This overlay will guide you through the buttons:

| |
|
प्रभातायां तु शर्वर्यां पृथुवक्षा महायशाः । रामः कमलपत्राक्षः पुरोधसमथाब्रवीत् ॥ ७.१०९.१ ॥
प्रभातायाम् तु शर्वर्याम् पृथु-वक्षाः महा-यशाः । रामः कमल-पत्र-अक्षः पुरोधसम् अथ अब्रवीत् ॥ ७।१०९।१ ॥
prabhātāyām tu śarvaryām pṛthu-vakṣāḥ mahā-yaśāḥ . rāmaḥ kamala-patra-akṣaḥ purodhasam atha abravīt .. 7.109.1 ..
अग्निहोत्रं व्रजत्वग्रे दीप्यमानं सह द्विजैः । वाजपेयातपत्रं च शोभमानं महापथे ॥ ७.१०९.२ ॥
अग्निहोत्रम् व्रजतु अग्रे दीप्यमानम् सह द्विजैः । वाजपेय-आतपत्रम् च शोभमानम् महापथे ॥ ७।१०९।२ ॥
agnihotram vrajatu agre dīpyamānam saha dvijaiḥ . vājapeya-ātapatram ca śobhamānam mahāpathe .. 7.109.2 ..
ततो वसिष्ठस्तेजस्वी सर्वं निरवशेषतः । चकार विधिवद्धर्मं महाप्रास्थानिकं विधिम् ॥ ७.१०९.३ ॥
ततस् वसिष्ठः तेजस्वी सर्वम् निरवशेषतः । चकार विधिवत् धर्मम् महाप्रास्थानिकम् विधिम् ॥ ७।१०९।३ ॥
tatas vasiṣṭhaḥ tejasvī sarvam niravaśeṣataḥ . cakāra vidhivat dharmam mahāprāsthānikam vidhim .. 7.109.3 ..
ततः सूक्ष्माम्बरधरो ब्रह्ममावर्तयन्परम् । कुशान्गृहीत्वा पाणिभ्यां प्रसज्य प्रययावथ ॥ ७.१०९.४ ॥
ततस् सूक्ष्म-अम्बर-धरः ब्रह्मम् आवर्तयन् परम् । कुशान् गृहीत्वा पाणिभ्याम् प्रसज्य प्रययौ अथ ॥ ७।१०९।४ ॥
tatas sūkṣma-ambara-dharaḥ brahmam āvartayan param . kuśān gṛhītvā pāṇibhyām prasajya prayayau atha .. 7.109.4 ..
अव्याहरन्क्वचित्किञ्चिन्निश्चेष्टो निःसुखः पथि । निर्जगाम गृहात्तस्माद्दीप्यमान इवांशुमान् ॥ ७.१०९.५ ॥
अ व्याहरन् क्वचिद् किञ्चिद् निश्चेष्टः निःसुखः पथि । निर्जगाम गृहात् तस्मात् दीप्यमानः इव अंशुमान् ॥ ७।१०९।५ ॥
a vyāharan kvacid kiñcid niśceṣṭaḥ niḥsukhaḥ pathi . nirjagāma gṛhāt tasmāt dīpyamānaḥ iva aṃśumān .. 7.109.5 ..
रामस्य दक्षिणे पार्श्वे सपद्मा श्रीरपाश्रिता । सव्ये तु ह्रीर्महादेवी व्यवसायस्तथाग्रतः ॥ ७.१०९.६ ॥
रामस्य दक्षिणे पार्श्वे स पद्मा श्रीः अपाश्रिता । सव्ये तु ह्रीः महादेवी व्यवसायः तथा अग्रतस् ॥ ७।१०९।६ ॥
rāmasya dakṣiṇe pārśve sa padmā śrīḥ apāśritā . savye tu hrīḥ mahādevī vyavasāyaḥ tathā agratas .. 7.109.6 ..
शरा नानाविधाश्चापि धनुरायतमुत्तमम् । तथा ऽ ऽयुधानि ते सर्वे ययुः पुरुषविग्रहाः ॥ ७.१०९.७ ॥
शराः नानाविधाः च अपि धनुः आयतम् उत्तमम् । तथा ते सर्वे ययुः पुरुष-विग्रहाः ॥ ७।१०९।७ ॥
śarāḥ nānāvidhāḥ ca api dhanuḥ āyatam uttamam . tathā te sarve yayuḥ puruṣa-vigrahāḥ .. 7.109.7 ..
