This overlay will guide you through the buttons:

| |
|
विसृज्य लक्ष्मणं रामो दुःखशोकसमन्वितः । पुरोधसं मन्त्रिणश्च नैगमांश्चेदमब्रवीत् ॥ ७.१०७.१ ॥
विसृज्य लक्ष्मणम् रामः दुःख-शोक-समन्वितः । पुरोधसम् मन्त्रिणः च नैगमान् च इदम् अब्रवीत् ॥ ७।१०७।१ ॥
visṛjya lakṣmaṇam rāmaḥ duḥkha-śoka-samanvitaḥ . purodhasam mantriṇaḥ ca naigamān ca idam abravīt .. 7.107.1 ..
अद्य राज्ये ऽभिषेक्ष्यामि भरतं धर्मवत्सलम् । अयोध्यायाः पतिं वीरं ततो यास्याम्यहं वनम् ॥ ७.१०७.२ ॥
अद्य राज्ये अभिषेक्ष्यामि भरतम् धर्म-वत्सलम् । अयोध्यायाः पतिम् वीरम् ततस् यास्यामि अहम् वनम् ॥ ७।१०७।२ ॥
adya rājye abhiṣekṣyāmi bharatam dharma-vatsalam . ayodhyāyāḥ patim vīram tatas yāsyāmi aham vanam .. 7.107.2 ..
प्रवेशयत सम्भारान्माभूत्कालस्य पर्ययः । अद्यैवाहं गमिष्यामि लक्ष्मणेन गतां गतिम् ॥ ७.१०७.३ ॥
प्रवेशयत सम्भारान् मा अभूत् कालस्य पर्ययः । अद्य एव अहम् गमिष्यामि लक्ष्मणेन गताम् गतिम् ॥ ७।१०७।३ ॥
praveśayata sambhārān mā abhūt kālasya paryayaḥ . adya eva aham gamiṣyāmi lakṣmaṇena gatām gatim .. 7.107.3 ..
तच्छ्रुत्वा राघवेणोक्तं सर्वाः प्रकृतयो भृशम् । मूर्धभिः प्रणता भूमौ गतसत्त्वा इवाभवन् ॥ ७.१०७.४ ॥
तत् श्रुत्वा राघवेण उक्तम् सर्वाः प्रकृतयः भृशम् । मूर्धभिः प्रणताः भूमौ गत-सत्त्वाः इव अभवन् ॥ ७।१०७।४ ॥
tat śrutvā rāghaveṇa uktam sarvāḥ prakṛtayaḥ bhṛśam . mūrdhabhiḥ praṇatāḥ bhūmau gata-sattvāḥ iva abhavan .. 7.107.4 ..
भरतश्च विसञ्ज्ञो ऽभूच्छ्रुत्वा रामस्य भाषितम् । राज्यं विगर्हयामास राघवं चेदमब्रवीत् ॥ ७.१०७.५ ॥
भरतः च विसञ्ज्ञः अभूत् श्रुत्वा रामस्य भाषितम् । राज्यम् विगर्हयामास राघवम् च इदम् अब्रवीत् ॥ ७।१०७।५ ॥
bharataḥ ca visañjñaḥ abhūt śrutvā rāmasya bhāṣitam . rājyam vigarhayāmāsa rāghavam ca idam abravīt .. 7.107.5 ..
सत्येनाहं शपे राजन्स्वर्गलोके न चैव हि । न कामये यथा राज्यं त्वां विना रघुनन्दन ॥ ७.१०७.६ ॥
सत्येन अहम् शपे राजन् स्वर्ग-लोके न च एव हि । न कामये यथा राज्यम् त्वाम् विना रघुनन्दन ॥ ७।१०७।६ ॥
satyena aham śape rājan svarga-loke na ca eva hi . na kāmaye yathā rājyam tvām vinā raghunandana .. 7.107.6 ..
इमौ कुशलवौ राजन्नभिषिञ्च नराधिप । कोसलेषु कुशं वीरमुत्तरेषु तथा लवम् ॥ ७.१०७.७ ॥
इमौ कुश-लवौ राजन् अभिषिञ्च नराधिप । कोसलेषु कुशम् वीरम् उत्तरेषु तथा लवम् ॥ ७।१०७।७ ॥
imau kuśa-lavau rājan abhiṣiñca narādhipa . kosaleṣu kuśam vīram uttareṣu tathā lavam .. 7.107.7 ..
