This overlay will guide you through the buttons:

| |
|
स तस्य मध्ये भवनस्य संस्थितं महद्विमानं मणिवज्रचित्रितम्। प्रतप्तजाम्बूनदजालकृत्रिमं ददर्श वीरः पवनात्मजः कपिः॥१॥
स तस्य मध्ये भवनस्य संस्थितम् महत् विमानम् मणि-वज्र-चित्रितम्। प्रतप्त-जाम्बूनद-जाल-कृत्रिमम् ददर्श वीरः पवनात्मजः कपिः॥१॥
sa tasya madhye bhavanasya saṃsthitam mahat vimānam maṇi-vajra-citritam. pratapta-jāmbūnada-jāla-kṛtrimam dadarśa vīraḥ pavanātmajaḥ kapiḥ..1..
तदप्रमेयाप्रतिकारकृत्रिमं कृतं स्वयं साध्विति विश्वकर्मणा। दिवं गतं वायुपथप्रतिष्ठितं व्यराजतादित्यपथस्य लक्ष्मवत्॥२॥
तत् अप्रमेय-अप्रतिकार-कृत्रिमम् कृतम् स्वयम् साधु इति विश्वकर्मणा। दिवम् गतम् वायु-पथ-प्रतिष्ठितम् व्यराजत आदित्य-पथस्य लक्ष्मवत्॥२॥
tat aprameya-apratikāra-kṛtrimam kṛtam svayam sādhu iti viśvakarmaṇā. divam gatam vāyu-patha-pratiṣṭhitam vyarājata āditya-pathasya lakṣmavat..2..
न तत्र किञ्चिन्न कृतं प्रयत्नतो न तत्र किञ्चिन्न महार्हरत्नवत्। न ते विशेषा नियताः सुरेष्वपि न तत्र किञ्चिन्न महाविशेषवत्॥३॥
न तत्र किञ्चिद् न कृतम् प्रयत्नतः न तत्र किञ्चिद् न महार्ह-रत्नवत्। न ते विशेषाः नियताः सुरेषु अपि न तत्र किञ्चिद् न महा-विशेष-वत्॥३॥
na tatra kiñcid na kṛtam prayatnataḥ na tatra kiñcid na mahārha-ratnavat. na te viśeṣāḥ niyatāḥ sureṣu api na tatra kiñcid na mahā-viśeṣa-vat..3..
तपः समाधानपराक्रमार्जितं मनः समाधानविचारचारिणम्। अनेकसंस्थानविशेषनिर्मितं ततस्ततस्तुल्यविशेषदर्शनम्॥४॥
तपः समाधान-पराक्रम-अर्जितम् मनः समाधान-विचार-चारिणम्। अनेक-संस्थान-विशेष-निर्मितम् ततस् ततस् तुल्य-विशेष-दर्शनम्॥४॥
tapaḥ samādhāna-parākrama-arjitam manaḥ samādhāna-vicāra-cāriṇam. aneka-saṃsthāna-viśeṣa-nirmitam tatas tatas tulya-viśeṣa-darśanam..4..
मन समाधाय तु शीघ्रगामिनं दुरासदं मारूततुल्यगामिनम् । महात्मनां पुण्यकृतां मंहद्धिनां यशस्विनामग्यमुदामिवालयम् ॥ ५ ॥
समाधाय तु शीघ्र-गामिनम् दुरासदम् मारूत-तुल्य-गामिनम् । महात्मनाम् पुण्य-कृताम् मंहद्धिनाम् यशस्विनाम् अग्य-मुदाम् इव आलयम् ॥ ५ ॥
samādhāya tu śīghra-gāminam durāsadam mārūta-tulya-gāminam . mahātmanām puṇya-kṛtām maṃhaddhinām yaśasvinām agya-mudām iva ālayam .. 5 ..
विशेषमालम्ब्य विशेषसंस्थितं विचित्रकूटं बहुकूटमण्डितम्। मनोऽभिरामं शरदिन्दुनिर्मलं विचित्रकूटं शिखरं गिरेर्यथा॥५॥
विशेषम् आलम्ब्य विशेष-संस्थितम् विचित्र-कूटम् बहु-कूट-मण्डितम्। मनः-अभिरामम् शरद्-इन्दु-निर्मलम् विचित्र-कूटम् शिखरम् गिरेः यथा॥५॥
viśeṣam ālambya viśeṣa-saṃsthitam vicitra-kūṭam bahu-kūṭa-maṇḍitam. manaḥ-abhirāmam śarad-indu-nirmalam vicitra-kūṭam śikharam gireḥ yathā..5..
वहन्ति यं कुण्डलशोभिताननाः महाशना व्योमचरा निशाचराः। विवृत्तविध्वस्तविशाललोचनाः महाजवा भूतगणाः सहस्रशः॥६॥
वहन्ति यम् कुण्डल-शोभित-आननाः महा-अशनाः व्योम-चराः निशाचराः। विवृत्त-विध्वस्त-विशाल-लोचनाः महा-जवाः भूत-गणाः सहस्रशस्॥६॥
vahanti yam kuṇḍala-śobhita-ānanāḥ mahā-aśanāḥ vyoma-carāḥ niśācarāḥ. vivṛtta-vidhvasta-viśāla-locanāḥ mahā-javāḥ bhūta-gaṇāḥ sahasraśas..6..
वसन्तपुष्पोत्करचारुदर्शनं वसन्तमासादपि कान्तदर्शनम्। स पुष्पकं तत्र विमानमुत्तमं ददर्श तद्वानरवीरसत्तमः॥७॥
वसन्त-पुष्प-उत्कर-चारु-दर्शनम् वसन्त-मासात् अपि कान्त-दर्शनम्। स पुष्पकम् तत्र विमानम् उत्तमम् ददर्श तत् वानर-वीर-सत्तमः॥७॥
vasanta-puṣpa-utkara-cāru-darśanam vasanta-māsāt api kānta-darśanam. sa puṣpakam tatra vimānam uttamam dadarśa tat vānara-vīra-sattamaḥ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In