This overlay will guide you through the buttons:

| |
|
ततस्ताँल्लक्ष्य वित्रस्तान्यक्षेन्द्रांश्च सहस्रशः । धनाध्यक्षो महायक्षं माणिचारमथाब्रवीत् ॥ ७.१५.१ ॥
ततस् तान् लक्ष्य वित्रस्तान् यक्ष-इन्द्रान् च सहस्रशस् । धनाध्यक्षः महा-यक्षम् माणिचारम् अथ अब्रवीत् ॥ ७।१५।१ ॥
tatas tān lakṣya vitrastān yakṣa-indrān ca sahasraśas . dhanādhyakṣaḥ mahā-yakṣam māṇicāram atha abravīt .. 7.15.1 ..
रावणं जहि यक्षेन्द्र दुर्वृत्तं पापचेतसम् । शरणं भव वीराणां यक्षाणां युद्धशालिनाम् ॥ ७.१५.२ ॥
रावणम् जहि यक्ष-इन्द्र दुर्वृत्तम् पाप-चेतसम् । शरणम् भव वीराणाम् यक्षाणाम् युद्ध-शालिनाम् ॥ ७।१५।२ ॥
rāvaṇam jahi yakṣa-indra durvṛttam pāpa-cetasam . śaraṇam bhava vīrāṇām yakṣāṇām yuddha-śālinām .. 7.15.2 ..
एवमुक्तो महाबाहुर्माणिभद्रः सुदुर्जयः । वृतो यक्षसहस्रैस्तु चतुर्भिः समयोधयत् ॥ ७.१५.३ ॥
एवम् उक्तः महा-बाहुः माणिभद्रः सु दुर्जयः । वृतः यक्ष-सहस्रैः तु चतुर्भिः समयोधयत् ॥ ७।१५।३ ॥
evam uktaḥ mahā-bāhuḥ māṇibhadraḥ su durjayaḥ . vṛtaḥ yakṣa-sahasraiḥ tu caturbhiḥ samayodhayat .. 7.15.3 ..
ते गदामुसलप्रासैः शक्तितोमरमुद्गरैः । अभिघ्नन्तस्तदा यक्षा राक्षसान्समुपाद्रवन् ॥ ७.१५.४ ॥
ते गदा-मुसल-प्रासैः शक्ति-तोमर-मुद्गरैः । अभिघ्नन्तः तदा यक्षाः राक्षसान् समुपाद्रवन् ॥ ७।१५।४ ॥
te gadā-musala-prāsaiḥ śakti-tomara-mudgaraiḥ . abhighnantaḥ tadā yakṣāḥ rākṣasān samupādravan .. 7.15.4 ..
कुर्वन्तस्तुमुलं युद्धं चरन्तः श्येनवल्लघु । बाढं प्रयच्छन्नेच्छामि दीयतामिति भाषिणः ॥ ७.१५.५ ॥
कुर्वन्तः तुमुलम् युद्धम् चरन्तः श्येन-वत् लघु । बाढम् प्रयच्छन् न इच्छामि दीयताम् इति भाषिणः ॥ ७।१५।५ ॥
kurvantaḥ tumulam yuddham carantaḥ śyena-vat laghu . bāḍham prayacchan na icchāmi dīyatām iti bhāṣiṇaḥ .. 7.15.5 ..
ततो देवाः सगन्धर्वा ऋषयो ब्रह्मवादिनः । दृष्ट्वा तत्तुमुलं युद्धं परं विस्मयमागमन् ॥ ७.१५.६ ॥
ततस् देवाः स गन्धर्वाः ऋषयः ब्रह्म-वादिनः । दृष्ट्वा तत् तुमुलम् युद्धम् परम् विस्मयम् आगमन् ॥ ७।१५।६ ॥
tatas devāḥ sa gandharvāḥ ṛṣayaḥ brahma-vādinaḥ . dṛṣṭvā tat tumulam yuddham param vismayam āgaman .. 7.15.6 ..
यक्षाणां तु प्रहस्तेन सहस्रं निहतं रणे । महोदरेण चानिन्द्यं सहस्रमपरं हतम् ॥ ७.१५.७ ॥
यक्षाणाम् तु प्रहस्तेन सहस्रम् निहतम् रणे । महोदरेण च अनिन्द्यम् सहस्रम् अपरम् हतम् ॥ ७।१५।७ ॥
yakṣāṇām tu prahastena sahasram nihatam raṇe . mahodareṇa ca anindyam sahasram aparam hatam .. 7.15.7 ..
