This overlay will guide you through the buttons:

| |
|
अध्यर्धयोजनं गत्वा नदीं पश्चान्मुखाश्रिताम् । सरयूं पुण्यसलिलां ददर्श रघुनन्दनः ॥ ७.११०.१ ॥
अध्यर्ध-योजनम् गत्वा नदीम् पश्चात् मुख-आश्रिताम् । सरयूम् पुण्य-सलिलाम् ददर्श रघुनन्दनः ॥ ७।११०।१ ॥
adhyardha-yojanam gatvā nadīm paścāt mukha-āśritām . sarayūm puṇya-salilām dadarśa raghunandanaḥ .. 7.110.1 ..
तां नदीमाकुलावर्तां सर्वत्रानुसरन्नृपः । आगतः सप्रजो रामस्तं देशं रघुनन्दनः ॥ ७.११०.२ ॥
ताम् नदीम् आकुल-आवर्ताम् सर्वत्र अनुसरन् नृपः । आगतः स प्रजः रामः तम् देशम् रघुनन्दनः ॥ ७।११०।२ ॥
tām nadīm ākula-āvartām sarvatra anusaran nṛpaḥ . āgataḥ sa prajaḥ rāmaḥ tam deśam raghunandanaḥ .. 7.110.2 ..
अथ तस्मिन्मुहूर्ते तु ब्रह्मा लोकपितामहः । सर्वैः परिवृतो देवैर्ऋषिभिश्च महात्मभिः ॥ ७.११०.३ ॥
अथ तस्मिन् मुहूर्ते तु ब्रह्मा लोकपितामहः । सर्वैः परिवृतः देवैः ऋषिभिः च महात्मभिः ॥ ७।११०।३ ॥
atha tasmin muhūrte tu brahmā lokapitāmahaḥ . sarvaiḥ parivṛtaḥ devaiḥ ṛṣibhiḥ ca mahātmabhiḥ .. 7.110.3 ..
आययौ यत्र काकुत्स्थः स्वर्गाय समुपस्थितः । विमानशतकोटीभिर्दिव्याभिरभिसंवृतः ॥ ७.११०.४ ॥
आययौ यत्र काकुत्स्थः स्वर्गाय समुपस्थितः । विमान-शत-कोटीभिः दिव्याभिः अभिसंवृतः ॥ ७।११०।४ ॥
āyayau yatra kākutsthaḥ svargāya samupasthitaḥ . vimāna-śata-koṭībhiḥ divyābhiḥ abhisaṃvṛtaḥ .. 7.110.4 ..
दिव्यतेजोवृतं व्योम ज्योतिर्भूतमनुत्तमम् । स्वयम्प्रभैः स्वतेजोभिः स्वर्गिभिः पुण्यकर्मभिः ॥ ७.११०.५ ॥
दिव्य-तेजः-वृतम् व्योम ज्योतिः-भूतम् अनुत्तमम् । स्वयम्प्रभैः स्व-तेजोभिः स्वर्गिभिः पुण्य-कर्मभिः ॥ ७।११०।५ ॥
divya-tejaḥ-vṛtam vyoma jyotiḥ-bhūtam anuttamam . svayamprabhaiḥ sva-tejobhiḥ svargibhiḥ puṇya-karmabhiḥ .. 7.110.5 ..
पुण्या वाता ववुश्चैव गन्धवन्तः सुखप्रदाः । पपात पुष्पवृष्टिश्च देवैर्मुक्ता महौघवत् ॥ ७.११०.६ ॥
पुण्याः वाताः ववुः च एव गन्धवन्तः सुख-प्रदाः । पपात पुष्प-वृष्टिः च देवैः मुक्ता महा-ओघ-वत् ॥ ७।११०।६ ॥
puṇyāḥ vātāḥ vavuḥ ca eva gandhavantaḥ sukha-pradāḥ . papāta puṣpa-vṛṣṭiḥ ca devaiḥ muktā mahā-ogha-vat .. 7.110.6 ..
तस्मिंस्तूर्यशतैः कीर्णे गन्धर्वाप्सरसङ्कुले । सरयूसलिलं रामः पद्भ्यां समुपचक्रमे ॥ ७.११०.७ ॥
तस्मिन् तूर्य-शतैः कीर्णे गन्धर्व-अप्सरः-सङ्कुले । सरयू-सलिलम् रामः पद्भ्याम् समुपचक्रमे ॥ ७।११०।७ ॥
tasmin tūrya-śataiḥ kīrṇe gandharva-apsaraḥ-saṅkule . sarayū-salilam rāmaḥ padbhyām samupacakrame .. 7.110.7 ..
