This overlay will guide you through the buttons:

| |
|
राक्षसेन्द्रो ऽभिषिक्तस्तु भ्रातृभ्यां सहितस्तदा । ततः प्रदानं राक्षस्या भगिन्याः समचिन्तयत् ॥ ७.१२.१ ॥
राक्षस-इन्द्रः अभिषिक्तः तु भ्रातृभ्याम् सहितः तदा । ततस् प्रदानम् राक्षस्याः भगिन्याः समचिन्तयत् ॥ ७।१२।१ ॥
rākṣasa-indraḥ abhiṣiktaḥ tu bhrātṛbhyām sahitaḥ tadā . tatas pradānam rākṣasyāḥ bhaginyāḥ samacintayat .. 7.12.1 ..
स्वसारं कालकेयाय दानवेन्द्राय राक्षसीम् । ददौ शूर्पणखां नाम विद्युज्जिह्वाय नामतः ॥ ७.१२.२ ॥
स्वसारम् कालकेयाय दानव-इन्द्राय राक्षसीम् । ददौ शूर्पणखाम् नाम विद्युज्जिह्वाय नामतः ॥ ७।१२।२ ॥
svasāram kālakeyāya dānava-indrāya rākṣasīm . dadau śūrpaṇakhām nāma vidyujjihvāya nāmataḥ .. 7.12.2 ..
अथ दत्त्वा स्वयं रक्षो मृगयामटते स्म तत् । तत्रापश्यत्ततो राम मयं नाम दितेः सुतम् ॥ ७.१२.३ ॥
अथ दत्त्वा स्वयम् रक्षः मृगयाम् अटते स्म तत् । तत्र अपश्यत् ततस् राम मयम् नाम दितेः सुतम् ॥ ७।१२।३ ॥
atha dattvā svayam rakṣaḥ mṛgayām aṭate sma tat . tatra apaśyat tatas rāma mayam nāma diteḥ sutam .. 7.12.3 ..
कन्यासहायं तं दृष्ट्वा दशग्रीवो निशाचरः । अपृच्छत्को भवानेको निर्मनुष्यमृगे वने । अनया मृगशावाक्ष्या किमर्थं सह तिष्ठसि ॥ ७.१२.४ ॥
कन्या-सहायम् तम् दृष्ट्वा दशग्रीवः निशाचरः । अपृच्छत् कः भवान् एकः निर्मनुष्य-मृगे वने । अनया मृगशावाक्ष्या किमर्थम् सह तिष्ठसि ॥ ७।१२।४ ॥
kanyā-sahāyam tam dṛṣṭvā daśagrīvaḥ niśācaraḥ . apṛcchat kaḥ bhavān ekaḥ nirmanuṣya-mṛge vane . anayā mṛgaśāvākṣyā kimartham saha tiṣṭhasi .. 7.12.4 ..
मयस्तथाब्रवीद्राम पृच्छन्तं तं निशाचरम् । श्रूयतां सर्वमाख्यास्ये यथावृत्तमिदं मम ॥ ७.१२.५ ॥
मयः तथा ब्रवीत् राम पृच्छन्तम् तम् निशाचरम् । श्रूयताम् सर्वम् आख्यास्ये यथावृत्तम् इदम् मम ॥ ७।१२।५ ॥
mayaḥ tathā bravīt rāma pṛcchantam tam niśācaram . śrūyatām sarvam ākhyāsye yathāvṛttam idam mama .. 7.12.5 ..
हेमा नामाप्सरास्तात श्रुतपूर्वा यदि त्वया । दैवतैर्मम सा दत्ता पौलोमीव शतक्रतोः ॥ ७.१२.६ ॥
हेमाः नाम अप्सराः तात श्रुत-पूर्वाः यदि त्वया । दैवतैः मम सा दत्ता पौलोमी इव शतक्रतोः ॥ ७।१२।६ ॥
hemāḥ nāma apsarāḥ tāta śruta-pūrvāḥ yadi tvayā . daivataiḥ mama sā dattā paulomī iva śatakratoḥ .. 7.12.6 ..
