This overlay will guide you through the buttons:

| |
|
एवमुक्तो हनुमता रामो दशरथात्मजः । तं मणिं हृदये कृत्वा प्ररुरोद सलक्ष्मणः ॥ १॥
एवम् उक्तः हनुमता रामः दशरथ-आत्मजः । तम् मणिम् हृदये कृत्वा प्ररुरोद स लक्ष्मणः ॥ १॥
evam uktaḥ hanumatā rāmaḥ daśaratha-ātmajaḥ . tam maṇim hṛdaye kṛtvā praruroda sa lakṣmaṇaḥ .. 1..
तं तु दृष्ट्वा मणिश्रेष्ठं राघवः शोककर्शितः । नेत्राभ्यामश्रुपूर्णाभ्यां सुग्रीवमिदमब्रवीत् ॥ २॥
तम् तु दृष्ट्वा मणि-श्रेष्ठम् राघवः शोक-कर्शितः । नेत्राभ्याम् अश्रु-पूर्णाभ्याम् सुग्रीवम् इदम् अब्रवीत् ॥ २॥
tam tu dṛṣṭvā maṇi-śreṣṭham rāghavaḥ śoka-karśitaḥ . netrābhyām aśru-pūrṇābhyām sugrīvam idam abravīt .. 2..
यथैव धेनुः स्रवति स्नेहाद्वत्सस्य वत्सला । तथा ममापि हृदयं मणिरत्नस्य दर्शनात् ॥ ३॥
यथा एव धेनुः स्रवति स्नेहात् वत्सस्य वत्सला । तथा मम अपि हृदयम् मणि-रत्नस्य दर्शनात् ॥ ३॥
yathā eva dhenuḥ sravati snehāt vatsasya vatsalā . tathā mama api hṛdayam maṇi-ratnasya darśanāt .. 3..
मणिरत्नमिदं दत्तं वैदेह्याः श्वशुरेण मे । वधूकाले यथा बद्धमधिकं मूर्ध्नि शोभते ॥ ४॥
मणि-रत्नम् इदम् दत्तम् वैदेह्याः श्वशुरेण मे । वधू-काले यथा बद्धम् अधिकम् मूर्ध्नि शोभते ॥ ४॥
maṇi-ratnam idam dattam vaidehyāḥ śvaśureṇa me . vadhū-kāle yathā baddham adhikam mūrdhni śobhate .. 4..
अयं हि जलसम्भूतो मणिः प्रवरपूजितः । यज्ञे परमतुष्टेन दत्तः शक्रेण धीमता ॥ ५॥
अयम् हि जल-सम्भूतः मणिः प्रवर-पूजितः । यज्ञे परम-तुष्टेन दत्तः शक्रेण धीमता ॥ ५॥
ayam hi jala-sambhūtaḥ maṇiḥ pravara-pūjitaḥ . yajñe parama-tuṣṭena dattaḥ śakreṇa dhīmatā .. 5..
इमं दृष्ट्वा मणिश्रेष्ठं तथा तातस्य दर्शनम् । अद्यास्म्यवगतः सौम्य वैदेहस्य तथा विभोः ॥ ६॥
इमम् दृष्ट्वा मणि-श्रेष्ठम् तथा तातस्य दर्शनम् । अद्य अस्मि अवगतः सौम्य वैदेहस्य तथा विभोः ॥ ६॥
imam dṛṣṭvā maṇi-śreṣṭham tathā tātasya darśanam . adya asmi avagataḥ saumya vaidehasya tathā vibhoḥ .. 6..
अयं हि शोभते तस्याः प्रियाया मूर्ध्नि मे मणिः । अद्यास्य दर्शनेनाहं प्राप्तां ताम् इव चिन्तये ॥ ७॥
अयम् हि शोभते तस्याः प्रियायाः मूर्ध्नि मे मणिः । अद्य अस्य दर्शनेन अहम् प्राप्ताम् ताम् इव चिन्तये ॥ ७॥
ayam hi śobhate tasyāḥ priyāyāḥ mūrdhni me maṇiḥ . adya asya darśanena aham prāptām tām iva cintaye .. 7..