शत्रुघ्नस्य तु गच्छन्तु दूतास्त्वरितविक्रमाः । इदं गमनमस्माकं स्वर्गायाख्यातु मा चिरम् ॥ ७.१०७.८ ॥
शत्रुघ्नस्य तु गच्छन्तु दूताः त्वरित-विक्रमाः । इदम् गमनम् अस्माकम् स्वर्गाय आख्यातु मा चिरम् ॥ ७।१०७।८ ॥
śatrughnasya tu gacchantu dūtāḥ tvarita-vikramāḥ . idam gamanam asmākam svargāya ākhyātu mā ciram .. 7.107.8 ..
तच्छ्रुत्वा भरतेनोक्तं दृष्ट्वा चापि ह्यधोमुखान् । पौरान्दुःखेन सन्तप्तान्वसिष्ठो वाक्यमब्रवीत् ॥ ७.१०७.९ ॥
तत् श्रुत्वा भरतेन उक्तम् दृष्ट्वा च अपि हि अधोमुखान् । पौरान् दुःखेन सन्तप्तान् वसिष्ठः वाक्यम् अब्रवीत् ॥ ७।१०७।९ ॥
tat śrutvā bharatena uktam dṛṣṭvā ca api hi adhomukhān . paurān duḥkhena santaptān vasiṣṭhaḥ vākyam abravīt .. 7.107.9 ..
वत्स राम इमाः पश्य धरणीं प्रकृतीर्गताः । ज्ञात्वैषामीप्सितं कार्यं मा चैषां विप्रियं कृथाः ॥ ७.१०७.१० ॥
वत्स रामः इमाः पश्य धरणीम् प्रकृतीः गताः । ज्ञात्वा एषाम् ईप्सितम् कार्यम् मा च एषाम् विप्रियम् कृथाः ॥ ७।१०७।१० ॥
vatsa rāmaḥ imāḥ paśya dharaṇīm prakṛtīḥ gatāḥ . jñātvā eṣām īpsitam kāryam mā ca eṣām vipriyam kṛthāḥ .. 7.107.10 ..
वसिष्ठस्य तु वाक्येन उत्थाप्य प्रकृतीजनम् । किं करोमीति काकुत्स्थः सर्वा वचनमब्रवीत् ॥ ७.१०७.११ ॥
वसिष्ठस्य तु वाक्येन उत्थाप्य प्रकृतीजनम् । किम् करोमि इति काकुत्स्थः सर्वाः वचनम् अब्रवीत् ॥ ७।१०७।११ ॥
vasiṣṭhasya tu vākyena utthāpya prakṛtījanam . kim karomi iti kākutsthaḥ sarvāḥ vacanam abravīt .. 7.107.11 ..
ततः सर्वाः प्रकृतयो रामं वचनमब्रुवन् । गच्छन्तमनुगच्छामो यत्र राम गमिष्यसि ॥ ७.१०७.१२ ॥
ततस् सर्वाः प्रकृतयः रामम् वचनम् अब्रुवन् । गच्छन्तम् अनुगच्छामः यत्र राम गमिष्यसि ॥ ७।१०७।१२ ॥
tatas sarvāḥ prakṛtayaḥ rāmam vacanam abruvan . gacchantam anugacchāmaḥ yatra rāma gamiṣyasi .. 7.107.12 ..
पौरेषु यदि ते प्रीतिर्यदि स्नेहो ह्यनुत्तमः । सपुत्रदाराः काकुत्स्थ समागच्छाम सत्पथम् ॥ ७.१०७.१३ ॥
पौरेषु यदि ते प्रीतिः यदि स्नेहः हि अनुत्तमः । स पुत्र-दाराः काकुत्स्थ समागच्छाम सत्-पथम् ॥ ७।१०७।१३ ॥
paureṣu yadi te prītiḥ yadi snehaḥ hi anuttamaḥ . sa putra-dārāḥ kākutstha samāgacchāma sat-patham .. 7.107.13 ..
तपोवनं वा दुर्गं वा नदीमम्भोनिधिं तथा । वयं ते यदि न त्याज्याः सर्वान्नो नय ईश्वर ॥ ७.१०७.१४ ॥
तपोवनम् वा दुर्गम् वा नदीम् अम्भोनिधिम् तथा । वयम् ते यदि न त्याज्याः सर्वान् नः नय ईश्वर ॥ ७।१०७।१४ ॥
tapovanam vā durgam vā nadīm ambhonidhim tathā . vayam te yadi na tyājyāḥ sarvān naḥ naya īśvara .. 7.107.14 ..
