This overlay will guide you through the buttons:

| |
|
कस्यचित्त्वथ कालस्य युधाजित्केकयो नृपः । स्वगुरुं प्रेषयामास राघवाय महात्मने । गार्ग्यमङ्गिरसः पुत्रं ब्रह्मर्षिममितप्रभम् ॥ ७.१००.१ ॥
कस्यचिद् तु अथ कालस्य युधाजित् केकयः नृपः । स्व-गुरुम् प्रेषयामास राघवाय महात्मने । गार्ग्यम् अङ्गिरसः पुत्रम् ब्रह्मर्षिम् अमित-प्रभम् ॥ ७।१००।१ ॥
kasyacid tu atha kālasya yudhājit kekayaḥ nṛpaḥ . sva-gurum preṣayāmāsa rāghavāya mahātmane . gārgyam aṅgirasaḥ putram brahmarṣim amita-prabham .. 7.100.1 ..
दश चाश्वसहस्राणि प्रीतिदानमनुत्तमम् ॥ ७.१००.२ ॥
दश च अश्व-सहस्राणि प्रीति-दानम् अनुत्तमम् ॥ ७।१००।२ ॥
daśa ca aśva-sahasrāṇi prīti-dānam anuttamam .. 7.100.2 ..
कम्बलानि च रत्नानि चित्रवस्त्रमथोत्तमम् । रामाय प्रददौ राजा शुभान्याभरणानि च ॥ ७.१००.३ ॥
कम्बलानि च रत्नानि चित्र-वस्त्रम् अथ उत्तमम् । रामाय प्रददौ राजा शुभानि आभरणानि च ॥ ७।१००।३ ॥
kambalāni ca ratnāni citra-vastram atha uttamam . rāmāya pradadau rājā śubhāni ābharaṇāni ca .. 7.100.3 ..
श्रुत्वा तु राघवो धीमान्महर्षिं गार्ग्यमागतम् । मातुलस्याश्वपतिनः प्रहितं तन्महाधनम् ॥ ७.१००.४ ॥
श्रुत्वा तु राघवः धीमान् महा-ऋषिम् गार्ग्यम् आगतम् । मातुलस्य अश्वपतिनः प्रहितम् तत् महाधनम् ॥ ७।१००।४ ॥
śrutvā tu rāghavaḥ dhīmān mahā-ṛṣim gārgyam āgatam . mātulasya aśvapatinaḥ prahitam tat mahādhanam .. 7.100.4 ..
प्रत्युद्गम्य च काकुत्स्थः क्रोशमात्रं सहानुजः । गार्ग्यं सम्पूजयामास यथा शक्रो बृहस्पतिम् ॥ ७.१००.५ ॥
प्रत्युद्गम्य च काकुत्स्थः क्रोश-मात्रम् सहानुजः । गार्ग्यम् सम्पूजयामास यथा शक्रः बृहस्पतिम् ॥ ७।१००।५ ॥
pratyudgamya ca kākutsthaḥ krośa-mātram sahānujaḥ . gārgyam sampūjayāmāsa yathā śakraḥ bṛhaspatim .. 7.100.5 ..
तथा सम्पूज्य तमृषिं तद्धनं प्रतिगृह्य च । पृष्ट्वा प्रतिपदं सर्वं कुशलं मातुलस्य च । उपविष्टं महाभागं रामः प्रष्टुं प्रचक्रमे ॥ ७.१००.६ ॥
तथा सम्पूज्य तम् ऋषिम् तत् धनम् प्रतिगृह्य च । पृष्ट्वा प्रतिपदम् सर्वम् कुशलम् मातुलस्य च । उपविष्टम् महाभागम् रामः प्रष्टुम् प्रचक्रमे ॥ ७।१००।६ ॥
tathā sampūjya tam ṛṣim tat dhanam pratigṛhya ca . pṛṣṭvā pratipadam sarvam kuśalam mātulasya ca . upaviṣṭam mahābhāgam rāmaḥ praṣṭum pracakrame .. 7.100.6 ..
