This overlay will guide you through the buttons:

| |
|
शृणु राजन्महासत्व यदर्थमहमागतः । पितामहेन देवेन प्रेषितो ऽस्मि महाबल ॥ ७.१०४.१ ॥
śṛṇu rājanmahāsatva yadarthamahamāgataḥ . pitāmahena devena preṣito 'smi mahābala .. 7.104.1 ..
तवाहं पूर्वसद्भावे पुत्रः परपुरञ्जय । मायासम्भावितो वीर कालः सर्वसमाहरः ॥ ७.१०४.२ ॥
tavāhaṃ pūrvasadbhāve putraḥ parapurañjaya . māyāsambhāvito vīra kālaḥ sarvasamāharaḥ .. 7.104.2 ..
पितामहश्च भगवानाह लोकपतिः प्रभुः । समयस्ते कृतः सौम्य लोकान्सम्परिरक्षितुम् ॥ ७.१०४.३ ॥
pitāmahaśca bhagavānāha lokapatiḥ prabhuḥ . samayaste kṛtaḥ saumya lokānsamparirakṣitum .. 7.104.3 ..
सङ्क्षिप्य हि पुरा लोकान्मायया स्वयमेव हि । महार्णवे शयानो ऽप्सु मां त्वं पूर्वमजीजनः ॥ ७.१०४.४ ॥
saṅkṣipya hi purā lokānmāyayā svayameva hi . mahārṇave śayāno 'psu māṃ tvaṃ pūrvamajījanaḥ .. 7.104.4 ..
भोगवन्तं ततो नागमनन्तमुदकेशयम् । मायया जनयित्वा त्वं द्वौ च सत्त्वौ महाबलौ ॥ ७.१०४.५ ॥
bhogavantaṃ tato nāgamanantamudakeśayam . māyayā janayitvā tvaṃ dvau ca sattvau mahābalau .. 7.104.5 ..
मधुं च कैटभं चैव ययोरस्थिचयैर्वृता । इयं पर्वतसम्बाधा मेदिनी चाभवन्मही ॥ ७.१०४.६ ॥
madhuṃ ca kaiṭabhaṃ caiva yayorasthicayairvṛtā . iyaṃ parvatasambādhā medinī cābhavanmahī .. 7.104.6 ..
पद्मे दिव्ये ऽर्कसङ्काशे नाभ्यामुत्पाद्य मामपि । प्राजापत्यं त्वया कर्म मयि सर्वं निवेशितम् ॥ ७.१०४.७ ॥
padme divye 'rkasaṅkāśe nābhyāmutpādya māmapi . prājāpatyaṃ tvayā karma mayi sarvaṃ niveśitam .. 7.104.7 ..
सो ऽहं सन्न्यस्तभारो हि त्वामुपासे जगत्पतिम् । रक्षां विधत्स्व भूतेषु मम तेजस्करो भवान् ॥ ७.१०४.८ ॥
so 'haṃ sannyastabhāro hi tvāmupāse jagatpatim . rakṣāṃ vidhatsva bhūteṣu mama tejaskaro bhavān .. 7.104.8 ..
ततस्त्वमपि दुर्धर्षात्तस्माद्भावात्सनातनात् । रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान् ॥ ७.१०४.९ ॥
tatastvamapi durdharṣāttasmādbhāvātsanātanāt . rakṣārthaṃ sarvabhūtānāṃ viṣṇutvamupajagmivān .. 7.104.9 ..
अदित्यां वीर्यवान्पुत्रो भ्रातऽणां वीर्यवर्धनः । समुत्पन्नेषु कृत्येषु तेषां साह्याय कल्पसे ॥ ७.१०४.१० ॥
adityāṃ vīryavānputro bhrāta'ṇāṃ vīryavardhanaḥ . samutpanneṣu kṛtyeṣu teṣāṃ sāhyāya kalpase .. 7.104.10 ..
स त्वं वित्रास्यमानासु प्रजासु जगतां वर । रावणस्य वधाकाङ्क्षी मानुषेषु मनो ऽदधाः ॥ ७.१०४.११ ॥
sa tvaṃ vitrāsyamānāsu prajāsu jagatāṃ vara . rāvaṇasya vadhākāṅkṣī mānuṣeṣu mano 'dadhāḥ .. 7.104.11 ..
दश वर्षसहस्राणि दश वर्षशतानि च । कृत्वा वासस्य नियतिं स्वयमेवात्मना पुरा ॥ ७.१०४.१२ ॥
daśa varṣasahasrāṇi daśa varṣaśatāni ca . kṛtvā vāsasya niyatiṃ svayamevātmanā purā .. 7.104.12 ..
स त्वं मनोमयः पुत्रः पूर्णायुर्मानुषेष्विह । कालो ऽयं ते नरश्रेष्ठ समीपमुपवर्तितुम् ॥ ७.१०४.१३ ॥
sa tvaṃ manomayaḥ putraḥ pūrṇāyurmānuṣeṣviha . kālo 'yaṃ te naraśreṣṭha samīpamupavartitum .. 7.104.13 ..
यदि भूयो महाराज प्रजा इच्छस्युपासितुम् । वस वा वीर भद्रं त एवमाह पितामहः ॥ ७.१०४.१४ ॥
yadi bhūyo mahārāja prajā icchasyupāsitum . vasa vā vīra bhadraṃ ta evamāha pitāmahaḥ .. 7.104.14 ..
अथ वा विजिगीषा ते सुरलोकाय राघव । सनाथा विष्णुना देवा भवन्तु विगतज्वराः ॥ ७.१०४.१५ ॥
atha vā vijigīṣā te suralokāya rāghava . sanāthā viṣṇunā devā bhavantu vigatajvarāḥ .. 7.104.15 ..
श्रुत्वा पितामहेनोक्तं वाक्यं कालसमीरितम् । राघवः प्रहसन्वाक्यं सर्वसंहारमब्रवीत् ॥ ७.१०४.१६ ॥
śrutvā pitāmahenoktaṃ vākyaṃ kālasamīritam . rāghavaḥ prahasanvākyaṃ sarvasaṃhāramabravīt .. 7.104.16 ..
श्रुत्वा मे देवदेवस्य वाक्यं परममद्भुतम् । प्रीतिर्हि महती जाता तवागमनसम्भवा ॥ ७.१०४.१७ ॥
śrutvā me devadevasya vākyaṃ paramamadbhutam . prītirhi mahatī jātā tavāgamanasambhavā .. 7.104.17 ..
त्रयाणामपि लोकानां कार्यार्थं मम सम्भवः । भद्रं ते ऽस्तु गमिष्यामि यत एवाहमागतः ॥ ७.१०४.१८ ॥
trayāṇāmapi lokānāṃ kāryārthaṃ mama sambhavaḥ . bhadraṃ te 'stu gamiṣyāmi yata evāhamāgataḥ .. 7.104.18 ..
हद्गतो ह्यसि सम्प्राप्तो न मे तत्र विचारणा । मया हि सर्वकृत्येषु देवानां वशवर्तिनाम् । स्थातव्यं सर्वसंहार यथा ह्याह पितामहः ॥ ७.१०४.१९ ॥
hadgato hyasi samprāpto na me tatra vicāraṇā . mayā hi sarvakṛtyeṣu devānāṃ vaśavartinām . sthātavyaṃ sarvasaṃhāra yathā hyāha pitāmahaḥ .. 7.104.19 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चतुरधिकशततमः सर्गः ॥ १०४ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe caturadhikaśatatamaḥ sargaḥ .. 104 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In