This overlay will guide you through the buttons:

| |
|
सुमाली वरलब्धांस्तु ज्ञात्वा चैतान्निशाचरान् । उदतिष्ठद्भयं त्यक्त्वा सानुगः स रसातलात् ॥ ७.११.१ ॥
सुमाली वर-लब्धान् तु ज्ञात्वा च एतान् निशाचरान् । उदतिष्ठत् भयम् त्यक्त्वा स अनुगः स रसातलात् ॥ ७।११।१ ॥
sumālī vara-labdhān tu jñātvā ca etān niśācarān . udatiṣṭhat bhayam tyaktvā sa anugaḥ sa rasātalāt .. 7.11.1 ..
मारीचश्च प्रहस्तश्च विरूपाक्षो महोदरः । उदतिष्ठन्सुसंरब्धाः सचिवास्तस्य रक्षसः ॥ ७.११.२ ॥
मारीचः च प्रहस्तः च विरूपाक्षः महोदरः । उदतिष्ठन् सु संरब्धाः सचिवाः तस्य रक्षसः ॥ ७।११।२ ॥
mārīcaḥ ca prahastaḥ ca virūpākṣaḥ mahodaraḥ . udatiṣṭhan su saṃrabdhāḥ sacivāḥ tasya rakṣasaḥ .. 7.11.2 ..
सुमाली सचिवैः सार्धं वृतो राक्षसपुङ्गवैः । अभिगम्य दशग्रीवं परिष्वज्येदमब्रवीत् ॥ ७.११.३ ॥
सुमाली सचिवैः सार्धम् वृतः राक्षस-पुङ्गवैः । अभिगम्य दशग्रीवम् परिष्वज्य इदम् अब्रवीत् ॥ ७।११।३ ॥
sumālī sacivaiḥ sārdham vṛtaḥ rākṣasa-puṅgavaiḥ . abhigamya daśagrīvam pariṣvajya idam abravīt .. 7.11.3 ..
दिष्ट्या ते वत्स सम्प्राप्तश्चिन्तितो ऽयं मनोरथः । यस्त्वं त्रिभुवनश्रेष्ठाल्लब्धवान्वरमुत्तमम् ॥ ७.११.४ ॥
दिष्ट्या ते वत्स सम्प्राप्तः चिन्तितः अयम् मनोरथः । यः त्वम् त्रिभुवन-श्रेष्ठात् लब्धवान् वरम् उत्तमम् ॥ ७।११।४ ॥
diṣṭyā te vatsa samprāptaḥ cintitaḥ ayam manorathaḥ . yaḥ tvam tribhuvana-śreṣṭhāt labdhavān varam uttamam .. 7.11.4 ..
यत्कृते च वयं लङ्कां त्यकत्वा याता रसातलम् । तद्गतं नो महाबाहो महद्विष्णुकृतं भयम् ॥ ७.११.५ ॥
यत्कृते च वयम् लङ्काम् याताः रसातलम् । तत् गतम् नः महा-बाहो महत् विष्णु-कृतम् भयम् ॥ ७।११।५ ॥
yatkṛte ca vayam laṅkām yātāḥ rasātalam . tat gatam naḥ mahā-bāho mahat viṣṇu-kṛtam bhayam .. 7.11.5 ..
असकृत्तद्भयाद्भीताः परित्यज्य स्वमालयम् । विद्रुताः सहिताः सर्वे प्रविष्टाः स्म रसातलम् ॥ ७.११.६ ॥
असकृत् तद्-भयात् भीताः परित्यज्य स्वम् आलयम् । विद्रुताः सहिताः सर्वे प्रविष्टाः स्म रसातलम् ॥ ७।११।६ ॥
asakṛt tad-bhayāt bhītāḥ parityajya svam ālayam . vidrutāḥ sahitāḥ sarve praviṣṭāḥ sma rasātalam .. 7.11.6 ..
