This overlay will guide you through the buttons:

| |
|
प्राप्तराज्यस्य रामस्य राक्षसानां वधे कृते । आजग्मुर्ऋषयः सर्वे राघवं प्रतिनन्दितुम् ॥ ७.१.१ ॥
प्राप्त-राज्यस्य रामस्य राक्षसानाम् वधे कृते । आजग्मुः ऋषयः सर्वे राघवम् प्रतिनन्दितुम् ॥ ७।१।१ ॥
prāpta-rājyasya rāmasya rākṣasānām vadhe kṛte . ājagmuḥ ṛṣayaḥ sarve rāghavam pratinanditum .. 7.1.1 ..
कौशिको ऽथ यवक्रीतो गार्ग्यो गालव एव च । कण्वो मेधातिथेः पुत्रः पूर्वस्यां दिशि ये श्रिताः ॥ ७.१.२ ॥
कौशिकः अथ यवक्रीतः गार्ग्यः गालवः एव च । कण्वः मेधातिथेः पुत्रः पूर्वस्याम् दिशि ये श्रिताः ॥ ७।१।२ ॥
kauśikaḥ atha yavakrītaḥ gārgyaḥ gālavaḥ eva ca . kaṇvaḥ medhātitheḥ putraḥ pūrvasyām diśi ye śritāḥ .. 7.1.2 ..
स्वस्त्यात्रेयो ऽथ भगवान्नमुचिः प्रमुचिस्तथा । आजग्मुस्ते सहागस्त्या ये श्रिता दक्षिणां दिशम् ॥ ७.१.३ ॥
स्वस्त्यात्रेयः अथ भगवान् नमुचिः प्रमुचिः तथा । आजग्मुः ते सह अगस्त्याः ये श्रिताः दक्षिणाम् दिशम् ॥ ७।१।३ ॥
svastyātreyaḥ atha bhagavān namuciḥ pramuciḥ tathā . ājagmuḥ te saha agastyāḥ ye śritāḥ dakṣiṇām diśam .. 7.1.3 ..
नृषद्गुः कवषो धौम्यो रौद्रेयश्च महानृषिः । ते ऽप्याजग्मुः सशिष्या वै ये श्रिताः पश्चिमां दिशम् ॥ ७.१.४ ॥
नृषद्गुः कवषः धौम्यः रौद्रेयः च महान् ऋषिः । ते अपि आजग्मुः स शिष्याः वै ये श्रिताः पश्चिमाम् दिशम् ॥ ७।१।४ ॥
nṛṣadguḥ kavaṣaḥ dhaumyaḥ raudreyaḥ ca mahān ṛṣiḥ . te api ājagmuḥ sa śiṣyāḥ vai ye śritāḥ paścimām diśam .. 7.1.4 ..
वसिष्ठः कश्यपो ऽथात्रिर्विश्वामित्रः सगौतमः । जमदग्निर्भरद्वाजस्ते ऽपि सप्तर्षयस्तथा ॥ ७.१.५ ॥
वसिष्ठः कश्यपः अथ अत्रिः विश्वामित्रः स गौतमः । जमदग्निः भरद्वाजः ते अपि सप्तर्षयः तथा ॥ ७।१।५ ॥
vasiṣṭhaḥ kaśyapaḥ atha atriḥ viśvāmitraḥ sa gautamaḥ . jamadagniḥ bharadvājaḥ te api saptarṣayaḥ tathā .. 7.1.5 ..
उदीच्यां दिशि सप्तैते नित्यमेव निवासिनः ॥ ७.१.६ ॥
उदीच्याम् दिशि सप्त एते नित्यम् एव निवासिनः ॥ ७।१।६ ॥
udīcyām diśi sapta ete nityam eva nivāsinaḥ .. 7.1.6 ..
सम्प्राप्य ते महात्मानो राघवस्य निवेशनम् । विष्टिताः प्रतिहारार्थं हुताशनसमप्रभाः । वेदवेदाङ्गविदुषो नानाशास्त्रविशारदाः ॥ ७.१.७ ॥
सम्प्राप्य ते महात्मानः राघवस्य निवेशनम् । विष्टिताः प्रतिहार-अर्थम् हुताशन-सम-प्रभाः । वेद-वेदाङ्ग-विदुषः नाना शास्त्र-विशारदाः ॥ ७।१।७ ॥
samprāpya te mahātmānaḥ rāghavasya niveśanam . viṣṭitāḥ pratihāra-artham hutāśana-sama-prabhāḥ . veda-vedāṅga-viduṣaḥ nānā śāstra-viśāradāḥ .. 7.1.7 ..