क्रुद्धेन च तदा राजन्मारीचेन युयुत्सुना । निमेषान्तरमात्रेण द्वे सहस्रे निपातिते ॥ ७.१५.८ ॥
क्रुद्धेन च तदा राजन् मारीचेन युयुत्सुना । निमेष-अन्तर-मात्रेण द्वे सहस्रे निपातिते ॥ ७।१५।८ ॥
kruddhena ca tadā rājan mārīcena yuyutsunā . nimeṣa-antara-mātreṇa dve sahasre nipātite .. 7.15.8 ..
क्व च यक्षार्जवं युद्धं क्व च मायाबलाश्रयम् । रक्षसां पुरुषव्याघ्र तेन ते ऽभ्यधिका युधि ॥ ७.१५.९ ॥
क्व च यक्ष-आर्जवम् युद्धम् क्व च माया-बल-आश्रयम् । रक्षसाम् पुरुष-व्याघ्र तेन ते अभ्यधिकाः युधि ॥ ७।१५।९ ॥
kva ca yakṣa-ārjavam yuddham kva ca māyā-bala-āśrayam . rakṣasām puruṣa-vyāghra tena te abhyadhikāḥ yudhi .. 7.15.9 ..
धूम्राक्षेण समागम्य माणिभद्रो महारणे । मुसलेनोरसि क्रोधात्तडितो न च कम्पितः ॥ ७.१५.१० ॥
धूम्राक्षेण समागम्य माणिभद्रः महा-रणे । मुसलेन उरसि क्रोधात् तडितः न च कम्पितः ॥ ७।१५।१० ॥
dhūmrākṣeṇa samāgamya māṇibhadraḥ mahā-raṇe . musalena urasi krodhāt taḍitaḥ na ca kampitaḥ .. 7.15.10 ..
ततो गदां समाविध्य माणिभद्रेण राक्षसः । धूम्राक्षस्ताडितो मूर्ध्नि विह्वलः स पपात ह ॥ ७.१५.११ ॥
ततस् गदाम् समाविध्य माणिभद्रेण राक्षसः । धूम्राक्षः ताडितः मूर्ध्नि विह्वलः स पपात ह ॥ ७।१५।११ ॥
tatas gadām samāvidhya māṇibhadreṇa rākṣasaḥ . dhūmrākṣaḥ tāḍitaḥ mūrdhni vihvalaḥ sa papāta ha .. 7.15.11 ..
धूम्राक्षं ताडितं दृष्ट्वा पतितं शोणितोक्षितम् । अभ्यधावत सङ्ग्रामे माणिभद्रं दशाननः ॥ ७.१५.१२ ॥
धूम्राक्षम् ताडितम् दृष्ट्वा पतितम् शोणित-उक्षितम् । अभ्यधावत सङ्ग्रामे माणिभद्रम् दशाननः ॥ ७।१५।१२ ॥
dhūmrākṣam tāḍitam dṛṣṭvā patitam śoṇita-ukṣitam . abhyadhāvata saṅgrāme māṇibhadram daśānanaḥ .. 7.15.12 ..
तं क्रुद्धमभिधावन्तं माणिभद्रो दशाननम् । शक्तिभिस्ताडयामास तिसृभिर्यक्षपुङ्गवः ॥ ७.१५.१३ ॥
तम् क्रुद्धम् अभिधावन्तम् माणिभद्रः दशाननम् । शक्तिभिः ताडयामास तिसृभिः यक्ष-पुङ्गवः ॥ ७।१५।१३ ॥
tam kruddham abhidhāvantam māṇibhadraḥ daśānanam . śaktibhiḥ tāḍayāmāsa tisṛbhiḥ yakṣa-puṅgavaḥ .. 7.15.13 ..
ताडितो माणिभद्रस्य मुकुटे प्राहरद्रणे । तस्य तेन प्रहारेम मुकुटं पार्श्वमागतम् ॥ ७.१५.१४ ॥
ताडितः माणिभद्रस्य मुकुटे प्राहरत् रणे । तस्य तेन प्रहारेम मुकुटम् पार्श्वम् आगतम् ॥ ७।१५।१४ ॥
tāḍitaḥ māṇibhadrasya mukuṭe prāharat raṇe . tasya tena prahārema mukuṭam pārśvam āgatam .. 7.15.14 ..
