This overlay will guide you through the buttons:

| |
|
अवाङ्मुखमथो दीनं दृष्ट्वा सोममिवाप्लुतम् । राघवं लक्ष्मणो वाक्यं हृष्टो मधुरमब्रवीत् ॥ ७.१०६.१ ॥
अवाङ्मुखम् अथो दीनम् दृष्ट्वा सोमम् इव आप्लुतम् । राघवम् लक्ष्मणः वाक्यम् हृष्टः मधुरम् अब्रवीत् ॥ ७।१०६।१ ॥
avāṅmukham atho dīnam dṛṣṭvā somam iva āplutam . rāghavam lakṣmaṇaḥ vākyam hṛṣṭaḥ madhuram abravīt .. 7.106.1 ..
न संतापं महाबाहो मदर्थं कर्तुमर्हसि । पूर्वनिर्माणबद्धा हि कालस्य गतिरीदृशी ॥ ७.१०६.२ ॥
न संतापम् महा-बाहो मद्-अर्थम् कर्तुम् अर्हसि । पूर्व-निर्माण-बद्धा हि कालस्य गतिः ईदृशी ॥ ७।१०६।२ ॥
na saṃtāpam mahā-bāho mad-artham kartum arhasi . pūrva-nirmāṇa-baddhā hi kālasya gatiḥ īdṛśī .. 7.106.2 ..
जहि मां सौम्य विस्रब्धं प्रतिज्ञां परिपालय । हीनप्रतिज्ञाः काकुत्स्थ प्रयान्ति नरकं नराः ॥ ७.१०६.३ ॥
जहि माम् सौम्य विस्रब्धम् प्रतिज्ञाम् परिपालय । हीन-प्रतिज्ञाः काकुत्स्थ प्रयान्ति नरकम् नराः ॥ ७।१०६।३ ॥
jahi mām saumya visrabdham pratijñām paripālaya . hīna-pratijñāḥ kākutstha prayānti narakam narāḥ .. 7.106.3 ..
यदि प्रीतिर्महाराज यद्यनुग्राह्यता मयि । जहि मां निर्विशङ्कस्त्वं धर्मं वर्धय राघव ॥ ७.१०६.४ ॥
यदि प्रीतिः महा-राज यदि अनुग्राह्यता मयि । जहि माम् निर्विशङ्कः त्वम् धर्मम् वर्धय राघव ॥ ७।१०६।४ ॥
yadi prītiḥ mahā-rāja yadi anugrāhyatā mayi . jahi mām nirviśaṅkaḥ tvam dharmam vardhaya rāghava .. 7.106.4 ..
लक्ष्मणेन तथोक्तस्तु रामः प्रचलितेन्द्रियः । मन्त्रिणः समुपानीय तथैव च पुरोधसम् ॥ ७.१०६.५ ॥
लक्ष्मणेन तथा उक्तः तु रामः प्रचलित-इन्द्रियः । मन्त्रिणः समुपानीय तथा एव च पुरोधसम् ॥ ७।१०६।५ ॥
lakṣmaṇena tathā uktaḥ tu rāmaḥ pracalita-indriyaḥ . mantriṇaḥ samupānīya tathā eva ca purodhasam .. 7.106.5 ..
अब्रवीच्च तदा वृत्तं तेषां मध्ये स राघवः । दुर्वासोभिगमं चैव प्रतिज्ञां तापसस्य च ॥ ७.१०६.६ ॥
अब्रवीत् च तदा वृत्तम् तेषाम् मध्ये स राघवः । दुर्वासस्-अभिगमम् च एव प्रतिज्ञाम् तापसस्य च ॥ ७।१०६।६ ॥
abravīt ca tadā vṛttam teṣām madhye sa rāghavaḥ . durvāsas-abhigamam ca eva pratijñām tāpasasya ca .. 7.106.6 ..
