This overlay will guide you through the buttons:

| |
|
एवमुक्तस्तु हनुमान्राघवेण महात्मना । सीताया भाषितं सर्वं न्यवेदयत राघवे ॥ १॥
एवम् उक्तः तु हनुमान् राघवेण महात्मना । सीतायाः भाषितम् सर्वम् न्यवेदयत राघवे ॥ १॥
evam uktaḥ tu hanumān rāghaveṇa mahātmanā . sītāyāḥ bhāṣitam sarvam nyavedayata rāghave .. 1..
इदमुक्तवती देवी जानकी पुरुषर्षभ । पूर्ववृत्तमभिज्ञानं चित्रकूटे यथा तथम् ॥ २॥
इदम् उक्तवती देवी जानकी पुरुष-ऋषभ । पूर्व-वृत्तम् अभिज्ञानम् चित्रकूटे यथा तथम् ॥ २॥
idam uktavatī devī jānakī puruṣa-ṛṣabha . pūrva-vṛttam abhijñānam citrakūṭe yathā tatham .. 2..
सुखसुप्ता त्वया सार्धं जानकी पूर्वमुत्थिता । वायसः सहसोत्पत्य विरराद स्तनान्तरे ॥ ३॥
सुख-सुप्ता त्वया सार्धम् जानकी पूर्वम् उत्थिता । वायसः सहसा उत्पत्य विरराद स्तनान्तरे ॥ ३॥
sukha-suptā tvayā sārdham jānakī pūrvam utthitā . vāyasaḥ sahasā utpatya virarāda stanāntare .. 3..
पर्यायेण च सुप्तस्त्वं देव्यङ्के भरताग्रज । पुनश्च किल पक्षी स देव्या जनयति व्यथाम् ॥ ४॥
पर्यायेण च सुप्तः त्वम् देवी-अङ्के भरताग्रज । पुनर् च किल पक्षी स देव्याः जनयति व्यथाम् ॥ ४॥
paryāyeṇa ca suptaḥ tvam devī-aṅke bharatāgraja . punar ca kila pakṣī sa devyāḥ janayati vyathām .. 4..
ततः पुनरुपागम्य विरराद भृशं किल । ततस्त्वं बोधितस्तस्याः शोणितेन समुक्षितः ॥ ५॥
ततस् पुनर् उपागम्य विरराद भृशम् किल । ततस् त्वम् बोधितः तस्याः शोणितेन समुक्षितः ॥ ५॥
tatas punar upāgamya virarāda bhṛśam kila . tatas tvam bodhitaḥ tasyāḥ śoṇitena samukṣitaḥ .. 5..
वायसेन च तेनैव सततं बाध्यमानया । बोधितः किल देव्यास्त्वं सुखसुप्तः परन्तप ॥ ६॥
वायसेन च तेन एव सततम् बाध्यमानया । बोधितः किल देव्याः त्वम् सुख-सुप्तः परन्तप ॥ ६॥
vāyasena ca tena eva satatam bādhyamānayā . bodhitaḥ kila devyāḥ tvam sukha-suptaḥ parantapa .. 6..
तां तु दृष्ट्वा महाबाहो रादितां च स्तनान्तरे । आशीविष इव क्रुद्धो निःश्वसन्नभ्यभाषथाः ॥ ७॥
ताम् तु दृष्ट्वा महा-बाहो रादिताम् च स्तनान्तरे । आशीविषः इव क्रुद्धः निःश्वसन् अभ्यभाषथाः ॥ ७॥
tām tu dṛṣṭvā mahā-bāho rāditām ca stanāntare . āśīviṣaḥ iva kruddhaḥ niḥśvasan abhyabhāṣathāḥ .. 7..
नखाग्रैः केन ते भीरु दारितं तु स्तनान्तरम् । कः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना ॥ ८॥
नख-अग्रैः केन ते भीरु दारितम् तु स्तनान्तरम् । कः क्रीडति स रोषेण पञ्चवक्त्रेण भोगिना ॥ ८॥
nakha-agraiḥ kena te bhīru dāritam tu stanāntaram . kaḥ krīḍati sa roṣeṇa pañcavaktreṇa bhoginā .. 8..