द्वाःस्थं प्रोवाच धर्मात्मा अगस्त्यो मुनिसत्तमः । निवेद्यतां दाशरथेर्ऋषीनस्मान्समागतान् ॥ ७.१.८ ॥
द्वाःस्थम् प्रोवाच धर्म-आत्मा अगस्त्यः मुनि-सत्तमः । निवेद्यताम् दाशरथेः ऋषीन् अस्मान् समागतान् ॥ ७।१।८ ॥
dvāḥstham provāca dharma-ātmā agastyaḥ muni-sattamaḥ . nivedyatām dāśaratheḥ ṛṣīn asmān samāgatān .. 7.1.8 ..
प्रतीहारस्ततस्तूर्णमगस्त्यवचनाद्द्रुतम् । समीपं राघवस्याशु प्रविवेश महात्मनः ॥ ७.१.९ ॥
प्रतीहारः ततस् तूर्णम् अगस्त्य-वचनात् द्रुतम् । समीपम् राघवस्य आशु प्रविवेश महात्मनः ॥ ७।१।९ ॥
pratīhāraḥ tatas tūrṇam agastya-vacanāt drutam . samīpam rāghavasya āśu praviveśa mahātmanaḥ .. 7.1.9 ..
नयेङ्गितज्ञः सद्वृत्तो दक्षो धैर्यसमन्वितः । स रामं दृश्य सहसा पूर्णचन्द्रसमप्रभम् ॥ ७.१.१० ॥
नय-इङ्गित-ज्ञः सत्-वृत्तः दक्षः धैर्य-समन्वितः । स रामम् दृश्य सहसा पूर्ण-चन्द्र-सम-प्रभम् ॥ ७।१।१० ॥
naya-iṅgita-jñaḥ sat-vṛttaḥ dakṣaḥ dhairya-samanvitaḥ . sa rāmam dṛśya sahasā pūrṇa-candra-sama-prabham .. 7.1.10 ..
अगस्त्यं कथयामास सम्प्राप्तमृषिभिः सह ॥ ७.१.११ ॥
अगस्त्यम् कथयामास सम्प्राप्तम् ऋषिभिः सह ॥ ७।१।११ ॥
agastyam kathayāmāsa samprāptam ṛṣibhiḥ saha .. 7.1.11 ..
श्रुत्वा प्राप्तान्मुनींस्तांस्तु बालसूर्यसमप्रभान् । प्रत्युवाच ततो द्वास्स्थं प्रवेशय यथासुखम् ॥ ७.१.१२ ॥
श्रुत्वा प्राप्तान् मुनीन् तान् तु बाल-सूर्य-सम-प्रभान् । प्रत्युवाच ततस् द्वास्स्थम् प्रवेशय यथासुखम् ॥ ७।१।१२ ॥
śrutvā prāptān munīn tān tu bāla-sūrya-sama-prabhān . pratyuvāca tatas dvāsstham praveśaya yathāsukham .. 7.1.12 ..
तान् सम्प्राप्तान् मुनीन् दृष्ट्वा प्रत्युत्थाय कृताञ्जलिः । पाद्यार्घ्यादिभिरानर्च गां निवेद्य च सादरम् ॥ ७.१.१३ ॥
तान् सम्प्राप्तान् मुनीन् दृष्ट्वा प्रत्युत्थाय कृताञ्जलिः । पाद्य-अर्घ्य-आदिभिः आनर्च गाम् निवेद्य च सादरम् ॥ ७।१।१३ ॥
tān samprāptān munīn dṛṣṭvā pratyutthāya kṛtāñjaliḥ . pādya-arghya-ādibhiḥ ānarca gām nivedya ca sādaram .. 7.1.13 ..
रामो ऽभिवाद्य प्रयत आसनान्यादिदेश ह । तेषु काञ्चनचित्रेषु महत्सु च वरेषु च ॥ ७.१.१४ ॥
रामः अभिवाद्य प्रयतः आसनानि आदिदेश ह । तेषु काञ्चन-चित्रेषु महत्सु च वरेषु च ॥ ७।१।१४ ॥
rāmaḥ abhivādya prayataḥ āsanāni ādideśa ha . teṣu kāñcana-citreṣu mahatsu ca vareṣu ca .. 7.1.14 ..