अस्मदीया च लङ्केयं नगरी राक्षसोचिता । निवेशिता तव भ्रात्रा धनाध्यक्षेण धीमता ॥ ७.११.७ ॥
अस्मदीया च लङ्का इयम् नगरी राक्षस-उचिता । निवेशिता तव भ्रात्रा धनाध्यक्षेण धीमता ॥ ७।११।७ ॥
asmadīyā ca laṅkā iyam nagarī rākṣasa-ucitā . niveśitā tava bhrātrā dhanādhyakṣeṇa dhīmatā .. 7.11.7 ..
यदि नामात्र शक्यं स्यात्साम्ना दानेन वानघ । तरसा वा महाबाहो प्रत्यानेतुं कृतं भवेत् ॥ ७.११.८ ॥
यदि नाम अत्र शक्यम् स्यात् साम्ना दानेन वा अनघ । तरसा वा महा-बाहो प्रत्यानेतुम् कृतम् भवेत् ॥ ७।११।८ ॥
yadi nāma atra śakyam syāt sāmnā dānena vā anagha . tarasā vā mahā-bāho pratyānetum kṛtam bhavet .. 7.11.8 ..
त्वं तु लङ्केश्वरस्तात भविष्यसि न संशयः । त्वया राक्षसवंशो ऽयं निमग्नो ऽपि समुद्धृतः । सर्वेषां नः प्रभुश्चैव भविष्यसि महाबल ॥ ७.११.९ ॥
त्वम् तु लङ्केश्वरः तात भविष्यसि न संशयः । त्वया राक्षस-वंशः अयम् निमग्नः अपि समुद्धृतः । सर्वेषाम् नः प्रभुः च एव भविष्यसि महा-बल ॥ ७।११।९ ॥
tvam tu laṅkeśvaraḥ tāta bhaviṣyasi na saṃśayaḥ . tvayā rākṣasa-vaṃśaḥ ayam nimagnaḥ api samuddhṛtaḥ . sarveṣām naḥ prabhuḥ ca eva bhaviṣyasi mahā-bala .. 7.11.9 ..
अथाब्रवीद्दशग्रीवो मातामहमुपस्थितम् । वित्तेशो गुरुरस्माकं नार्हसे वक्तुमीदृशम् ॥ ७.११.१० ॥
अथ अब्रवीत् दशग्रीवः मातामहम् उपस्थितम् । वित्तेशः गुरुः अस्माकम् ना अर्हसे वक्तुम् ईदृशम् ॥ ७।११।१० ॥
atha abravīt daśagrīvaḥ mātāmaham upasthitam . vitteśaḥ guruḥ asmākam nā arhase vaktum īdṛśam .. 7.11.10 ..
साम्नापि राक्षसेन्द्रेण प्रत्याख्यातो गरीयसा । किञ्चिन्नाह तदा रक्षो ज्ञात्वा तस्य चकीर्षितम् ॥ ७.११.११ ॥
साम्ना अपि राक्षस-इन्द्रेण प्रत्याख्यातः गरीयसा । किञ्चिद् ना आह तदा रक्षः ज्ञात्वा तस्य चकीर्षितम् ॥ ७।११।११ ॥
sāmnā api rākṣasa-indreṇa pratyākhyātaḥ garīyasā . kiñcid nā āha tadā rakṣaḥ jñātvā tasya cakīrṣitam .. 7.11.11 ..
कस्यचित्त्वथ कालस्य वसन्तं रावणं ततः । उक्तवन्तं तथा वाक्यं दशग्रीवं निशाचरः ॥ ७.११.१२ ॥
कस्यचिद् तु अथ कालस्य वसन्तम् रावणम् ततस् । उक्तवन्तम् तथा वाक्यम् दशग्रीवम् निशाचरः ॥ ७।११।१२ ॥
kasyacid tu atha kālasya vasantam rāvaṇam tatas . uktavantam tathā vākyam daśagrīvam niśācaraḥ .. 7.11.12 ..
प्रहस्तः प्रश्रितं वाक्यमिदमाह स कारणम् ॥ ७.११.१३ ॥
प्रहस्तः प्रश्रितम् वाक्यम् इदम् आह स कारणम् ॥ ७।११।१३ ॥
prahastaḥ praśritam vākyam idam āha sa kāraṇam .. 7.11.13 ..
