This overlay will guide you through the buttons:

| |
|
तस्यालयवरिष्ठस्य मध्ये विपुलमायतम् । ददर्श भवनश्रेष्ठं हनूमान्मारुतात्मजः ॥ १॥
तस्य आलय-वरिष्ठस्य मध्ये विपुलम् आयतम् । ददर्श भवन-श्रेष्ठम् हनूमान् मारुतात्मजः ॥ १॥
tasya ālaya-variṣṭhasya madhye vipulam āyatam . dadarśa bhavana-śreṣṭham hanūmān mārutātmajaḥ .. 1..
अर्धयोजनविस्तीर्णमायतं योजनं हि तत् । भवनं राक्षसेन्द्रस्य बहुप्रासादसङ्कुलम् ॥ २॥
अर्ध-योजन-विस्तीर्णम् आयतम् योजनम् हि तत् । भवनम् राक्षस-इन्द्रस्य बहु-प्रासाद-सङ्कुलम् ॥ २॥
ardha-yojana-vistīrṇam āyatam yojanam hi tat . bhavanam rākṣasa-indrasya bahu-prāsāda-saṅkulam .. 2..
मार्गमाणस्तु वैदेहीं सीतामायतलोचनाम् । सर्वतः परिचक्राम हनूमानरिसूदनः ॥ ३॥
मार्गमाणः तु वैदेहीम् सीताम् आयत-लोचनाम् । सर्वतस् परिचक्राम हनूमान् अरि-सूदनः ॥ ३॥
mārgamāṇaḥ tu vaidehīm sītām āyata-locanām . sarvatas paricakrāma hanūmān ari-sūdanaḥ .. 3..
उत्तमं राक्षसावासं हनुमानवलोकयन् । आससादाथ लक्ष्मीवान् राक्षसेन्द्रनिवेशनम् ॥ ४॥
उत्तमम् राक्षस-आवासम् हनुमान् अवलोकयन् । आससाद अथ लक्ष्मीवान् राक्षस-इन्द्र-निवेशनम् ॥ ४॥
uttamam rākṣasa-āvāsam hanumān avalokayan . āsasāda atha lakṣmīvān rākṣasa-indra-niveśanam .. 4..
चतुर्विषाणैर्द्विरदैस्त्रिविषाणैस्तथैव च । परिक्षिप्तमसम्बाधं रक्ष्यमाणमुदायुधैः ॥५॥
चतुर्-विषाणैः द्विरदैः त्रि-विषाणैः तथा एव च । परिक्षिप्तम् असंबाधम् रक्ष्यमाणम् उदायुधैः ॥५॥
catur-viṣāṇaiḥ dviradaiḥ tri-viṣāṇaiḥ tathā eva ca . parikṣiptam asaṃbādham rakṣyamāṇam udāyudhaiḥ ..5..
राक्षसीभिश्च पत्नीभी रावणस्य निवेशनम् । आहृताभिश्च विक्रम्य राजकन्याभिरावृतम् ॥६॥
राक्षसीभिः च पत्नीभिः रावणस्य निवेशनम् । आहृताभिः च विक्रम्य राज-कन्याभिः आवृतम् ॥६॥
rākṣasībhiḥ ca patnībhiḥ rāvaṇasya niveśanam . āhṛtābhiḥ ca vikramya rāja-kanyābhiḥ āvṛtam ..6..
तन्नक्रमकराकीर्णं तिमिङ्गिलझषाकुलम् । वायुवेगसमाधूतं पन्नगैरिव सागरम् ॥७॥
तत् नक्र-मकर-आकीर्णम् तिमिङ्गिल-झष-आकुलम् । वायु-वेग-समाधूतम् पन्नगैः इव सागरम् ॥७॥
tat nakra-makara-ākīrṇam timiṅgila-jhaṣa-ākulam . vāyu-vega-samādhūtam pannagaiḥ iva sāgaram ..7..
या हि वैश्वरणे लक्ष्मीर्या चेन्द्रे हरिवाहने । सा रावणगृहे सर्वा नित्यमेवानपायिनी ॥८॥
या हि वैश्वरणे लक्ष्मीः या च इन्द्रे हरि-वाहने । सा रावण-गृहे सर्वा नित्यम् एव अनपायिनी ॥८॥
yā hi vaiśvaraṇe lakṣmīḥ yā ca indre hari-vāhane . sā rāvaṇa-gṛhe sarvā nityam eva anapāyinī ..8..
या च राज्ञः कुबेरस्य यमस्य वरुणस्य च । तादृशी तद्विशिष्टा वा ऋद्धी रक्षो गृहेष्विह ॥९॥
या च राज्ञः कुबेरस्य यमस्य वरुणस्य च । तादृशी तद्-विशिष्टा वै ऋद्धी रक्षः गृहेषु इह ॥९॥
yā ca rājñaḥ kuberasya yamasya varuṇasya ca . tādṛśī tad-viśiṣṭā vai ṛddhī rakṣaḥ gṛheṣu iha ..9..