एषा नः परमा प्रीतिरेष नः परमो वरः । हृद्गता नः सदा प्रीतिस्तवानुगमने नृप ॥ ७.१०७.१५ ॥
एषा नः परमा प्रीतिः एष नः परमः वरः । हृद्-गता नः सदा प्रीतिः तव अनुगमने नृप ॥ ७।१०७।१५ ॥
eṣā naḥ paramā prītiḥ eṣa naḥ paramaḥ varaḥ . hṛd-gatā naḥ sadā prītiḥ tava anugamane nṛpa .. 7.107.15 ..
पौराणां दृढभक्तिं च बाढमित्येव सो ऽब्रवीत् । स्वकृतान्तं चान्ववेक्ष्य तस्मिन्नहनि राघवः ॥ ७.१०७.१६ ॥
पौराणाम् दृढ-भक्तिम् च बाढम् इति एव सः अब्रवीत् । स्व-कृतान्तम् च अन्ववेक्ष्य तस्मिन् अहनि राघवः ॥ ७।१०७।१६ ॥
paurāṇām dṛḍha-bhaktim ca bāḍham iti eva saḥ abravīt . sva-kṛtāntam ca anvavekṣya tasmin ahani rāghavaḥ .. 7.107.16 ..
कोसलेषु कुशं वीरमुत्तरेषु तथा लवम् । अभिषिच्य महात्मानावुभौ रामः कुशीलवौ ॥ ७.१०७.१७ ॥
कोसलेषु कुशम् वीरम् उत्तरेषु तथा लवम् । अभिषिच्य महात्मानौ उभौ रामः कुशीलवौ ॥ ७।१०७।१७ ॥
kosaleṣu kuśam vīram uttareṣu tathā lavam . abhiṣicya mahātmānau ubhau rāmaḥ kuśīlavau .. 7.107.17 ..
अभिषिक्तौ सुतावङ्के प्रतिष्ठाप्य पुरे ततः । परिष्वज्य महाबाहुर्मूर्ध्न्युपाघ्राय चासकृत् ॥ ७.१०७.१८ ॥
अभिषिक्तौ सुतौ अङ्के प्रतिष्ठाप्य पुरे ततस् । परिष्वज्य महा-बाहुः मूर्ध्नि उपाघ्राय च असकृत् ॥ ७।१०७।१८ ॥
abhiṣiktau sutau aṅke pratiṣṭhāpya pure tatas . pariṣvajya mahā-bāhuḥ mūrdhni upāghrāya ca asakṛt .. 7.107.18 ..
रथानां तु सहस्राणि नागानामयुतानि च । दशायुतानि चाश्वानामेकैकस्य धनं ददौ ॥ ७.१०७.१९ ॥
रथानाम् तु सहस्राणि नागानाम् अयुतानि च । दश अयुतानि च अश्वानाम् एकैकस्य धनम् ददौ ॥ ७।१०७।१९ ॥
rathānām tu sahasrāṇi nāgānām ayutāni ca . daśa ayutāni ca aśvānām ekaikasya dhanam dadau .. 7.107.19 ..
बहुरत्नौ बहुधनौ हृष्टपुष्टजनावृतौ । स्वे पुरे प्रेषयामास भ्रातरौ तु कुशीलवौ ॥ ७.१०७.२० ॥
बहु-रत्नौ बहु-धनौ हृष्ट-पुष्ट-जन-आवृतौ । स्वे पुरे प्रेषयामास भ्रातरौ तु कुशीलवौ ॥ ७।१०७।२० ॥
bahu-ratnau bahu-dhanau hṛṣṭa-puṣṭa-jana-āvṛtau . sve pure preṣayāmāsa bhrātarau tu kuśīlavau .. 7.107.20 ..
अभिषिच्य सुतौ वीरौ प्रतिष्ठाप्य पुरे तदा । दूतान्सम्प्रेषयामास शत्रुघ्नाय महात्मने ॥ ७.१०७.२१ ॥
अभिषिच्य सुतौ वीरौ प्रतिष्ठाप्य पुरे तदा । दूतान् सम्प्रेषयामास शत्रुघ्नाय महात्मने ॥ ७।१०७।२१ ॥
abhiṣicya sutau vīrau pratiṣṭhāpya pure tadā . dūtān sampreṣayāmāsa śatrughnāya mahātmane .. 7.107.21 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे सप्तोत्तरशततमः सर्गः ॥ १०७ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे सप्तोत्तरशततमः सर्गः ॥ १०७ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe saptottaraśatatamaḥ sargaḥ .. 107 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In