दशग्रीव महाबाहो नार्हस्त्वं वक्तुमीदृशम् । सौभ्रात्रं नास्ति शूराणां शृणु चेदं वचो मम ॥ ७.११.१४ ॥
दशग्रीव महा-बाहो न अर्हः त्वम् वक्तुम् ईदृशम् । सौभ्रात्रम् ना अस्ति शूराणाम् शृणु च इदम् वचः मम ॥ ७।११।१४ ॥
daśagrīva mahā-bāho na arhaḥ tvam vaktum īdṛśam . saubhrātram nā asti śūrāṇām śṛṇu ca idam vacaḥ mama .. 7.11.14 ..
अदितिश्च दितिश्चैव भगिन्यौ सहिते हि ते । भार्ये परमरूपिण्यौ कश्यपस्य प्रजापतेः ॥ ७.११.१५ ॥
अदितिः च दितिः च एव भगिन्यौ सहिते हि ते । भार्ये परम-रूपिण्यौ कश्यपस्य प्रजापतेः ॥ ७।११।१५ ॥
aditiḥ ca ditiḥ ca eva bhaginyau sahite hi te . bhārye parama-rūpiṇyau kaśyapasya prajāpateḥ .. 7.11.15 ..
अदितिर्जनयामास देवांस्त्रिभुवनेश्वरान् । दितिस्त्वजनयत्पुत्रान्कश्यपस्यात्मसम्भवान् ॥ ७.११.१६ ॥
अदितिः जनयामास देवान् त्रिभुवन-ईश्वरान् । दितिः तु अजनयत् पुत्रान् कश्यपस्य आत्मसम्भवान् ॥ ७।११।१६ ॥
aditiḥ janayāmāsa devān tribhuvana-īśvarān . ditiḥ tu ajanayat putrān kaśyapasya ātmasambhavān .. 7.11.16 ..
दैत्यानां किल धर्मज्ञ पुरीयं सवनार्णवा । सपर्वता मही वीर ते ऽभवन्प्रभविष्णवः ॥ ७.११.१७ ॥
दैत्यानाम् किल धर्म-ज्ञ पुरी इयम् स वन-अर्णवा । स पर्वता मही वीर ते अभवन् प्रभविष्णवः ॥ ७।११।१७ ॥
daityānām kila dharma-jña purī iyam sa vana-arṇavā . sa parvatā mahī vīra te abhavan prabhaviṣṇavaḥ .. 7.11.17 ..
निहत्य तांस्तु समरे विष्णुना प्रभविष्णुना । देवानां वशमानीतं त्रैलोक्यमिदमव्ययम् ॥ ७.११.१८ ॥
निहत्य तान् तु समरे विष्णुना प्रभविष्णुना । देवानाम् वशम् आनीतम् त्रैलोक्यम् इदम् अव्ययम् ॥ ७।११।१८ ॥
nihatya tān tu samare viṣṇunā prabhaviṣṇunā . devānām vaśam ānītam trailokyam idam avyayam .. 7.11.18 ..
नैतदेको भवानेव करिष्यति विपर्ययम् । सुरासुरैराचरितं तत्कुरुष्व वचो मम ॥ ७.११.१९ ॥
न एतत् एकः भवान् एव करिष्यति विपर्ययम् । सुर-असुरैः आचरितम् तत् कुरुष्व वचः मम ॥ ७।११।१९ ॥
na etat ekaḥ bhavān eva kariṣyati viparyayam . sura-asuraiḥ ācaritam tat kuruṣva vacaḥ mama .. 7.11.19 ..
एवमुक्तो दशग्रीवः प्रहृष्टेनान्तरात्मना । चिन्तयित्वा मुहूर्तं वै बाढमित्येव सो ऽब्रवीत् ॥ ७.११.२० ॥
एवम् उक्तः दशग्रीवः प्रहृष्टेन अन्तरात्मना । चिन्तयित्वा मुहूर्तम् वै बाढम् इति एव सः अब्रवीत् ॥ ७।११।२० ॥
evam uktaḥ daśagrīvaḥ prahṛṣṭena antarātmanā . cintayitvā muhūrtam vai bāḍham iti eva saḥ abravīt .. 7.11.20 ..