तस्य हर्म्यस्य मध्यस्थं वेश्म चान्यत्सुनिर्मितम् । बहुनिर्यूह सङ्कीर्णं ददर्श पवनात्मजः ॥१०॥
तस्य हर्म्यस्य मध्य-स्थम् वेश्म च अन्यत् सु निर्मितम् । बहु-निर्यूह सङ्कीर्णम् ददर्श पवनात्मजः ॥१०॥
tasya harmyasya madhya-stham veśma ca anyat su nirmitam . bahu-niryūha saṅkīrṇam dadarśa pavanātmajaḥ ..10..
ब्रह्मणोऽर्थे कृतं दिव्यं दिवि यद्विश्वकर्मणा । विमानं पुष्पकं नाम सर्वरत्नविभूषितम् ॥११॥
ब्रह्मणः अर्थे कृतम् दिव्यम् दिवि यत् विश्वकर्मणा । विमानम् पुष्पकम् नाम सर्व-रत्न-विभूषितम् ॥११॥
brahmaṇaḥ arthe kṛtam divyam divi yat viśvakarmaṇā . vimānam puṣpakam nāma sarva-ratna-vibhūṣitam ..11..
परेण तपसा लेभे यत्कुबेरः पितामहात् । कुबेरमोजसा जित्वा लेभे तद्राक्षसेश्वरः ॥१२॥
परेण तपसा लेभे यत् कुबेरः पितामहात् । कुबेरम् ओजसा जित्वा लेभे तत् राक्षसेश्वरः ॥१२॥
pareṇa tapasā lebhe yat kuberaḥ pitāmahāt . kuberam ojasā jitvā lebhe tat rākṣaseśvaraḥ ..12..
ईहा मृगसमायुक्तैः कार्यस्वरहिरण्मयैः । सुकृतैराचितं स्तम्भैः प्रदीप्तमिव च श्रिया ॥१३॥
ईहा मृग-समायुक्तैः कार्य-स्वर-हिरण्मयैः । सुकृतैः आचितम् स्तम्भैः प्रदीप्तम् इव च श्रिया ॥१३॥
īhā mṛga-samāyuktaiḥ kārya-svara-hiraṇmayaiḥ . sukṛtaiḥ ācitam stambhaiḥ pradīptam iva ca śriyā ..13..
मेरुमन्दरसङ्काशैरुल्लिखद्भिरिवाम्बरम् । कूटागारैः शुभाकारैः सर्वतः समलङ्कृतम् ॥१४॥
मेरु-मन्दर-सङ्काशैः उल्लिखद्भिः इव अम्बरम् । कूटागारैः शुभ-आकारैः सर्वतस् समलङ्कृतम् ॥१४॥
meru-mandara-saṅkāśaiḥ ullikhadbhiḥ iva ambaram . kūṭāgāraiḥ śubha-ākāraiḥ sarvatas samalaṅkṛtam ..14..
ज्वलनार्कप्रतीकाशं सुकृतं विश्वकर्मणा । हेमसोपानसंयुक्तं चारुप्रवरवेदिकम् ॥१५॥
ज्वलन-अर्क-प्रतीकाशम् सु कृतम् विश्वकर्मणा । हेम-सोपान-संयुक्तम् चारु-प्रवर-वेदिकम् ॥१५॥
jvalana-arka-pratīkāśam su kṛtam viśvakarmaṇā . hema-sopāna-saṃyuktam cāru-pravara-vedikam ..15..
जालवातायनैर्युक्तं काञ्चनैः स्थाटिकैरपि । इन्द्रनीलमहानीलमणिप्रवरवेदिकम् ॥१६॥
जालवातायनैः युक्तम् काञ्चनैः स्थाटिकैः अपि । इन्द्रनील-महानील-मणि-प्रवर-वेदिकम् ॥१६॥
jālavātāyanaiḥ yuktam kāñcanaiḥ sthāṭikaiḥ api . indranīla-mahānīla-maṇi-pravara-vedikam ..16..
विदमेण विचित्रेण मणिभिश्च महाधनैः।निंस्तुलाभिशच मुक्ताभिस्तलेनाभिविराजितम्॥१७॥
विदमेण विचित्रेण मणिभिः च महाधनैः।मुक्ताभिः तलेन अभिविराजितम्॥१७॥
vidameṇa vicitreṇa maṇibhiḥ ca mahādhanaiḥ.muktābhiḥ talena abhivirājitam..17..
चन्दनेन च रक्तेन तपनीयनिभेन च।सुपुण्यगन्धिना युक्तमादिदयतरुणोपमम्॥१८॥
चन्दनेन च रक्तेन तपनीय-निभेन च।सु पुण्य-गन्धिना युक्तम् आदि-दय-तरुण-उपमम्॥१८॥
candanena ca raktena tapanīya-nibhena ca.su puṇya-gandhinā yuktam ādi-daya-taruṇa-upamam..18..
विमानं पुष्पकं दिव्यमारुरोह महाकपिः ।तत्रस्थः स तदा गन्धं पानभक्ष्यान्नसम्भवम् ॥१९॥
विमानम् पुष्पकम् दिव्यम् आरुरोह महा-कपिः ।तत्रस्थः स तदा गन्धम् पान-भक्ष्य-अन्न-सम्भवम् ॥१९॥
vimānam puṣpakam divyam āruroha mahā-kapiḥ .tatrasthaḥ sa tadā gandham pāna-bhakṣya-anna-sambhavam ..19..
