This overlay will guide you through the buttons:

| |
|
अथाब्रवीन्मुनिं रामः कथं ते भ्रातरो वने । कीदृशं तु तदा ब्रह्मंस्तपस्तेपुर्महाबलाः ॥ ७.१०.१ ॥
अथ अब्रवीत् मुनिम् रामः कथम् ते भ्रातरः वने । कीदृशम् तु तदा ब्रह्मन् तपः तेपुः महा-बलाः ॥ ७।१०।१ ॥
atha abravīt munim rāmaḥ katham te bhrātaraḥ vane . kīdṛśam tu tadā brahman tapaḥ tepuḥ mahā-balāḥ .. 7.10.1 ..
अगस्त्यस्त्वब्रवीत्तत्र रामं सुप्रीतमानसम् । तांस्तान्धर्मविधींस्तत्र भ्रातरस्ते समाविशन् ॥ ७.१०.२ ॥
अगस्त्यः तु अब्रवीत् तत्र रामम् सु प्रीत-मानसम् । तान् तान् धर्म-विधीन् तत्र भ्रातरः ते समाविशन् ॥ ७।१०।२ ॥
agastyaḥ tu abravīt tatra rāmam su prīta-mānasam . tān tān dharma-vidhīn tatra bhrātaraḥ te samāviśan .. 7.10.2 ..
कुम्भकर्णस्ततो यत्तो नित्यं धर्मपथे स्थितः । तताप ग्रीष्मकाले तु पञ्चाग्नीन्परितः स्थितः ॥ ७.१०.३ ॥
कुम्भकर्णः ततस् यत्तः नित्यम् धर्म-पथे स्थितः । तताप ग्रीष्म-काले तु पञ्च अग्नीन् परितस् स्थितः ॥ ७।१०।३ ॥
kumbhakarṇaḥ tatas yattaḥ nityam dharma-pathe sthitaḥ . tatāpa grīṣma-kāle tu pañca agnīn paritas sthitaḥ .. 7.10.3 ..
मेघाम्बुसिक्तो वर्षासु वीरासनमसेवत । नित्यं च शिशिरे काले जलमध्यप्रतिश्रयः ॥ ७.१०.४ ॥
मेघ-अम्बु-सिक्तः वर्षासु वीरासनम् असेवत । नित्यम् च शिशिरे काले जल-मध्य-प्रतिश्रयः ॥ ७।१०।४ ॥
megha-ambu-siktaḥ varṣāsu vīrāsanam asevata . nityam ca śiśire kāle jala-madhya-pratiśrayaḥ .. 7.10.4 ..
एवं वर्षसहस्राणि दश तस्यातिचक्रमुः । धर्मे प्रयतमानस्य सत्पथे निष्ठितस्य च ॥ ७.१०.५ ॥
एवम् वर्ष-सहस्राणि दश तस्य अतिचक्रमुः । धर्मे प्रयतमानस्य सत्-पथे निष्ठितस्य च ॥ ७।१०।५ ॥
evam varṣa-sahasrāṇi daśa tasya aticakramuḥ . dharme prayatamānasya sat-pathe niṣṭhitasya ca .. 7.10.5 ..
विभीषणस्तु धर्मात्मा नित्यं धर्मपरः शुचिः । पञ्चवर्षसहस्राणि पादेनैकेन तस्थिवान् ॥ ७.१०.६ ॥
विभीषणः तु धर्म-आत्मा नित्यम् धर्म-परः शुचिः । पञ्च-वर्ष-सहस्राणि पादेन एकेन तस्थिवान् ॥ ७।१०।६ ॥
vibhīṣaṇaḥ tu dharma-ātmā nityam dharma-paraḥ śuciḥ . pañca-varṣa-sahasrāṇi pādena ekena tasthivān .. 7.10.6 ..
समाप्ते नियमे तस्य ननृतुश्चाप्सरोगणाः । पपात पुष्पवर्षं च क्षुभिताश्चापि देवताः ॥ ७.१०.७ ॥
समाप्ते नियमे तस्य ननृतुः च अप्सरः-गणाः । पपात पुष्प-वर्षम् च क्षुभिताः च अपि देवताः ॥ ७।१०।७ ॥
samāpte niyame tasya nanṛtuḥ ca apsaraḥ-gaṇāḥ . papāta puṣpa-varṣam ca kṣubhitāḥ ca api devatāḥ .. 7.10.7 ..