कुशान्तर्धानदत्तेषु मृगचर्मयुतेषु च । यथार्हमुपविष्टास्ते आसनेष्वृषिपुङ्गवाः ॥ ७.१.१५ ॥
कुश-अन्तर्धान-दत्तेषु मृग-चर्म-युतेषु च । यथार्हम् उपविष्टाः ते आसनेषु ऋषि-पुङ्गवाः ॥ ७।१।१५ ॥
kuśa-antardhāna-datteṣu mṛga-carma-yuteṣu ca . yathārham upaviṣṭāḥ te āsaneṣu ṛṣi-puṅgavāḥ .. 7.1.15 ..
रामेण कुशलं पृष्टाः सशिष्याः सपुरोगमाः । महर्षयो वेदविदो रामं वचनमब्रुवन् ॥ ७.१.१६ ॥
रामेण कुशलम् पृष्टाः स शिष्याः स पुरोगमाः । महा-ऋषयः वेद-विदः रामम् वचनम् अब्रुवन् ॥ ७।१।१६ ॥
rāmeṇa kuśalam pṛṣṭāḥ sa śiṣyāḥ sa purogamāḥ . mahā-ṛṣayaḥ veda-vidaḥ rāmam vacanam abruvan .. 7.1.16 ..
कुशलं नो महाबाहो सर्वत्र रघुनन्दन । त्वां तु दिष्ट्या कुशलिनं पश्यामो हतशात्रवम् ॥ ७.१.१७ ॥
कुशलम् नः महा-बाहो सर्वत्र रघुनन्दन । त्वाम् तु दिष्ट्या कुशलिनम् पश्यामः हत-शात्रवम् ॥ ७।१।१७ ॥
kuśalam naḥ mahā-bāho sarvatra raghunandana . tvām tu diṣṭyā kuśalinam paśyāmaḥ hata-śātravam .. 7.1.17 ..
दिष्ट्या त्वया हतो राजन्रावणो लोकरावणः । न हि भारः स ते राम रावणः पुत्रपौत्रवान् ॥ ७.१.१८ ॥
दिष्ट्या त्वया हतः राजन् रावणः लोक-रावणः । न हि भारः स ते राम रावणः पुत्र-पौत्रवान् ॥ ७।१।१८ ॥
diṣṭyā tvayā hataḥ rājan rāvaṇaḥ loka-rāvaṇaḥ . na hi bhāraḥ sa te rāma rāvaṇaḥ putra-pautravān .. 7.1.18 ..
सधनुस्त्वं हि लोकांस्त्रीन्विजयेथा न संशयः । दिष्ट्या त्वया हतो राम रावणो राक्षसेश्वरः ॥ ७.१.१९ ॥
स धनुः त्वम् हि लोकान् त्रीन् विजयेथाः न संशयः । दिष्ट्या त्वया हतः राम रावणः राक्षसेश्वरः ॥ ७।१।१९ ॥
sa dhanuḥ tvam hi lokān trīn vijayethāḥ na saṃśayaḥ . diṣṭyā tvayā hataḥ rāma rāvaṇaḥ rākṣaseśvaraḥ .. 7.1.19 ..
दिष्ट्या विजयिनं त्वाद्य पश्यामः सह सीतया । लक्ष्मणेन च धर्मात्मन्भ्रात्रा त्वद्धितकारिणा ॥ ७.१.२० ॥
दिष्ट्या विजयिनम् त्वा अद्य पश्यामः सह सीतया । लक्ष्मणेन च धर्म-आत्मन् भ्रात्रा त्वद्-हित-कारिणा ॥ ७।१।२० ॥
diṣṭyā vijayinam tvā adya paśyāmaḥ saha sītayā . lakṣmaṇena ca dharma-ātman bhrātrā tvad-hita-kāriṇā .. 7.1.20 ..
मातृभिर्भ्रातृसहितं पश्यामो ऽद्य वयं नृप । दिष्ट्या प्रहस्तो विकटो विरूपाक्षो महोदरः । अकम्पनश्च दुर्धर्षो निहतास्ते निशाचराः ॥ ७.१.२१ ॥
मातृभिः भ्रातृ-सहितम् पश्यामः अद्य वयम् नृप । दिष्ट्या प्रहस्तः विकटः विरूपाक्षः महोदरः । अकम्पनः च दुर्धर्षः निहताः ते निशाचराः ॥ ७।१।२१ ॥
mātṛbhiḥ bhrātṛ-sahitam paśyāmaḥ adya vayam nṛpa . diṣṭyā prahastaḥ vikaṭaḥ virūpākṣaḥ mahodaraḥ . akampanaḥ ca durdharṣaḥ nihatāḥ te niśācarāḥ .. 7.1.21 ..
