This overlay will guide you through the buttons:

| |
|
अथ लोकेश्वरोत्सृष्टा तत्र कालेन केनचित् । निद्रा समभवत्तीव्रा कुम्भकर्णस्य रूपिणी ॥ ७.१३.१ ॥
अथ लोकेश्वर-उत्सृष्टा तत्र कालेन केनचिद् । निद्रा समभवत् तीव्रा कुम्भकर्णस्य रूपिणी ॥ ७।१३।१ ॥
atha lokeśvara-utsṛṣṭā tatra kālena kenacid . nidrā samabhavat tīvrā kumbhakarṇasya rūpiṇī .. 7.13.1 ..
ततो भ्रातरमासीनं कुम्भकर्णो ऽब्रवीद्वचः । निद्रा मां बाधते राजन्कारयस्व ममालयम् ॥ ७.१३.२ ॥
ततस् भ्रातरम् आसीनम् कुम्भकर्णः अब्रवीत् वचः । निद्रा माम् बाधते राजन् कारयस्व मम आलयम् ॥ ७।१३।२ ॥
tatas bhrātaram āsīnam kumbhakarṇaḥ abravīt vacaḥ . nidrā mām bādhate rājan kārayasva mama ālayam .. 7.13.2 ..
विनियुक्तास्ततो राज्ञा शिल्पिनो विश्वकर्मवत् । विस्तीर्णं योजनं शुभ्रं ततो द्विगुणमायतम् ॥ ७.१३.३ ॥
विनियुक्ताः ततस् राज्ञा शिल्पिनः विश्वकर्म-वत् । विस्तीर्णम् योजनम् शुभ्रम् ततस् द्विगुणम् आयतम् ॥ ७।१३।३ ॥
viniyuktāḥ tatas rājñā śilpinaḥ viśvakarma-vat . vistīrṇam yojanam śubhram tatas dviguṇam āyatam .. 7.13.3 ..
दर्शनीयं निराबाधं कुम्भकर्णस्य चक्रिरे । स्फाटिकैः काञ्चनैश्चित्रैः स्तम्भैः सर्वत्र शोभितम् ॥ ७.१३.४ ॥
दर्शनीयम् निराबाधम् कुम्भकर्णस्य चक्रिरे । स्फाटिकैः काञ्चनैः चित्रैः स्तम्भैः सर्वत्र शोभितम् ॥ ७।१३।४ ॥
darśanīyam nirābādham kumbhakarṇasya cakrire . sphāṭikaiḥ kāñcanaiḥ citraiḥ stambhaiḥ sarvatra śobhitam .. 7.13.4 ..
वैडूर्यकृतसोपानं किङ्किणीजालकं तथा । दान्ततोरणविन्यस्तं वज्रस्फटिकवेदिकम् ॥ ७.१३.५ ॥
वैडूर्य-कृत-सोपानम् किङ्किणी-जालकम् तथा । दान्त-तोरण-विन्यस्तम् वज्र-स्फटिक-वेदिकम् ॥ ७।१३।५ ॥
vaiḍūrya-kṛta-sopānam kiṅkiṇī-jālakam tathā . dānta-toraṇa-vinyastam vajra-sphaṭika-vedikam .. 7.13.5 ..
मनोहरं सर्वसुखं कारयामास राक्षसः । सर्वत्र सुखदं नित्यं मेरोः पुण्यां गुहामिव ॥ ७.१३.६ ॥
मनोहरम् सर्व-सुखम् कारयामास राक्षसः । सर्वत्र सुख-दम् नित्यम् मेरोः पुण्याम् गुहाम् इव ॥ ७।१३।६ ॥
manoharam sarva-sukham kārayāmāsa rākṣasaḥ . sarvatra sukha-dam nityam meroḥ puṇyām guhām iva .. 7.13.6 ..
तत्र निद्रां समाविष्टः कुम्भकर्णो महाबलः । बहून्यब्दसहस्राणि शयानो न प्रबुद्ध्यते ॥ ७.१३.७ ॥
तत्र निद्राम् समाविष्टः कुम्भकर्णः महा-बलः । बहूनि अब्द-सहस्राणि शयानः न प्रबुद्ध्यते ॥ ७।१३।७ ॥
tatra nidrām samāviṣṭaḥ kumbhakarṇaḥ mahā-balaḥ . bahūni abda-sahasrāṇi śayānaḥ na prabuddhyate .. 7.13.7 ..