तस्यां सक्तमनास्तात पञ्चवर्षशतान्यहम् । सा च दैवतकार्येण त्रयोदश समा गताः ॥ ७.१२.७ ॥
तस्याम् सक्त-मनाः तात पञ्च-वर्ष-शतानि अहम् । सा च दैवत-कार्येण त्रयोदश समाः गताः ॥ ७।१२।७ ॥
tasyām sakta-manāḥ tāta pañca-varṣa-śatāni aham . sā ca daivata-kāryeṇa trayodaśa samāḥ gatāḥ .. 7.12.7 ..
वर्षं चतुर्दशं चैव ततो हेममयं पुरम् । वज्रवैडूर्यचित्रं च मायया निर्मितं मया ॥ ७.१२.८ ॥
वर्षम् चतुर्दशम् च एव ततस् हेम-मयम् पुरम् । वज्र-वैडूर्य-चित्रम् च मायया निर्मितम् मया ॥ ७।१२।८ ॥
varṣam caturdaśam ca eva tatas hema-mayam puram . vajra-vaiḍūrya-citram ca māyayā nirmitam mayā .. 7.12.8 ..
तत्राहमवसं दीनस्तया हीनः सुदुःखितः ॥ ७.१२.९ ॥
तत्र अहम् अवसम् दीनः तया हीनः सु दुःखितः ॥ ७।१२।९ ॥
tatra aham avasam dīnaḥ tayā hīnaḥ su duḥkhitaḥ .. 7.12.9 ..
तस्मात्पुराद्दुहितरं गृहीत्वा वनमागतः । इयं ममात्मजा राजंस्तस्याः कुक्षौ विवर्धिता ॥ ७.१२.१० ॥
तस्मात् पुरात् दुहितरम् गृहीत्वा वनम् आगतः । इयम् मम आत्मजा राजन् तस्याः कुक्षौ विवर्धिता ॥ ७।१२।१० ॥
tasmāt purāt duhitaram gṛhītvā vanam āgataḥ . iyam mama ātmajā rājan tasyāḥ kukṣau vivardhitā .. 7.12.10 ..
भर्तारमनया सार्धमस्याः प्राप्तो ऽस्मि मार्गितुम् । कन्यापितृत्वं दुःखं हि सर्वेषां मानकाङ्क्षिणाम् ॥ ७.१२.११ ॥
भर्तारम् अनया सार्धम् अस्याः प्राप्तः अस्मि मार्गितुम् । कन्या-पितृ-त्वम् दुःखम् हि सर्वेषाम् मान-काङ्क्षिणाम् ॥ ७।१२।११ ॥
bhartāram anayā sārdham asyāḥ prāptaḥ asmi mārgitum . kanyā-pitṛ-tvam duḥkham hi sarveṣām māna-kāṅkṣiṇām .. 7.12.11 ..
कन्या हि द्वे कुले नित्यं संशये स्थाप्य तिष्ठति । पुत्रद्वयं ममाप्यस्यां भार्यायां सम्बभूव ह ॥ ७.१२.१२ ॥
कन्या हि द्वे कुले नित्यम् संशये स्थाप्य तिष्ठति । पुत्र-द्वयम् मम अपि अस्याम् भार्यायाम् सम्बभूव ह ॥ ७।१२।१२ ॥
kanyā hi dve kule nityam saṃśaye sthāpya tiṣṭhati . putra-dvayam mama api asyām bhāryāyām sambabhūva ha .. 7.12.12 ..
मायावी प्रथमस्तात दुन्दुभिस्तदनन्तरः । एवं ते सर्वमाख्यातं याथातथ्येन पृच्छतः ॥ ७.१२.१३ ॥
मायावी प्रथमः तात दुन्दुभिः तद्-अनन्तरः । एवम् ते सर्वम् आख्यातम् याथातथ्येन पृच्छतः ॥ ७।१२।१३ ॥
māyāvī prathamaḥ tāta dundubhiḥ tad-anantaraḥ . evam te sarvam ākhyātam yāthātathyena pṛcchataḥ .. 7.12.13 ..