किमाह मातुलो वाक्यं यदर्थं भगवानिह । प्राप्तो वाक्यविदां श्रेष्ठः साक्षादिव बृहस्पतिः ॥ ७.१००.७ ॥
किम् आह मातुलः वाक्यम् यद्-अर्थम् भगवान् इह । प्राप्तः वाक्य-विदाम् श्रेष्ठः साक्षात् इव बृहस्पतिः ॥ ७।१००।७ ॥
kim āha mātulaḥ vākyam yad-artham bhagavān iha . prāptaḥ vākya-vidām śreṣṭhaḥ sākṣāt iva bṛhaspatiḥ .. 7.100.7 ..
रामस्य भाषितं श्रुत्वा महर्षिः कार्यविस्तरम् । वक्तुमद्भुतसङ्काशं राघवायोपचक्रमे ॥ ७.१००.८ ॥
रामस्य भाषितम् श्रुत्वा महा-ऋषिः कार्य-विस्तरम् । वक्तुम् अद्भुत-सङ्काशम् राघवाय उपचक्रमे ॥ ७।१००।८ ॥
rāmasya bhāṣitam śrutvā mahā-ṛṣiḥ kārya-vistaram . vaktum adbhuta-saṅkāśam rāghavāya upacakrame .. 7.100.8 ..
मातुलस्ते महाबाहो वाक्यमाह नरर्षभः । युधाजित्प्रीतिसंयुक्तं श्रूयतां यदि रोचते ॥ ७.१००.९ ॥
मातुलः ते महा-बाहो वाक्यम् आह नर-ऋषभः । युधाजित्-प्रीति-संयुक्तम् श्रूयताम् यदि रोचते ॥ ७।१००।९ ॥
mātulaḥ te mahā-bāho vākyam āha nara-ṛṣabhaḥ . yudhājit-prīti-saṃyuktam śrūyatām yadi rocate .. 7.100.9 ..
अयं गन्धर्वविषयः फलमूलोपशोभितः । सिन्धोरुभयतः पार्श्वे देशः परमशोभनः ॥ ७.१००.१० ॥
अयम् गन्धर्व-विषयः फल-मूल-उपशोभितः । सिन्धोः उभयतस् पार्श्वे देशः परम-शोभनः ॥ ७।१००।१० ॥
ayam gandharva-viṣayaḥ phala-mūla-upaśobhitaḥ . sindhoḥ ubhayatas pārśve deśaḥ parama-śobhanaḥ .. 7.100.10 ..
तं च रक्षन्ति गन्धर्वाः सायुधा युद्धकोविदाः । शैलूषस्य सुता वीर त्रिकोट्यो वै महाबलाः ॥ ७.१००.११ ॥
तम् च रक्षन्ति गन्धर्वाः स आयुधाः युद्ध-कोविदाः । शैलूषस्य सुताः वीर त्रि-कोट्यः वै महा-बलाः ॥ ७।१००।११ ॥
tam ca rakṣanti gandharvāḥ sa āyudhāḥ yuddha-kovidāḥ . śailūṣasya sutāḥ vīra tri-koṭyaḥ vai mahā-balāḥ .. 7.100.11 ..
तान्विनिर्जित्य काकुत्स्थ गन्धर्वनगरं शुभम् । निवेशय महाबोहो स्वे पुरे सुसमाहिते ॥ ७.१००.१२ ॥
तान् विनिर्जित्य काकुत्स्थ गन्धर्वनगरम् शुभम् । निवेशय महा-बोहो स्वे पुरे सु समाहिते ॥ ७।१००।१२ ॥
tān vinirjitya kākutstha gandharvanagaram śubham . niveśaya mahā-boho sve pure su samāhite .. 7.100.12 ..