पञ्चवर्षसहस्राणि सूर्यं चैवान्ववर्तत । तस्थौ चोर्ध्वशिरोबाहुः स्वाध्यायधृतमानसः ॥ ७.१०.८ ॥
पञ्च-वर्ष-सहस्राणि सूर्यम् च एव अन्ववर्तत । तस्थौ च ऊर्ध्व-शिरः-बाहुः स्वाध्याय-धृत-मानसः ॥ ७।१०।८ ॥
pañca-varṣa-sahasrāṇi sūryam ca eva anvavartata . tasthau ca ūrdhva-śiraḥ-bāhuḥ svādhyāya-dhṛta-mānasaḥ .. 7.10.8 ..
एवं विभीषणस्यापि स्वर्गस्थस्येव नन्दने । दशवर्षसहस्राणि गतानि नियतात्मनः ॥ ७.१०.९ ॥
एवम् विभीषणस्य अपि स्वर्ग-स्थस्य इव नन्दने । दश-वर्ष-सहस्राणि गतानि नियत-आत्मनः ॥ ७।१०।९ ॥
evam vibhīṣaṇasya api svarga-sthasya iva nandane . daśa-varṣa-sahasrāṇi gatāni niyata-ātmanaḥ .. 7.10.9 ..
दशवर्षसहस्रं तु निराहारो दशाननः । पूर्णे वर्षसहस्रे तु शिरश्चाग्नौ जुहाव सः ॥ ७.१०.१० ॥
दश-वर्ष-सहस्रम् तु निराहारः दशाननः । पूर्णे वर्ष-सहस्रे तु शिरः च अग्नौ जुहाव सः ॥ ७।१०।१० ॥
daśa-varṣa-sahasram tu nirāhāraḥ daśānanaḥ . pūrṇe varṣa-sahasre tu śiraḥ ca agnau juhāva saḥ .. 7.10.10 ..
एवं वर्षसहस्राणि नव तस्यातिचक्रमुः । शिरांसि नव चाप्यस्य प्रविष्टानि हुताशनम् ॥ ७.१०.११ ॥
एवम् वर्ष-सहस्राणि नव तस्य अतिचक्रमुः । शिरांसि नव च अपि अस्य प्रविष्टानि हुताशनम् ॥ ७।१०।११ ॥
evam varṣa-sahasrāṇi nava tasya aticakramuḥ . śirāṃsi nava ca api asya praviṣṭāni hutāśanam .. 7.10.11 ..
अथ वर्षसहस्रे तु दशमे दशमं शिरः । छेत्तुकामे दशग्रीवे प्राप्तस्तत्र पितामहः ॥ ७.१०.१२ ॥
अथ वर्ष-सहस्रे तु दशमे दशमम् शिरः । छेत्तु-कामे दशग्रीवे प्राप्तः तत्र पितामहः ॥ ७।१०।१२ ॥
atha varṣa-sahasre tu daśame daśamam śiraḥ . chettu-kāme daśagrīve prāptaḥ tatra pitāmahaḥ .. 7.10.12 ..
पितामहस्तु सुप्रीतः सार्धं देवैरुपस्थितः । तव तावद्दशग्रीव प्रीतो ऽस्मीत्यभ्यभाषत ॥ ७.१०.१३ ॥
पितामहः तु सु प्रीतः सार्धम् देवैः उपस्थितः । तव तावत् दशग्रीव प्रीतः अस्मि इति अभ्यभाषत ॥ ७।१०।१३ ॥
pitāmahaḥ tu su prītaḥ sārdham devaiḥ upasthitaḥ . tava tāvat daśagrīva prītaḥ asmi iti abhyabhāṣata .. 7.10.13 ..
शीघ्रं वरय धर्मज्ञ वरो यस्ते ऽभिकाङ्क्षितः । कं ते कामं करोम्यद्य न वृथा ते परिश्रमः ॥ ७.१०.१४ ॥
शीघ्रम् वरय धर्म-ज्ञ वरः यः ते अभिकाङ्क्षितः । कम् ते कामम् करोमि अद्य न वृथा ते परिश्रमः ॥ ७।१०।१४ ॥
śīghram varaya dharma-jña varaḥ yaḥ te abhikāṅkṣitaḥ . kam te kāmam karomi adya na vṛthā te pariśramaḥ .. 7.10.14 ..