दिव्यं संमूर्छितं जिघ्रन्रूपवन्तमिवानिलम् ।स गन्धस्तं महासत्त्वं बन्धुर्बन्धुमिवोत्तमम् ॥२०॥
दिव्यम् संमूर्छितम् जिघ्रन् रूपवन्तम् इव अनिलम् ।स गन्धः तम् महासत्त्वम् बन्धुः बन्धुम् इव उत्तमम् ॥२०॥
divyam saṃmūrchitam jighran rūpavantam iva anilam .sa gandhaḥ tam mahāsattvam bandhuḥ bandhum iva uttamam ..20..
इत एहीत्युवाचेव तत्र यत्र स रावणः ।ततस्तां प्रस्थितः शालां ददर्श महतीं शुभाम् ॥२१॥
इतस् एहि इति उवाच इव तत्र यत्र स रावणः ।ततस् ताम् प्रस्थितः शालाम् ददर्श महतीम् शुभाम् ॥२१॥
itas ehi iti uvāca iva tatra yatra sa rāvaṇaḥ .tatas tām prasthitaḥ śālām dadarśa mahatīm śubhām ..21..
रावणस्य मनःकान्तां कान्ताम् इव वरस्त्रियम् ।मणिसोपानविकृतां हेमजालविराजिताम् ॥२२॥
रावणस्य मनः-कान्ताम् कान्ताम् इव वर-स्त्रियम् ।मणि-सोपान-विकृताम् हेम-जाल-विराजिताम् ॥२२॥
rāvaṇasya manaḥ-kāntām kāntām iva vara-striyam .maṇi-sopāna-vikṛtām hema-jāla-virājitām ..22..
स्फाटिकैरावृततलां दन्तान्तरितरूपिकाम् ।मुक्ताभिश्च प्रवालैश्च रूप्यचामीकरैरपि ॥२३॥
स्फाटिकैः आवृत-तलाम् दन्त-अन्तरित-रूपिकाम् ।मुक्ताभिः च प्रवालैः च रूप्य-चामीकरैः अपि ॥२३॥
sphāṭikaiḥ āvṛta-talām danta-antarita-rūpikām .muktābhiḥ ca pravālaiḥ ca rūpya-cāmīkaraiḥ api ..23..
विभूषितां मणिस्तम्भैः सुबहुस्तम्भभूषिताम् ।समैरृजुभिरत्युच्चैः समन्तात्सुविभूषितैः ॥२४॥
विभूषिताम् मणि-स्तम्भैः सु बहु-स्तम्भ-भूषिताम् ।समैः ऋजुभिः अत्युच्चैः समन्तात् सु विभूषितैः ॥२४॥
vibhūṣitām maṇi-stambhaiḥ su bahu-stambha-bhūṣitām .samaiḥ ṛjubhiḥ atyuccaiḥ samantāt su vibhūṣitaiḥ ..24..
स्तम्भैः पक्षैरिवात्युच्चैर्दिवं सम्प्रस्थिताम् इव ।महत्या कुथयास्त्रीणं पृथिवीलक्षणाङ्कया ॥२५॥
स्तम्भैः पक्षैः इव अति उच्चैस् दिवम् सम्प्रस्थिताम् इव ।महत्या पृथिवी-लक्षण-अङ्कया ॥२५॥
stambhaiḥ pakṣaiḥ iva ati uccais divam samprasthitām iva .mahatyā pṛthivī-lakṣaṇa-aṅkayā ..25..
पृथिवीमिव विस्तीर्णां सराष्ट्रगृहमालिनीम् ।नादितां मत्तविहगैर्दिव्यगन्धाधिवासिताम् ॥२६॥
पृथिवीम् इव विस्तीर्णाम् सराष्ट्र-गृह-मालिनीम् ।नादिताम् मत्त-विहगैः दिव्य-गन्ध-अधिवासिताम् ॥२६॥
pṛthivīm iva vistīrṇām sarāṣṭra-gṛha-mālinīm .nāditām matta-vihagaiḥ divya-gandha-adhivāsitām ..26..
परार्ध्यास्तरणोपेतां रक्षोऽधिपनिषेविताम् ।धूम्रामगरुधूपेन विमलां हंसपाण्डुराम् ॥२७॥
परार्ध्य-आस्तरण-उपेताम् रक्षः-अधिप-निषेविताम् ।धूम्राम् अगरु-धूपेन विमलाम् हंस-पाण्डुराम् ॥२७॥
parārdhya-āstaraṇa-upetām rakṣaḥ-adhipa-niṣevitām .dhūmrām agaru-dhūpena vimalām haṃsa-pāṇḍurām ..27..
पत्र पुष्पोपहारेण कल्माषीमिव सुप्रभाम् ।मनसो मोदजननीं वर्णस्यापि प्रसादिनीम् ॥२८॥
पत्र-पुष्प-उपहारेण कल्माषीम् इव सु प्रभाम् ।मनसः मोद-जननीम् वर्णस्य अपि प्रसादिनीम् ॥२८॥
patra-puṣpa-upahāreṇa kalmāṣīm iva su prabhām .manasaḥ moda-jananīm varṇasya api prasādinīm ..28..