किमाह सीता वैदेही ब्रूहि सौम्य पुनः पुनः । परासुमिव तोयेन सिञ्चन्ती वाक्यवारिणा ॥ ८॥
किम् आह सीता वैदेही ब्रूहि सौम्य पुनर् पुनर् । परासुम् इव तोयेन सिञ्चन्ती वाक्य-वारिणा ॥ ८॥
kim āha sītā vaidehī brūhi saumya punar punar . parāsum iva toyena siñcantī vākya-vāriṇā .. 8..
इतस्तु किं दुःखतरं यदिमं वारिसम्भवम् । मणिं पश्यामि सौमित्रे वैदेहीमागतं विना ॥ ९॥
इतस् तु किम् दुःखतरम् यत् इमम् वारि-सम्भवम् । मणिम् पश्यामि सौमित्रे वैदेहीम् आगतम् विना ॥ ९॥
itas tu kim duḥkhataram yat imam vāri-sambhavam . maṇim paśyāmi saumitre vaidehīm āgatam vinā .. 9..
चिरं जीवति वैदेही यदि मासं धरिष्यति । क्षणं सौम्य न जीवेयं विना तामसितेक्षणाम् ॥ १०॥
चिरम् जीवति वैदेही यदि मासम् धरिष्यति । क्षणम् सौम्य न जीवेयम् विना ताम् असित-ईक्षणाम् ॥ १०॥
ciram jīvati vaidehī yadi māsam dhariṣyati . kṣaṇam saumya na jīveyam vinā tām asita-īkṣaṇām .. 10..
नय मामपि तं देशं यत्र दृष्टा मम प्रिया । न तिष्ठेयं क्षणमपि प्रवृत्तिमुपलभ्य च ॥ ११॥
नय माम् अपि तम् देशम् यत्र दृष्टा मम प्रिया । न तिष्ठेयम् क्षणम् अपि प्रवृत्तिम् उपलभ्य च ॥ ११॥
naya mām api tam deśam yatra dṛṣṭā mama priyā . na tiṣṭheyam kṣaṇam api pravṛttim upalabhya ca .. 11..
कथं सा मम सुश्रोणि भीरु भीरुः सती तदा । भयावहानां घोराणां मध्ये तिष्ठति रक्षसाम् ॥ १२॥
कथम् सा मम सुश्रोणि भीरु भीरुः सती तदा । भय-आवहानाम् घोराणाम् मध्ये तिष्ठति रक्षसाम् ॥ १२॥
katham sā mama suśroṇi bhīru bhīruḥ satī tadā . bhaya-āvahānām ghorāṇām madhye tiṣṭhati rakṣasām .. 12..
शारदस्तिमिरोन्मुखो नूनं चन्द्र इवाम्बुदैः । आवृतं वदनं तस्या न विराजति राक्षसैः ॥ १३॥
शारदः तिमिर-उन्मुखः नूनम् चन्द्रः इव अम्बुदैः । आवृतम् वदनम् तस्याः न विराजति राक्षसैः ॥ १३॥
śāradaḥ timira-unmukhaḥ nūnam candraḥ iva ambudaiḥ . āvṛtam vadanam tasyāḥ na virājati rākṣasaiḥ .. 13..
किमाह सीता हनुमंस्तत्त्वतः कथयस्व मे । एतेन खलु जीविष्ये भेषजेनातुरो यथा ॥ १४॥
किम् आह सीता हनुमन्त् तत्त्वतः कथयस्व मे । एतेन खलु जीविष्ये भेषजेन आतुरः यथा ॥ १४॥
kim āha sītā hanumant tattvataḥ kathayasva me . etena khalu jīviṣye bheṣajena āturaḥ yathā .. 14..
मधुरा मधुरालापा किमाह मम भामिनी । मद्विहीना वरारोहा हनुमन्कथयस्व मे । दुःखाद्दुःखतरं प्राप्य कथं जीवति जानकी ॥ १५॥
मधुरा मधुर-आलापा किम् आह मम भामिनी । मद्-विहीना वरारोहा हनुमन् कथयस्व मे । दुःखात् दुःखतरम् प्राप्य कथम् जीवति जानकी ॥ १५॥
madhurā madhura-ālāpā kim āha mama bhāminī . mad-vihīnā varārohā hanuman kathayasva me . duḥkhāt duḥkhataram prāpya katham jīvati jānakī .. 15..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In