अथाब्रवीदृशग्रीवः प्रहृष्टेनान्तरात्मना । प्रणम्य शिरसा देवं हर्षगद्गदया गिरा ॥ ७.१०.१५ ॥
अथा अब्रवीत् ऋशग्रीवः प्रहृष्टेन अन्तरात्मना । प्रणम्य शिरसा देवम् हर्ष-गद्गदया गिरा ॥ ७।१०।१५ ॥
athā abravīt ṛśagrīvaḥ prahṛṣṭena antarātmanā . praṇamya śirasā devam harṣa-gadgadayā girā .. 7.10.15 ..
भगवन्प्राणिनां नित्यं नान्यत्र मरणाद्भयम् । नास्ति मृत्युसमः शत्रुरमरत्वमहं वृणे ॥ ७.१०.१६ ॥
भगवन् प्राणिनाम् नित्यम् न अन्यत्र मरणात् भयम् । न अस्ति मृत्यु-समः शत्रुः अमर-त्वम् अहम् वृणे ॥ ७।१०।१६ ॥
bhagavan prāṇinām nityam na anyatra maraṇāt bhayam . na asti mṛtyu-samaḥ śatruḥ amara-tvam aham vṛṇe .. 7.10.16 ..
एवमुक्तस्तदा ब्रह्मा दशग्रीवमुवाच ह । नास्ति सर्वामरत्वं ते वरमन्यं वृणीष्व मे ॥ ७.१०.१७ ॥
एवम् उक्तः तदा ब्रह्मा दशग्रीवम् उवाच ह । न अस्ति सर्व-अमर-त्वम् ते वरम् अन्यम् वृणीष्व मे ॥ ७।१०।१७ ॥
evam uktaḥ tadā brahmā daśagrīvam uvāca ha . na asti sarva-amara-tvam te varam anyam vṛṇīṣva me .. 7.10.17 ..
एवमुक्ते तदा राम ब्रह्मणा लोककर्तृणा । दशग्रीव उवाचेदं कृताञ्जलिरथाग्रतः ॥ ७.१०.१८ ॥
एवम् उक्ते तदा राम ब्रह्मणा लोक-कर्तृणा । दशग्रीवः उवाच इदम् कृताञ्जलिः अथ अग्रतस् ॥ ७।१०।१८ ॥
evam ukte tadā rāma brahmaṇā loka-kartṛṇā . daśagrīvaḥ uvāca idam kṛtāñjaliḥ atha agratas .. 7.10.18 ..
सुपर्णनागयक्षाणां दैत्यदानवरक्षसाम् । अवध्यो ऽहं प्रजाध्यक्ष देवतानां च शाश्वत ॥ ७.१०.१९ ॥
सुपर्ण-नाग-यक्षाणाम् दैत्य-दानव-रक्षसाम् । अवध्यः अहम् प्रजाध्यक्ष देवतानाम् च शाश्वत ॥ ७।१०।१९ ॥
suparṇa-nāga-yakṣāṇām daitya-dānava-rakṣasām . avadhyaḥ aham prajādhyakṣa devatānām ca śāśvata .. 7.10.19 ..
नहि चिन्ता ममान्येषु प्राणिष्वमरपूजित । तृणभूता हि ते मन्ये प्राणिनो मानुषादयः ॥ ७.१०.२० ॥
नहि चिन्ता मम अन्येषु प्राणिषु अमर-पूजित । तृण-भूताः हि ते मन्ये प्राणिनः मानुष-आदयः ॥ ७।१०।२० ॥
nahi cintā mama anyeṣu prāṇiṣu amara-pūjita . tṛṇa-bhūtāḥ hi te manye prāṇinaḥ mānuṣa-ādayaḥ .. 7.10.20 ..
एवमुक्तस्तु धर्मात्मा दशग्रीवेण रक्षसा । उवाच वचनं देवः सह देवैः पितामहः ॥ ७.१०.२१ ॥
एवम् उक्तः तु धर्म-आत्मा दशग्रीवेण रक्षसा । उवाच वचनम् देवः सह देवैः पितामहः ॥ ७।१०।२१ ॥
evam uktaḥ tu dharma-ātmā daśagrīveṇa rakṣasā . uvāca vacanam devaḥ saha devaiḥ pitāmahaḥ .. 7.10.21 ..