तच्छ्रुत्वा मन्त्रिणः सर्वे सोपाध्यायाः समासत । वसिष्ठस्तु महातेजा वाक्यमेतदुवाच ह ॥ ७.१०६.७ ॥
तत् श्रुत्वा मन्त्रिणः सर्वे स उपाध्यायाः समासत । वसिष्ठः तु महा-तेजाः वाक्यम् एतत् उवाच ह ॥ ७।१०६।७ ॥
tat śrutvā mantriṇaḥ sarve sa upādhyāyāḥ samāsata . vasiṣṭhaḥ tu mahā-tejāḥ vākyam etat uvāca ha .. 7.106.7 ..
दृष्टमेतन्महाबाहो क्षयं ते रोमहर्षणम् । लक्ष्मणेन वियोगश्च तव राम महायशः ॥ ७.१०६.८ ॥
दृष्टम् एतत् महा-बाहो क्षयम् ते रोम-हर्षणम् । लक्ष्मणेन वियोगः च तव राम महा-यशः ॥ ७।१०६।८ ॥
dṛṣṭam etat mahā-bāho kṣayam te roma-harṣaṇam . lakṣmaṇena viyogaḥ ca tava rāma mahā-yaśaḥ .. 7.106.8 ..
त्यजैनं बलवान्कालो मा प्रतिज्ञां वृथा कृताः । विनष्टायां प्रतिज्ञायां धर्मो ऽपि च लयं व्रजेत् ॥ ७.१०६.९ ॥
त्यज एनम् बलवान् कालः मा प्रतिज्ञाम् वृथा कृताः । विनष्टायाम् प्रतिज्ञायाम् धर्मः अपि च लयम् व्रजेत् ॥ ७।१०६।९ ॥
tyaja enam balavān kālaḥ mā pratijñām vṛthā kṛtāḥ . vinaṣṭāyām pratijñāyām dharmaḥ api ca layam vrajet .. 7.106.9 ..
ततो धर्मे विनष्टे तु त्रैलोक्यं सचराचरम् । सदेवर्षिगणं सर्वं विनश्येत्तु न संशयः ॥ ७.१०६.१० ॥
ततस् धर्मे विनष्टे तु त्रैलोक्यम् सचराचरम् । स देवर्षि-गणम् सर्वम् विनश्येत् तु न संशयः ॥ ७।१०६।१० ॥
tatas dharme vinaṣṭe tu trailokyam sacarācaram . sa devarṣi-gaṇam sarvam vinaśyet tu na saṃśayaḥ .. 7.106.10 ..
स त्वं पुरुषशार्दूल त्रैलोक्यस्याभिपालनात् । लक्ष्मणेन विना चाद्य जगत्स्वस्थं कुरुष्व ह ॥ ७.१०६.११ ॥
स त्वम् पुरुष-शार्दूल त्रैलोक्यस्य अभिपालनात् । लक्ष्मणेन विना च अद्य जगत् स्वस्थम् कुरुष्व ह ॥ ७।१०६।११ ॥
sa tvam puruṣa-śārdūla trailokyasya abhipālanāt . lakṣmaṇena vinā ca adya jagat svastham kuruṣva ha .. 7.106.11 ..
तेषां तत्समवेतानां वाक्यं धर्मार्थसंहितम् । श्रुत्वा परिषदो मध्ये रामो लक्ष्मणमब्रवीत् ॥ ७.१०६.१२ ॥
तेषाम् तद्-समवेतानाम् वाक्यम् धर्म-अर्थ-संहितम् । श्रुत्वा परिषदः मध्ये रामः लक्ष्मणम् अब्रवीत् ॥ ७।१०६।१२ ॥
teṣām tad-samavetānām vākyam dharma-artha-saṃhitam . śrutvā pariṣadaḥ madhye rāmaḥ lakṣmaṇam abravīt .. 7.106.12 ..