स तु तेनैव हर्षेण तस्मिन्नहनि वीर्यवान् । वनं गतो दशग्रीवः सह तैः क्षणदाचरैः ॥ ७.११.२१ ॥
स तु तेन एव हर्षेण तस्मिन् अहनि वीर्यवान् । वनम् गतः दशग्रीवः सह तैः क्षणदाचरैः ॥ ७।११।२१ ॥
sa tu tena eva harṣeṇa tasmin ahani vīryavān . vanam gataḥ daśagrīvaḥ saha taiḥ kṣaṇadācaraiḥ .. 7.11.21 ..
त्रिकूटस्थः स तु तदा दशग्रीवो निशाचरः । प्रेषयामास दौत्येन प्रहस्तं वाक्यकोविदम् ॥ ७.११.२२ ॥
त्रिकूट-स्थः स तु तदा दशग्रीवः निशाचरः । प्रेषयामास दौत्येन प्रहस्तम् वाक्य-कोविदम् ॥ ७।११।२२ ॥
trikūṭa-sthaḥ sa tu tadā daśagrīvaḥ niśācaraḥ . preṣayāmāsa dautyena prahastam vākya-kovidam .. 7.11.22 ..
प्रहस्त शीघ्रं गच्छ त्वं ब्रूहि नैर्ऋतपुङ्गवम् । वचसा मम वित्तेशं सामपूर्वमिदं वचः ॥ ७.११.२३ ॥
प्रहस्त शीघ्रम् गच्छ त्वम् ब्रूहि नैरृत-पुङ्गवम् । वचसा मम वित्त ईशम् साम-पूर्वम् इदम् वचः ॥ ७।११।२३ ॥
prahasta śīghram gaccha tvam brūhi nairṛta-puṅgavam . vacasā mama vitta īśam sāma-pūrvam idam vacaḥ .. 7.11.23 ..
इयं लङ्का पुरी राजन्राक्षसानां महात्मनाम् । त्वया निवेशिता सौम्य नैतद्युक्तं तवानघ ॥ ७.११.२४ ॥
इयम् लङ्का पुरी राजन् राक्षसानाम् महात्मनाम् । त्वया निवेशिता सौम्य न एतत् युक्तम् तव अनघ ॥ ७।११।२४ ॥
iyam laṅkā purī rājan rākṣasānām mahātmanām . tvayā niveśitā saumya na etat yuktam tava anagha .. 7.11.24 ..
तद्भवान्यदि नो ह्यद्य दद्यादतुलविक्रम । कृता भवेन्मम प्रीतिर्धुर्मश्चैवानुपालितः ॥ ७.११.२५ ॥
तत् भवान् यदि नः हि अद्य दद्यात् अतुल-विक्रम । कृता भवेत् मम प्रीतिः धुर्मः च एव अनुपालितः ॥ ७।११।२५ ॥
tat bhavān yadi naḥ hi adya dadyāt atula-vikrama . kṛtā bhavet mama prītiḥ dhurmaḥ ca eva anupālitaḥ .. 7.11.25 ..
स तु गत्वा पुरीं लङ्कां धनदेन सुरक्षिताम् । अब्रवीत्परमोदारं वित्तपालमिदं वचः ॥ ७.११.२६ ॥
स तु गत्वा पुरीम् लङ्काम् धनदेन सु रक्षिताम् । अब्रवीत् परम-उदारम् वित्तपालम् इदम् वचः ॥ ७।११।२६ ॥
sa tu gatvā purīm laṅkām dhanadena su rakṣitām . abravīt parama-udāram vittapālam idam vacaḥ .. 7.11.26 ..