तां शोकनाशिनीं दिव्यां श्रियः सञ्जननीम् इव ।इन्द्रियाणीन्द्रियार्थैस्तु पञ्च पञ्चभिरुत्तमैः ॥२९॥
ताम् शोक-नाशिनीम् दिव्याम् श्रियः सञ्जननीम् इव ।इन्द्रियाणि इन्द्रिय-अर्थैः तु पञ्च पञ्चभिः उत्तमैः ॥२९॥
tām śoka-nāśinīm divyām śriyaḥ sañjananīm iva .indriyāṇi indriya-arthaiḥ tu pañca pañcabhiḥ uttamaiḥ ..29..
तर्पयामास मातेव तदा रावणपालिता । स्वर्गोऽयं देवलोकोऽयमिन्द्रस्येयं पुरी भवेत् । सिद्धिर्वेयं परा हि स्यादित्यमन्यत मारुतिः ॥३०॥
तर्पयामास माता इव तदा रावण-पालिता । स्वर्गः अयम् देव-लोकः अयम् इन्द्रस्य इयम् पुरी भवेत् । सिद्धिः वा इयम् परा हि स्यात् इति अमन्यत मारुतिः ॥३०॥
tarpayāmāsa mātā iva tadā rāvaṇa-pālitā . svargaḥ ayam deva-lokaḥ ayam indrasya iyam purī bhavet . siddhiḥ vā iyam parā hi syāt iti amanyata mārutiḥ ..30..
प्रध्यायत इवापश्यत्प्रदीपांस्तत्र काञ्चनान् । धूर्तानिव महाधूर्तैर्देवनेन पराजितान् ॥३१॥
प्रध्यायतः इव अपश्यत् प्रदीपान् तत्र काञ्चनान् । धूर्तान् इव महा-धूर्तैः देवनेन पराजितान् ॥३१॥
pradhyāyataḥ iva apaśyat pradīpān tatra kāñcanān . dhūrtān iva mahā-dhūrtaiḥ devanena parājitān ..31..
दीपानां च प्रकाशेन तेजसा रावणस्य च । अर्चिर्भिर्भूषणानां च प्रदीप्तेत्यभ्यमन्यत ॥३२॥
दीपानाम् च प्रकाशेन तेजसा रावणस्य च । अर्चिर्भिः भूषणानाम् च प्रदीप्ता इति अभ्यमन्यत ॥३२॥
dīpānām ca prakāśena tejasā rāvaṇasya ca . arcirbhiḥ bhūṣaṇānām ca pradīptā iti abhyamanyata ..32..
ततोऽपश्यत्कुथासीनं नानावर्णाम्बरस्रजम् । सहस्रं वरनारीणां नानावेषविभूषितम् ॥३३॥
ततस् अपश्यत् कुथ-आसीनम् नाना वर्ण-अम्बर-स्रजम् । सहस्रम् वर-नारीणाम् नाना वेष-विभूषितम् ॥३३॥
tatas apaśyat kutha-āsīnam nānā varṇa-ambara-srajam . sahasram vara-nārīṇām nānā veṣa-vibhūṣitam ..33..
परिवृत्तेऽर्धरात्रे तु पाननिद्रावशं गतम् । क्रीडित्वोपरतं रात्रौ सुष्वाप बलवत्तदा ॥३४॥
परिवृत्ते अर्धरात्रे तु पान-निद्रा-वशम् गतम् । क्रीडित्वा उपरतम् रात्रौ सुष्वाप बलवत् तदा ॥३४॥
parivṛtte ardharātre tu pāna-nidrā-vaśam gatam . krīḍitvā uparatam rātrau suṣvāpa balavat tadā ..34..
तत्प्रसुप्तं विरुरुचे निःशब्दान्तरभूषणम् । निःशब्दहंसभ्रमरं यथा पद्मवनं महत् ॥३५॥
तत् प्रसुप्तम् विरुरुचे निःशब्द-अन्तर-भूषणम् । निःशब्द-हंस-भ्रमरम् यथा पद्म-वनम् महत् ॥३५॥
tat prasuptam viruruce niḥśabda-antara-bhūṣaṇam . niḥśabda-haṃsa-bhramaram yathā padma-vanam mahat ..35..
तासां संवृतदन्तानि मीलिताक्षाणि मारुतिः । अपश्यत्पद्मगन्धीनि वदनानि सुयोषिताम् ॥३६॥
तासाम् संवृत-दन्तानि मीलित-अक्षाणि मारुतिः । अपश्यत् पद्म-गन्धीनि वदनानि सु योषिताम् ॥३६॥
tāsām saṃvṛta-dantāni mīlita-akṣāṇi mārutiḥ . apaśyat padma-gandhīni vadanāni su yoṣitām ..36..
प्रबुद्धानीव पद्मानि तासां भूत्वा क्षपाक्षये । पुनःसंवृतपत्राणि रात्राविव बभुस्तदा ॥३७॥
प्रबुद्धानि इव पद्मानि तासाम् भूत्वा क्षपा-क्षये । पुनर् संवृत-पत्राणि रात्रौ इव बभुः तदा ॥३७॥
prabuddhāni iva padmāni tāsām bhūtvā kṣapā-kṣaye . punar saṃvṛta-patrāṇi rātrau iva babhuḥ tadā ..37..