अन्यस्य न गतिस्तत्र देशः परमशोभनः । रोचतां ते महाबाहो नाहं त्वामहितं वदे ॥ ७.१००.१३ ॥
अन्यस्य न गतिः तत्र देशः परम-शोभनः । रोचताम् ते महा-बाहो न अहम् त्वाम् अहितम् वदे ॥ ७।१००।१३ ॥
anyasya na gatiḥ tatra deśaḥ parama-śobhanaḥ . rocatām te mahā-bāho na aham tvām ahitam vade .. 7.100.13 ..
तच्छ्रुत्वा राघवः प्रीतो महर्षेर्मातुलस्य च । उवाच बाढमित्येव भरतं चान्ववैक्षत ॥ ७.१००.१४ ॥
तत् श्रुत्वा राघवः प्रीतः महा-ऋषेः मातुलस्य च । उवाच बाढम् इति एव भरतम् च अन्ववैक्षत ॥ ७।१००।१४ ॥
tat śrutvā rāghavaḥ prītaḥ mahā-ṛṣeḥ mātulasya ca . uvāca bāḍham iti eva bharatam ca anvavaikṣata .. 7.100.14 ..
सो ऽब्रवीद्राघवः प्रीतः साञ्जलिप्रग्रहो द्विजम् । इमौ कुमारौ तं देशं ब्रह्मर्षे विचरिष्यतः ॥ ७.१००.१५ ॥
सः अब्रवीत् राघवः प्रीतः स अञ्जलि-प्रग्रहः द्विजम् । इमौ कुमारौ तम् देशम् ब्रह्मर्षे विचरिष्यतः ॥ ७।१००।१५ ॥
saḥ abravīt rāghavaḥ prītaḥ sa añjali-pragrahaḥ dvijam . imau kumārau tam deśam brahmarṣe vicariṣyataḥ .. 7.100.15 ..
भरतस्यात्मजौ वीरौ तक्षः पुष्कल एव च । मातुलेन सुगुप्तौ तु धर्मेण सुसमाहितौ ॥ ७.१००.१६ ॥
भरतस्य आत्मजौ वीरौ तक्षः पुष्कलः एव च । मातुलेन सु गुप्तौ तु धर्मेण सु समाहितौ ॥ ७।१००।१६ ॥
bharatasya ātmajau vīrau takṣaḥ puṣkalaḥ eva ca . mātulena su guptau tu dharmeṇa su samāhitau .. 7.100.16 ..
भरतं चाग्रतः कृत्वा कुमारौ सबलानुगौ । निहत्य गन्धर्वसुतान्द्वे पुरे विभजिष्यतः ॥ ७.१००.१७ ॥
भरतम् च अग्रतस् कृत्वा कुमारौ स बल-अनुगौ । निहत्य गन्धर्व-सुतान् द्वे पुरे विभजिष्यतः ॥ ७।१००।१७ ॥
bharatam ca agratas kṛtvā kumārau sa bala-anugau . nihatya gandharva-sutān dve pure vibhajiṣyataḥ .. 7.100.17 ..
निवेश्य ते पुरवरे आत्मजौ सन्निवेश्य च । आगमिष्यति मे भूयः सकाशमतिधार्मिकः ॥ ७.१००.१८ ॥
निवेश्य ते पुर-वरे आत्मजौ सन्निवेश्य च । आगमिष्यति मे भूयस् सकाशम् अति धार्मिकः ॥ ७।१००।१८ ॥
niveśya te pura-vare ātmajau sanniveśya ca . āgamiṣyati me bhūyas sakāśam ati dhārmikaḥ .. 7.100.18 ..
ब्रह्मर्षिमेवमुक्त्वा तु भरतं सबलानुगम् । आज्ञापयामास तदा कुमारौ चाभ्यषेचयत् ॥ ७.१००.१९ ॥
ब्रह्मर्षिम् एवम् उक्त्वा तु भरतम् स बल-अनुगम् । आज्ञापयामास तदा कुमारौ च अभ्यषेचयत् ॥ ७।१००।१९ ॥
brahmarṣim evam uktvā tu bharatam sa bala-anugam . ājñāpayāmāsa tadā kumārau ca abhyaṣecayat .. 7.100.19 ..
