This overlay will guide you through the buttons:

| |
|
श्रुत्वा सेनापतिं प्राप्तं भरतं केकयाधिपः । युधाजिद्गार्ग्यसहितं परां प्रीतिमुपागमत् ॥ ७.१०१.१ ॥
श्रुत्वा सेनापतिम् प्राप्तम् भरतम् केकय-अधिपः । युधाजित् गार्ग्य-सहितम् पराम् प्रीतिम् उपागमत् ॥ ७।१०१।१ ॥
śrutvā senāpatim prāptam bharatam kekaya-adhipaḥ . yudhājit gārgya-sahitam parām prītim upāgamat .. 7.101.1 ..
स निर्ययौ जनौघेन महता केकयाधिपः । त्वरमाणो ऽभिचक्राम गन्धर्वान्कामरूपिणः ॥ ७.१०१.२ ॥
स निर्ययौ जन-ओघेन महता केकय-अधिपः । त्वरमाणः अभिचक्राम गन्धर्वान् कामरूपिणः ॥ ७।१०१।२ ॥
sa niryayau jana-oghena mahatā kekaya-adhipaḥ . tvaramāṇaḥ abhicakrāma gandharvān kāmarūpiṇaḥ .. 7.101.2 ..
भरतश्च युधाजिच्च समेतौ लघुविक्रमैः । गन्धर्वनगरं प्राप्तौ सबलौ सपदानुगौ ॥ ७.१०१.३ ॥
भरतः च युधाजित् च समेतौ लघु-विक्रमैः । गन्धर्वनगरम् प्राप्तौ स बलौ स पदानुगौ ॥ ७।१०१।३ ॥
bharataḥ ca yudhājit ca sametau laghu-vikramaiḥ . gandharvanagaram prāptau sa balau sa padānugau .. 7.101.3 ..
श्रुत्वा तु भरतं प्राप्तं गन्धर्वास्ते समागताः । योद्धुकामा महावीर्या व्यनदन् वै समन्ततः ॥ ७.१०१.४ ॥
श्रुत्वा तु भरतम् प्राप्तम् गन्धर्वाः ते समागताः । योद्धु-कामाः महा-वीर्याः व्यनदन् वै समन्ततः ॥ ७।१०१।४ ॥
śrutvā tu bharatam prāptam gandharvāḥ te samāgatāḥ . yoddhu-kāmāḥ mahā-vīryāḥ vyanadan vai samantataḥ .. 7.101.4 ..
ततः समभवद्युद्धं तुमुलं रोमहर्षणम् । सप्तरात्रं महाभीमं न चान्यतरयोर्जयः ॥ ७.१०१.५ ॥
ततस् समभवत् युद्धम् तुमुलम् रोम-हर्षणम् । सप्त-रात्रम् महा-भीमम् न च अन्यतरयोः जयः ॥ ७।१०१।५ ॥
tatas samabhavat yuddham tumulam roma-harṣaṇam . sapta-rātram mahā-bhīmam na ca anyatarayoḥ jayaḥ .. 7.101.5 ..
खड्गशक्तिधनुर्ग्राहा नद्यः शोणितसंस्रवाः । नृकलेवरवाहिन्यः प्रवृत्ताः सर्वतोदिशम् ॥ ७.१०१.६ ॥
खड्ग-शक्ति-धनुः-ग्राहाः नद्यः शोणित-संस्रवाः । नृ-कलेवर-वाहिन्यः प्रवृत्ताः सर्वतोदिशम् ॥ ७।१०१।६ ॥
khaḍga-śakti-dhanuḥ-grāhāḥ nadyaḥ śoṇita-saṃsravāḥ . nṛ-kalevara-vāhinyaḥ pravṛttāḥ sarvatodiśam .. 7.101.6 ..
ततो रामानुजः क्रुद्धः कालस्यास्त्रं सुदारुणम् । संवर्तं नाम भरतो गन्धर्वेष्वभ्यचोदयत् ॥ ७.१०१.७ ॥
ततस् रामानुजः क्रुद्धः कालस्य अस्त्रम् सु दारुणम् । संवर्तम् नाम भरतः गन्धर्वेषु अभ्यचोदयत् ॥ ७।१०१।७ ॥
tatas rāmānujaḥ kruddhaḥ kālasya astram su dāruṇam . saṃvartam nāma bharataḥ gandharveṣu abhyacodayat .. 7.101.7 ..
ते बद्धाः कालपाशेन संवर्तेन विदारिताः । क्षणेनाभिहतास्तेन तिस्रः कोट्यो महात्मनाम् ॥ ७.१०१.८ ॥
ते बद्धाः कालपाशेन संवर्तेन विदारिताः । क्षणेन अभिहताः तेन तिस्रः कोट्यः महात्मनाम् ॥ ७।१०१।८ ॥
te baddhāḥ kālapāśena saṃvartena vidāritāḥ . kṣaṇena abhihatāḥ tena tisraḥ koṭyaḥ mahātmanām .. 7.101.8 ..
तं घातं घोरसङ्काशं न स्मरन्ति दिवौकसः । निमेषान्तरमात्रेण तादृशानां महात्मनाम् ॥ ७.१०१.९ ॥
तम् घातम् घोर-सङ्काशम् न स्मरन्ति दिवौकसः । निमेष-अन्तर-मात्रेण तादृशानाम् महात्मनाम् ॥ ७।१०१।९ ॥
tam ghātam ghora-saṅkāśam na smaranti divaukasaḥ . nimeṣa-antara-mātreṇa tādṛśānām mahātmanām .. 7.101.9 ..