वेदा ब्राह्मणरूपेण गायत्री सर्वरक्षिणी । ओङ्कारो ऽथ वषट्कारः सर्वे राममनुव्रताः ॥ ७.१०९.८ ॥
वेदाः ब्राह्मण-रूपेण गायत्री सर्व-रक्षिणी । ओङ्कारः अथ वषट्कारः सर्वे रामम् अनुव्रताः ॥ ७।१०९।८ ॥
vedāḥ brāhmaṇa-rūpeṇa gāyatrī sarva-rakṣiṇī . oṅkāraḥ atha vaṣaṭkāraḥ sarve rāmam anuvratāḥ .. 7.109.8 ..
ऋषयश्च महात्मानः सर्व एव महीसुराः । अन्वगच्छन्महात्मानं स्वर्गद्वारमपावृतम् ॥ ७.१०९.९ ॥
ऋषयः च महात्मानः सर्वे एव महीसुराः । अन्वगच्छत् महात्मानम् स्वर्ग-द्वारम् अपावृतम् ॥ ७।१०९।९ ॥
ṛṣayaḥ ca mahātmānaḥ sarve eva mahīsurāḥ . anvagacchat mahātmānam svarga-dvāram apāvṛtam .. 7.109.9 ..
तं यान्तमनुगच्छन्ति ह्यन्तःपुरचराः स्त्रियः । सवृद्धबालदासीकाः सवर्षवरकिङ्कराः ॥ ७.१०९.१० ॥
तम् यान्तम् अनुगच्छन्ति हि अन्तःपुरचराः स्त्रियः । स वृद्ध-बाल-दासीकाः स वर्ष-वर-किङ्कराः ॥ ७।१०९।१० ॥
tam yāntam anugacchanti hi antaḥpuracarāḥ striyaḥ . sa vṛddha-bāla-dāsīkāḥ sa varṣa-vara-kiṅkarāḥ .. 7.109.10 ..
सान्तःपुरश्च भरतः शत्रुघ्नसहितो ययौ । रामं गतिमुपागम्य साग्निहोत्रमनुव्रतः ॥ ७.१०९.११ ॥
स अन्तःपुरः च भरतः शत्रुघ्न-सहितः ययौ । रामम् गतिम् उपागम्य स अग्निहोत्रम् अनुव्रतः ॥ ७।१०९।११ ॥
sa antaḥpuraḥ ca bharataḥ śatrughna-sahitaḥ yayau . rāmam gatim upāgamya sa agnihotram anuvrataḥ .. 7.109.11 ..
ते च सर्वे महात्मानः साग्निहोत्राः समागताः । सपुत्रदाराः काकुत्स्थमनुजग्मुर्महामतिम् ॥ ७.१०९.१२ ॥
ते च सर्वे महात्मानः स अग्निहोत्राः समागताः । स पुत्र-दाराः काकुत्स्थम् अनुजग्मुः महामतिम् ॥ ७।१०९।१२ ॥
te ca sarve mahātmānaḥ sa agnihotrāḥ samāgatāḥ . sa putra-dārāḥ kākutstham anujagmuḥ mahāmatim .. 7.109.12 ..
मन्त्रिणो भृत्यवर्गाश्च सपुत्रपशुबान्धवाः । सर्वे सहानुगा राममन्वगच्छन्प्रहृष्टवत् ॥ ७.१०९.१३ ॥
मन्त्रिणः भृत्य-वर्गाः च स पुत्र-पशु-बान्धवाः । सर्वे सह अनुगाः रामम् अन्वगच्छन् प्रहृष्ट-वत् ॥ ७।१०९।१३ ॥
mantriṇaḥ bhṛtya-vargāḥ ca sa putra-paśu-bāndhavāḥ . sarve saha anugāḥ rāmam anvagacchan prahṛṣṭa-vat .. 7.109.13 ..
ततः सर्वाः प्रकृतयो हृष्टपुष्टजनावृताः । गच्छन्तमन्वगछंस्तं राघवं गुणरञ्जिताः ॥ ७.१०९.१४ ॥
ततस् सर्वाः प्रकृतयः हृष्ट-पुष्ट-जन-आवृताः । गच्छन्तम् अन्वगच्छन् तम् राघवम् गुण-रञ्जिताः ॥ ७।१०९।१४ ॥
tatas sarvāḥ prakṛtayaḥ hṛṣṭa-puṣṭa-jana-āvṛtāḥ . gacchantam anvagacchan tam rāghavam guṇa-rañjitāḥ .. 7.109.14 ..
ततः सस्त्रीपुमांसस्ते सपक्षिपशुवाहनाः । राघवस्यानुगाः सर्वे हृष्टा विगतकल्मषाः ॥ ७.१०९.१५ ॥
ततस् स स्त्री-पुमांसः ते स पक्षि-पशु-वाहनाः । राघवस्य अनुगाः सर्वे हृष्टाः विगत-कल्मषाः ॥ ७।१०९।१५ ॥
tatas sa strī-pumāṃsaḥ te sa pakṣi-paśu-vāhanāḥ . rāghavasya anugāḥ sarve hṛṣṭāḥ vigata-kalmaṣāḥ .. 7.109.15 ..