इमानि मुखपद्मानि नियतं मत्तषट्पदाः । अम्बुजानीव फुल्लानि प्रार्थयन्ति पुनः पुनः ॥३८॥
इमानि मुख-पद्मानि नियतम् मत्त-षट्पदाः । अम्बुजानि इव फुल्लानि प्रार्थयन्ति पुनर् पुनर् ॥३८॥
imāni mukha-padmāni niyatam matta-ṣaṭpadāḥ . ambujāni iva phullāni prārthayanti punar punar ..38..
इति वामन्यत श्रीमानुपपत्त्या महाकपिः । मेने हि गुणतस्तानि समानि सलिलोद्भवैः ॥३९॥
इति वा अमन्यत श्रीमा अनुपपत्त्या महा-कपिः । मेने हि गुणतः तानि समानि सलिलोद्भवैः ॥३९॥
iti vā amanyata śrīmā anupapattyā mahā-kapiḥ . mene hi guṇataḥ tāni samāni salilodbhavaiḥ ..39..
सा तस्य शुशुभे शाला ताभिः स्त्रीभिर्विराजिता । शारदीव प्रसन्ना द्यौस्ताराभिरभिशोभिता ॥४०॥
सा तस्य शुशुभे शाला ताभिः स्त्रीभिः विराजिता । शारदी इव प्रसन्ना द्यौः ताराभिः अभिशोभिता ॥४०॥
sā tasya śuśubhe śālā tābhiḥ strībhiḥ virājitā . śāradī iva prasannā dyauḥ tārābhiḥ abhiśobhitā ..40..
स च ताभिः परिवृतः शुशुभे राक्षसाधिपः । यथा ह्युडुपतिः श्रीमांस्ताराभिरभिसंवृतः ॥४१॥
स च ताभिः परिवृतः शुशुभे राक्षस-अधिपः । यथा हि उडुपतिः श्रीमान् ताराभिः अभिसंवृतः ॥४१॥
sa ca tābhiḥ parivṛtaḥ śuśubhe rākṣasa-adhipaḥ . yathā hi uḍupatiḥ śrīmān tārābhiḥ abhisaṃvṛtaḥ ..41..
याश्च्यवन्तेऽम्बरात्ताराः पुण्यशेषसमावृताः । इमास्ताः सङ्गताः कृत्स्ना इति मेने हरिस्तदा ॥४२॥
याः च्यवन्ते अम्बरात् ताराः पुण्य-शेष-समावृताः । इमाः ताः सङ्ग-ताः कृत्स्नाः इति मेने हरिः तदा ॥४२॥
yāḥ cyavante ambarāt tārāḥ puṇya-śeṣa-samāvṛtāḥ . imāḥ tāḥ saṅga-tāḥ kṛtsnāḥ iti mene hariḥ tadā ..42..
ताराणामिव सुव्यक्तं महतीनां शुभार्चिषाम् । प्रभावर्णप्रसादाश्च विरेजुस्तत्र योषिताम् ॥४३॥
ताराणाम् इव सु व्यक्तम् महतीनाम् शुभ-अर्चिषाम् । प्रभा-वर्ण-प्रसादाः च विरेजुः तत्र योषिताम् ॥४३॥
tārāṇām iva su vyaktam mahatīnām śubha-arciṣām . prabhā-varṇa-prasādāḥ ca virejuḥ tatra yoṣitām ..43..
व्यावृत्तगुरुपीनस्रक्प्रकीर्णवरभूषणाः । पानव्यायामकालेषु निद्रापहृतचेतसः ॥४४॥
व्यावृत्त-गुरु-पीन-स्रज्-प्रकीर्ण-वर-भूषणाः । पान-व्यायाम-कालेषु निद्रा-अपहृत-चेतसः ॥४४॥
vyāvṛtta-guru-pīna-sraj-prakīrṇa-vara-bhūṣaṇāḥ . pāna-vyāyāma-kāleṣu nidrā-apahṛta-cetasaḥ ..44..
व्यावृत्ततिलकाः काश्चित्काश्चिदुद्भ्रान्तनूपुराः । पार्श्वे गलितहाराश्च काश्चित्परमयोषितः ॥४५॥
व्यावृत्त-तिलकाः काश्चिद् काश्चिद् उद्भ्रान्त-नूपुराः । पार्श्वे गलित-हाराः च काश्चिद् परम-योषितः ॥४५॥
vyāvṛtta-tilakāḥ kāścid kāścid udbhrānta-nūpurāḥ . pārśve galita-hārāḥ ca kāścid parama-yoṣitaḥ ..45..
मुक्ता हारवृताश्चान्याः काश्चित्प्रस्रस्तवाससः । व्याविद्धरशना दामाः किशोर्य इव वाहिताः ॥४६॥
मुक्ताः हार-वृताः च अन्याः काश्चिद् प्रस्रस्त-वाससः । व्याविद्ध-रशनाः दामाः किशोर्यः इव वाहिताः ॥४६॥
muktāḥ hāra-vṛtāḥ ca anyāḥ kāścid prasrasta-vāsasaḥ . vyāviddha-raśanāḥ dāmāḥ kiśoryaḥ iva vāhitāḥ ..46..
अकुण्डलधराश्चान्या विच्छिन्नमृदितस्रजः । गजेन्द्रमृदिताः फुल्ला लता इव महावने ॥४७॥
अकुण्डल-धराः च अन्याः विच्छिन्न-मृदित-स्रजः । गज-इन्द्र-मृदिताः फुल्लाः लताः इव महा-वने ॥४७॥
akuṇḍala-dharāḥ ca anyāḥ vicchinna-mṛdita-srajaḥ . gaja-indra-mṛditāḥ phullāḥ latāḥ iva mahā-vane ..47..