निरीक्षमाणः सहसा वायसं समवैक्षताः । नखैः सरुधिरैस्तीक्ष्णैर्मामेवाभिमुखं स्थितम् ॥ ९॥
निरीक्षमाणः सहसा वायसम् समवैक्षताः । नखैः स रुधिरैः तीक्ष्णैः माम् एव अभिमुखम् स्थितम् ॥ ९॥
nirīkṣamāṇaḥ sahasā vāyasam samavaikṣatāḥ . nakhaiḥ sa rudhiraiḥ tīkṣṇaiḥ mām eva abhimukham sthitam .. 9..
सुतः किल स शक्रस्य वायसः पततां वरः । धरान्तरचरः शीघ्रं पवनस्य गतौ समः ॥ १०॥
सुतः किल स शक्रस्य वायसः पतताम् वरः । धरा-अन्तर-चरः शीघ्रम् पवनस्य गतौ समः ॥ १०॥
sutaḥ kila sa śakrasya vāyasaḥ patatām varaḥ . dharā-antara-caraḥ śīghram pavanasya gatau samaḥ .. 10..
ततस्तस्मिन्महाबाहो कोपसंवर्तितेक्षणः । वायसे त्वं कृत्वाः क्रूरां मतिं मतिमतां वर ॥ ११॥
ततस् तस्मिन् महा-बाहो कोप-संवर्तित-ईक्षणः । वायसे त्वम् कृत्वाः क्रूराम् मतिम् मतिमताम् वर ॥ ११॥
tatas tasmin mahā-bāho kopa-saṃvartita-īkṣaṇaḥ . vāyase tvam kṛtvāḥ krūrām matim matimatām vara .. 11..
स दर्भं संस्तराद्गृह्य ब्रह्मास्त्रेण न्ययोजयः । स दीप्त इव कालाग्निर्जज्वालाभिमुखः खगम् ॥ १२॥
स दर्भम् संस्तरात् गृह्य ब्रह्मास्त्रेण न्ययोजयः । स दीप्तः इव कालाग्निः जज्वाल अभिमुखः खगम् ॥ १२॥
sa darbham saṃstarāt gṛhya brahmāstreṇa nyayojayaḥ . sa dīptaḥ iva kālāgniḥ jajvāla abhimukhaḥ khagam .. 12..
स त्वं प्रदीप्तं चिक्षेप दर्भं तं वायसं प्रति । ततस्तु वायसं दीप्तः स दर्भोऽनुजगाम ह ॥ १३॥
स त्वम् प्रदीप्तम् चिक्षेप दर्भम् तम् वायसम् प्रति । ततस् तु वायसम् दीप्तः स दर्भः अनुजगाम ह ॥ १३॥
sa tvam pradīptam cikṣepa darbham tam vāyasam prati . tatas tu vāyasam dīptaḥ sa darbhaḥ anujagāma ha .. 13..
भीतैश्च सम्परित्यक्तः सुरैः सर्वैश्च वायसः। त्रीँल्लोकान्सम्परिक्रम्य त्रातारं नाधिगच्छति ॥१४॥
भीतैः च सम्परित्यक्तः सुरैः सर्वैः च वायसः। त्रीन् लोकान् सम्परिक्रम्य त्रातारम् न अधिगच्छति ॥१४॥
bhītaiḥ ca samparityaktaḥ suraiḥ sarvaiḥ ca vāyasaḥ. trīn lokān samparikramya trātāram na adhigacchati ..14..
पुनरप्यागतस्त्रत्र त्वत्सकाशमरिंदम।तं त्वं निपतितं भूमौ शरण्यः शरणागतम् ॥१५॥
पुनर् अपि आगतः त्रत्र त्वद्-सकाशम् अरिंदम।तम् त्वम् निपतितम् भूमौ शरण्यः शरण-आगतम् ॥१५॥
punar api āgataḥ tratra tvad-sakāśam ariṃdama.tam tvam nipatitam bhūmau śaraṇyaḥ śaraṇa-āgatam ..15..