ततः संयुध्यमानेन विष्टब्धो न व्यकम्पत । तदाप्रभृति यक्षो ऽसौ पार्श्वमौलिरिति स्मृतः । सन्नादः सुमहान्राजंस्तस्मिन्शैले ऽभ्यवर्तत ॥ ७.१५.१५ ॥
ततस् संयुध्यमानेन विष्टब्धः न व्यकम्पत । तदा प्रभृति यक्षः असौ पार्श्वमौलिः इति स्मृतः । सन्-नादः सु महान् राजन् तस्मिन् शैले अभ्यवर्तत ॥ ७।१५।१५ ॥
tatas saṃyudhyamānena viṣṭabdhaḥ na vyakampata . tadā prabhṛti yakṣaḥ asau pārśvamauliḥ iti smṛtaḥ . san-nādaḥ su mahān rājan tasmin śaile abhyavartata .. 7.15.15 ..
ततो दूरात्प्रददृशे धनाध्यक्षो गदाधरः । शुक्रप्रौष्ठपदाभ्यां च पद्मशङ्खसमावृतः ॥ ७.१५.१६ ॥
ततस् दूरात् प्रददृशे धनाध्यक्षः गदा-धरः । शुक्र-प्रौष्ठपदाभ्याम् च पद्म-शङ्ख-समावृतः ॥ ७।१५।१६ ॥
tatas dūrāt pradadṛśe dhanādhyakṣaḥ gadā-dharaḥ . śukra-prauṣṭhapadābhyām ca padma-śaṅkha-samāvṛtaḥ .. 7.15.16 ..
स दृष्ट्वा भ्रातरं सङ्ख्ये शापाद्विभ्रष्टगौरवम् । उवाच वचनं धीमान्युक्तं पैतामहे कुले ॥ ७.१५.१७ ॥
स दृष्ट्वा भ्रातरम् सङ्ख्ये शापात् विभ्रष्ट-गौरवम् । उवाच वचनम् धीमान् युक्तम् पैतामहे कुले ॥ ७।१५।१७ ॥
sa dṛṣṭvā bhrātaram saṅkhye śāpāt vibhraṣṭa-gauravam . uvāca vacanam dhīmān yuktam paitāmahe kule .. 7.15.17 ..
यन्मया वार्यमाणस्त्वं नावगच्छसि दुर्मते । पश्चादस्य फलं प्राप्य ज्ञास्यसे निरयं गतः ॥ ७.१५.१८ ॥
यत् मया वार्यमाणः त्वम् न अवगच्छसि दुर्मते । पश्चात् अस्य फलम् प्राप्य ज्ञास्यसे निरयम् गतः ॥ ७।१५।१८ ॥
yat mayā vāryamāṇaḥ tvam na avagacchasi durmate . paścāt asya phalam prāpya jñāsyase nirayam gataḥ .. 7.15.18 ..
यो हि मोहाद्विषं पीत्वा नावगच्छति दुर्मतिः । स तस्य परिणामान्ते जानीते कर्मणः फलम् ॥ ७.१५.१९ ॥
यः हि मोहात् विषम् पीत्वा न अवगच्छति दुर्मतिः । स तस्य परिणाम-अन्ते जानीते कर्मणः फलम् ॥ ७।१५।१९ ॥
yaḥ hi mohāt viṣam pītvā na avagacchati durmatiḥ . sa tasya pariṇāma-ante jānīte karmaṇaḥ phalam .. 7.15.19 ..
देवता नाभिनन्दन्ति धर्मयुक्तेन केनचित् । येन त्वमीदृशं भावं नीतस्सन्नावबुद्ध्यसे ॥ ७.१५.२० ॥
देवताः न अभिनन्दन्ति धर्म-युक्तेन केनचिद् । येन त्वम् ईदृशम् भावम् नीतः सन् न अवबुद्ध्यसे ॥ ७।१५।२० ॥
devatāḥ na abhinandanti dharma-yuktena kenacid . yena tvam īdṛśam bhāvam nītaḥ san na avabuddhyase .. 7.15.20 ..