चन्द्रांशुकिरणाभाश्च हाराः कासां चिदुत्कटाः । हंसा इव बभुः सुप्ताः स्तनमध्येषु योषिताम् ॥४८॥
चन्द्र-अंशु-किरण-आभाः च हाराः कासाम् चित् उत्कटाः । हंसाः इव बभुः सुप्ताः स्तन-मध्येषु योषिताम् ॥४८॥
candra-aṃśu-kiraṇa-ābhāḥ ca hārāḥ kāsām cit utkaṭāḥ . haṃsāḥ iva babhuḥ suptāḥ stana-madhyeṣu yoṣitām ..48..
अपरासां च वैदूर्याः कादम्बा इव पक्षिणः । हेमसूत्राणि चान्यासां चक्रवाका इवाभवन् ॥४९॥
अपरासाम् च वैदूर्याः कादम्बाः इव पक्षिणः । हेमसूत्राणि च अन्यासाम् चक्रवाकाः इव अभवन् ॥४९॥
aparāsām ca vaidūryāḥ kādambāḥ iva pakṣiṇaḥ . hemasūtrāṇi ca anyāsām cakravākāḥ iva abhavan ..49..
हंसकारण्डवाकीर्णाश्चक्रवाकोपशोभिताः । आपगा इव ता रेजुर्जघनैः पुलिनैरिव ॥५०॥
हंस-कारण्डव-आकीर्णाः चक्रवाक-उपशोभिताः । आपगाः इव ताः रेजुः जघनैः पुलिनैः इव ॥५०॥
haṃsa-kāraṇḍava-ākīrṇāḥ cakravāka-upaśobhitāḥ . āpagāḥ iva tāḥ rejuḥ jaghanaiḥ pulinaiḥ iva ..50..
किङ्किणीजालसङ्काशास्ता हेमविपुलाम्बुजाः । भावग्राहा यशस्तीराः सुप्ता नद्य इवाबभुः ॥५१॥
किङ्किणी-जाल-सङ्काशाः ताः हेम-विपुल-अम्बुजाः । भाव-ग्राहाः यशः-तीराः सुप्ताः नद्यः इव आबभुः ॥५१॥
kiṅkiṇī-jāla-saṅkāśāḥ tāḥ hema-vipula-ambujāḥ . bhāva-grāhāḥ yaśaḥ-tīrāḥ suptāḥ nadyaḥ iva ābabhuḥ ..51..
मृदुष्वङ्गेषु कासां चित्कुचाग्रेषु च संस्थिताः । बभूवुर्भूषणानीव शुभा भूषणराजयः ॥५२॥
मृदुषु अङ्गेषु कासाम् चित् कुच-अग्रेषु च संस्थिताः । बभूवुः भूषणानि इव शुभाः भूषण-राजयः ॥५२॥
mṛduṣu aṅgeṣu kāsām cit kuca-agreṣu ca saṃsthitāḥ . babhūvuḥ bhūṣaṇāni iva śubhāḥ bhūṣaṇa-rājayaḥ ..52..
अंशुकान्ताश्च कासां चिन्मुखमारुतकम्पिताः । उपर्युपरि वक्त्राणां व्याधूयन्ते पुनः पुनः ॥५३॥
अंशु-कान्ताः च कासाम् चित्-मुख-मारुत-कम्पिताः । उपरि उपरि वक्त्राणाम् व्याधूयन्ते पुनर् पुनर् ॥५३॥
aṃśu-kāntāḥ ca kāsām cit-mukha-māruta-kampitāḥ . upari upari vaktrāṇām vyādhūyante punar punar ..53..
ताः पाताका इवोद्धूताः पत्नीनां रुचिरप्रभाः । नानावर्णसुवर्णानां वक्त्रमूलेषु रेजिरे ॥५४॥
ताः पाताकाः इव उद्धूताः पत्नीनाम् रुचिर-प्रभाः । नाना वर्ण-सुवर्णानाम् वक्त्र-मूलेषु रेजिरे ॥५४॥
tāḥ pātākāḥ iva uddhūtāḥ patnīnām rucira-prabhāḥ . nānā varṇa-suvarṇānām vaktra-mūleṣu rejire ..54..
ववल्गुश्चात्र कासां चित्कुण्डलानि शुभार्चिषाम् । मुखमारुतसंसर्गान्मन्दं मन्दं सुयोषिताम् ॥५५॥
ववल्गुः च अत्र कासाम् चित् कुण्डलानि शुभ-अर्चिषाम् । मुख-मारुत-संसर्गात् मन्दम् मन्दम् सु योषिताम् ॥५५॥
vavalguḥ ca atra kāsām cit kuṇḍalāni śubha-arciṣām . mukha-māruta-saṃsargāt mandam mandam su yoṣitām ..55..
शर्करासवगन्धः स प्रकृत्या सुरभिः सुखः । तासां वदननिःश्वासः सिषेवे रावणं तदा ॥५६॥
शर्करा-आसव-गन्धः स प्रकृत्या सुरभिः सुखः । तासाम् वदन-निःश्वासः सिषेवे रावणम् तदा ॥५६॥
śarkarā-āsava-gandhaḥ sa prakṛtyā surabhiḥ sukhaḥ . tāsām vadana-niḥśvāsaḥ siṣeve rāvaṇam tadā ..56..