निद्राभिभूते तु तदा कुम्भकर्णे दशाननः । देवर्षियक्षगन्धर्वान्सञ्जघ्ने हि निरङ्कुशः ॥ ७.१३.८ ॥
निद्रा-अभिभूते तु तदा कुम्भकर्णे दशाननः । देव-ऋषि-यक्ष-गन्धर्वान् सञ्जघ्ने हि निरङ्कुशः ॥ ७।१३।८ ॥
nidrā-abhibhūte tu tadā kumbhakarṇe daśānanaḥ . deva-ṛṣi-yakṣa-gandharvān sañjaghne hi niraṅkuśaḥ .. 7.13.8 ..
उद्यानानि च चित्राणि नन्दनादीनि यानि च । तानि गत्वा सुसङक्रुद्धो भिनत्ति स्म दशाननः ॥ ७.१३.९ ॥
उद्यानानि च चित्राणि नन्दन-आदीनि यानि च । तानि गत्वा सु सङक्रुद्धः भिनत्ति स्म दशाननः ॥ ७।१३।९ ॥
udyānāni ca citrāṇi nandana-ādīni yāni ca . tāni gatvā su saṅakruddhaḥ bhinatti sma daśānanaḥ .. 7.13.9 ..
नदीं गज इव क्रीडन्वृक्षान्वायुरिव क्षिपन् । नगान्व्रज्र इवोत्सृष्टो विध्वंसयति राक्षसः ॥ ७.१३.१० ॥
नदीम् गजः इव क्रीडन् वृक्षान् वायुः इव क्षिपन् । नगान् व्रज्रः इव उत्सृष्टः विध्वंसयति राक्षसः ॥ ७।१३।१० ॥
nadīm gajaḥ iva krīḍan vṛkṣān vāyuḥ iva kṣipan . nagān vrajraḥ iva utsṛṣṭaḥ vidhvaṃsayati rākṣasaḥ .. 7.13.10 ..
तथावृत्तं तु विज्ञाय दशग्रीवं धनेश्वरः । कुलानुरूपं धर्मज्ञो वृत्तं संस्मृत्य चात्मनः ॥ ७.१३.११ ॥
तथा वृत्तम् तु विज्ञाय दशग्रीवम् धनेश्वरः । कुल-अनुरूपम् धर्म-ज्ञः वृत्तम् संस्मृत्य च आत्मनः ॥ ७।१३।११ ॥
tathā vṛttam tu vijñāya daśagrīvam dhaneśvaraḥ . kula-anurūpam dharma-jñaḥ vṛttam saṃsmṛtya ca ātmanaḥ .. 7.13.11 ..
सौभ्रात्रदर्शनार्थं तु दूतं वैश्रवणस्तदा । लङ्कां सम्प्रेषयामास दशग्रीवस्य वै हितम् ॥ ७.१३.१२ ॥
सौभ्रात्र-दर्शन-अर्थम् तु दूतम् वैश्रवणः तदा । लङ्काम् सम्प्रेषयामास दशग्रीवस्य वै हितम् ॥ ७।१३।१२ ॥
saubhrātra-darśana-artham tu dūtam vaiśravaṇaḥ tadā . laṅkām sampreṣayāmāsa daśagrīvasya vai hitam .. 7.13.12 ..
स गत्वा नगरीं लङ्कामाससाद विभीषणम् । मानितस्तेन धर्मेण पृष्टश्चागमनं प्रति ॥ ७.१३.१३ ॥
स गत्वा नगरीम् लङ्काम् आससाद विभीषणम् । मानितः तेन धर्मेण पृष्टः च आगमनम् प्रति ॥ ७।१३।१३ ॥
sa gatvā nagarīm laṅkām āsasāda vibhīṣaṇam . mānitaḥ tena dharmeṇa pṛṣṭaḥ ca āgamanam prati .. 7.13.13 ..
पृष्ट्वा च कुशलं राज्ञो ज्ञातीनां च बिभीषणः । सभायां दर्शयामास तमासीनं दशाननम् ॥ ७.१३.१४ ॥
पृष्ट्वा च कुशलम् राज्ञः ज्ञातीनाम् च बिभीषणः । सभायाम् दर्शयामास तम् आसीनम् दशाननम् ॥ ७।१३।१४ ॥
pṛṣṭvā ca kuśalam rājñaḥ jñātīnām ca bibhīṣaṇaḥ . sabhāyām darśayāmāsa tam āsīnam daśānanam .. 7.13.14 ..