त्वामिदानीं कथं तात जानीयां को भवानिति । एवमुक्तस्तु तद्रक्षो विनीतमिदमब्रवीत् ॥ ७.१२.१४ ॥
त्वाम् इदानीम् कथम् तात जानीयाम् कः भवान् इति । एवम् उक्तः तु तत् रक्षः विनीतम् इदम् अब्रवीत् ॥ ७।१२।१४ ॥
tvām idānīm katham tāta jānīyām kaḥ bhavān iti . evam uktaḥ tu tat rakṣaḥ vinītam idam abravīt .. 7.12.14 ..
अहं पौलस्त्यतनयो दशग्रीवश्च नामतः । मुनेर्विश्रवसो यस्तु तृतीयो ब्रह्मणो ऽभवत् ॥ ७.१२.१५ ॥
अहम् पौलस्त्य-तनयः दशग्रीवः च नामतः । मुनेः विश्रवसः यः तु तृतीयः ब्रह्मणः अभवत् ॥ ७।१२।१५ ॥
aham paulastya-tanayaḥ daśagrīvaḥ ca nāmataḥ . muneḥ viśravasaḥ yaḥ tu tṛtīyaḥ brahmaṇaḥ abhavat .. 7.12.15 ..
एवमुक्तस्तदा राम राक्षसेन्द्रेण दानवः । महर्षेस्तनयं ज्ञात्वा मयो हर्षमुपागतः । दातुं दुहितरं तस्मै रोचयामास यत्र वै ॥ ७.१२.१६ ॥
एवम् उक्तः तदा राम राक्षस-इन्द्रेण दानवः । महा-ऋषेः तनयम् ज्ञात्वा मयः हर्षम् उपागतः । दातुम् दुहितरम् तस्मै रोचयामास यत्र वै ॥ ७।१२।१६ ॥
evam uktaḥ tadā rāma rākṣasa-indreṇa dānavaḥ . mahā-ṛṣeḥ tanayam jñātvā mayaḥ harṣam upāgataḥ . dātum duhitaram tasmai rocayāmāsa yatra vai .. 7.12.16 ..
करेण तु करं तस्या ग्राहयित्वा मयस्तदा । प्रहसन्प्राह दैत्येन्द्रो राक्षसेन्द्रमिदं वचः ॥ ७.१२.१७ ॥
करेण तु करम् तस्याः ग्राहयित्वा मयः तदा । प्रहसन् प्राह दैत्य-इन्द्रः राक्षस-इन्द्रम् इदम् वचः ॥ ७।१२।१७ ॥
kareṇa tu karam tasyāḥ grāhayitvā mayaḥ tadā . prahasan prāha daitya-indraḥ rākṣasa-indram idam vacaḥ .. 7.12.17 ..
इयं ममात्मजा राजन्हेमया ऽप्सरसा धृता । कन्या मन्दोदरी नाम पत्न्यर्थं प्रतिगृह्यताम् ॥ ७.१२.१८ ॥
इयम् मम आत्मजा राजन् हेमया अप्सरसा धृता । कन्या मन्दोदरी नाम पत्नी-अर्थम् प्रतिगृह्यताम् ॥ ७।१२।१८ ॥
iyam mama ātmajā rājan hemayā apsarasā dhṛtā . kanyā mandodarī nāma patnī-artham pratigṛhyatām .. 7.12.18 ..
बाढमित्येव तं राम दशग्रीवो ऽभ्यभाषत । प्रज्चाल्य तत्र चैवाग्निमकरोत्पाणिसङ्ग्रहम् ॥ ७.१२.१९ ॥
बाढम् इति एव तम् राम दशग्रीवः अभ्यभाषत । प्रज्चाल्य तत्र च एव अग्निम् अकरोत् पाणिसङ्ग्रहम् ॥ ७।१२।१९ ॥
bāḍham iti eva tam rāma daśagrīvaḥ abhyabhāṣata . prajcālya tatra ca eva agnim akarot pāṇisaṅgraham .. 7.12.19 ..