हतेषु तेषु सर्वेषु भरतः केकयीसुतः । निवेशयामास तदा समृद्धे द्वे पुरोत्तमे ॥ ७.१०१.१० ॥
हतेषु तेषु सर्वेषु भरतः केकयी-सुतः । निवेशयामास तदा समृद्धे द्वे पुर-उत्तमे ॥ ७।१०१।१० ॥
hateṣu teṣu sarveṣu bharataḥ kekayī-sutaḥ . niveśayāmāsa tadā samṛddhe dve pura-uttame .. 7.101.10 ..
तक्षं तक्षशिलायां तु पुष्कलं पुष्कलावते । गन्धर्वदेशे रुचिरे गान्धारविषये च सः ॥ ७.१०१.११ ॥
तक्षम् तक्षशिलायाम् तु पुष्कलम् पुष्कलावते । गन्धर्व-देशे रुचिरे गान्धार-विषये च सः ॥ ७।१०१।११ ॥
takṣam takṣaśilāyām tu puṣkalam puṣkalāvate . gandharva-deśe rucire gāndhāra-viṣaye ca saḥ .. 7.101.11 ..
धनरत्नौघसङ्कीर्णे काननैरुपशोभिते । अन्योन्यसङ्घर्षकृते स्पर्धया गुणविस्तरैः ॥ ७.१०१.१२ ॥
धन-रत्न-ओघ-सङ्कीर्णे काननैः उपशोभिते । अन्योन्य-सङ्घर्ष-कृते स्पर्धया गुण-विस्तरैः ॥ ७।१०१।१२ ॥
dhana-ratna-ogha-saṅkīrṇe kānanaiḥ upaśobhite . anyonya-saṅgharṣa-kṛte spardhayā guṇa-vistaraiḥ .. 7.101.12 ..
उभे सुरुचिरप्रख्ये व्यवहारैरकिल्बिषैः । उद्यानयानसम्पूर्णे सुविभक्तान्तरापणे ॥ ७.१०१.१३ ॥
उभे सु रुचिर-प्रख्ये व्यवहारैः अकिल्बिषैः । उद्यान-यान-सम्पूर्णे सुविभक्त-अन्तरापणे ॥ ७।१०१।१३ ॥
ubhe su rucira-prakhye vyavahāraiḥ akilbiṣaiḥ . udyāna-yāna-sampūrṇe suvibhakta-antarāpaṇe .. 7.101.13 ..
उभे पुरवरे रम्ये विस्तरैरुपशोभिते । गृहमुख्यैः सुरुचिरैर्विमानसमवर्णिभिः ॥ ७.१०१.१४ ॥
उभे पुर-वरे रम्ये विस्तरैः उपशोभिते । गृह-मुख्यैः सु रुचिरैः विमान-सम-वर्णिभिः ॥ ७।१०१।१४ ॥
ubhe pura-vare ramye vistaraiḥ upaśobhite . gṛha-mukhyaiḥ su ruciraiḥ vimāna-sama-varṇibhiḥ .. 7.101.14 ..
शोभिते शोभनीयैश्च देवायतनविस्तरैः । तालैस्तमालैस्तिलकैर्वकुलैरुपशोभिते ॥ ७.१०१.१५ ॥
शोभिते शोभनीयैः च देवायतन-विस्तरैः । तालैः तमालैः तिलकैः बकुलैः उपशोभिते ॥ ७।१०१।१५ ॥
śobhite śobhanīyaiḥ ca devāyatana-vistaraiḥ . tālaiḥ tamālaiḥ tilakaiḥ bakulaiḥ upaśobhite .. 7.101.15 ..
निवेश्य पञ्चभिर्वर्षैर्भरतो राघवानुजः । पुनरायान्महाबाहुरयोध्यां केकयीसुतः ॥ ७.१०१.१६ ॥
निवेश्य पञ्चभिः वर्षैः भरतः राघव-अनुजः । पुनर् आयात् महा-बाहुः अयोध्याम् केकयी-सुतः ॥ ७।१०१।१६ ॥
niveśya pañcabhiḥ varṣaiḥ bharataḥ rāghava-anujaḥ . punar āyāt mahā-bāhuḥ ayodhyām kekayī-sutaḥ .. 7.101.16 ..
सो ऽभिवाद्य महात्मानं साक्षाद्धर्ममिवापरम् । राघवं भरतः श्रीमान्ब्रह्माणमिव वासवः ॥ ७.१०१.१७ ॥
सः अभिवाद्य महात्मानम् साक्षात् धर्मम् इव अपरम् । राघवम् भरतः श्रीमान् ब्रह्माणम् इव वासवः ॥ ७।१०१।१७ ॥
saḥ abhivādya mahātmānam sākṣāt dharmam iva aparam . rāghavam bharataḥ śrīmān brahmāṇam iva vāsavaḥ .. 7.101.17 ..
शशंस च यथावृत्तं गन्धर्ववधमुत्तमम् । निवेशनं च देशस्य श्रुत्वा प्रीतो ऽस्य राघवः ॥ ७.१०१.१८ ॥
शशंस च यथावृत्तम् गन्धर्व-वधम् उत्तमम् । निवेशनम् च देशस्य श्रुत्वा प्रीतः अस्य राघवः ॥ ७।१०१।१८ ॥
śaśaṃsa ca yathāvṛttam gandharva-vadham uttamam . niveśanam ca deśasya śrutvā prītaḥ asya rāghavaḥ .. 7.101.18 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकोत्तरशततमः सर्गः ॥ १०१ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे एकोत्तरशततमः सर्गः ॥ १०१ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe ekottaraśatatamaḥ sargaḥ .. 101 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In