भविष्यत्येवमेतत्ते वचो राक्षसपुङ्गव । एवमुक्त्वा तु तं राम दशग्रीवं पितामहः ॥ ७.१०.२२ ॥
भविष्यति एवम् एतत् ते वचः राक्षस-पुङ्गव । एवम् उक्त्वा तु तम् राम दशग्रीवम् पितामहः ॥ ७।१०।२२ ॥
bhaviṣyati evam etat te vacaḥ rākṣasa-puṅgava . evam uktvā tu tam rāma daśagrīvam pitāmahaḥ .. 7.10.22 ..
शृणु चापि वरो भूयः प्रीतस्येह शुभो मम । हुतानि यानि शीर्षाणि पूर्वमग्नौ त्वयानघ ॥ ७.१०.२३ ॥
शृणु च अपि वरः भूयस् प्रीतस्य इह शुभः मम । हुतानि यानि शीर्षाणि पूर्वम् अग्नौ त्वया अनघ ॥ ७।१०।२३ ॥
śṛṇu ca api varaḥ bhūyas prītasya iha śubhaḥ mama . hutāni yāni śīrṣāṇi pūrvam agnau tvayā anagha .. 7.10.23 ..
पुनस्तानि भविष्यन्ति तथैव तव राक्षस । वितरामीह ते सौम्य वरं चान्यं दुरासदम् ॥ ७.१०.२४ ॥
पुनर् तानि भविष्यन्ति तथा एव तव राक्षस । वितरामि इह ते सौम्य वरम् च अन्यम् दुरासदम् ॥ ७।१०।२४ ॥
punar tāni bhaviṣyanti tathā eva tava rākṣasa . vitarāmi iha te saumya varam ca anyam durāsadam .. 7.10.24 ..
छन्दतस्तव रूपं च मनसा यद्यथेप्सितम् । भविष्यति न सन्देहो मद्वरात्तवराक्षस ॥ ७.१०.२५ ॥
छन्दतः तव रूपम् च मनसा यत् यथा ईप्सितम् । भविष्यति न सन्देहः मद्-वरात् तव-राक्षस ॥ ७।१०।२५ ॥
chandataḥ tava rūpam ca manasā yat yathā īpsitam . bhaviṣyati na sandehaḥ mad-varāt tava-rākṣasa .. 7.10.25 ..
एवं पितामहोक्तस्य दशग्रीवस्य रक्षसः । अग्नौ हुतानि शीर्षाणि पुनस्तान्युत्थितानि वै ॥ ७.१०.२६ ॥
एवम् पितामह-उक्तस्य दशग्रीवस्य रक्षसः । अग्नौ हुतानि शीर्षाणि पुनर् तानि उत्थितानि वै ॥ ७।१०।२६ ॥
evam pitāmaha-uktasya daśagrīvasya rakṣasaḥ . agnau hutāni śīrṣāṇi punar tāni utthitāni vai .. 7.10.26 ..
एवमुक्त्वा तु तं राम दशग्रीवं पितामहः । विभीषणमथोवाच वाक्यं लोकपितामहः ॥ ७.१०.२७ ॥
एवम् उक्त्वा तु तम् राम दशग्रीवम् पितामहः । विभीषणम् अथा उवाच वाक्यम् लोकपितामहः ॥ ७।१०।२७ ॥
evam uktvā tu tam rāma daśagrīvam pitāmahaḥ . vibhīṣaṇam athā uvāca vākyam lokapitāmahaḥ .. 7.10.27 ..
विभीषण त्वया वत्स धर्मसंहितबुद्धिना । परितुष्टो ऽस्मि धर्मात्मन्वरं वरय सुव्रत ॥ ७.१०.२८ ॥
विभीषण त्वया वत्स धर्म-संहित-बुद्धिना । परितुष्टः अस्मि धर्म-आत्मन् वरम् वरय सुव्रत ॥ ७।१०।२८ ॥
vibhīṣaṇa tvayā vatsa dharma-saṃhita-buddhinā . parituṣṭaḥ asmi dharma-ātman varam varaya suvrata .. 7.10.28 ..
विभीषणस्तु धर्मात्मा वचनं प्राह साञ्जलिः । वृतः सर्वगुणैर्नित्यं चन्द्रमा रश्मिभिर्यथा ॥ ७.१०.२९ ॥
विभीषणः तु धर्म-आत्मा वचनम् प्राह स अञ्जलिः । वृतः सर्व-गुणैः नित्यम् चन्द्रमाः रश्मिभिः यथा ॥ ७।१०।२९ ॥
vibhīṣaṇaḥ tu dharma-ātmā vacanam prāha sa añjaliḥ . vṛtaḥ sarva-guṇaiḥ nityam candramāḥ raśmibhiḥ yathā .. 7.10.29 ..