वधार्हमपि काकुत्स्थ कृपया परिपालयः ।मोघमस्त्रं न शक्यं तु कर्तुमित्येव राघव ॥१६॥
वध-अर्हम् अपि काकुत्स्थ कृपया परिपालयः ।मोघम् अस्त्रम् न शक्यम् तु कर्तुम् इति एव राघव ॥१६॥
vadha-arham api kākutstha kṛpayā paripālayaḥ .mogham astram na śakyam tu kartum iti eva rāghava ..16..
भवांस्तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम् ।राम त्वां स नमस्कृत्वा राज्ञो दशरथस्य च ॥१७॥
भवान् तस्य अक्षि काकस्य हिनस्ति स्म स दक्षिणम् ।राम त्वाम् स नमस्कृत्वा राज्ञः दशरथस्य च ॥१७॥
bhavān tasya akṣi kākasya hinasti sma sa dakṣiṇam .rāma tvām sa namaskṛtvā rājñaḥ daśarathasya ca ..17..
विसृष्टस्तु तदा काकः प्रतिपेदे खमालयम् ।एवमस्त्रविदां श्रेष्ठः सत्त्ववाञ्शीलवानपि ॥१८॥
विसृष्टः तु तदा काकः प्रतिपेदे खम् आलयम् ।एवम् अस्त्र-विदाम् श्रेष्ठः सत्त्ववान् शीलवान् अपि ॥१८॥
visṛṣṭaḥ tu tadā kākaḥ pratipede kham ālayam .evam astra-vidām śreṣṭhaḥ sattvavān śīlavān api ..18..
किमर्थमस्त्रं रक्षःसु न योजयसि राघव ।न नागा नापि गन्धर्वा नासुरा न मरुद्गणाः ॥१९॥
किमर्थम् अस्त्रम् रक्षःसु न योजयसि राघव ।न नागाः ना अपि गन्धर्वाः ना असुराः न मरुत्-गणाः ॥१९॥
kimartham astram rakṣaḥsu na yojayasi rāghava .na nāgāḥ nā api gandharvāḥ nā asurāḥ na marut-gaṇāḥ ..19..
तव राम मुखे स्थातुं शक्ताः प्रतिसमाधितुम् ।तव वीर्यवतः कच्चिन्मयि यद्यस्ति सम्भ्रमः ॥२०॥
तव राम मुखे स्थातुम् शक्ताः ।तव वीर्यवतः कच्चित् मयि यदी अस्ति सम्भ्रमः ॥२०॥
tava rāma mukhe sthātum śaktāḥ .tava vīryavataḥ kaccit mayi yadī asti sambhramaḥ ..20..
क्षिप्रं सुनिशितैर्बाणैर्हन्यतां युधि रावणः ।भ्रातुरादेशमादाय लक्ष्मणो वा परन्तपः ॥२१॥
क्षिप्रम् सु निशितैः बाणैः हन्यताम् युधि रावणः ।भ्रातुः आदेशम् आदाय लक्ष्मणः वा परन्तपः ॥२१॥
kṣipram su niśitaiḥ bāṇaiḥ hanyatām yudhi rāvaṇaḥ .bhrātuḥ ādeśam ādāya lakṣmaṇaḥ vā parantapaḥ ..21..
स किमर्थं नरवरो न मां रक्षति राघवः ।शक्तौ तौ पुरुषव्याघ्रौ वाय्वग्निसमतेजसौ ॥२२॥
स किमर्थम् नर-वरः न माम् रक्षति राघवः ।शक्तौ तौ पुरुष-व्याघ्रौ वायु-अग्नि-सम-तेजसौ ॥२२॥
sa kimartham nara-varaḥ na mām rakṣati rāghavaḥ .śaktau tau puruṣa-vyāghrau vāyu-agni-sama-tejasau ..22..