ततः पितामहो वाणीमन्तरिक्षादभाषत । आगच्छ विष्णो भद्रं ते दिष्ट्या प्राप्तो ऽसि राघव ॥ ७.११०.८ ॥
ततस् पितामहः वाणीम् अन्तरिक्षात् अभाषत । आगच्छ विष्णो भद्रम् ते दिष्ट्या प्राप्तः असि राघव ॥ ७।११०।८ ॥
tatas pitāmahaḥ vāṇīm antarikṣāt abhāṣata . āgaccha viṣṇo bhadram te diṣṭyā prāptaḥ asi rāghava .. 7.110.8 ..
भ्रातृभिः सह देवाभैः प्रविशस्व स्विकां तनुम् । यामिच्छसि महाबाहो तां तनुं प्रविश स्विकाम् । वैष्णवीं तां महातेजस्तद्वाकाशं सनातनम् ॥ ७.११०.९ ॥
भ्रातृभिः सह देव-आभैः प्रविशस्व स्विकाम् तनुम् । याम् इच्छसि महा-बाहो ताम् तनुम् प्रविश स्विकाम् । वैष्णवीम् ताम् महा-तेजः तत् वा आकाशम् सनातनम् ॥ ७।११०।९ ॥
bhrātṛbhiḥ saha deva-ābhaiḥ praviśasva svikām tanum . yām icchasi mahā-bāho tām tanum praviśa svikām . vaiṣṇavīm tām mahā-tejaḥ tat vā ākāśam sanātanam .. 7.110.9 ..
त्वं हि लोकगतिर्देव न त्वां केचित्प्रजानते । ऋते मायां विशालाक्षीं तव पूर्वपरिग्रहाम् । त्वामचिन्त्यं महद्भूतमक्षयं सर्वसङ्ग्रहम् ॥ ७.११०.१० ॥
त्वम् हि लोक-गतिः देव न त्वाम् केचिद् प्रजानते । ऋते मायाम् विशाल-अक्षीम् तव पूर्व-परिग्रहाम् । त्वाम् अचिन्त्यम् महत् भूतम् अक्षयम् सर्व-सङ्ग्रहम् ॥ ७।११०।१० ॥
tvam hi loka-gatiḥ deva na tvām kecid prajānate . ṛte māyām viśāla-akṣīm tava pūrva-parigrahām . tvām acintyam mahat bhūtam akṣayam sarva-saṅgraham .. 7.110.10 ..
यामिच्छसि महातेजस्तां तनुं प्रविश स्वयम् ॥ ७.११०.११ ॥ ां
याम् इच्छसि महा-तेजः ताम् तनुम् प्रविश स्वयम् ॥ ७।११०।११ ॥
yām icchasi mahā-tejaḥ tām tanum praviśa svayam .. 7.110.11 ..
विशालाक्षीं तव पूर्वपरिग्रहाम् । पितामहवचः श्रुत्वा विनिश्चित्य महामतिः । विवेश वैष्णवं तेजः सशरीरः सहानुजः ॥ ७.११०.१२ ॥
विशाल-अक्षीम् तव पूर्व-परिग्रहाम् । पितामह-वचः श्रुत्वा विनिश्चित्य महामतिः । विवेश वैष्णवम् तेजः स शरीरः सहानुजः ॥ ७।११०।१२ ॥
viśāla-akṣīm tava pūrva-parigrahām . pitāmaha-vacaḥ śrutvā viniścitya mahāmatiḥ . viveśa vaiṣṇavam tejaḥ sa śarīraḥ sahānujaḥ .. 7.110.12 ..
ततो विष्णुमयं देवं पूजयन्ति स्म देवताः । साध्या मरुद्गणाश्चैव सेन्द्राः साग्निपुरोगमाः ॥ ७.११०.१३ ॥
ततस् विष्णु-मयम् देवम् पूजयन्ति स्म देवताः । साध्याः मरुत्-गणाः च एव स इन्द्राः स अग्नि-पुरोगमाः ॥ ७।११०।१३ ॥
tatas viṣṇu-mayam devam pūjayanti sma devatāḥ . sādhyāḥ marut-gaṇāḥ ca eva sa indrāḥ sa agni-purogamāḥ .. 7.110.13 ..
ये च दिव्या ऋषिगणा गन्धर्वाप्सरसश्च याः । सुपर्णनागयक्षाश्च दैत्यदानवराक्षसाः ॥ ७.११०.१४ ॥
ये च दिव्याः ऋषि-गणाः गन्धर्व-अप्सरसः च याः । सुपर्ण-नाग-यक्षाः च दैत्य-दानव-राक्षसाः ॥ ७।११०।१४ ॥
ye ca divyāḥ ṛṣi-gaṇāḥ gandharva-apsarasaḥ ca yāḥ . suparṇa-nāga-yakṣāḥ ca daitya-dānava-rākṣasāḥ .. 7.110.14 ..
