This overlay will guide you through the buttons:

| |
|
ततः प्रस्रवणं शैलं ते गत्वा चित्रकाननम् । प्रणम्य शिरसा रामं लक्ष्मणं च महाबलम् ॥ १॥
ततस् प्रस्रवणम् शैलम् ते गत्वा चित्र-काननम् । प्रणम्य शिरसा रामम् लक्ष्मणम् च महा-बलम् ॥ १॥
tatas prasravaṇam śailam te gatvā citra-kānanam . praṇamya śirasā rāmam lakṣmaṇam ca mahā-balam .. 1..
युवराजं पुरस्कृत्य सुग्रीवमभिवाद्य च । प्रवृत्तमथ सीतायाः प्रवक्तुमुपचक्रमुः ॥ २॥
युवराजम् पुरस्कृत्य सुग्रीवम् अभिवाद्य च । प्रवृत्तम् अथ सीतायाः प्रवक्तुम् उपचक्रमुः ॥ २॥
yuvarājam puraskṛtya sugrīvam abhivādya ca . pravṛttam atha sītāyāḥ pravaktum upacakramuḥ .. 2..
रावणान्तःपुरे रोधं राक्षसीभिश् च तर्जनम् । रामे समनुरागं च यश्चापि समयः कृतः ॥ ३॥
रावण-अन्तःपुरे रोधम् राक्षसीभिः च तर्जनम् । रामे समनुरागम् च यः च अपि समयः कृतः ॥ ३॥
rāvaṇa-antaḥpure rodham rākṣasībhiḥ ca tarjanam . rāme samanurāgam ca yaḥ ca api samayaḥ kṛtaḥ .. 3..
एतदाख्यान्ति ते सर्वे हरयो राम संनिधौ । वैदेहीमक्षतां श्रुत्वा रामस्तूत्तरमब्रवीत् ॥ ४॥
एतत् आख्यान्ति ते सर्वे हरयः राम संनिधौ । वैदेहीम् अक्षताम् श्रुत्वा रामः तु उत्तरम् अब्रवीत् ॥ ४॥
etat ākhyānti te sarve harayaḥ rāma saṃnidhau . vaidehīm akṣatām śrutvā rāmaḥ tu uttaram abravīt .. 4..
क्व सीता वर्तते देवी कथं च मयि वर्तते । एतन्मे सर्वमाख्यात वैदेहीं प्रति वानराः ॥ ५॥
क्व सीता वर्तते देवी कथम् च मयि वर्तते । एतत् मे सर्वम् आख्यात वैदेहीम् प्रति वानराः ॥ ५॥
kva sītā vartate devī katham ca mayi vartate . etat me sarvam ākhyāta vaidehīm prati vānarāḥ .. 5..
रामस्य गदितं श्रुत्व हरयो रामसंनिधौ । चोदयन्ति हनूमन्तं सीतावृत्तान्तकोविदम् ॥ ६॥
रामस्य गदितम् हरयः राम-संनिधौ । चोदयन्ति हनूमन्तम् सीता-वृत्तान्त-कोविदम् ॥ ६॥
rāmasya gaditam harayaḥ rāma-saṃnidhau . codayanti hanūmantam sītā-vṛttānta-kovidam .. 6..
श्रुत्वा तु वचनं तेषां हनूमान्मारुतात्मजः ।प्रणम्य शिरसा देव्यै सीतायै तां दिशं प्रति॥७॥
श्रुत्वा तु वचनम् तेषाम् हनूमान् मारुतात्मजः ।प्रणम्य शिरसा देव्यै सीतायै ताम् दिशम् प्रति॥७॥
śrutvā tu vacanam teṣām hanūmān mārutātmajaḥ .praṇamya śirasā devyai sītāyai tām diśam prati..7..
उवाच वाक्यं वाक्यज्ञः सीताया दर्शनं यथा ।तं मणिं काञ्चनं दिव्यं दप्यमानं स्वतेजसा॥८॥
उवाच वाक्यम् वाक्य-ज्ञः सीतायाः दर्शनम् यथा ।तम् मणिम् काञ्चनम् दिव्यम् दप्यमानम् स्व-तेजसा॥८॥
uvāca vākyam vākya-jñaḥ sītāyāḥ darśanam yathā .tam maṇim kāñcanam divyam dapyamānam sva-tejasā..8..
दत्तवा रामाय हनुमांस्ततः प्राञ्जलिरब्रवीत्।समुद्रं लङ्घयित्वाहं शतयोजनमायतम् ॥९॥
दत्तवा रामाय हनुमान् ततस् प्राञ्जलिः अब्रवीत्।समुद्रम् लङ्घयित्वा अहम् शत-योजनम् आयतम् ॥९॥
dattavā rāmāya hanumān tatas prāñjaliḥ abravīt.samudram laṅghayitvā aham śata-yojanam āyatam ..9..
अगच्छं जानकीं सीतां मार्गमाणो दिदृक्षया ।तत्र लङ्केति नगरी रावणस्य दुरात्मनः ॥१०॥
अगच्छम् जानकीम् सीताम् मार्गमाणः दिदृक्षया ।तत्र लङ्का इति नगरी रावणस्य दुरात्मनः ॥१०॥
agaccham jānakīm sītām mārgamāṇaḥ didṛkṣayā .tatra laṅkā iti nagarī rāvaṇasya durātmanaḥ ..10..