सुराणामपि दुर्धर्षौ किमर्थं मामुपेक्षतः ।ममैव दुष्कृतं किं चिन्महदस्ति न संशयः ॥२३॥
सुराणाम् अपि दुर्धर्षौ किमर्थम् माम् उपेक्षतः ।मम एव दुष्कृतम् किम् चित् महत् अस्ति न संशयः ॥२३॥
surāṇām api durdharṣau kimartham mām upekṣataḥ .mama eva duṣkṛtam kim cit mahat asti na saṃśayaḥ ..23..
समर्थौ सहितौ यन्मां नापेक्षेते परन्तपौ ।वैदेह्या वचनं श्रुत्वा करुणं साश्रुभाषितम् ॥२४॥
समर्थौ सहितौ यत् माम् न अपेक्षेते परन्तपौ ।वैदेह्याः वचनम् श्रुत्वा करुणम् स अश्रु-भाषितम् ॥२४॥
samarthau sahitau yat mām na apekṣete parantapau .vaidehyāḥ vacanam śrutvā karuṇam sa aśru-bhāṣitam ..24..
पुनरप्यहमार्यां तामिदं वचनमब्रुवम् ।त्वच्छोकविमुखो रामो देवि सत्येन ते शपे ॥२५॥
पुनर् अपि अहम् आर्याम् ताम् इदम् वचनम् अब्रुवम् ।त्वद्-शोक-विमुखः रामः देवि सत्येन ते शपे ॥२५॥
punar api aham āryām tām idam vacanam abruvam .tvad-śoka-vimukhaḥ rāmaḥ devi satyena te śape ..25..
रामे दुःखाभिभूते च लक्ष्मणः परितप्यते ।कथं चिद्भवती दृष्टा न कालः परिशोचितुम् ॥२६॥
रामे दुःख-अभिभूते च लक्ष्मणः परितप्यते ।कथम् चित् भवती दृष्टा न कालः परिशोचितुम् ॥२६॥
rāme duḥkha-abhibhūte ca lakṣmaṇaḥ paritapyate .katham cit bhavatī dṛṣṭā na kālaḥ pariśocitum ..26..
अस्मिन् मुहूर्तं दुःखानामन्तं द्रक्ष्यसि भामिनि ।तावुभौ नरशार्दूलौ राजपुत्रावरिन्दमौ ॥२७॥
अस्मिन् मुहूर्तम् दुःखानाम् अन्तम् द्रक्ष्यसि भामिनि ।तौ उभौ नर-शार्दूलौ राज-पुत्रौ अरिन्दमौ ॥२७॥
asmin muhūrtam duḥkhānām antam drakṣyasi bhāmini .tau ubhau nara-śārdūlau rāja-putrau arindamau ..27..
त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः ।हत्वा च समरे रौद्रं रावणं सह बान्धवम् ॥२८॥
त्वद्-दर्शन-कृत-उत्साहौ लङ्काम् भस्मीकरिष्यतः ।हत्वा च समरे रौद्रम् रावणम् सह बान्धवम् ॥२८॥
tvad-darśana-kṛta-utsāhau laṅkām bhasmīkariṣyataḥ .hatvā ca samare raudram rāvaṇam saha bāndhavam ..28..
राघवस्त्वां महाबाहुः स्वां पुरीं नयते ध्रुवम् ।यत्तु रामो विजानीयादभिज्ञानमनिन्दिते ॥२९॥
राघवः त्वाम् महा-बाहुः स्वाम् पुरीम् नयते ध्रुवम् ।यत् तु रामः विजानीयात् अभिज्ञानम् अनिन्दिते ॥२९॥
rāghavaḥ tvām mahā-bāhuḥ svām purīm nayate dhruvam .yat tu rāmaḥ vijānīyāt abhijñānam anindite ..29..
प्रीतिसञ्जननं तस्य प्रदातुं तत्त्वमर्हसि ।साभिवीक्ष्य दिशः सर्वा वेण्युद्ग्रथनमुत्तमम् ॥३०॥
प्रीति-सञ्जननम् तस्य प्रदातुम् तत् त्वम् अर्हसि ।सा अभिवीक्ष्य दिशः सर्वाः वेणी-उद्ग्रथनम् उत्तमम् ॥३०॥
prīti-sañjananam tasya pradātum tat tvam arhasi .sā abhivīkṣya diśaḥ sarvāḥ veṇī-udgrathanam uttamam ..30..