सर्वं पुष्टं प्रमुदितं सुसम्पूर्णमनोरथम् । साधु साध्विति तैर्देवैस्त्रिदिवं गतकल्मषम् ॥ ७.११०.१५ ॥
सर्वम् पुष्टम् प्रमुदितम् सु सम्पूर्ण-मनोरथम् । साधु साधु इति तैः देवैः त्रिदिवम् गत-कल्मषम् ॥ ७।११०।१५ ॥
sarvam puṣṭam pramuditam su sampūrṇa-manoratham . sādhu sādhu iti taiḥ devaiḥ tridivam gata-kalmaṣam .. 7.110.15 ..
अथ विष्णुर्महातेजाः पितामहमुवाच ह । एषां लोकं जनौघानां दातुमर्हसि सुव्रत ॥ ७.११०.१६ ॥
अथ विष्णुः महा-तेजाः पितामहम् उवाच ह । एषाम् लोकम् जन-ओघानाम् दातुम् अर्हसि सुव्रत ॥ ७।११०।१६ ॥
atha viṣṇuḥ mahā-tejāḥ pitāmaham uvāca ha . eṣām lokam jana-oghānām dātum arhasi suvrata .. 7.110.16 ..
इमे हि सर्वे स्नेहान्मामनुयाता यशस्विनः । भक्ता हि भजितव्याश्च त्यक्तात्मानश्च मत्कृते ॥ ७.११०.१७ ॥
इमे हि सर्वे स्नेहात् माम् अनुयाताः यशस्विनः । भक्ताः हि भजितव्याः च त्यक्त-आत्मानः च मद्-कृते ॥ ७।११०।१७ ॥
ime hi sarve snehāt mām anuyātāḥ yaśasvinaḥ . bhaktāḥ hi bhajitavyāḥ ca tyakta-ātmānaḥ ca mad-kṛte .. 7.110.17 ..
तच्छ्रुत्वा विष्णुवचनं ब्रह्मा लोकगुरुः प्रभुः । लोकान्सान्तानिकान्नाम यास्यन्तीमे समागताः ॥ ७.११०.१८ ॥
तत् श्रुत्वा विष्णु-वचनम् ब्रह्मा लोकगुरुः प्रभुः । लोकान् सान्तानिकान् नाम यास्यन्ति इमे समागताः ॥ ७।११०।१८ ॥
tat śrutvā viṣṇu-vacanam brahmā lokaguruḥ prabhuḥ . lokān sāntānikān nāma yāsyanti ime samāgatāḥ .. 7.110.18 ..
यच्च तिर्यग्गतं किञ्चित्त्वामेवमनुचिन्तयत् । प्राणांस्त्यक्ष्यति भक्त्या वै तत्सन्ताने निवत्स्यति ॥ ७.११०.१९ ॥
यत् च तिर्यग्गतम् किञ्चिद् त्वाम् एवम् अनुचिन्तयत् । प्राणान् त्यक्ष्यति भक्त्या वै तद्-सन्ताने निवत्स्यति ॥ ७।११०।१९ ॥
yat ca tiryaggatam kiñcid tvām evam anucintayat . prāṇān tyakṣyati bhaktyā vai tad-santāne nivatsyati .. 7.110.19 ..
सर्वैर्ब्रह्मगुणैर्युक्ते ब्रह्मलोकादनन्तरे ॥ ७.११०.२० ॥
सर्वैः ब्रह्म-गुणैः युक्ते ब्रह्म-लोकात् अनन्तरे ॥ ७।११०।२० ॥
sarvaiḥ brahma-guṇaiḥ yukte brahma-lokāt anantare .. 7.110.20 ..
वानराश्च स्विकां योनिमृक्षाश्चैव तथा ययुः । येभ्यो विनिस्सृताः सर्वे सुरेभ्यः सुरसम्भवाः ॥ ७.११०.२१ ॥
वानराः च स्विकाम् योनिम् ऋक्षाः च एव तथा ययुः । येभ्यः विनिस्सृताः सर्वे सुरेभ्यः सुर-सम्भवाः ॥ ७।११०।२१ ॥
vānarāḥ ca svikām yonim ṛkṣāḥ ca eva tathā yayuḥ . yebhyaḥ vinissṛtāḥ sarve surebhyaḥ sura-sambhavāḥ .. 7.110.21 ..