रावणाननशङ्काश्च काश्चिद्रावणयोषितः । मुखानि स्म सपत्नीनामुपाजिघ्रन्पुनः पुनः ॥५७॥
रावण-आनन-शङ्काः च काश्चिद् रावण-योषितः । मुखानि स्म सपत्नीनाम् उपाजिघ्रन् पुनर् पुनर् ॥५७॥
rāvaṇa-ānana-śaṅkāḥ ca kāścid rāvaṇa-yoṣitaḥ . mukhāni sma sapatnīnām upājighran punar punar ..57..
अत्यर्थं सक्तमनसो रावणे ता वरस्त्रियः । अस्वतन्त्राः सपत्नीनां प्रियमेवाचरंस्तदा ॥५८॥
अत्यर्थम् सक्त-मनसः रावणे ताः वर-स्त्रियः । अस्वतन्त्राः सपत्नीनाम् प्रियम् एव अचरन् तदा ॥५८॥
atyartham sakta-manasaḥ rāvaṇe tāḥ vara-striyaḥ . asvatantrāḥ sapatnīnām priyam eva acaran tadā ..58..
बाहूनुपनिधायान्याः पारिहार्य विभूषिताः । अंशुकानि च रम्याणि प्रमदास्तत्र शिश्यिरे ॥५९॥
बाहून् उपनिधाय अन्याः पारिहार्य विभूषिताः । अंशुकानि च रम्याणि प्रमदाः तत्र शिश्यिरे ॥५९॥
bāhūn upanidhāya anyāḥ pārihārya vibhūṣitāḥ . aṃśukāni ca ramyāṇi pramadāḥ tatra śiśyire ..59..
अन्या वक्षसि चान्यस्यास्तस्याः का चित्पुनर्भुजम् । अपरा त्वङ्कमन्यस्यास्तस्याश्चाप्यपरा भुजौ ॥६०॥
अन्या वक्षसि च अन्यस्याः तस्याः का चित् पुनर्भुजम् । अपरा तु अङ्कम् अन्यस्याः तस्याः च अपि अपरा भुजौ ॥६०॥
anyā vakṣasi ca anyasyāḥ tasyāḥ kā cit punarbhujam . aparā tu aṅkam anyasyāḥ tasyāḥ ca api aparā bhujau ..60..
ऊरुपार्श्वकटीपृष्ठमन्योन्यस्य समाश्रिताः । परस्परनिविष्टाङ्ग्यो मदस्नेहवशानुगाः ॥६१॥
ऊरु-पार्श्व-कटी-पृष्ठम् अन्योन्यस्य समाश्रिताः । परस्पर-निविष्ट-अङ्ग्यः मद-स्नेह-वश-अनुगाः ॥६१॥
ūru-pārśva-kaṭī-pṛṣṭham anyonyasya samāśritāḥ . paraspara-niviṣṭa-aṅgyaḥ mada-sneha-vaśa-anugāḥ ..61..
अन्योन्यस्याङ्गसंस्पर्शात्प्रीयमाणाः सुमध्यमाः । एकीकृतभुजाः सर्वाः सुषुपुस्तत्र योषितः ॥६२॥
अन्योन्यस्य अङ्ग-संस्पर्शात् प्रीयमाणाः सुमध्यमाः । एकीकृत-भुजाः सर्वाः सुषुपुः तत्र योषितः ॥६२॥
anyonyasya aṅga-saṃsparśāt prīyamāṇāḥ sumadhyamāḥ . ekīkṛta-bhujāḥ sarvāḥ suṣupuḥ tatra yoṣitaḥ ..62..
अन्योन्यभुजसूत्रेण स्त्रीमालाग्रथिता हि सा । मालेव ग्रथिता सूत्रे शुशुभे मत्तषट्पदा ॥६३॥
अन्योन्य-भुज-सूत्रेण स्त्री-माला-ग्रथिता हि सा । माला इव ग्रथिता सूत्रे शुशुभे मत्त-षट्पदा ॥६३॥
anyonya-bhuja-sūtreṇa strī-mālā-grathitā hi sā . mālā iva grathitā sūtre śuśubhe matta-ṣaṭpadā ..63..
लतानां माधवे मासि फुल्लानां वायुसेवनात् । अन्योन्यमालाग्रथितं संसक्तकुसुमोच्चयम् ॥६४॥
लतानाम् माधवे मासि फुल्लानाम् वायु-सेवनात् । अन्योन्य-माला-ग्रथितम् संसक्त-कुसुम-उच्चयम् ॥६४॥
latānām mādhave māsi phullānām vāyu-sevanāt . anyonya-mālā-grathitam saṃsakta-kusuma-uccayam ..64..
प्रतिवेष्टितसुस्कन्थमन्योन्यभ्रमराकुलम् । आसीद्वनमिवोद्धूतं स्त्रीवनं रावणस्य तत् ॥६५॥
प्रतिवेष्टित-सु स्कन्थम् अन्योन्य-भ्रमर-आकुलम् । आसीत् वनम् इव उद्धूतम् स्त्री-वनम् रावणस्य तत् ॥६५॥
prativeṣṭita-su skantham anyonya-bhramara-ākulam . āsīt vanam iva uddhūtam strī-vanam rāvaṇasya tat ..65..