स दृष्ट्वा तत्र राजानं दीप्यमानं स्वतेजसा । जयेति वाचा सम्पूज्य तूष्णीं समभिवर्तत ॥ ७.१३.१५ ॥
स दृष्ट्वा तत्र राजानम् दीप्यमानम् स्व-तेजसा । जय इति वाचा सम्पूज्य तूष्णीम् समभिवर्तत ॥ ७।१३।१५ ॥
sa dṛṣṭvā tatra rājānam dīpyamānam sva-tejasā . jaya iti vācā sampūjya tūṣṇīm samabhivartata .. 7.13.15 ..
तं तत्रोत्तमपर्यङ्के वरास्तरणशोभिते । उपविष्टं दशग्रीवं दूतो वाक्यमथाब्रवीत् ॥ ७.१३.१६ ॥
तम् तत्र उत्तम-पर्यङ्के वर-आस्तरण-शोभिते । उपविष्टम् दशग्रीवम् दूतः वाक्यम् अथ अब्रवीत् ॥ ७।१३।१६ ॥
tam tatra uttama-paryaṅke vara-āstaraṇa-śobhite . upaviṣṭam daśagrīvam dūtaḥ vākyam atha abravīt .. 7.13.16 ..
राजन्वदामि ते सर्वं भ्राता तव यदब्रवीत् । उभयोः सदृशं वीर वृत्तस्य च कुलस्य च ॥ ७.१३.१७ ॥
राजन् वदामि ते सर्वम् भ्राता तव यत् अब्रवीत् । उभयोः सदृशम् वीर वृत्तस्य च कुलस्य च ॥ ७।१३।१७ ॥
rājan vadāmi te sarvam bhrātā tava yat abravīt . ubhayoḥ sadṛśam vīra vṛttasya ca kulasya ca .. 7.13.17 ..
साधु पर्याप्तमेतावत्कृतश्चारित्रसङ्ग्रहः । साधु धर्मे व्यवस्थानं क्रियतां यदि शक्यते ॥ ७.१३.१८ ॥
साधु पर्याप्तम् एतावत् कृतः चारित्र-सङ्ग्रहः । साधु धर्मे व्यवस्थानम् क्रियताम् यदि शक्यते ॥ ७।१३।१८ ॥
sādhu paryāptam etāvat kṛtaḥ cāritra-saṅgrahaḥ . sādhu dharme vyavasthānam kriyatām yadi śakyate .. 7.13.18 ..
दृष्टं मे नन्दनं भग्नमृषयो निहताः श्रुताः । देवतानां समुद्योगस्त्वत्तो राजन्मम श्रुतः ॥ ७.१३.१९ ॥
दृष्टम् मे नन्दनम् भग्नम् ऋषयः निहताः श्रुताः । देवतानाम् समुद्योगः त्वत्तः राजन् मम श्रुतः ॥ ७।१३।१९ ॥
dṛṣṭam me nandanam bhagnam ṛṣayaḥ nihatāḥ śrutāḥ . devatānām samudyogaḥ tvattaḥ rājan mama śrutaḥ .. 7.13.19 ..
निराकृतश्च बहुशस्त्वया ऽहं राक्षसाधिप । अपराद्धा हि बाल्याच्च रमणीयाः स्वबान्धवाः ॥ ७.१३.२० ॥
निराकृतः च बहुशस् त्वया अहम् राक्षस-अधिप । अपराद्धाः हि बाल्यात् च रमणीयाः स्व-बान्धवाः ॥ ७।१३।२० ॥
nirākṛtaḥ ca bahuśas tvayā aham rākṣasa-adhipa . aparāddhāḥ hi bālyāt ca ramaṇīyāḥ sva-bāndhavāḥ .. 7.13.20 ..
अहं तु हिमवत्पृष्ठं गतो धर्ममुपासितुम् । रौद्रं व्रत्तं समास्थाय नियतो नियतेन्द्रियः ॥ ७.१३.२१ ॥
अहम् तु हिमवत्-पृष्ठम् गतः धर्मम् उपासितुम् । रौद्रम् व्रत्तम् समास्थाय नियतः नियत-इन्द्रियः ॥ ७।१३।२१ ॥
aham tu himavat-pṛṣṭham gataḥ dharmam upāsitum . raudram vrattam samāsthāya niyataḥ niyata-indriyaḥ .. 7.13.21 ..