प्रेषितो ऽहं तव भ्रात्रा दशग्रीवेण सुव्रत । त्वत्समीपं महाबाहो सर्वशस्त्रभृतां वर ॥ ७.११.२७ ॥
प्रेषितः अहम् तव भ्रात्रा दशग्रीवेण सुव्रत । त्वद्-समीपम् महा-बाहो सर्व-शस्त्रभृताम् वर ॥ ७।११।२७ ॥
preṣitaḥ aham tava bhrātrā daśagrīveṇa suvrata . tvad-samīpam mahā-bāho sarva-śastrabhṛtām vara .. 7.11.27 ..
तच्छ्रूयतां महाप्राज्ञ सर्वशास्त्रविशारद । वचनं मम वित्तेश यद्ब्रवीति दशाननः ॥ ७.११.२८ ॥
तत् श्रूयताम् महा-प्राज्ञ सर्व-शास्त्र-विशारद । वचनम् मम वित्तेश यत् ब्रवीति दशाननः ॥ ७।११।२८ ॥
tat śrūyatām mahā-prājña sarva-śāstra-viśārada . vacanam mama vitteśa yat bravīti daśānanaḥ .. 7.11.28 ..
इयं किल पुरी रम्या सुमालिप्रमुखैः पुरा । भुक्तपूर्वा विशालाक्ष राक्षसैर्भीमविक्रमैः ॥ ७.११.२९ ॥
इयम् किल पुरी रम्या सुमालि-प्रमुखैः पुरा । भुक्त-पूर्वा विशाल-अक्ष राक्षसैः भीम-विक्रमैः ॥ ७।११।२९ ॥
iyam kila purī ramyā sumāli-pramukhaiḥ purā . bhukta-pūrvā viśāla-akṣa rākṣasaiḥ bhīma-vikramaiḥ .. 7.11.29 ..
तेन विज्ञाप्यते सो ऽयं साम्प्रतं विश्रवात्मज । तदेषा दीयतां तात याचतस्तस्य सामतः ॥ ७.११.३० ॥
तेन विज्ञाप्यते सः अयम् साम्प्रतम् विश्रव-आत्मज । तत् एषा दीयताम् तात याचतः तस्य सामतः ॥ ७।११।३० ॥
tena vijñāpyate saḥ ayam sāmpratam viśrava-ātmaja . tat eṣā dīyatām tāta yācataḥ tasya sāmataḥ .. 7.11.30 ..
प्रहस्तादभिसंश्रुत्य देवो वैश्रवणो वचः । प्रत्युवाच प्रहस्तं तं वाक्यं वाक्यविशारदः ॥ ७.११.३१ ॥
प्रहस्तात् अभिसंश्रुत्य देवः वैश्रवणः वचः । प्रत्युवाच प्रहस्तम् तम् वाक्यम् वाक्य-विशारदः ॥ ७।११।३१ ॥
prahastāt abhisaṃśrutya devaḥ vaiśravaṇaḥ vacaḥ . pratyuvāca prahastam tam vākyam vākya-viśāradaḥ .. 7.11.31 ..
दत्ता ममेयं पित्रा तु लङ्का शून्या निशाचरैः । निवासिते च मे यक्षैर्दानमानादिभिर्गुणैः ॥ ७.११.३२ ॥
दत्ता मम इयम् पित्रा तु लङ्का शून्या निशाचरैः । निवासिते च मे यक्षैः दान-मान-आदिभिः गुणैः ॥ ७।११।३२ ॥
dattā mama iyam pitrā tu laṅkā śūnyā niśācaraiḥ . nivāsite ca me yakṣaiḥ dāna-māna-ādibhiḥ guṇaiḥ .. 7.11.32 ..
ब्रूहि गच्छ दशग्रीवं पुरं राज्यं च यन्मम । तवाप्येतन्महाबाहो भुङ्क्ष्व राज्यमकण्टकम् ॥ ७.११.३३ ॥
ब्रूहि गच्छ दशग्रीवम् पुरम् राज्यम् च यत् मम । तव अपि एतत् महा-बाहो भुङ्क्ष्व राज्यम् अकण्टकम् ॥ ७।११।३३ ॥
brūhi gaccha daśagrīvam puram rājyam ca yat mama . tava api etat mahā-bāho bhuṅkṣva rājyam akaṇṭakam .. 7.11.33 ..