यस्य प्रमाणाद्विपुलं प्रमाणं नेह विद्यते । दिष्ट्या ते समरे राम कुम्भकर्णो निपातितः ॥ ७.१.२२ ॥
यस्य प्रमाणात् विपुलम् प्रमाणम् न इह विद्यते । दिष्ट्या ते समरे राम कुम्भकर्णः निपातितः ॥ ७।१।२२ ॥
yasya pramāṇāt vipulam pramāṇam na iha vidyate . diṣṭyā te samare rāma kumbhakarṇaḥ nipātitaḥ .. 7.1.22 ..
त्रिशिराश्चातिकायश्च देवान्तकनरान्तकौ । दिष्ट्या ते निहता राम महावीर्या निशाचराः ॥ ७.१.२३ ॥
त्रिशिराः च अतिकायः च देवान्तक-नरान्तकौ । दिष्ट्या ते निहताः राम महा-वीर्याः निशाचराः ॥ ७।१।२३ ॥
triśirāḥ ca atikāyaḥ ca devāntaka-narāntakau . diṣṭyā te nihatāḥ rāma mahā-vīryāḥ niśācarāḥ .. 7.1.23 ..
कुम्भश्चैव निकुम्भश्च राक्षसौ भीमदर्शनौ । दिष्ट्या तौ निहतौ राम कुम्भकर्णसुतौ मृधे ॥ ७.१.२४ ॥
कुम्भः च एव निकुम्भः च राक्षसौ भीम-दर्शनौ । दिष्ट्या तौ निहतौ राम कुम्भकर्ण-सुतौ मृधे ॥ ७।१।२४ ॥
kumbhaḥ ca eva nikumbhaḥ ca rākṣasau bhīma-darśanau . diṣṭyā tau nihatau rāma kumbhakarṇa-sutau mṛdhe .. 7.1.24 ..
युद्धोन्मत्तश्च मत्तश्च कालान्तकयमोपमौ । यज्ञकोपश्च बलवान्धूम्राक्षो नाम राक्षसः ॥ ७.१.२५ ॥
युद्ध-उन्मत्तः च मत्तः च काल-अन्तक-यम-उपमौ । यज्ञकोपः च बलवान् धूम्राक्षः नाम राक्षसः ॥ ७।१।२५ ॥
yuddha-unmattaḥ ca mattaḥ ca kāla-antaka-yama-upamau . yajñakopaḥ ca balavān dhūmrākṣaḥ nāma rākṣasaḥ .. 7.1.25 ..
कुर्वन्तः कदनं घोरमेते शस्त्रास्त्रपारगाः । अन्तकप्रतिमैर्बाणैर्दिष्ट्या विनिहतास्त्वया ॥ ७.१.२६ ॥
कुर्वन्तः कदनम् घोरम् एते शस्त्र-अस्त्र-पारगाः । अन्तक-प्रतिमैः बाणैः दिष्ट्या विनिहताः त्वया ॥ ७।१।२६ ॥
kurvantaḥ kadanam ghoram ete śastra-astra-pāragāḥ . antaka-pratimaiḥ bāṇaiḥ diṣṭyā vinihatāḥ tvayā .. 7.1.26 ..
दिष्ट्या त्वं राक्षसेन्द्रेण द्वन्द्वयुद्धमुपागतः । देवतानामवध्येन विजयं प्राप्तवानसि ॥ ७.१.२७ ॥
दिष्ट्या त्वम् राक्षस-इन्द्रेण द्वन्द्व-युद्धम् उपागतः । देवतानाम् अवध्येन विजयम् प्राप्तवान् असि ॥ ७।१।२७ ॥
diṣṭyā tvam rākṣasa-indreṇa dvandva-yuddham upāgataḥ . devatānām avadhyena vijayam prāptavān asi .. 7.1.27 ..