भगवन्कृतकृत्यो ऽहं यन्मे लोकगुरुः स्वयम् । प्रीतेन यदि दातव्यो वरो मे शृणु सुव्रत ॥ ७.१०.३० ॥
भगवन् कृतकृत्यः अहम् यत् मे लोकगुरुः स्वयम् । प्रीतेन यदि दातव्यः वरः मे शृणु सुव्रत ॥ ७।१०।३० ॥
bhagavan kṛtakṛtyaḥ aham yat me lokaguruḥ svayam . prītena yadi dātavyaḥ varaḥ me śṛṇu suvrata .. 7.10.30 ..
परमापद्गतस्यापि धर्मे मम मतिर्भवेत् । अशिक्षितं च ब्रह्मास्त्रं भगवन्प्रतिभातु मे ॥ ७.१०.३१ ॥
परम-आपद्-गतस्य अपि धर्मे मम मतिः भवेत् । अ शिक्षितम् च ब्रह्मास्त्रम् भगवन् प्रतिभातु मे ॥ ७।१०।३१ ॥
parama-āpad-gatasya api dharme mama matiḥ bhavet . a śikṣitam ca brahmāstram bhagavan pratibhātu me .. 7.10.31 ..
या या मे जायते बुद्धिर्येषु येष्वाश्रमेषु च । सा सा भवतु धर्मिष्ठा तं तु धर्मं च पालये ॥ ७.१०.३२ ॥
या या मे जायते बुद्धिः येषु येषु आश्रमेषु च । सा सा भवतु धर्मिष्ठा तम् तु धर्मम् च पालये ॥ ७।१०।३२ ॥
yā yā me jāyate buddhiḥ yeṣu yeṣu āśrameṣu ca . sā sā bhavatu dharmiṣṭhā tam tu dharmam ca pālaye .. 7.10.32 ..
एष मे परमोदार वरः परमको मतः । नहि धर्माभिरक्तानां लोके किञ्चन दुर्लभम् ॥ ७.१०.३३ ॥
एष मे परम-उदार वरः परमकः मतः । नहि धर्म-अभिरक्तानाम् लोके किञ्चन दुर्लभम् ॥ ७।१०।३३ ॥
eṣa me parama-udāra varaḥ paramakaḥ mataḥ . nahi dharma-abhiraktānām loke kiñcana durlabham .. 7.10.33 ..
पुनः प्रजापतिः प्रीतो विभीषणमुवाच ह । धर्मिष्ठस्त्वं यथा वत्स तथा चैतद्भविष्यति ॥ ७.१०.३४ ॥
पुनर् प्रजापतिः प्रीतः विभीषणम् उवाच ह । धर्मिष्ठः त्वम् यथा वत्स तथा च एतत् भविष्यति ॥ ७।१०।३४ ॥
punar prajāpatiḥ prītaḥ vibhīṣaṇam uvāca ha . dharmiṣṭhaḥ tvam yathā vatsa tathā ca etat bhaviṣyati .. 7.10.34 ..
यस्माद्राक्षसयोनौ ते जातस्यामित्रनाशन । नाधर्मे जायते बुद्धिरमरत्वं ददामि ते ॥ ७.१०.३५ ॥
यस्मात् राक्षस-योनौ ते जातस्य अमित्र-नाशन । न अधर्मे जायते बुद्धिः अमर-त्वम् ददामि ते ॥ ७।१०।३५ ॥
yasmāt rākṣasa-yonau te jātasya amitra-nāśana . na adharme jāyate buddhiḥ amara-tvam dadāmi te .. 7.10.35 ..
इत्युक्त्वा कुम्भकर्णाय वरं दातुमुपस्थितम् । प्रजापतिं सुराः सर्वे वाक्यं प्राञ्जलयो ऽब्रुवन् ॥ ७.१०.३६ ॥
इति उक्त्वा कुम्भकर्णाय वरम् दातुम् उपस्थितम् । प्रजापतिम् सुराः सर्वे वाक्यम् प्राञ्जलयः अब्रुवन् ॥ ७।१०।३६ ॥
iti uktvā kumbhakarṇāya varam dātum upasthitam . prajāpatim surāḥ sarve vākyam prāñjalayaḥ abruvan .. 7.10.36 ..
