This overlay will guide you through the buttons:

| |
|
ततस्तु सचिवैः सार्धं षड्भिर्नित्यं बलोद्धतैः । महोदरप्रहस्ताभ्यां मारीचशुकसारणैः ॥ ७.१४.१ ॥
ततस् तु सचिवैः सार्धम् षड्भिः नित्यम् बल-उद्धतैः । महोदर-प्रहस्ताभ्याम् मारीच-शुक-सारणैः ॥ ७।१४।१ ॥
tatas tu sacivaiḥ sārdham ṣaḍbhiḥ nityam bala-uddhataiḥ . mahodara-prahastābhyām mārīca-śuka-sāraṇaiḥ .. 7.14.1 ..
धूम्राक्षेण च वीरेण नित्यं समरगृध्नुना । वृतः संप्रययौ श्रीमान्क्रोधाल्लोकान्दहन्निव ॥ ७.१४.२ ॥
धूम्राक्षेण च वीरेण नित्यम् समर-गृध्नुना । वृतः संप्रययौ श्रीमान् क्रोधात् लोकान् दहन् इव ॥ ७।१४।२ ॥
dhūmrākṣeṇa ca vīreṇa nityam samara-gṛdhnunā . vṛtaḥ saṃprayayau śrīmān krodhāt lokān dahan iva .. 7.14.2 ..
पुराणि स नदीः शैलान्वनान्युपवनानि च । अतिक्रम्य मुहूर्तेन कैलासं गिरिमागमत् ॥ ७.१४.३ ॥
पुराणि स नदीः शैलान् वनानि उपवनानि च । अतिक्रम्य मुहूर्तेन कैलासम् गिरिम् आगमत् ॥ ७।१४।३ ॥
purāṇi sa nadīḥ śailān vanāni upavanāni ca . atikramya muhūrtena kailāsam girim āgamat .. 7.14.3 ..
सन्निविष्टं गिरौ तस्मिन्राक्षसेन्द्रं निशम्य तु । युद्धे ऽत्यर्थकृतोत्साहं दुरात्मानं समन्त्रिणम् ॥ ७.१४.४ ॥
सन्निविष्टम् गिरौ तस्मिन् राक्षस-इन्द्रम् निशम्य तु । युद्धे अत्यर्थ-कृत-उत्साहम् दुरात्मानम् स मन्त्रिणम् ॥ ७।१४।४ ॥
sanniviṣṭam girau tasmin rākṣasa-indram niśamya tu . yuddhe atyartha-kṛta-utsāham durātmānam sa mantriṇam .. 7.14.4 ..
यक्षा न शेकुः संस्थातुं प्रमुखे तस्य रक्षसः । राज्ञो भ्रातेति विज्ञाय गता यत्र धनेश्वरः ॥ ७.१४.५ ॥
यक्षाः न शेकुः संस्थातुम् प्रमुखे तस्य रक्षसः । राज्ञः भ्राता इति विज्ञाय गताः यत्र धनेश्वरः ॥ ७।१४।५ ॥
yakṣāḥ na śekuḥ saṃsthātum pramukhe tasya rakṣasaḥ . rājñaḥ bhrātā iti vijñāya gatāḥ yatra dhaneśvaraḥ .. 7.14.5 ..
ते गत्वा सर्वमाचख्युर्भ्रातुस्तस्य चिकीर्षितम् । अनुज्ञाता ययुर्हष्टा युद्धाय धनदेन ते ॥ ७.१४.६ ॥
ते गत्वा सर्वम् आचख्युः भ्रातुः तस्य चिकीर्षितम् । अनुज्ञाताः ययुः हष्टाः युद्धाय धनदेन ते ॥ ७।१४।६ ॥
te gatvā sarvam ācakhyuḥ bhrātuḥ tasya cikīrṣitam . anujñātāḥ yayuḥ haṣṭāḥ yuddhāya dhanadena te .. 7.14.6 ..