सङ्ख्ये तस्य न किञ्चित्तु रावणस्य पराभवः । द्वन्द्वयुद्धमनुप्राप्तो दिष्ट्या ते रावणिर्हतः ॥ ७.१.२८ ॥
सङ्ख्ये तस्य न किञ्चिद् तु रावणस्य पराभवः । द्वन्द्व-युद्धम् अनुप्राप्तः दिष्ट्या ते रावणिः हतः ॥ ७।१।२८ ॥
saṅkhye tasya na kiñcid tu rāvaṇasya parābhavaḥ . dvandva-yuddham anuprāptaḥ diṣṭyā te rāvaṇiḥ hataḥ .. 7.1.28 ..
दिष्ट्या तस्य महाबाहो कालस्येवाभिधावतः । मुक्तः सुररिपोर्वीर प्राप्तश्च विजयस्त्वया ॥ ७.१.२९ ॥
दिष्ट्या तस्य महा-बाहो कालस्य इव अभिधावतः । मुक्तः सुररिपोः वीर प्राप्तः च विजयः त्वया ॥ ७।१।२९ ॥
diṣṭyā tasya mahā-bāho kālasya iva abhidhāvataḥ . muktaḥ suraripoḥ vīra prāptaḥ ca vijayaḥ tvayā .. 7.1.29 ..
अभिनन्दाम ते सर्वे संश्रुत्येन्द्रजितो वधम् । सो ऽवध्यः सर्वभूतानां महामायाधरो युधि ॥ ७.१.३० ॥
अभिनन्दाम ते सर्वे संश्रुत्य इन्द्रजितः वधम् । सः अवध्यः सर्व-भूतानाम् महा-माया-धरः युधि ॥ ७।१।३० ॥
abhinandāma te sarve saṃśrutya indrajitaḥ vadham . saḥ avadhyaḥ sarva-bhūtānām mahā-māyā-dharaḥ yudhi .. 7.1.30 ..
विस्मयस्त्वेष चास्माकं तच्छ्रुत्वेन्द्रजितं हतम् ॥ ७.१.३१ ॥
विस्मयः तु एष च अस्माकम् तत् श्रुत्वा इन्द्रजितम् हतम् ॥ ७।१।३१ ॥
vismayaḥ tu eṣa ca asmākam tat śrutvā indrajitam hatam .. 7.1.31 ..
एते चान्ये च बहवो राक्षसाः कामरूपिणः । दिष्ट्या त्वया हता वीरा रघूणां कुलवर्द्धन ॥ ७.१.३२ ॥
एते च अन्ये च बहवः राक्षसाः कामरूपिणः । दिष्ट्या त्वया हताः वीराः रघूणाम् कुल-वर्द्धन ॥ ७।१।३२ ॥
ete ca anye ca bahavaḥ rākṣasāḥ kāmarūpiṇaḥ . diṣṭyā tvayā hatāḥ vīrāḥ raghūṇām kula-varddhana .. 7.1.32 ..
दत्त्वा पुण्यामिमां वीर सौम्यामभयदक्षिणाम् ॥ दिष्ट्या वर्धसि काकुत्स्थ जयेनामित्रकर्शन ॥ ७.१.३३ ॥
दत्त्वा पुण्याम् इमाम् वीर सौम्याम् अभय-दक्षिणाम् ॥ दिष्ट्या वर्धसि काकुत्स्थ जयेन अमित्र-कर्शन ॥ ७।१।३३ ॥
dattvā puṇyām imām vīra saumyām abhaya-dakṣiṇām .. diṣṭyā vardhasi kākutstha jayena amitra-karśana .. 7.1.33 ..
श्रुत्वा तु तेषां वचनमृषीणां भावितात्मनाम् । विस्मयं परमं गत्वा रामः प्राञ्जलिरब्रवीत् ॥ ७.१.३४ ॥
श्रुत्वा तु तेषाम् वचनम् ऋषीणाम् भावितात्मनाम् । विस्मयम् परमम् गत्वा रामः प्राञ्जलिः अब्रवीत् ॥ ७।१।३४ ॥
śrutvā tu teṣām vacanam ṛṣīṇām bhāvitātmanām . vismayam paramam gatvā rāmaḥ prāñjaliḥ abravīt .. 7.1.34 ..
भगवन्तः कुम्भकर्णं रावणं च निशाचरम् । अतिक्रम्य महावीर्यौ किं प्रशंसथ रावणिम् ॥ ७.१.३५ ॥
भगवन्तः कुम्भकर्णम् रावणम् च निशाचरम् । अतिक्रम्य महा-वीर्यौ किम् प्रशंसथ रावणिम् ॥ ७।१।३५ ॥
bhagavantaḥ kumbhakarṇam rāvaṇam ca niśācaram . atikramya mahā-vīryau kim praśaṃsatha rāvaṇim .. 7.1.35 ..