तत्र देवो मया दृष्टः सह देव्या मया प्रभुः । सव्यं चक्षुर्मया दैवात्तत्र देव्यां निपातितम् ॥ ७.१३.२२ ॥
तत्र देवः मया दृष्टः सह देव्या मया प्रभुः । सव्यम् चक्षुः मया दैवात् तत्र देव्याम् निपातितम् ॥ ७।१३।२२ ॥
tatra devaḥ mayā dṛṣṭaḥ saha devyā mayā prabhuḥ . savyam cakṣuḥ mayā daivāt tatra devyām nipātitam .. 7.13.22 ..
का न्वियं स्यादिति शुभा न खल्वन्येन हेतुना । रूपं ह्यनुपमं कृत्वा रुद्राणी तत्र तिष्ठति ॥ ७.१३.२३ ॥
का नु इयम् स्यात् इति शुभा न खलु अन्येन हेतुना । रूपम् हि अनुपमम् कृत्वा रुद्राणी तत्र तिष्ठति ॥ ७।१३।२३ ॥
kā nu iyam syāt iti śubhā na khalu anyena hetunā . rūpam hi anupamam kṛtvā rudrāṇī tatra tiṣṭhati .. 7.13.23 ..
देव्या दिव्यप्रभावेण दग्धं सव्यं ममेक्षणम् । रेणुध्वस्तमिव ज्योतिः पिङ्गुलत्वमुपागतम् ॥ ७.१३.२४ ॥
देव्याः दिव्य-प्रभावेण दग्धम् सव्यम् मम ईक्षणम् । रेणु-ध्वस्तम् इव ज्योतिः पिङ्गुल-त्वम् उपागतम् ॥ ७।१३।२४ ॥
devyāḥ divya-prabhāveṇa dagdham savyam mama īkṣaṇam . reṇu-dhvastam iva jyotiḥ piṅgula-tvam upāgatam .. 7.13.24 ..
ततो ऽहमन्यद्विस्तीर्णं गत्वा तस्य गिरेस्तटम् । तूष्णीं वर्षशतान्यष्टौ समाधारं महाव्रतम् ॥ ७.१३.२५ ॥
ततस् अहम् अन्यत् विस्तीर्णम् गत्वा तस्य गिरेः तटम् । तूष्णीम् वर्ष-शतानि अष्टौ समाधारम् महा-व्रतम् ॥ ७।१३।२५ ॥
tatas aham anyat vistīrṇam gatvā tasya gireḥ taṭam . tūṣṇīm varṣa-śatāni aṣṭau samādhāram mahā-vratam .. 7.13.25 ..
समाप्ते नियमे तस्मिंस्तत्र देवो महेश्वरः । प्रीतः प्रीतेन मनसा प्राह वाक्यमिदं प्रभुः ॥ ७.१३.२६ ॥
समाप्ते नियमे तस्मिन् तत्र देवः महेश्वरः । प्रीतः प्रीतेन मनसा प्राह वाक्यम् इदम् प्रभुः ॥ ७।१३।२६ ॥
samāpte niyame tasmin tatra devaḥ maheśvaraḥ . prītaḥ prītena manasā prāha vākyam idam prabhuḥ .. 7.13.26 ..
पैङ्गल्यं यदवाप्तं हि देव्या रूपनिरीक्षणात् । प्रीतो ऽस्मि तव धर्मज्ञ तपसा नेन सुव्रत ॥ ७.१३.२७ ॥
पैङ्गल्यम् यत् अवाप्तम् हि देव्याः रूप-निरीक्षणात् । प्रीतः अस्मि तव धर्म-ज्ञ तपसा नेन सुव्रत ॥ ७।१३।२७ ॥
paiṅgalyam yat avāptam hi devyāḥ rūpa-nirīkṣaṇāt . prītaḥ asmi tava dharma-jña tapasā nena suvrata .. 7.13.27 ..