दक्षिणस्य समुद्रस्य तीरे वसति दक्षिणे ।तत्र सीता मया दृष्टा रावणान्तःपुरे सती ॥११॥
दक्षिणस्य समुद्रस्य तीरे वसति दक्षिणे ।तत्र सीता मया दृष्टा रावण-अन्तःपुरे सती ॥११॥
dakṣiṇasya samudrasya tīre vasati dakṣiṇe .tatra sītā mayā dṛṣṭā rāvaṇa-antaḥpure satī ..11..
त्वयि संन्यस्य जीवन्ती रामा राम मनोरथम् ।दृष्टा मे राक्षसी मध्ये तर्ज्यमाना मुहुर्मुहुः ॥१२॥
त्वयि संन्यस्य जीवन्ती रामा राम मनोरथम् ।दृष्टा मे राक्षसी मध्ये तर्ज्यमाना मुहुर् मुहुर् ॥१२॥
tvayi saṃnyasya jīvantī rāmā rāma manoratham .dṛṣṭā me rākṣasī madhye tarjyamānā muhur muhur ..12..
राक्षसीभिर्विरूपाभी रक्षिता प्रमदावने ।दुःखमापद्यते देवी तवादुःखोचिता सती ॥१३॥
राक्षसीभिः विरूपाभिः रक्षिता प्रमदा-वने ।दुःखम् आपद्यते देवी तव अदुःख-उचिता सती ॥१३॥
rākṣasībhiḥ virūpābhiḥ rakṣitā pramadā-vane .duḥkham āpadyate devī tava aduḥkha-ucitā satī ..13..
रावणान्तःपुरे रुद्ध्वा राक्षसीभिः सुरक्षिता ।एकवेणीधरा दीना त्वयि चिन्तापरायणा ॥१४॥
रावण-अन्तःपुरे रुद्ध्वा राक्षसीभिः सु रक्षिता ।एक-वेणी-धरा दीना त्वयि चिन्ता-परायणा ॥१४॥
rāvaṇa-antaḥpure ruddhvā rākṣasībhiḥ su rakṣitā .eka-veṇī-dharā dīnā tvayi cintā-parāyaṇā ..14..
अधःशय्या विवर्णाङ्गी पद्मिनीव हिमागमे ।रावणाद्विनिवृत्तार्था मर्तव्यकृतनिश्चया ॥१५॥
अधस् शय्या विवर्ण-अङ्गी पद्मिनी इव हिम-आगमे ।रावणात् विनिवृत्त-अर्था मर्तव्य-कृत-निश्चया ॥१५॥
adhas śayyā vivarṇa-aṅgī padminī iva hima-āgame .rāvaṇāt vinivṛtta-arthā martavya-kṛta-niścayā ..15..
देवी कथं चित्काकुत्स्थ त्वन्मना मार्गिता मया ।इक्ष्वाकुवंशविख्यातिं शनैः कीर्तयतानघ ॥१६॥
देवी कथम् चित् काकुत्स्थ त्वद्-मनाः मार्गिता मया ।इक्ष्वाकु-वंश-विख्यातिम् शनैस् कीर्तयत अनघ ॥१६॥
devī katham cit kākutstha tvad-manāḥ mārgitā mayā .ikṣvāku-vaṃśa-vikhyātim śanais kīrtayata anagha ..16..
स मया नरशार्दूल विश्वासमुपपादिता ।ततः सम्भाषिता देवी सर्वमर्थं च दर्शिता ॥१७॥
स मया नर-शार्दूल विश्वासम् उपपादिता ।ततस् सम्भाषिता देवी सर्वम् अर्थम् च दर्शिता ॥१७॥
sa mayā nara-śārdūla viśvāsam upapāditā .tatas sambhāṣitā devī sarvam artham ca darśitā ..17..
रामसुग्रीवसख्यं च श्रुत्वा प्रीतिमुपागता ।नियतः समुदाचारो भक्तिश्चास्यास्तथा त्वयि ॥१८॥
राम-सुग्रीव-सख्यम् च श्रुत्वा प्रीतिम् उपागता ।नियतः समुदाचारः भक्तिः च अस्याः तथा त्वयि ॥१८॥
rāma-sugrīva-sakhyam ca śrutvā prītim upāgatā .niyataḥ samudācāraḥ bhaktiḥ ca asyāḥ tathā tvayi ..18..
एवं मया महाभागा दृष्टा जनकनन्दिनी । उग्रेण तपसा युक्ता त्वद्भक्त्या पुरुषर्षभ ॥१९॥
एवम् मया महाभागा दृष्टा जनकनन्दिनी । उग्रेण तपसा युक्ता त्वद्-भक्त्या पुरुष-ऋषभ ॥१९॥
evam mayā mahābhāgā dṛṣṭā janakanandinī . ugreṇa tapasā yuktā tvad-bhaktyā puruṣa-ṛṣabha ..19..