स हि तस्य मयो राम शापाभिज्ञस्तपोधनात् । विदित्वा तेन सा दत्ता तस्य पैतामहं कुलम् ॥ ७.१२.२० ॥
स हि तस्य मयः राम शाप-अभिज्ञः तपोधनात् । विदित्वा तेन सा दत्ता तस्य पैतामहम् कुलम् ॥ ७।१२।२० ॥
sa hi tasya mayaḥ rāma śāpa-abhijñaḥ tapodhanāt . viditvā tena sā dattā tasya paitāmaham kulam .. 7.12.20 ..
अमोघां तस्य शक्तिं च प्रददौ परमाद्भुताम् । परेण तपसा लब्धां जघ्निवाँल्लक्ष्मणं यया ॥ ७.१२.२१ ॥
अमोघाम् तस्य शक्तिम् च प्रददौ परम-अद्भुताम् । परेण तपसा लब्धाम् जघ्निवान् लक्ष्मणम् यया ॥ ७।१२।२१ ॥
amoghām tasya śaktim ca pradadau parama-adbhutām . pareṇa tapasā labdhām jaghnivān lakṣmaṇam yayā .. 7.12.21 ..
एवं सीकृतदारो वै लङ्काया ईश्वरः प्रभुः । गत्वा तु नगरीं भार्ये भ्रातृभ्यां समुपाहरत् ॥ ७.१२.२२ ॥
एवम् सीकृत-दारः वै लङ्कायाः ईश्वरः प्रभुः । गत्वा तु नगरीम् भार्ये भ्रातृभ्याम् समुपाहरत् ॥ ७।१२।२२ ॥
evam sīkṛta-dāraḥ vai laṅkāyāḥ īśvaraḥ prabhuḥ . gatvā tu nagarīm bhārye bhrātṛbhyām samupāharat .. 7.12.22 ..
वैरोचनस्य दौहित्रीं वज्रज्वालेति नामतः । तां भार्यां कुम्भकर्णस्य रावणः समकल्पयत् ॥ ७.१२.२३ ॥
वैरोचनस्य दौहित्रीम् वज्रज्वाला इति नामतः । ताम् भार्याम् कुम्भकर्णस्य रावणः समकल्पयत् ॥ ७।१२।२३ ॥
vairocanasya dauhitrīm vajrajvālā iti nāmataḥ . tām bhāryām kumbhakarṇasya rāvaṇaḥ samakalpayat .. 7.12.23 ..
गन्धर्वराजस्य सुतां शैलूषस्य महात्मनः । सरमां नाम धर्मज्ञां लेभे भार्यां विभीषणः ॥ ७.१२.२४ ॥
गन्धर्व-राजस्य सुताम् शैलूषस्य महात्मनः । सरमाम् नाम धर्म-ज्ञाम् लेभे भार्याम् विभीषणः ॥ ७।१२।२४ ॥
gandharva-rājasya sutām śailūṣasya mahātmanaḥ . saramām nāma dharma-jñām lebhe bhāryām vibhīṣaṇaḥ .. 7.12.24 ..
तीरे तु सरसो वै तु सञ्जज्ञे मानसस्य हि । सरस्तदा मानसं तु ववृधे जलदागमे ॥ ७.१२.२५ ॥
तीरे तु सरसः वै तु सञ्जज्ञे मानसस्य हि । सरः तदा मानसम् तु ववृधे जलद-आगमे ॥ ७।१२।२५ ॥
tīre tu sarasaḥ vai tu sañjajñe mānasasya hi . saraḥ tadā mānasam tu vavṛdhe jalada-āgame .. 7.12.25 ..