तेषु प्रविविशे चैव सुग्रीवः सूर्यमण्डलम् । पश्यतां सर्वदेवानां स्वान्पितऽन्प्रतिपेदिरे ॥ ७.११०.२२ ॥
तेषु प्रविविशे च एव सुग्रीवः सूर्य-मण्डलम् । पश्यताम् सर्व-देवानाम् स्वान् पित प्रतिपेदिरे ॥ ७।११०।२२ ॥
teṣu praviviśe ca eva sugrīvaḥ sūrya-maṇḍalam . paśyatām sarva-devānām svān pita pratipedire .. 7.110.22 ..
तथोक्तवति देवेशे गोप्रतारमुपागताः । भेजिरे सरयूं सर्वे हर्षपूर्णाश्रुविक्लवाः ॥ ७.११०.२३ ॥
तथा उक्तवति देवेशे गोप्रतारम् उपागताः । भेजिरे सरयूम् सर्वे हर्ष-पूर्ण-अश्रु-विक्लवाः ॥ ७।११०।२३ ॥
tathā uktavati deveśe gopratāram upāgatāḥ . bhejire sarayūm sarve harṣa-pūrṇa-aśru-viklavāḥ .. 7.110.23 ..
अवगाह्य जलं यो यः प्राणी ह्यासीत् प्रहृष्टवत् । मानुषं देहमुत्सृज्य विमानं सो ऽध्यरोहत ॥ ७.११०.२४ ॥
अवगाह्य जलम् यः यः प्राणी हि आसीत् प्रहृष्ट-वत् । मानुषम् देहम् उत्सृज्य विमानम् सः अध्यरोहत ॥ ७।११०।२४ ॥
avagāhya jalam yaḥ yaḥ prāṇī hi āsīt prahṛṣṭa-vat . mānuṣam deham utsṛjya vimānam saḥ adhyarohata .. 7.110.24 ..
तिर्यग्योनिगतानां च शतानि सरयूजलम् । सम्प्राप्य त्रिदिवं जग्मुः प्रभासुरवपूंषि च । दिव्या दिव्येन वपुषा देवा दीप्ता इवाभवन् ॥ ७.११०.२५ ॥
तिर्यग्योनि-गतानाम् च शतानि सरयू-जलम् । सम्प्राप्य त्रिदिवम् जग्मुः प्रभासुर-वपूंषि च । दिव्याः दिव्येन वपुषा देवाः दीप्ताः इव अभवन् ॥ ७।११०।२५ ॥
tiryagyoni-gatānām ca śatāni sarayū-jalam . samprāpya tridivam jagmuḥ prabhāsura-vapūṃṣi ca . divyāḥ divyena vapuṣā devāḥ dīptāḥ iva abhavan .. 7.110.25 ..
गत्वा तु सरयूतोयं स्थावराणि चराणि च । प्राप्य तत्तोयविक्लेदं देवलोकमुपागमन् ॥ ७.११०.२६ ॥
गत्वा तु सरयू-तोयम् स्थावराणि चराणि च । प्राप्य तद्-तोय-विक्लेदम् देव-लोकम् उपागमन् ॥ ७।११०।२६ ॥
gatvā tu sarayū-toyam sthāvarāṇi carāṇi ca . prāpya tad-toya-vikledam deva-lokam upāgaman .. 7.110.26 ..
तस्मिन्नपि समापन्ना ऋक्षवानरराक्षसाः । ते ऽपि स्वर्गं प्रविविशुर्देहान्निक्षिप्य चाम्भसि ॥ ७.११०.२७ ॥
तस्मिन् अपि समापन्नाः ऋक्ष-वानर-राक्षसाः । ते अपि स्वर्गम् प्रविविशुः देहान् निक्षिप्य च अम्भसि ॥ ७।११०।२७ ॥
tasmin api samāpannāḥ ṛkṣa-vānara-rākṣasāḥ . te api svargam praviviśuḥ dehān nikṣipya ca ambhasi .. 7.110.27 ..
ततः समागतान्सर्वान्स्थाप्य लोकगुरुर्दिवि । जगाम त्रिदशैः सार्धं सदा हृष्टैर्दिवं महत् ॥ ७.११०.२८ ॥
ततस् समागतान् सर्वान् स्थाप्य लोकगुरुः दिवि । जगाम त्रिदशैः सार्धम् सदा हृष्टैः दिवम् महत् ॥ ७।११०।२८ ॥
tatas samāgatān sarvān sthāpya lokaguruḥ divi . jagāma tridaśaiḥ sārdham sadā hṛṣṭaiḥ divam mahat .. 7.110.28 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे दशाधिकशततमः सर्गः ॥ ११० ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे दश-अधिक-शततमः सर्गः ॥ ११० ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe daśa-adhika-śatatamaḥ sargaḥ .. 110 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In