मुक्त्वा वस्त्राद्ददौ मह्यं मणिमेतं महाबल ।प्रतिगृह्य मणिं दिव्यं तव हेतो रघूत्तम ॥३१॥
मुक्त्वा वस्त्रात् ददौ मह्यम् मणिम् एतम् महा-बल ।प्रतिगृह्य मणिम् दिव्यम् तव हेतोः रघूत्तम ॥३१॥
muktvā vastrāt dadau mahyam maṇim etam mahā-bala .pratigṛhya maṇim divyam tava hetoḥ raghūttama ..31..
शिरसा सम्प्रणम्यैनामहमागमने त्वरे ।गमने च कृतोत्साहमवेक्ष्य वरवर्णिनी ॥३२॥
शिरसा सम्प्रणम्य एनाम् अहम् आगमने त्वरे ।गमने च कृत-उत्साहम् अवेक्ष्य वरवर्णिनी ॥३२॥
śirasā sampraṇamya enām aham āgamane tvare .gamane ca kṛta-utsāham avekṣya varavarṇinī ..32..
विवर्धमानं च हि मामुवाच जनकात्मजा । अश्रुपूर्णमुखी दीना बाष्पसन्दिग्धभाषिणी ॥३३॥
विवर्धमानम् च हि माम् उवाच जनकात्मजा । अश्रु-पूर्ण-मुखी दीना बाष्प-सन्दिग्ध-भाषिणी ॥३३॥
vivardhamānam ca hi mām uvāca janakātmajā . aśru-pūrṇa-mukhī dīnā bāṣpa-sandigdha-bhāṣiṇī ..33..
ममोत्पतनसंभ्रान्ता शोक्वेगसमाहता।मामुवाच ततः सीता सभाग्योसि महाकपे॥३४॥
मम उत्पतन-संभ्रान्ता शोक-वेग-समाहता।माम् उवाच ततस् सीता सभाग्यः असि महा-कपे॥३४॥
mama utpatana-saṃbhrāntā śoka-vega-samāhatā.mām uvāca tatas sītā sabhāgyaḥ asi mahā-kape..34..
यद्रक्ष्यसि महाबाहुं रामं कमललोचनम्।लक्ष्मणे च महाबाहुं देवरं मे यशखिनम्॥३५॥
यत् रक्ष्यसि महा-बाहुम् रामम् कमल-लोचनम्।लक्ष्मणे च महा-बाहुम् देवरम् मे यशखिनम्॥३५॥
yat rakṣyasi mahā-bāhum rāmam kamala-locanam.lakṣmaṇe ca mahā-bāhum devaram me yaśakhinam..35..
सीतयाऽप्यवश्क्तोऽहम्रवं मैथिलीं तथा।पृष्ठमारोह मे देवि सिभ्र जनकनन्दिनि॥३६॥
सीतया अपि अवश्क्तः अहम् रवम् मैथिलीम् तथा।पृष्ठम् आरोह मे देवि सिभ्र जनकनन्दिनि॥३६॥
sītayā api avaśktaḥ aham ravam maithilīm tathā.pṛṣṭham āroha me devi sibhra janakanandini..36..
यावत्ते दर्शयाम्यद्य ससुग्रीवं सलक्ष्मणम्। राघवं च महाभागे भर्तरमसितेक्षणे॥३७॥
यावत् ते दर्शयामि अद्य स सुग्रीवम् स लक्ष्मणम्। राघवम् च महाभागे भर्तरम् असित-ईक्षणे॥३७॥
yāvat te darśayāmi adya sa sugrīvam sa lakṣmaṇam. rāghavam ca mahābhāge bhartaram asita-īkṣaṇe..37..