मया चैतद्व्रतं चीर्णं त्वया चैव धनाधिप । तृतीयः पुरुषो नास्ति यश्चरेव्रतमीदृशम् ॥ ७.१३.२८ ॥
मया च एतत् व्रतम् चीर्णम् त्वया च एव धनाधिप । तृतीयः पुरुषः ना अस्ति यः चरे व्रतम् ईदृशम् ॥ ७।१३।२८ ॥
mayā ca etat vratam cīrṇam tvayā ca eva dhanādhipa . tṛtīyaḥ puruṣaḥ nā asti yaḥ care vratam īdṛśam .. 7.13.28 ..
व्रतं सुनिश्चयं ह्येतन्मया ह्युत्पादितं पुरा । तत्सखित्वं मया सौम्य रोचयस्व धनेश्वर ॥ ७.१३.२९ ॥
व्रतम् सु निश्चयम् हि एतत् मया हि उत्पादितम् पुरा । तद्-सखित्वम् मया सौम्य रोचयस्व धनेश्वर ॥ ७।१३।२९ ॥
vratam su niścayam hi etat mayā hi utpāditam purā . tad-sakhitvam mayā saumya rocayasva dhaneśvara .. 7.13.29 ..
तपसा निर्जितश्चैव सखा भव ममानघ । देव्या दग्धं प्रभावेण यच्च सव्यं तवेक्षणम् ॥ ७.१३.३० ॥
तपसा निर्जितः च एव सखा भव मम अनघ । देव्याः दग्धम् प्रभावेण यत् च सव्यम् तव ईक्षणम् ॥ ७।१३।३० ॥
tapasā nirjitaḥ ca eva sakhā bhava mama anagha . devyāḥ dagdham prabhāveṇa yat ca savyam tava īkṣaṇam .. 7.13.30 ..
एकाक्षिपिङ्गलेत्येव नाम स्थास्यति शाश्वतम् । एवं तेन सखित्वं च प्राप्यानुज्ञां च शङ्करात् ॥ ७.१३.३१ ॥
एक-अक्षि-पिङ्गल-इति एव नाम स्थास्यति शाश्वतम् । एवम् तेन सखि-त्वम् च प्राप्य अनुज्ञाम् च शङ्करात् ॥ ७।१३।३१ ॥
eka-akṣi-piṅgala-iti eva nāma sthāsyati śāśvatam . evam tena sakhi-tvam ca prāpya anujñām ca śaṅkarāt .. 7.13.31 ..
आगत्य च श्रुतो ऽयं मे तव पापविनिश्चयः ॥ ७.१३.३२ ॥
आगत्य च श्रुतः अयम् मे तव पाप-विनिश्चयः ॥ ७।१३।३२ ॥
āgatya ca śrutaḥ ayam me tava pāpa-viniścayaḥ .. 7.13.32 ..
तदधर्मिष्ठसंयोगान्निवर्त कुलदूषणात् । चिन्त्यते हि वधोपायः सर्षिसङ्घैः सुरैस्तव ॥ ७.१३.३३ ॥
तद्-अधर्मिष्ठ-संयोगात् निवर्त कुल-दूषणात् । चिन्त्यते हि वध-उपायः स ऋषि-सङ्घैः सुरैः तव ॥ ७।१३।३३ ॥
tad-adharmiṣṭha-saṃyogāt nivarta kula-dūṣaṇāt . cintyate hi vadha-upāyaḥ sa ṛṣi-saṅghaiḥ suraiḥ tava .. 7.13.33 ..
एवमुक्तो दशग्रीवः क्रुद्धसंरक्तलोचनः । हस्तौ दन्तांश्च सम्पीड्य वाक्यमेतदुवाच ह ॥ ७.१३.३४ ॥
एवम् उक्तः दशग्रीवः क्रुद्ध-संरक्त-लोचनः । हस्तौ दन्तान् च सम्पीड्य वाक्यम् एतत् उवाच ह ॥ ७।१३।३४ ॥
evam uktaḥ daśagrīvaḥ kruddha-saṃrakta-locanaḥ . hastau dantān ca sampīḍya vākyam etat uvāca ha .. 7.13.34 ..
विज्ञातं ते मया दूत वाक्यं यस्य प्रभाषसे । नैतत्त्वमसि नैवासौ भ्रात्रा येनासि चोदितः ॥ ७.१३.३५ ॥
विज्ञातम् ते मया दूत वाक्यम् यस्य प्रभाषसे । न एतत् त्वम् असि न एव असौ भ्रात्रा येन असि चोदितः ॥ ७।१३।३५ ॥
vijñātam te mayā dūta vākyam yasya prabhāṣase . na etat tvam asi na eva asau bhrātrā yena asi coditaḥ .. 7.13.35 ..