न तावत्कुम्भकर्णाय प्रदातव्यो वरस्त्वया । जानीषे हि यथा लोकांस्त्रासयत्येष दुर्मतिः ॥ ७.१०.३७ ॥
न तावत् कुम्भकर्णाय प्रदातव्यः वरः त्वया । जानीषे हि यथा लोकान् त्रासयति एष दुर्मतिः ॥ ७।१०।३७ ॥
na tāvat kumbhakarṇāya pradātavyaḥ varaḥ tvayā . jānīṣe hi yathā lokān trāsayati eṣa durmatiḥ .. 7.10.37 ..
नन्दने ऽप्सरसः सप्त महेन्द्रानुचरा दश । अनेन भक्षिता ब्रह्मन्नृषयो मानुषास्तथा ॥ ७.१०.३८ ॥
नन्दने अप्सरसः सप्त महा-इन्द्र-अनुचराः दश । अनेन भक्षिताः ब्रह्मन् ऋषयः मानुषाः तथा ॥ ७।१०।३८ ॥
nandane apsarasaḥ sapta mahā-indra-anucarāḥ daśa . anena bhakṣitāḥ brahman ṛṣayaḥ mānuṣāḥ tathā .. 7.10.38 ..
अलब्धवरपूर्वेण यत्कृतं राक्षसेन तु । तदेष वरलब्धः स्याद्भक्षयेद्भुवनत्रयम् ॥ ७.१०.३९ ॥
अ लब्ध-वर-पूर्वेण यत् कृतम् राक्षसेन तु । तत् एष वर-लब्धः स्यात् भक्षयेत् भुवनत्रयम् ॥ ७।१०।३९ ॥
a labdha-vara-pūrveṇa yat kṛtam rākṣasena tu . tat eṣa vara-labdhaḥ syāt bhakṣayet bhuvanatrayam .. 7.10.39 ..
वरव्याजेन मोहो ऽस्मै दीयताममितप्रभ । लोकानां स्वस्ति चैवं स्याद्भवेदस्य च सन्नतिः ॥ ७.१०.४० ॥
वर-व्याजेन मोहः अस्मै दीयताम् अमित-प्रभ । लोकानाम् स्वस्ति च एवम् स्यात् भवेत् अस्य च सन्नतिः ॥ ७।१०।४० ॥
vara-vyājena mohaḥ asmai dīyatām amita-prabha . lokānām svasti ca evam syāt bhavet asya ca sannatiḥ .. 7.10.40 ..
एवमुक्तः सुरैर्ब्रह्मा ऽचिन्तयत् पद्मसम्भवः । चिन्तिता चोपतस्थे ऽस्य पार्श्वं देवी सरस्वती ॥ ७.१०.४१ ॥
एवम् उक्तः सुरैः ब्रह्मा अचिन्तयत् पद्मसम्भवः । चिन्तिता च उपतस्थे अस्य पार्श्वम् देवी सरस्वती ॥ ७।१०।४१ ॥
evam uktaḥ suraiḥ brahmā acintayat padmasambhavaḥ . cintitā ca upatasthe asya pārśvam devī sarasvatī .. 7.10.41 ..
प्राञ्जलिः सा तु पार्श्वस्था प्राह वाक्यं सरस्वती । इयमस्म्यागता देव किं कार्यं करवाण्यहम् ॥ ७.१०.४२ ॥
प्राञ्जलिः सा तु पार्श्व-स्था प्राह वाक्यम् सरस्वती । इयम् अस्मि आगता देव किम् कार्यम् करवाणि अहम् ॥ ७।१०।४२ ॥
prāñjaliḥ sā tu pārśva-sthā prāha vākyam sarasvatī . iyam asmi āgatā deva kim kāryam karavāṇi aham .. 7.10.42 ..
प्रजापतिस्तुं तां प्राप्तां प्राह वाक्यं सरस्वतीम् । वाणि त्वं राक्षसेन्द्रस्य भव या देवतेप्सिता ॥ ७.१०.४३ ॥
प्रजापतिः तुम् ताम् प्राप्ताम् प्राह वाक्यम् सरस्वतीम् । वाणि त्वम् राक्षस-इन्द्रस्य भव या देवता ईप्सिता ॥ ७।१०।४३ ॥
prajāpatiḥ tum tām prāptām prāha vākyam sarasvatīm . vāṇi tvam rākṣasa-indrasya bhava yā devatā īpsitā .. 7.10.43 ..