एवमुक्त्वा धनाध्यक्षो जगाम पितुरन्तिकम् ॥ ७.११.३४ ॥
एवम् उक्त्वा धनाध्यक्षः जगाम पितुः अन्तिकम् ॥ ७।११।३४ ॥
evam uktvā dhanādhyakṣaḥ jagāma pituḥ antikam .. 7.11.34 ..
अभिवाद्य गुरुं प्राह रावणस्य यदीप्सितम् । एष तात दशग्रीवो दूतं प्रेषितवान्मम ॥ ७.११.३५ ॥
अभिवाद्य गुरुम् प्राह रावणस्य यत् ईप्सितम् । एष तात दशग्रीवः दूतम् प्रेषितवान् मम ॥ ७।११।३५ ॥
abhivādya gurum prāha rāvaṇasya yat īpsitam . eṣa tāta daśagrīvaḥ dūtam preṣitavān mama .. 7.11.35 ..
दीयतां नगरी लङ्का पूर्वं रक्षोगणोषिता । मयात्र यदनुष्ठेयं तन्ममाचक्ष्व सुव्रत ॥ ७.११.३६ ॥
दीयताम् नगरी लङ्का पूर्वम् रक्षः-गण-उषिता । मया अत्र यत् अनुष्ठेयम् तत् मम आचक्ष्व सुव्रत ॥ ७।११।३६ ॥
dīyatām nagarī laṅkā pūrvam rakṣaḥ-gaṇa-uṣitā . mayā atra yat anuṣṭheyam tat mama ācakṣva suvrata .. 7.11.36 ..
ब्रह्मर्षिस्त्वेवमुक्तो ऽसौ विश्रवा मुनिपुङ्गवः । प्राञ्जलिं धनदं प्राह शृणु पुत्र वचो मम ॥ ७.११.३७ ॥
ब्रह्मर्षिः तु एवम् उक्तः असौ विश्रवाः मुनि-पुङ्गवः । प्राञ्जलिम् धनदम् प्राह शृणु पुत्र वचः मम ॥ ७।११।३७ ॥
brahmarṣiḥ tu evam uktaḥ asau viśravāḥ muni-puṅgavaḥ . prāñjalim dhanadam prāha śṛṇu putra vacaḥ mama .. 7.11.37 ..
दशग्रीवो महाबाहुरुक्तवान्मम सन्निधौ । मया निर्भर्त्सितश्चासीद्बहुशोक्तः सुदुर्मतिः ॥ ७.११.३८ ॥
दशग्रीवः महा-बाहुः उक्तवान् मम सन्निधौ । मया निर्भर्त्सितः च आसीत् बहुशस् उक्तः सु दुर्मतिः ॥ ७।११।३८ ॥
daśagrīvaḥ mahā-bāhuḥ uktavān mama sannidhau . mayā nirbhartsitaḥ ca āsīt bahuśas uktaḥ su durmatiḥ .. 7.11.38 ..
स क्रोधेन मया चोक्तो ध्वंसते च पुनः पुनः । श्रेयो ऽभियुक्तं धर्म्यं च शृणु पुत्र वचो मम ॥ ७.११.३९ ॥
स क्रोधेन मया च उक्तः ध्वंसते च पुनर् पुनर् । श्रेयः अभियुक्तम् धर्म्यम् च शृणु पुत्र वचः मम ॥ ७।११।३९ ॥
sa krodhena mayā ca uktaḥ dhvaṃsate ca punar punar . śreyaḥ abhiyuktam dharmyam ca śṛṇu putra vacaḥ mama .. 7.11.39 ..