ततो बलानां सङ्क्षोभो व्यवर्धत महोदधेः । तस्य नैर्ऋतराजस्य शैलं सञ्चालयन्निव ॥ ७.१४.७ ॥
ततस् बलानाम् सङ्क्षोभः व्यवर्धत महोदधेः । तस्य नैरृत-राजस्य शैलम् सञ्चालयन् इव ॥ ७।१४।७ ॥
tatas balānām saṅkṣobhaḥ vyavardhata mahodadheḥ . tasya nairṛta-rājasya śailam sañcālayan iva .. 7.14.7 ..
ततो युद्धं समभवद्यक्षराक्षससङ्कुलम् । व्यथिताश्चाभवंस्तत्र सचिवा राक्षसस्य ते ॥ ७.१४.८ ॥
ततस् युद्धम् समभवत् यक्ष-राक्षस-सङ्कुलम् । व्यथिताः च अभवन् तत्र सचिवाः राक्षसस्य ते ॥ ७।१४।८ ॥
tatas yuddham samabhavat yakṣa-rākṣasa-saṅkulam . vyathitāḥ ca abhavan tatra sacivāḥ rākṣasasya te .. 7.14.8 ..
स दृष्ट्वा तादृशं सैन्यं दशग्रीवो निशाचरः । हर्षनादान्बहून्कृत्वा स क्रोधादभ्यधावत ॥ ७.१४.९ ॥
स दृष्ट्वा तादृशम् सैन्यम् दशग्रीवः निशाचरः । हर्ष-नादान् बहून् कृत्वा स क्रोधात् अभ्यधावत ॥ ७।१४।९ ॥
sa dṛṣṭvā tādṛśam sainyam daśagrīvaḥ niśācaraḥ . harṣa-nādān bahūn kṛtvā sa krodhāt abhyadhāvata .. 7.14.9 ..
ये तु ते राक्षसेन्द्रस्य सचिवा घोरविक्रमाः । तेषां सहस्रमेकैकं यक्षाणां समयोधयन् ॥ ७.१४.१० ॥
ये तु ते राक्षस-इन्द्रस्य सचिवाः घोर-विक्रमाः । तेषाम् सहस्रम् एकैकम् यक्षाणाम् समयोधयन् ॥ ७।१४।१० ॥
ye tu te rākṣasa-indrasya sacivāḥ ghora-vikramāḥ . teṣām sahasram ekaikam yakṣāṇām samayodhayan .. 7.14.10 ..
ततो गदाभिर्मुसलैरसिभिः शक्तितोमरैः । हन्यमानो दशग्रीवस्तत्सैन्यं समगाहत ॥ ७.१४.११ ॥
ततस् गदाभिः मुसलैः असिभिः शक्ति-तोमरैः । हन्यमानः दशग्रीवः तत् सैन्यम् समगाहत ॥ ७।१४।११ ॥
tatas gadābhiḥ musalaiḥ asibhiḥ śakti-tomaraiḥ . hanyamānaḥ daśagrīvaḥ tat sainyam samagāhata .. 7.14.11 ..
स निरुच्छ्वासवत्तत्र वध्यमानो दशाननः । वर्षद्भिरिव जीमूतैर्धाराभिरवरुध्यत ॥ ७.१४.१२ ॥
स निरुच्छ्वास-वत् तत्र वध्यमानः दशाननः । वर्षद्भिः इव जीमूतैः धाराभिः अवरुध्यत ॥ ७।१४।१२ ॥
sa nirucchvāsa-vat tatra vadhyamānaḥ daśānanaḥ . varṣadbhiḥ iva jīmūtaiḥ dhārābhiḥ avarudhyata .. 7.14.12 ..