अभिज्ञानं च मे दत्तं यथावृत्तं तवान्तिके । चित्रकूटे महाप्राज्ञ वायसं प्रति राघव ॥२०॥
अभिज्ञानम् च मे दत्तम् यथावृत्तम् तव अन्तिके । चित्रकूटे महा-प्राज्ञ वायसम् प्रति राघव ॥२०॥
abhijñānam ca me dattam yathāvṛttam tava antike . citrakūṭe mahā-prājña vāyasam prati rāghava ..20..
विज्ञाप्यः पुनरप्येष रामो वायुसुत त्वया । अखिलेन यथा दृष्टमिति मामाह जानकी ॥२१॥
विज्ञाप्यः पुनर् अपि एष रामः वायु-सुत त्वया । अखिलेन यथा दृष्टम् इति माम् आह जानकी ॥२१॥
vijñāpyaḥ punar api eṣa rāmaḥ vāyu-suta tvayā . akhilena yathā dṛṣṭam iti mām āha jānakī ..21..
अयं चास्मै प्रदातव्यं यत्नात्सुपरिरक्षितम् । ब्रुवता वचनान्येवं सुग्रीवस्योपशृण्वतः ॥२२॥
अयम् च अस्मै प्रदातव्यम् यत्नात् सु परिरक्षितम् । ब्रुवता वचनानि एवम् सुग्रीवस्य उपशृण्वतः ॥२२॥
ayam ca asmai pradātavyam yatnāt su parirakṣitam . bruvatā vacanāni evam sugrīvasya upaśṛṇvataḥ ..22..
एष चूडामणिः श्रीमान्मया ते यत्नरक्षितः । मनःशिलायास्तिकलस्तं स्मरस्वेति चाब्रवीत् ॥२३॥
एष चूडामणिः श्रीमान् मया ते यत्न-रक्षितः । मनःशिलायाः तिकलः तम् स्मरस्व इति च अब्रवीत् ॥२३॥
eṣa cūḍāmaṇiḥ śrīmān mayā te yatna-rakṣitaḥ . manaḥśilāyāḥ tikalaḥ tam smarasva iti ca abravīt ..23..
एष निर्यातितः श्रीमान्मया ते वारिसम्भवः । एतं दृष्ट्वा प्रमोदिष्ये व्यसने त्वामिवानघ ॥२४॥
एष निर्यातितः श्रीमान् मया ते वारि-सम्भवः । एतम् दृष्ट्वा प्रमोदिष्ये व्यसने त्वाम् इव अनघ ॥२४॥
eṣa niryātitaḥ śrīmān mayā te vāri-sambhavaḥ . etam dṛṣṭvā pramodiṣye vyasane tvām iva anagha ..24..
जीवितं धारयिष्यामि मासं दशरथात्मज । ऊर्ध्वं मासान्न जीवेयं रक्षसां वशमागता ॥२५॥
जीवितम् धारयिष्यामि मासम् दशरथ-आत्मज । ऊर्ध्वम् मासात् न जीवेयम् रक्षसाम् वशम् आगता ॥२५॥
jīvitam dhārayiṣyāmi māsam daśaratha-ātmaja . ūrdhvam māsāt na jīveyam rakṣasām vaśam āgatā ..25..
इति मामब्रवीत्सीता कृशाङ्गी धर्म चारिणी । रावणान्तःपुरे रुद्धा मृगीवोत्फुल्ललोचना ॥२६॥
इति माम् अब्रवीत् सीता कृश-अङ्गी धर्म-चारिणी । रावण-अन्तःपुरे रुद्धा मृगी इव उत्फुल्ल-लोचना ॥२६॥
iti mām abravīt sītā kṛśa-aṅgī dharma-cāriṇī . rāvaṇa-antaḥpure ruddhā mṛgī iva utphulla-locanā ..26..
एतदेव मयाख्यातं सर्वं राघव यद्यथा । सर्वथा सागरजले सन्तारः प्रविधीयताम् ॥२७॥
एतत् एव मया आख्यातम् सर्वम् राघव यत् यथा । सर्वथा सागर-जले सन्तारः प्रविधीयताम् ॥२७॥
etat eva mayā ākhyātam sarvam rāghava yat yathā . sarvathā sāgara-jale santāraḥ pravidhīyatām ..27..
तौ जाताश्वासौ राजपुत्रौ विदित्वा तच्चाभिज्ञानं राघवाय प्रदाय । देव्या चाख्यातं सर्वमेवानुपूर्व्याद् वाचा सम्पूर्णं वायुपुत्रः शशंस ॥२८॥
तौ जात-आश्वासौ राज-पुत्रौ विदित्वा तत् च अभिज्ञानम् राघवाय प्रदाय । देव्या च आख्यातम् सर्वम् एव आनुपूर्व्यात् वाचा सम्पूर्णम् वायुपुत्रः शशंस ॥२८॥
tau jāta-āśvāsau rāja-putrau viditvā tat ca abhijñānam rāghavāya pradāya . devyā ca ākhyātam sarvam eva ānupūrvyāt vācā sampūrṇam vāyuputraḥ śaśaṃsa ..28..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In