स्नाताः प्रमुदिताः सर्वे हृष्टाः पुष्टाश्च वानराः । दृढं किलकिलाशब्दैः सर्वं राममनुव्रतम् ॥ ७.१०९.१६ ॥
स्नाताः प्रमुदिताः सर्वे हृष्टाः पुष्टाः च वानराः । दृढम् किलकिला-शब्दैः सर्वम् रामम् अनुव्रतम् ॥ ७।१०९।१६ ॥
snātāḥ pramuditāḥ sarve hṛṣṭāḥ puṣṭāḥ ca vānarāḥ . dṛḍham kilakilā-śabdaiḥ sarvam rāmam anuvratam .. 7.109.16 ..
न तत्र कश्चिद्दीनो वा व्रीडितो वा ऽपि दुःखितः । हृष्टं समुदितं सर्वं बभूव परमाद्भुतम् ॥ ७.१०९.१७ ॥
न तत्र कश्चिद् दीनः वा व्रीडितः वा अपि दुःखितः । हृष्टम् समुदितम् सर्वम् बभूव परम-अद्भुतम् ॥ ७।१०९।१७ ॥
na tatra kaścid dīnaḥ vā vrīḍitaḥ vā api duḥkhitaḥ . hṛṣṭam samuditam sarvam babhūva parama-adbhutam .. 7.109.17 ..
द्रष्टुकामो ऽथ निर्यान्तं रामं जानपदो जनः । यः प्राप्तः सो ऽपि दृष्ट्वैव स्वर्गायानुगतो मुदा ॥ ७.१०९.१८ ॥
द्रष्टु-कामः अथ निर्यान्तम् रामम् जानपदः जनः । यः प्राप्तः सः अपि दृष्ट्वा एव स्वर्गाय अनुगतः मुदा ॥ ७।१०९।१८ ॥
draṣṭu-kāmaḥ atha niryāntam rāmam jānapadaḥ janaḥ . yaḥ prāptaḥ saḥ api dṛṣṭvā eva svargāya anugataḥ mudā .. 7.109.18 ..
ऋक्षवानररक्षांसि जनाश्च पुरवासिनः । आगच्छन्परया भक्त्या पृष्ठतः सुसमाहिताः ॥ ७.१०९.१९ ॥
ऋक्ष-वानर-रक्षांसि जनाः च पुर-वासिनः । आगच्छन् परया भक्त्या पृष्ठतस् सु समाहिताः ॥ ७।१०९।१९ ॥
ṛkṣa-vānara-rakṣāṃsi janāḥ ca pura-vāsinaḥ . āgacchan parayā bhaktyā pṛṣṭhatas su samāhitāḥ .. 7.109.19 ..
यानि भूतानि नगरे ऽप्यन्तर्धानगतानि च । राघवं तान्यनुययुः स्वर्गाय समुपस्थितम् ॥ ७.१०९.२० ॥
यानि भूतानि नगरे अपि अन्तर्धान-गतानि च । राघवम् तानि अनुययुः स्वर्गाय समुपस्थितम् ॥ ७।१०९।२० ॥
yāni bhūtāni nagare api antardhāna-gatāni ca . rāghavam tāni anuyayuḥ svargāya samupasthitam .. 7.109.20 ..
यानि पश्यन्ति काकुत्स्थं स्थावराणि चराणि च । सर्वाणि रामगमने ह्यनुजग्मुर्हि तान्यपि ॥ ७.१०९.२१ ॥
यानि पश्यन्ति काकुत्स्थम् स्थावराणि चराणि च । सर्वाणि राम-गमने हि अनुजग्मुः हि तानि अपि ॥ ७।१०९।२१ ॥
yāni paśyanti kākutstham sthāvarāṇi carāṇi ca . sarvāṇi rāma-gamane hi anujagmuḥ hi tāni api .. 7.109.21 ..
नोच्छ्वसत्तदयोध्यायां सुसूक्ष्ममपि दृश्यते । तिर्यग्योनिगताश्चापि सर्वे राममनुव्रताः ॥ ७.१०९.२२ ॥
न उच्छ्वसत् तत् अयोध्यायाम् सु सूक्ष्मम् अपि दृश्यते । तिर्यग्योनि-गताः च अपि सर्वे रामम् अनुव्रताः ॥ ७।१०९।२२ ॥
na ucchvasat tat ayodhyāyām su sūkṣmam api dṛśyate . tiryagyoni-gatāḥ ca api sarve rāmam anuvratāḥ .. 7.109.22 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे नवाधिकशततमः सर्गः ॥ १०९ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे नव-अधिक-शततमः सर्गः ॥ १०९ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe nava-adhika-śatatamaḥ sargaḥ .. 109 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In