न चकार व्यथां चैव यक्षशस्त्रैः समाहतः । महीधर इवाम्भोदैर्धाराशतसमुक्षितः ॥ ७.१४.१३ ॥
न चकार व्यथाम् च एव यक्ष-शस्त्रैः समाहतः । महीधरः इव अम्भोदैः धारा-शत-समुक्षितः ॥ ७।१४।१३ ॥
na cakāra vyathām ca eva yakṣa-śastraiḥ samāhataḥ . mahīdharaḥ iva ambhodaiḥ dhārā-śata-samukṣitaḥ .. 7.14.13 ..
स दुरात्मा समुद्यम्य कालदण्डोपमां गदाम् । प्रविवेश ततः सैन्यं नयन्यक्षान्यमक्षयम् ॥ ७.१४.१४ ॥
स दुरात्मा समुद्यम्य काल-दण्ड-उपमाम् गदाम् । प्रविवेश ततस् सैन्यम् नयन् यक्ष-अन्यम् अक्षयम् ॥ ७।१४।१४ ॥
sa durātmā samudyamya kāla-daṇḍa-upamām gadām . praviveśa tatas sainyam nayan yakṣa-anyam akṣayam .. 7.14.14 ..
स कक्षमिव विस्तीर्णं शुष्केन्धनमिवाकुलम् । वातेनाग्निरिवायत्तो यक्षसैन्यं ददाह तत् ॥ ७.१४.१५ ॥
स कक्षम् इव विस्तीर्णम् शुष्क-इन्धनम् इव आकुलम् । वातेन अग्निः इव आयत्तः यक्ष-सैन्यम् ददाह तत् ॥ ७।१४।१५ ॥
sa kakṣam iva vistīrṇam śuṣka-indhanam iva ākulam . vātena agniḥ iva āyattaḥ yakṣa-sainyam dadāha tat .. 7.14.15 ..
तैस्तु तत्र महामात्यैर्महोदरशुकादिभिः । अल्पावशेषास्ते यक्षाः कृता वातैरिवाम्बुदाः ॥ ७.१४.१६ ॥
तैः तु तत्र महा-अमात्यैः महोदर-शुक-आदिभिः । अल्प-अवशेषाः ते यक्षाः कृताः वातैः इव अम्बुदाः ॥ ७।१४।१६ ॥
taiḥ tu tatra mahā-amātyaiḥ mahodara-śuka-ādibhiḥ . alpa-avaśeṣāḥ te yakṣāḥ kṛtāḥ vātaiḥ iva ambudāḥ .. 7.14.16 ..
केचित्समाहता भग्नाः पतिताः समरक्षितौ । ओष्ठांश्च दशनैस्तीक्ष्णैरदशन्कुपिता रणे ॥ ७.१४.१७ ॥
केचिद् समाहताः भग्नाः पतिताः समर-क्षितौ । ओष्ठान् च दशनैः तीक्ष्णैः अदशन् कुपिताः रणे ॥ ७।१४।१७ ॥
kecid samāhatāḥ bhagnāḥ patitāḥ samara-kṣitau . oṣṭhān ca daśanaiḥ tīkṣṇaiḥ adaśan kupitāḥ raṇe .. 7.14.17 ..
श्रान्ताश्चान्योन्यमालिङ्ग्य भ्रष्टशस्त्रा रणाजिरे । सीदन्ति च तदा यक्षाः कूला इव जलेन ह ॥ ७.१४.१८ ॥
श्रान्ताः च अन्योन्यम् आलिङ्ग्य भ्रष्ट-शस्त्राः रण-अजिरे । सीदन्ति च तदा यक्षाः कूलाः इव जलेन ह ॥ ७।१४।१८ ॥
śrāntāḥ ca anyonyam āliṅgya bhraṣṭa-śastrāḥ raṇa-ajire . sīdanti ca tadā yakṣāḥ kūlāḥ iva jalena ha .. 7.14.18 ..