वरप्रदानसम्मूढो मान्या ऽमान्यान् स दुर्मतिः । न वेत्ति मम शापाच्च प्रकृतिं दारुणां गतः ॥ ७.११.४० ॥
वर-प्रदान-सम्मूढः मान्याः अमान्यान् स दुर्मतिः । न वेत्ति मम शापात् च प्रकृतिम् दारुणाम् गतः ॥ ७।११।४० ॥
vara-pradāna-sammūḍhaḥ mānyāḥ amānyān sa durmatiḥ . na vetti mama śāpāt ca prakṛtim dāruṇām gataḥ .. 7.11.40 ..
तस्माद्गच्छ महाबाहो कैलासं धरणीधरम् । निवेशय निवासार्थं त्यक्त्वा लङ्कां सहानुगः ॥ ७.११.४१ ॥
तस्मात् गच्छ महा-बाहो कैलासम् धरणीधरम् । निवेशय निवास-अर्थम् त्यक्त्वा लङ्काम् सहानुगः ॥ ७।११।४१ ॥
tasmāt gaccha mahā-bāho kailāsam dharaṇīdharam . niveśaya nivāsa-artham tyaktvā laṅkām sahānugaḥ .. 7.11.41 ..
तत्र मन्दाकिनी रम्या नदीनामुत्तमा नदी । काञ्चनैः सूर्यसङ्काशैः पङ्कजैः संवृतोदका ॥ ७.११.४२ ॥
तत्र मन्दाकिनी रम्या नदीनाम् उत्तमा नदी । काञ्चनैः सूर्य-सङ्काशैः पङ्कजैः संवृत-उदका ॥ ७।११।४२ ॥
tatra mandākinī ramyā nadīnām uttamā nadī . kāñcanaiḥ sūrya-saṅkāśaiḥ paṅkajaiḥ saṃvṛta-udakā .. 7.11.42 ..
कुमुदैरुत्पलैश्चैव तथा ऽन्यैश्च सुगन्धिभिः ॥ ७.११.४३ ॥
कुमुदैः उत्पलैः च एव तथा अन्यैः च सुगन्धिभिः ॥ ७।११।४३ ॥
kumudaiḥ utpalaiḥ ca eva tathā anyaiḥ ca sugandhibhiḥ .. 7.11.43 ..
तत्र देवाः सगन्धर्वाः साप्सरोरगकिंनराः । विहारशीलाः सततं रमन्ते सर्वदा ऽ ऽश्रिताः ॥ ७.११.४४ ॥
तत्र देवाः स गन्धर्वाः स अप्सरा-उरग-किंनराः । विहार-शीलाः सततम् रमन्ते सर्वदा ॥ ७।११।४४ ॥
tatra devāḥ sa gandharvāḥ sa apsarā-uraga-kiṃnarāḥ . vihāra-śīlāḥ satatam ramante sarvadā .. 7.11.44 ..
न हि क्षमं तवानेन वैरं धनद रक्षसा । जानीषे हि यथा ऽनेन लब्धः परमको वरः ॥ ७.११.४५ ॥
न हि क्षमम् तव अनेन वैरम् धनद रक्षसा । जानीषे हि यथा अनेन लब्धः परमकः वरः ॥ ७।११।४५ ॥
na hi kṣamam tava anena vairam dhanada rakṣasā . jānīṣe hi yathā anena labdhaḥ paramakaḥ varaḥ .. 7.11.45 ..
एवमुक्तो गृहीत्वा ऽ ऽशु तद्वचः पितृगौरवात् । सदारपुत्रः सामान्यः सवाहनधनो गतः ॥ ७.११.४६ ॥
एवम् उक्तः गृहीत्वा तत् वचः पितृ-गौरवात् । स दार-पुत्रः सामान्यः स वाहन-धनः गतः ॥ ७।११।४६ ॥
evam uktaḥ gṛhītvā tat vacaḥ pitṛ-gauravāt . sa dāra-putraḥ sāmānyaḥ sa vāhana-dhanaḥ gataḥ .. 7.11.46 ..