हितं नैष ममैतद्धि ब्रवीति धनरक्षकः । महेश्वरसखित्वं तु मूढ श्रावयते किल ॥ ७.१३.३६ ॥
हितम् ना एष मम एतत् हि ब्रवीति धनरक्षकः । महेश्वर-सखि-त्वम् तु मूढ श्रावयते किल ॥ ७।१३।३६ ॥
hitam nā eṣa mama etat hi bravīti dhanarakṣakaḥ . maheśvara-sakhi-tvam tu mūḍha śrāvayate kila .. 7.13.36 ..
न चेदं क्षमणीयं मे यदेतद्भाषितं त्वया । यदेतावन्मया कालं दूत तस्य तु मर्षितम् ॥ ७.१३.३७ ॥
न च इदम् क्षमणीयम् मे यत् एतत् भाषितम् त्वया । यत् एतावत् मया कालम् दूत तस्य तु मर्षितम् ॥ ७।१३।३७ ॥
na ca idam kṣamaṇīyam me yat etat bhāṣitam tvayā . yat etāvat mayā kālam dūta tasya tu marṣitam .. 7.13.37 ..
न हन्तव्यो गुरुर्ज्येष्ठो मया ऽयमिति मन्यते । तस्य त्विदानीं श्रुत्वा मे वाक्यमेषा कृता मतिः ॥ ७.१३.३८ ॥
न हन्तव्यः गुरुः ज्येष्ठः मया अयम् इति मन्यते । तस्य तु इदानीम् श्रुत्वा मे वाक्यम् एषा कृता मतिः ॥ ७।१३।३८ ॥
na hantavyaḥ guruḥ jyeṣṭhaḥ mayā ayam iti manyate . tasya tu idānīm śrutvā me vākyam eṣā kṛtā matiḥ .. 7.13.38 ..
त्रीँल्लोकानपि जेष्यामि बाहुवीर्यमुपाश्रितः ॥ ७.१३.३९ ॥
त्रीन् लोकान् अपि जेष्यामि बाहु-वीर्यम् उपाश्रितः ॥ ७।१३।३९ ॥
trīn lokān api jeṣyāmi bāhu-vīryam upāśritaḥ .. 7.13.39 ..
एतन्मुहूर्तमेवाहं तस्यैकस्य तु वै कृते । चतुरो लोकपालांस्तान्नयिष्यामि यमक्षयम् ॥ ७.१३.४० ॥
एतत् मुहूर्तम् एव अहम् तस्य एकस्य तु वै कृते । चतुरः लोकपालान् तान् नयिष्यामि यम-क्षयम् ॥ ७।१३।४० ॥
etat muhūrtam eva aham tasya ekasya tu vai kṛte . caturaḥ lokapālān tān nayiṣyāmi yama-kṣayam .. 7.13.40 ..
एवमुक्त्वा तु लङ्केशो दूतं खड्गेन जघ्निवान् । ददौ भक्षयितुं ह्येनं राक्षसानां दुरात्मनाम् ॥ ७.१३.४१ ॥
एवम् उक्त्वा तु लङ्केशः दूतम् खड्गेन जघ्निवान् । ददौ भक्षयितुम् हि एनम् राक्षसानाम् दुरात्मनाम् ॥ ७।१३।४१ ॥
evam uktvā tu laṅkeśaḥ dūtam khaḍgena jaghnivān . dadau bhakṣayitum hi enam rākṣasānām durātmanām .. 7.13.41 ..
एवं कृतस्वस्त्ययनो रथमारुह्य रावणः । त्रैलोक्यविजयाकाङ्क्षी ययौ यत्र धनेश्वरः ॥ ७.१३.४२ ॥
एवम् कृत-स्वस्त्ययनः रथम् आरुह्य रावणः । त्रैलोक्य-विजय-आकाङ्क्षी ययौ यत्र धनेश्वरः ॥ ७।१३।४२ ॥
evam kṛta-svastyayanaḥ ratham āruhya rāvaṇaḥ . trailokya-vijaya-ākāṅkṣī yayau yatra dhaneśvaraḥ .. 7.13.42 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे त्रयोदशः सर्गः ॥ १३ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे त्रयोदशः सर्गः ॥ १३ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe trayodaśaḥ sargaḥ .. 13 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In