हतानां गच्छतां स्वर्गं युध्यतां पृथिवीतले । प्रेक्षतामृषिसङ्घानां न बभूवान्तरं दिवि ॥ ७.१४.१९ ॥
हतानाम् गच्छताम् स्वर्गम् युध्यताम् पृथिवी-तले । प्रेक्षताम् ऋषि-सङ्घानाम् न बभूव अन्तरम् दिवि ॥ ७।१४।१९ ॥
hatānām gacchatām svargam yudhyatām pṛthivī-tale . prekṣatām ṛṣi-saṅghānām na babhūva antaram divi .. 7.14.19 ..
भग्नांस्तु तान्समालक्ष्य यक्षेन्द्रांस्तु महाबलान् । धनाध्यक्षो महाबाहुः प्रेषयामास यक्षकान् ॥ ७.१४.२० ॥
भग्नान् तु तान् समालक्ष्य यक्ष-इन्द्रान् तु महा-बलान् । धनाध्यक्षः महा-बाहुः प्रेषयामास यक्षकान् ॥ ७।१४।२० ॥
bhagnān tu tān samālakṣya yakṣa-indrān tu mahā-balān . dhanādhyakṣaḥ mahā-bāhuḥ preṣayāmāsa yakṣakān .. 7.14.20 ..
एतस्मिन्नन्तरे राम विस्तीर्णबलवाहनः । प्रेषितो न्यपतद्यक्षो नाम्ना संयोधकण्टकः ॥ ७.१४.२१ ॥
एतस्मिन् अन्तरे राम विस्तीर्ण-बल-वाहनः । प्रेषितः न्यपतत् यक्षः नाम्ना संयोधकण्टकः ॥ ७।१४।२१ ॥
etasmin antare rāma vistīrṇa-bala-vāhanaḥ . preṣitaḥ nyapatat yakṣaḥ nāmnā saṃyodhakaṇṭakaḥ .. 7.14.21 ..
तेन चक्रेण मारीचो विष्णुनेव रणे हतः । पतितो भूतले शैलात्क्षीणपुण्य इव ग्रहः ॥ ७.१४.२२ ॥
तेन चक्रेण मारीचः विष्णुना इव रणे हतः । पतितः भू-तले शैलात् क्षीण-पुण्यः इव ग्रहः ॥ ७।१४।२२ ॥
tena cakreṇa mārīcaḥ viṣṇunā iva raṇe hataḥ . patitaḥ bhū-tale śailāt kṣīṇa-puṇyaḥ iva grahaḥ .. 7.14.22 ..
ससञ्ज्ञस्तु मुहूर्तेन स विश्रम्य निशाचरः । तं यक्षं योधयामास स च भग्नः प्रदुद्रुवे ॥ ७.१४.२३ ॥
स सञ्ज्ञः तु मुहूर्तेन स विश्रम्य निशाचरः । तम् यक्षम् योधयामास स च भग्नः प्रदुद्रुवे ॥ ७।१४।२३ ॥
sa sañjñaḥ tu muhūrtena sa viśramya niśācaraḥ . tam yakṣam yodhayāmāsa sa ca bhagnaḥ pradudruve .. 7.14.23 ..
ततः काञ्चनचित्राङ्गं वैडूर्यरजसोक्षितम् । मर्यादां प्रतिहाराणां तोरणान्तरमाविशत् ॥ ७.१४.२४ ॥
ततस् काञ्चन-चित्र-अङ्गम् वैडूर्य-रजसा उक्षितम् । मर्यादाम् प्रतिहाराणाम् तोरण-अन्तरम् आविशत् ॥ ७।१४।२४ ॥
tatas kāñcana-citra-aṅgam vaiḍūrya-rajasā ukṣitam . maryādām pratihārāṇām toraṇa-antaram āviśat .. 7.14.24 ..