विसर्जये त्वां सौमित्रे मा भूद्धर्मविपर्ययः । त्यागो वधो वा विहितः साधूनां तूभयं समम् ॥ ७.१०६.१३ ॥
विसर्जये त्वाम् सौमित्रे मा भूत् धर्म-विपर्ययः । त्यागः वधः वा विहितः साधूनाम् तु उभयम् समम् ॥ ७।१०६।१३ ॥
visarjaye tvām saumitre mā bhūt dharma-viparyayaḥ . tyāgaḥ vadhaḥ vā vihitaḥ sādhūnām tu ubhayam samam .. 7.106.13 ..
रामेण भाषिते वाक्ये बाष्पव्याकुलितेन्द्रियः । लक्ष्मणस्त्वरितं प्रायात्स्वगृहं न विवेश ह ॥ ७.१०६.१४ ॥
रामेण भाषिते वाक्ये बाष्प-व्याकुलित-इन्द्रियः । लक्ष्मणः त्वरितम् प्रायात् स्व-गृहम् न विवेश ह ॥ ७।१०६।१४ ॥
rāmeṇa bhāṣite vākye bāṣpa-vyākulita-indriyaḥ . lakṣmaṇaḥ tvaritam prāyāt sva-gṛham na viveśa ha .. 7.106.14 ..
स गत्वा सरयूतीरमुपस्पृश्य कृताञ्जलिः । निगृह्य सर्वस्रोतांसि निःश्वासं न मुमोच ह ॥ ७.१०६.१५ ॥
स गत्वा सरयू-तीरम् उपस्पृश्य कृताञ्जलिः । निगृह्य सर्व-स्रोतांसि निःश्वासम् न मुमोच ह ॥ ७।१०६।१५ ॥
sa gatvā sarayū-tīram upaspṛśya kṛtāñjaliḥ . nigṛhya sarva-srotāṃsi niḥśvāsam na mumoca ha .. 7.106.15 ..
अनिःश्वसन्तं युक्तं तं सशक्राः साप्सरोगणाः । देवाः सर्षिगणाः सर्वे पुष्पैरभ्यकिरंस्तदा ॥ ७.१०६.१६ ॥
अ निःश्वसन्तम् युक्तम् तम् स शक्राः स अप्सरः-गणाः । देवाः स ऋषि-गणाः सर्वे पुष्पैः अभ्यकिरन् तदा ॥ ७।१०६।१६ ॥
a niḥśvasantam yuktam tam sa śakrāḥ sa apsaraḥ-gaṇāḥ . devāḥ sa ṛṣi-gaṇāḥ sarve puṣpaiḥ abhyakiran tadā .. 7.106.16 ..
अदृश्यं सर्वमनुजैः सशरीरं महाबलम् । प्रगृह्य लक्ष्मणं शक्रस्त्रिदिवं संविवेश ह ॥ ७.१०६.१७ ॥
अदृश्यम् सर्व-मनुजैः स शरीरम् महा-बलम् । प्रगृह्य लक्ष्मणम् शक्रः त्रिदिवम् संविवेश ह ॥ ७।१०६।१७ ॥
adṛśyam sarva-manujaiḥ sa śarīram mahā-balam . pragṛhya lakṣmaṇam śakraḥ tridivam saṃviveśa ha .. 7.106.17 ..
ततो विष्णोश्चतुर्भागमागतं सुरसत्तमाः । दृष्ट्वा प्रमुदिताः सर्वे ऽपूजयन् समहर्षयः ॥ ७.१०६.१८ ॥
ततस् विष्णोः चतुर्भागम् आगतम् सुर-सत्तमाः । दृष्ट्वा प्रमुदिताः सर्वे अपूजयन् स महा-ऋषयः ॥ ७।१०६।१८ ॥
tatas viṣṇoḥ caturbhāgam āgatam sura-sattamāḥ . dṛṣṭvā pramuditāḥ sarve apūjayan sa mahā-ṛṣayaḥ .. 7.106.18 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे षडुत्तरशततमः सर्गः ॥ १०६ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे षडुत्तरशततमः सर्गः ॥ १०६ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe ṣaḍuttaraśatatamaḥ sargaḥ .. 106 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In