महोदरं प्रहस्तं च विरूपाक्षं च राक्षसम् । मत्तोन्मत्तौ च दुर्धर्षौ देवान्तकनरान्तकौ ॥
महोदरम् प्रहस्तम् च विरूपाक्षम् च राक्षसम् । मत्त-उन्मत्तौ च दुर्धर्षौ देवान्तक-नरान्तकौ ॥
mahodaram prahastam ca virūpākṣam ca rākṣasam . matta-unmattau ca durdharṣau devāntaka-narāntakau ..
अतिक्रम्य महावीर्यान् किं प्रशंसथ रावणिम् ॥ ७.१.३६ ॥
अतिक्रम्य महा-वीर्यान् किम् प्रशंसथ रावणिम् ॥ ७।१।३६ ॥
atikramya mahā-vīryān kim praśaṃsatha rāvaṇim .. 7.1.36 ..
अतिकायं त्रिशिरसं धूम्राक्षं च निशाचरम् । अतिक्रम्य महावीर्यान्किं प्रशंसथ रावणिम् ॥ ७.१.३७ ॥
अतिकायम् त्रिशिरसम् धूम्राक्षम् च निशाचरम् । अतिक्रम्य महा-वीर्यान् किम् प्रशंसथ रावणिम् ॥ ७।१।३७ ॥
atikāyam triśirasam dhūmrākṣam ca niśācaram . atikramya mahā-vīryān kim praśaṃsatha rāvaṇim .. 7.1.37 ..
कीदृशो वै प्रभावो ऽस्य किं बलं कः पराक्रमः । केन वा कारणेनैष रावणादतिरिच्यते ॥ ७.१.३८ ॥
कीदृशः वै प्रभावः अस्य किम् बलम् कः पराक्रमः । केन वा कारणेन एष रावणात् अतिरिच्यते ॥ ७।१।३८ ॥
kīdṛśaḥ vai prabhāvaḥ asya kim balam kaḥ parākramaḥ . kena vā kāraṇena eṣa rāvaṇāt atiricyate .. 7.1.38 ..
शक्यं यदि मया श्रोतुं न खल्वाज्ञापयामि वः । यदि गुह्यं न चेद्वक्तुं श्रोतुमिच्छामि कथ्यताम् ॥ ७.१.३९ ॥
शक्यम् यदि मया श्रोतुम् न खलु आज्ञापयामि वः । यदि गुह्यम् न चेद् वक्तुम् श्रोतुम् इच्छामि कथ्यताम् ॥ ७।१।३९ ॥
śakyam yadi mayā śrotum na khalu ājñāpayāmi vaḥ . yadi guhyam na ced vaktum śrotum icchāmi kathyatām .. 7.1.39 ..
शक्रो ऽपि विजितस्तेन कथं लब्धवरश्च सः । कथं च बलवानन्पुत्रो न पिता तस्य रावणः ॥ ७.१.४० ॥
शक्रः अपि विजितः तेन कथम् लब्ध-वरः च सः । कथम् च बलवान् अन् पुत्रः न पिता तस्य रावणः ॥ ७।१।४० ॥
śakraḥ api vijitaḥ tena katham labdha-varaḥ ca saḥ . katham ca balavān an putraḥ na pitā tasya rāvaṇaḥ .. 7.1.40 ..
कथं पितुश्चाभ्यधिको महाहवे शक्रस्य जेता हि कथं स राक्षसः । वराश्च लब्धाः कथयस्व मे ऽद्य तत्पृच्छतश्चास्य मुनीन्द्र सर्वम् ॥ ७.१.४१ ॥
कथम् पितुः च अभ्यधिकः महा-आहवे शक्रस्य जेता हि कथम् स राक्षसः । वराः च लब्धाः कथयस्व मे अद्य तत् पृच्छतः च अस्य मुनि-इन्द्र सर्वम् ॥ ७।१।४१ ॥
katham pituḥ ca abhyadhikaḥ mahā-āhave śakrasya jetā hi katham sa rākṣasaḥ . varāḥ ca labdhāḥ kathayasva me adya tat pṛcchataḥ ca asya muni-indra sarvam .. 7.1.41 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In