तं तु राजन्दशग्रीवं प्रविशन्तं निशाचरम् । सूर्यभानुरिति ख्यातो द्वारपालो न्यवारयत् ॥ ७.१४.२५ ॥
तम् तु राजन् दशग्रीवम् प्रविशन्तम् निशाचरम् । सूर्यभानुः इति ख्यातः द्वारपालः न्यवारयत् ॥ ७।१४।२५ ॥
tam tu rājan daśagrīvam praviśantam niśācaram . sūryabhānuḥ iti khyātaḥ dvārapālaḥ nyavārayat .. 7.14.25 ..
स वार्यमाणो यक्षेण प्रविवेश निशाचरः । यदा तु वारितो राम न व्यतिष्ठत्स राक्षसः ॥ ७.१४.२६ ॥
स वार्यमाणः यक्षेण प्रविवेश निशाचरः । यदा तु वारितः राम न व्यतिष्ठत् स राक्षसः ॥ ७।१४।२६ ॥
sa vāryamāṇaḥ yakṣeṇa praviveśa niśācaraḥ . yadā tu vāritaḥ rāma na vyatiṣṭhat sa rākṣasaḥ .. 7.14.26 ..
ततस्तोरणमुत्पाट्य तेन यक्षेण ताडितः । रुधिरं प्रस्रवन्भाति शैलो धातुस्रवैरिव ॥ ७.१४.२७ ॥
ततस् तोरणम् उत्पाट्य तेन यक्षेण ताडितः । रुधिरम् प्रस्रवन् भाति शैलः धातु-स्रवैः इव ॥ ७।१४।२७ ॥
tatas toraṇam utpāṭya tena yakṣeṇa tāḍitaḥ . rudhiram prasravan bhāti śailaḥ dhātu-sravaiḥ iva .. 7.14.27 ..
स शैलशिखराभेण तोरणेन समाहतः । जगाम न क्षतिं वीरो वरदानात्स्वयम्भुवः ॥ ७.१४.२८ ॥
स शैल-शिखर-आभेण तोरणेन समाहतः । जगाम न क्षतिम् वीरः वर-दानात् स्वयम्भुवः ॥ ७।१४।२८ ॥
sa śaila-śikhara-ābheṇa toraṇena samāhataḥ . jagāma na kṣatim vīraḥ vara-dānāt svayambhuvaḥ .. 7.14.28 ..
तेनैव तोरणेनाथ यक्षस्तेनाभिताडितः । नादृश्यत तदा यक्षो भस्मीकृततनुस्तदा ॥ ७.१४.२९ ॥
तेन एव तोरणेन अथ यक्षः तेन अभिताडितः । न अदृश्यत तदा यक्षः भस्मीकृत-तनुः तदा ॥ ७।१४।२९ ॥
tena eva toraṇena atha yakṣaḥ tena abhitāḍitaḥ . na adṛśyata tadā yakṣaḥ bhasmīkṛta-tanuḥ tadā .. 7.14.29 ..
ततः प्रदुद्रुवुः सर्वे दृष्ट्वा रक्षःपराक्रमम् । ततो नदीर्गुहाश्चैव विविशुर्भयपीडिताः । त्यक्तप्रहरणाः श्रान्ता विवर्णवदनास्तदा ॥ ७.१४.३० ॥
ततस् प्रदुद्रुवुः सर्वे दृष्ट्वा रक्षः-पराक्रमम् । ततस् नदीः गुहाः च एव विविशुः भय-पीडिताः । त्यक्त-प्रहरणाः श्रान्ताः विवर्ण-वदनाः तदा ॥ ७।१४।३० ॥
tatas pradudruvuḥ sarve dṛṣṭvā rakṣaḥ-parākramam . tatas nadīḥ guhāḥ ca eva viviśuḥ bhaya-pīḍitāḥ . tyakta-praharaṇāḥ śrāntāḥ vivarṇa-vadanāḥ tadā .. 7.14.30 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चतुर्दशः सर्गः ॥ १४ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे चतुर्दशः सर्गः ॥ १४ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe caturdaśaḥ sargaḥ .. 14 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In