साऽत्रवीन्मां ततो देवी नैष धमे महाकपे।यत्ते पृष्ठं सिषेवेऽहं स्ववशा हरिपुङ्गव॥३८॥
सा अत्रवीत् माम् ततस् देवी न एष धमे महा-कपे।यत् ते पृष्ठम् सिषेवे अहम् स्व-वशा हरि-पुङ्गव॥३८॥
sā atravīt mām tatas devī na eṣa dhame mahā-kape.yat te pṛṣṭham siṣeve aham sva-vaśā hari-puṅgava..38..
पुरा च यदहं वीर सपृष्टा गात्रेषु रक्षसा।तत्राहं किं करिष्यामि कालेनोपनिपीडिता॥३९॥
पुरा च यत् अहम् वीर स पृष्टा गात्रेषु रक्षसा।तत्र अहम् किम् करिष्यामि कालेन उपनिपीडिता॥३९॥
purā ca yat aham vīra sa pṛṣṭā gātreṣu rakṣasā.tatra aham kim kariṣyāmi kālena upanipīḍitā..39..
गच्छ त्वं कपिशार्दूल यत्र तौ नृपतेः सुतौ।इत्येवं सा समाभाष्य भूयः संदेष्टुमास्थिता॥४०॥
गच्छ त्वम् कपि-शार्दूल यत्र तौ नृपतेः सुतौ।इति एवम् सा समाभाष्य भूयस् संदेष्टुम् आस्थिता॥४०॥
gaccha tvam kapi-śārdūla yatra tau nṛpateḥ sutau.iti evam sā samābhāṣya bhūyas saṃdeṣṭum āsthitā..40..
हनुमन्सिंहसङ्काशौ तावुभौ रामलक्ष्मणौ । सुग्रीवं च सहामात्यं सर्वान्ब्रूया अनामयम् ॥४१॥
हनुमत् सिंह-सङ्काशौ तौ उभौ राम-लक्ष्मणौ । सुग्रीवम् च सह अमात्यम् सर्वान् ब्रूयाः अनामयम् ॥४१॥
hanumat siṃha-saṅkāśau tau ubhau rāma-lakṣmaṇau . sugrīvam ca saha amātyam sarvān brūyāḥ anāmayam ..41..
यथा च स महाबाहुर्मां तारयति राघवः । अस्माद्दुःखाम्बुसंरोधात्तत्समाधातुमर्हसि ॥४२॥
यथा च स महा-बाहुः माम् तारयति राघवः । अस्मात् दुःख-अम्बु-संरोधात् तत् समाधातुम् अर्हसि ॥४२॥
yathā ca sa mahā-bāhuḥ mām tārayati rāghavaḥ . asmāt duḥkha-ambu-saṃrodhāt tat samādhātum arhasi ..42..
इदं च तीव्रं मम शोकवेगं रक्षोभिरेभिः परिभर्त्सनं च । ब्रूयास्तु रामस्य गतः समीपं शिवश्च तेऽध्वास्तु हरिप्रवीर ॥४३॥
इदम् च तीव्रम् मम शोक-वेगम् रक्षोभिः एभिः परिभर्त्सनम् च । ब्रूयाः तु रामस्य गतः समीपम् शिवः च ते अध्वा अस्तु हरि-प्रवीर ॥४३॥
idam ca tīvram mama śoka-vegam rakṣobhiḥ ebhiḥ paribhartsanam ca . brūyāḥ tu rāmasya gataḥ samīpam śivaḥ ca te adhvā astu hari-pravīra ..43..
एतत्तवार्या नृपराजसिंह सीता वचः प्राह विषादपूर्वम् । एतच्च बुद्ध्वा गदितं मया त्वं श्रद्धत्स्व सीतां कुशलां समग्राम् ॥४४॥
एतत् तव आर्या नृप-राज-सिंह सीता वचः प्राह विषाद-पूर्वम् । एतत् च बुद्ध्वा गदितम् मया त्वम् श्रद्धत्स्व सीताम् कुशलाम् समग्राम् ॥४४॥
etat tava āryā nṛpa-rāja-siṃha sītā vacaḥ prāha viṣāda-pūrvam . etat ca buddhvā gaditam mayā tvam śraddhatsva sītām kuśalām samagrām ..44..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In