syāt aṅgadaḥ ca bala-īśvaraḥ ..34..
हनूमांश्चाप्यधिष्ठाता न तस्य गतिरन्यथा ।मा भूश्चिन्ता समायुक्तः सम्प्रत्यमितविक्रम ॥३५॥
हनूमान् च अपि अधिष्ठाता न तस्य गतिः अन्यथा ।मा भूः चिन्ता समायुक्तः सम्प्रति अमित-विक्रम ॥३५॥
hanūmān ca api adhiṣṭhātā na tasya gatiḥ anyathā .mā bhūḥ cintā samāyuktaḥ samprati amita-vikrama ..35..
यदा दि दर्पितोदग्राः संगताः काननौकसः।नैषामकृतकार्याणामीदशः स्यादुपक्रमः॥३६॥
यदा दर्पित-उदग्राः संगताः काननौकसः।न एषाम् अकृत-कार्याणाम् ईदशः स्यात् उपक्रमः॥३६॥
yadā darpita-udagrāḥ saṃgatāḥ kānanaukasaḥ.na eṣām akṛta-kāryāṇām īdaśaḥ syāt upakramaḥ..36..
वनभङ्गेन जानामि मधूनां भक्षगेन च।ततः किल किला शब्दं शुश्रावासन्नमम्बरे ॥३७॥
वन-भङ्गेन जानामि मधूनाम् भक्ष-गेन च।ततस् किल किला शब्दम् शुश्राव आसन्नम् अम्बरे ॥३७॥
vana-bhaṅgena jānāmi madhūnām bhakṣa-gena ca.tatas kila kilā śabdam śuśrāva āsannam ambare ..37..
हनूमत्कर्मदृप्तानां नर्दतां काननौकसाम् । किष्किन्धामुपयातानां सिद्धिं कथयताम् इव ॥३८॥
हनूमत्-कर्म-दृप्तानाम् नर्दताम् काननौकसाम् । किष्किन्धाम् उपयातानाम् सिद्धिम् कथयताम् इव ॥३८॥
hanūmat-karma-dṛptānām nardatām kānanaukasām . kiṣkindhām upayātānām siddhim kathayatām iva ..38..
ततः श्रुत्वा निनादं तं कपीनां कपिसत्तमः । आयताञ्चितलाङ्गूलः सोऽभवद्धृष्टमानसः ॥३९॥
ततस् श्रुत्वा निनादम् तम् कपीनाम् कपि-सत्तमः । आयत-आञ्चित-लाङ्गूलः सः अभवत् हृष्ट-मानसः ॥३९॥
tatas śrutvā ninādam tam kapīnām kapi-sattamaḥ . āyata-āñcita-lāṅgūlaḥ saḥ abhavat hṛṣṭa-mānasaḥ ..39..
आजग्मुस्तेऽपि हरयो रामदर्शनकाङ्क्षिणः । अङ्गदं पुरतः कृत्वा हनूमन्तं च वानरम् ॥४०॥
आजग्मुः ते अपि हरयः राम-दर्शन-काङ्क्षिणः । अङ्गदम् पुरतस् कृत्वा हनूमन्तम् च वानरम् ॥४०॥
ājagmuḥ te api harayaḥ rāma-darśana-kāṅkṣiṇaḥ . aṅgadam puratas kṛtvā hanūmantam ca vānaram ..40..
तेऽङ्गदप्रमुखा वीराः प्रहृष्टाश्च मुदान्विताः । निपेतुर्हरिराजस्य समीपे राघवस्य च ॥४१॥
ते अङ्गद-प्रमुखाः वीराः प्रहृष्टाः च मुदा अन्विताः । निपेतुः हरि-राजस्य समीपे राघवस्य च ॥४१॥
te aṅgada-pramukhāḥ vīrāḥ prahṛṣṭāḥ ca mudā anvitāḥ . nipetuḥ hari-rājasya samīpe rāghavasya ca ..41..
हनूमांश्च महाबहुः प्रणम्य शिरसा ततः । नियतामक्षतां देवीं राघवाय न्यवेदयत् ॥४२॥
हनूमान् च महा-बहुः प्रणम्य शिरसा ततस् । नियताम् अक्षताम् देवीम् राघवाय न्यवेदयत् ॥४२॥
hanūmān ca mahā-bahuḥ praṇamya śirasā tatas . niyatām akṣatām devīm rāghavāya nyavedayat ..42..
दृष्टा देवीति हतुमदवदनाद मृतोपमम्।आकर्ण्य वचनं रामो हर्षमाप सलक्ष्मणः॥४३॥
दृष्टा देवी इति मृत-उपमम्।आकर्ण्य वचनम् रामः हर्षम् आप स लक्ष्मणः॥४३॥
dṛṣṭā devī iti mṛta-upamam.ākarṇya vacanam rāmaḥ harṣam āpa sa lakṣmaṇaḥ..43..
निश्चितार्थं ततस्तस्मिन्सुग्रीवं पवनात्मजे । लक्ष्मणः प्रीतिमान्प्रीतं बहुमानादवैक्षत ॥४४॥
निश्चित-अर्थम् ततस् तस्मिन् सुग्रीवम् पवनात्मजे । लक्ष्मणः प्रीतिमान् प्रीतम् बहु-मानात् अवैक्षत ॥४४॥
niścita-artham tatas tasmin sugrīvam pavanātmaje . lakṣmaṇaḥ prītimān prītam bahu-mānāt avaikṣata ..44..
प्रीत्या च परयोपेतो राघवः परवीरहा।बहुमानेन महता हनुमन्तमवैक्षत॥।४५॥
प्रीत्या च परया उपेतः राघवः पर-वीर-हा।बहु-मानेन महता हनुमन्तम् अवैक्षत॥।४५॥
prītyā ca parayā upetaḥ rāghavaḥ para-vīra-hā.bahu-mānena mahatā hanumantam avaikṣata...45..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In