नक्षत्रेण च सौम्येन पुरस्कृत्याङ्गिरस्सुतम् । भरतः सह सैन्येन कुमाराभ्यां विनिर्ययौ ॥ ७.१००.२० ॥
नक्षत्रेण च सौम्येन पुरस्कृत्य अङ्गिरः-सुतम् । भरतः सह सैन्येन कुमाराभ्याम् विनिर्ययौ ॥ ७।१००।२० ॥
nakṣatreṇa ca saumyena puraskṛtya aṅgiraḥ-sutam . bharataḥ saha sainyena kumārābhyām viniryayau .. 7.100.20 ..
सा सेना शक्रयुक्तेव नगरान्निर्ययावथ । राघवानुगता दूरं दुराधर्षा सुरैरपि ॥ ७.१००.२१ ॥
सा सेना शक्र-युक्ता इव नगरात् निर्ययौ अथ । राघव-अनुगता दूरम् दुराधर्षा सुरैः अपि ॥ ७।१००।२१ ॥
sā senā śakra-yuktā iva nagarāt niryayau atha . rāghava-anugatā dūram durādharṣā suraiḥ api .. 7.100.21 ..
मांसादानि च सत्त्वानि रक्षांसि सुमहान्ति च । अनुजग्मुर्हि भरतं रुधिरस्य पिपासया ॥ ७.१००.२२ ॥
मांस-आदानि च सत्त्वानि रक्षांसि सु महान्ति च । अनुजग्मुः हि भरतम् रुधिरस्य पिपासया ॥ ७।१००।२२ ॥
māṃsa-ādāni ca sattvāni rakṣāṃsi su mahānti ca . anujagmuḥ hi bharatam rudhirasya pipāsayā .. 7.100.22 ..
भूतग्रामाश्च बहवो मांसभक्षाः सुदारुणाः । गन्धर्वपुत्रमांसानि भोक्तुकामाः सहस्रशः ॥ ७.१००.२३ ॥
भूत-ग्रामाः च बहवः मांस-भक्षाः सु दारुणाः । गन्धर्व-पुत्र-मांसानि भोक्तु-कामाः सहस्रशस् ॥ ७।१००।२३ ॥
bhūta-grāmāḥ ca bahavaḥ māṃsa-bhakṣāḥ su dāruṇāḥ . gandharva-putra-māṃsāni bhoktu-kāmāḥ sahasraśas .. 7.100.23 ..
सिंहव्याघ्रवराहाणां खेचराणां च पक्षिणाम् । बहूनि वै सहस्राणि सेनाया ययुरग्रतः ॥ ७.१००.२४ ॥
सिंह-व्याघ्र-वराहाणाम् खेचराणाम् च पक्षिणाम् । बहूनि वै सहस्राणि सेनायाः ययुः अग्रतस् ॥ ७।१००।२४ ॥
siṃha-vyāghra-varāhāṇām khecarāṇām ca pakṣiṇām . bahūni vai sahasrāṇi senāyāḥ yayuḥ agratas .. 7.100.24 ..
अध्यर्धमासमुषिता पथि सेना निरामया । हृष्टपुष्टजनाकीर्णा केकयं समुपागमत् ॥ ७.१००.२५ ॥
अध्यर्ध-मासम् उषिता पथि सेना निरामया । हृष्ट-पुष्ट-जन-आकीर्णा केकयम् समुपागमत् ॥ ७।१००।२५ ॥
adhyardha-māsam uṣitā pathi senā nirāmayā . hṛṣṭa-puṣṭa-jana-ākīrṇā kekayam samupāgamat .. 7.100.25 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे शततमः सर्गः ॥ १०० ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे शततमः सर्गः ॥ १०० ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe śatatamaḥ sargaḥ .. 100 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In