तथेत्युक्त्वा प्रविष्टा सा प्रजापतिरथाब्रवीत् । कुम्भकर्ण महाबाहो वरं वरय यो मतः ॥ ७.१०.४४ ॥
तथा इति उक्त्वा प्रविष्टा सा प्रजापतिः अथ अब्रवीत् । कुम्भकर्ण महा-बाहो वरम् वरय यः मतः ॥ ७।१०।४४ ॥
tathā iti uktvā praviṣṭā sā prajāpatiḥ atha abravīt . kumbhakarṇa mahā-bāho varam varaya yaḥ mataḥ .. 7.10.44 ..
कुम्भकर्णस्तु तद्वाक्यं श्रुत्वा वचनमब्रवीत् । स्वप्तुं वर्षाण्यनेकानि देवदेव ममेप्सितम् ॥ ७.१०.४५ ॥
कुम्भकर्णः तु तत् वाक्यम् श्रुत्वा वचनम् अब्रवीत् । स्वप्तुम् वर्षाणि अनेकानि देवदेव मम ईप्सितम् ॥ ७।१०।४५ ॥
kumbhakarṇaḥ tu tat vākyam śrutvā vacanam abravīt . svaptum varṣāṇi anekāni devadeva mama īpsitam .. 7.10.45 ..
एवमस्त्विति तं चोक्त्वा प्रायाद्ब्रह्मा सुरैः समम् । देवी सरस्वती चैव राक्षसं तं जहौ पुनः ॥ ७.१०.४६ ॥
एवम् अस्तु इति तम् च उक्त्वा प्रायात् ब्रह्मा सुरैः समम् । देवी सरस्वती च एव राक्षसम् तम् जहौ पुनर् ॥ ७।१०।४६ ॥
evam astu iti tam ca uktvā prāyāt brahmā suraiḥ samam . devī sarasvatī ca eva rākṣasam tam jahau punar .. 7.10.46 ..
ब्रह्मणा सह देवेषु गतेषु च नभःस्थलम् । विमुक्तो ऽसौ सरस्वत्या स्वां सञ्ज्ञां च ततो गतः ॥ ७.१०.४७ ॥
ब्रह्मणा सह देवेषु गतेषु च नभः-स्थलम् । विमुक्तः असौ सरस्वत्या स्वाम् सञ्ज्ञाम् च ततस् गतः ॥ ७।१०।४७ ॥
brahmaṇā saha deveṣu gateṣu ca nabhaḥ-sthalam . vimuktaḥ asau sarasvatyā svām sañjñām ca tatas gataḥ .. 7.10.47 ..
कुम्भकर्णस्तु दुष्टात्मा चिन्तयामास दुःखितः । ईदृशं किमिदं वाक्यं ममाद्य वदनाच्च्युतम् ॥ ७.१०.४८ ॥
कुम्भकर्णः तु दुष्ट-आत्मा चिन्तयामास दुःखितः । ईदृशम् किम् इदम् वाक्यम् मम अद्य वदनात् च्युतम् ॥ ७।१०।४८ ॥
kumbhakarṇaḥ tu duṣṭa-ātmā cintayāmāsa duḥkhitaḥ . īdṛśam kim idam vākyam mama adya vadanāt cyutam .. 7.10.48 ..
अहं व्यामोहितो देवैरिति मन्ये तदा ऽ ऽगतैः । एवं लब्धवराः सर्वे भ्रातरो दीप्ततेजसः । श्लेष्मातकवनं गत्वा तत्र ते न्यवसन्सुखम् ॥ ७.१०.४९ ॥
अहम् व्यामोहितः देवैः इति मन्ये तदा । एवम् लब्ध-वराः सर्वे भ्रातरः दीप्त-तेजसः । श्लेष्मातकवनम् गत्वा तत्र ते न्यवसन् सुखम् ॥ ७।१०।४९ ॥
aham vyāmohitaḥ devaiḥ iti manye tadā . evam labdha-varāḥ sarve bhrātaraḥ dīpta-tejasaḥ . śleṣmātakavanam gatvā tatra te nyavasan sukham .. 7.10.49 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे दशमः सर्गः ॥ १० ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे दशमः सर्गः ॥ १० ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe daśamaḥ sargaḥ .. 10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In