मात्रा तु तस्याः कन्यायाः स्नेहेनाक्रन्दितं वचः । सरो मा वर्धयस्वेति ततः सा सरमा ऽभवत् ॥ ७.१२.२६ ॥
मात्रा तु तस्याः कन्यायाः स्नेहेन आक्रन्दितम् वचः । सरः मा वर्धयस्व इति ततस् सा सरमा अभवत् ॥ ७।१२।२६ ॥
mātrā tu tasyāḥ kanyāyāḥ snehena ākranditam vacaḥ . saraḥ mā vardhayasva iti tatas sā saramā abhavat .. 7.12.26 ..
एवं ते कृतदारा वै रेमिरे तत्र राक्षसाः । स्वां स्वां भार्यामुपागम्य गन्धर्वा इव नन्दने ॥ ७.१२.२७ ॥
एवम् ते कृत-दाराः वै रेमिरे तत्र राक्षसाः । स्वाम् स्वाम् भार्याम् उपागम्य गन्धर्वाः इव नन्दने ॥ ७।१२।२७ ॥
evam te kṛta-dārāḥ vai remire tatra rākṣasāḥ . svām svām bhāryām upāgamya gandharvāḥ iva nandane .. 7.12.27 ..
ततो मन्दोदरी पुत्रं मेघनादमजीजनत् । स एष इन्द्रजिन्नाम युष्माभिरभिधीयते ॥ ७.१२.२८ ॥
ततस् मन्दोदरी पुत्रम् मेघनादम् अजीजनत् । सः एषः इन्द्रजित् नाम युष्माभिः अभिधीयते ॥ ७।१२।२८ ॥
tatas mandodarī putram meghanādam ajījanat . saḥ eṣaḥ indrajit nāma yuṣmābhiḥ abhidhīyate .. 7.12.28 ..
जातमात्रेण हि पुरा तेन रावणसूनुना । रुदता सुमहान्मुक्तो नादो जलधरोपमः ॥ ७.१२.२९ ॥
जात-मात्रेण हि पुरा तेन रावण-सूनुना । रुदता सु महान् मुक्तः नादः जलधर-उपमः ॥ ७।१२।२९ ॥
jāta-mātreṇa hi purā tena rāvaṇa-sūnunā . rudatā su mahān muktaḥ nādaḥ jaladhara-upamaḥ .. 7.12.29 ..
जडीकृता च सा लङ्का तस्य नादेन राघव । पिता तस्याकरोन्नाम मेघनाद इति स्वयम् ॥ ७.१२.३० ॥
जडीकृता च सा लङ्का तस्य नादेन राघव । पिता तस्य अकरोत् नाम मेघनादः इति स्वयम् ॥ ७।१२।३० ॥
jaḍīkṛtā ca sā laṅkā tasya nādena rāghava . pitā tasya akarot nāma meghanādaḥ iti svayam .. 7.12.30 ..
सो ऽवर्धत तदा राम रावणान्तःपुरे शुभे । रक्ष्यमाणो वरस्त्रीभिश्छन्नः काष्ठैरिवानलः ॥ ७.१२.३१ ॥
सः अवर्धत तदा राम रावण-अन्तःपुरे शुभे । रक्ष्यमाणः वर-स्त्रीभिः छन्नः काष्ठैः इव अनलः ॥ ७।१२।३१ ॥
saḥ avardhata tadā rāma rāvaṇa-antaḥpure śubhe . rakṣyamāṇaḥ vara-strībhiḥ channaḥ kāṣṭhaiḥ iva analaḥ .. 7.12.31 ..
मातापित्रोर्महाहर्षं जनयन्रावणात्मजः ॥ ७.१२.३२ ॥
माता-पित्रोः महा-हर्षम् जनयन् रावण-आत्मजः ॥ ७।१२।३२ ॥
mātā-pitroḥ mahā-harṣam janayan rāvaṇa-ātmajaḥ .. 7.12.32 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे द्वादशः सर्गः ॥ १२ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे द्वादशः सर्गः ॥ १२ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe dvādaśaḥ sargaḥ .. 12 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In