उचितेष्वपि सुव्यक्तं न तासां योषितां तदा । विवेकः शक्य आधातुं भूषणाङ्गाम्बरस्रजाम् ॥६६॥
उचितेषु अपि सु व्यक्तम् न तासाम् योषिताम् तदा । विवेकः शक्यः आधातुम् भूषण-अङ्ग-अम्बर-स्रजाम् ॥६६॥
uciteṣu api su vyaktam na tāsām yoṣitām tadā . vivekaḥ śakyaḥ ādhātum bhūṣaṇa-aṅga-ambara-srajām ..66..
रावणे सुखसंविष्टे ताः स्त्रियो विविधप्रभाः । ज्वलन्तः काञ्चना दीपाः प्रेक्षन्तानिमिषा इव ॥६७॥
रावणे सुख-संविष्टे ताः स्त्रियः विविध-प्रभाः । ज्वलन्तः काञ्चनाः दीपाः इव ॥६७॥
rāvaṇe sukha-saṃviṣṭe tāḥ striyaḥ vividha-prabhāḥ . jvalantaḥ kāñcanāḥ dīpāḥ iva ..67..
राजर्षिपितृदैत्यानां गन्धर्वाणां च योषितः । रक्षसां चाभवन्कन्यास्तस्य कामवशं गताः ॥६८॥
राजर्षि-पितृ-दैत्यानाम् गन्धर्वाणाम् च योषितः । रक्षसाम् च अभवन् कन्याः तस्य काम-वशम् गताः ॥६८॥
rājarṣi-pitṛ-daityānām gandharvāṇām ca yoṣitaḥ . rakṣasām ca abhavan kanyāḥ tasya kāma-vaśam gatāḥ ..68..
युद्धकामेन ताः सर्वा रावणेन हताः स्त्रियः ।समदा मदनेनैव मोहिताः काश्चिदागताः॥६९॥
युद्ध-कामेन ताः सर्वाः रावणेन हताः स्त्रियः ।स मदाः मदनेन एव मोहिताः काश्चिद् आगताः॥६९॥
yuddha-kāmena tāḥ sarvāḥ rāvaṇena hatāḥ striyaḥ .sa madāḥ madanena eva mohitāḥ kāścid āgatāḥ..69..
न तत्र का चित्प्रमदा प्रसह्य वीर्योपपन्नेन गुणेन लब्धा । न चान्यकामापि न चान्यपूर्वा विना वरार्हां जनकात्मजां तु ॥७०॥
न तत्र का चित् प्रमदा प्रसह्य वीर्य-उपपन्नेन गुणेन लब्धा । न च अन्य-कामा अपि न च अन्यपूर्वा विना वरार्हाम् जनकात्मजाम् तु ॥७०॥
na tatra kā cit pramadā prasahya vīrya-upapannena guṇena labdhā . na ca anya-kāmā api na ca anyapūrvā vinā varārhām janakātmajām tu ..70..
न चाकुलीना न च हीनरूपा नादक्षिणा नानुपचारयुक्ता ।भार्याभवत् तस्य न हीनसत्तवा न चापि कान्तस्य न कामनीया॥७१॥
न च अकुलीना न च हीन-रूपा न अदक्षिणा न अनुपचार-युक्ता ।भार्या भवत् तस्य न हीन-सत्तवा न च अपि कान्तस्य न कामनीया॥७१॥
na ca akulīnā na ca hīna-rūpā na adakṣiṇā na anupacāra-yuktā .bhāryā bhavat tasya na hīna-sattavā na ca api kāntasya na kāmanīyā..71..
बभूव बुद्धिस्तु हरीश्वरस्य यदीदृशी राघवधर्मपत्नी । इमा यथा राक्षसराजभार्याः सुजातमस्येति हि साधुबुद्धेः ॥७२॥
बभूव बुद्धिः तु हरि-ईश्वरस्य यत् ईदृशी राघव-धर्मपत्नी । इमाः यथा राक्षस-राज-भार्याः सुजातम् अस्य इति हि साधु-बुद्धेः ॥७२॥
babhūva buddhiḥ tu hari-īśvarasya yat īdṛśī rāghava-dharmapatnī . imāḥ yathā rākṣasa-rāja-bhāryāḥ sujātam asya iti hi sādhu-buddheḥ ..72..
पुनश्च सोऽचिन्तयदार्तरूपो ध्रुवं विशिष्टा गुणतो हि सीता । अथायमस्यां कृतवान्महात्मा लङ्केश्वरः कष्टमनार्यकर्म ॥७३॥
पुनर् च सः अचिन्तयत् आर्त-रूपः ध्रुवम् विशिष्टा गुणतः हि सीता । अथ अयम् अस्याम् कृतवान् महात्मा लङ्केश्वरः कष्टम् अनार्य-कर्म ॥७३॥
punar ca saḥ acintayat ārta-rūpaḥ dhruvam viśiṣṭā guṇataḥ hi sītā . atha ayam asyām kṛtavān mahātmā laṅkeśvaraḥ kaṣṭam anārya-karma ..73..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In