प्रहस्तो ऽथ दशग्रीवं गत्वा वचनमब्रवीत् । प्रहृष्टात्मा महात्मानं सहामात्यं सहानुजम् ॥ ७.११.४७ ॥
प्रहस्तः अथ दशग्रीवम् गत्वा वचनम् अब्रवीत् । प्रहृष्ट-आत्मा महात्मानम् सह अमात्यम् सह अनुजम् ॥ ७।११।४७ ॥
prahastaḥ atha daśagrīvam gatvā vacanam abravīt . prahṛṣṭa-ātmā mahātmānam saha amātyam saha anujam .. 7.11.47 ..
शून्या सा नगरी लङ्का त्यक्त्त्वैनां धनदो गतः । प्रविश्य तां सहास्माभिः स्वधर्मं प्रतिपालय ॥ ७.११.४८ ॥
शून्या सा नगरी लङ्का त्यक्त्वा एनाम् धनदः गतः । प्रविश्य ताम् सह अस्माभिः स्वधर्मम् प्रतिपालय ॥ ७।११।४८ ॥
śūnyā sā nagarī laṅkā tyaktvā enām dhanadaḥ gataḥ . praviśya tām saha asmābhiḥ svadharmam pratipālaya .. 7.11.48 ..
एवमुक्तो दशग्रीवः प्रहस्तेन महाबलः । विवेश नगरीं लङ्कां भ्रातृभिः सबलानुगैः ॥ ७.११.४९ ॥
एवम् उक्तः दशग्रीवः प्रहस्तेन महा-बलः । विवेश नगरीम् लङ्काम् भ्रातृभिः स बल-अनुगैः ॥ ७।११।४९ ॥
evam uktaḥ daśagrīvaḥ prahastena mahā-balaḥ . viveśa nagarīm laṅkām bhrātṛbhiḥ sa bala-anugaiḥ .. 7.11.49 ..
धनदेन परित्यक्तां सुविभक्तमहापथाम् । आरुरोह स देवारिः स्वर्गं देवाधिपो यथा ॥ ७.११.५० ॥
धनदेन परित्यक्ताम् सुविभक्त-महापथाम् । आरुरोह स देव-अरिः स्वर्गम् देव-अधिपः यथा ॥ ७।११।५० ॥
dhanadena parityaktām suvibhakta-mahāpathām . āruroha sa deva-ariḥ svargam deva-adhipaḥ yathā .. 7.11.50 ..
स चाभिषिक्तः क्षणदाचरैस्तदा निवेशयामास पुरीं दशाननः । निकामपूर्णा च बभूव सा पुरी निशाचरैर्नीलबलाहकोपमैः ॥ ७.११.५१ ॥
स च अभिषिक्तः क्षणदाचरैः तदा निवेशयामास पुरीम् दशाननः । निकाम-पूर्णा च बभूव सा पुरी निशाचरैः नील-बलाहक-उपमैः ॥ ७।११।५१ ॥
sa ca abhiṣiktaḥ kṣaṇadācaraiḥ tadā niveśayāmāsa purīm daśānanaḥ . nikāma-pūrṇā ca babhūva sā purī niśācaraiḥ nīla-balāhaka-upamaiḥ .. 7.11.51 ..
धनेश्वरस्त्वथ पितृवाक्यगौरवान्न्यवेशयच्छशिविमले गिरौ पुरीम् । स्वलङ्कृतैर्भवनवरैर्विभूषितां पुरन्दरस्वेव तदा ऽमरावतीम् ॥ ७.११.५२ ॥
धनेश्वरः तु अथ पितृ-वाक्य-गौरवात् न्यवेशयत् शशि-विमले गिरौ पुरीम् । सु अलङ्कृतैः भवन-वरैः विभूषिताम् तदा अमरावतीम् ॥ ७।११।५२ ॥
dhaneśvaraḥ tu atha pitṛ-vākya-gauravāt nyaveśayat śaśi-vimale girau purīm . su alaṅkṛtaiḥ bhavana-varaiḥ vibhūṣitām tadā amarāvatīm .. 7.11.52 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकादशः सर्गः ॥ ११ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे एकादशः सर्गः ॥ ११ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe ekādaśaḥ sargaḥ .. 11 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In