मातरं पितरं यो हि आचार्यं चावमन्यते । स पश्यति फलं तस्य प्रेतराजवशं गतः ॥ ७.१५.२१ ॥
मातरम् पितरम् यः हि आचार्यम् च अवमन्यते । स पश्यति फलम् तस्य प्रेतराज-वशम् गतः ॥ ७।१५।२१ ॥
mātaram pitaram yaḥ hi ācāryam ca avamanyate . sa paśyati phalam tasya pretarāja-vaśam gataḥ .. 7.15.21 ..
अध्रुवे हि शरीरे यो न करोति तपोर्जनम् । स पश्चात्तप्यते मूढो मृतो दृष्ट्वा ऽ ऽत्मनो गतिम् ॥ ७.१५.२२ ॥
अध्रुवे हि शरीरे यः न करोति तपोः जनम् । स पश्चात् तप्यते मूढः मृतः दृष्ट्वा गतिम् ॥ ७।१५।२२ ॥
adhruve hi śarīre yaḥ na karoti tapoḥ janam . sa paścāt tapyate mūḍhaḥ mṛtaḥ dṛṣṭvā gatim .. 7.15.22 ..
धर्माद्राज्यं धनं सौख्यमधर्माद्दुःखमेव च । तस्माद्धर्मं सुखार्थाय कुर्यात्पापं विसर्जयेत् ॥ ७.१५.२३ ॥
धर्मात् राज्यम् धनम् सौख्यम् अधर्मात् दुःखम् एव च । तस्मात् धर्मम् सुख-अर्थाय कुर्यात् पापम् विसर्जयेत् ॥ ७।१५।२३ ॥
dharmāt rājyam dhanam saukhyam adharmāt duḥkham eva ca . tasmāt dharmam sukha-arthāya kuryāt pāpam visarjayet .. 7.15.23 ..
पापस्य हि फलं दुःखं तद्भोक्तव्यमिहात्मना । तस्मादात्मापघातार्थं मूढः पापं करिष्यति ॥ ७.१५.२४ ॥
पापस्य हि फलम् दुःखम् तत् भोक्तव्यम् इह आत्मना । तस्मात् आत्म-अपघात-अर्थम् मूढः पापम् करिष्यति ॥ ७।१५।२४ ॥
pāpasya hi phalam duḥkham tat bhoktavyam iha ātmanā . tasmāt ātma-apaghāta-artham mūḍhaḥ pāpam kariṣyati .. 7.15.24 ..
कस्य चिन्न हि दुर्बुद्धेश्छन्दतो जायते मतिः । देवं चेष्टयते सर्वं हतो दैवेन हन्यते । यादृशं कुरुते कर्म तादृशं फलमश्नुते ॥ ७.१५.२५ ॥
कस्य चित् न हि दुर्बुद्धेः छन्दतः जायते मतिः । देवम् चेष्टयते सर्वम् हतः दैवेन हन्यते । यादृशम् कुरुते कर्म तादृशम् फलम् अश्नुते ॥ ७।१५।२५ ॥
kasya cit na hi durbuddheḥ chandataḥ jāyate matiḥ . devam ceṣṭayate sarvam hataḥ daivena hanyate . yādṛśam kurute karma tādṛśam phalam aśnute .. 7.15.25 ..
बुद्धिरूपं फलं पुत्राञ्छौर्यं धीरत्वमेव च । प्राप्नुवन्ति नरा लोके निर्जितं पुण्यकर्मभिः ॥ ७.१५.२६ ॥
बुद्धि-रूपम् फलम् पुत्रान् शौर्यम् धीर-त्वम् एव च । प्राप्नुवन्ति नराः लोके निर्जितम् पुण्य-कर्मभिः ॥ ७।१५।२६ ॥
buddhi-rūpam phalam putrān śauryam dhīra-tvam eva ca . prāpnuvanti narāḥ loke nirjitam puṇya-karmabhiḥ .. 7.15.26 ..
एवं निरयगामी त्वं यस्य ते मतिरीदृशी । न त्वां समभिभाषिष्ये ऽसद्वृत्तेष्वेव निर्णयः ॥ ७.१५.२७ ॥
एवम् निरय-गामी त्वम् यस्य ते मतिः ईदृशी । न त्वाम् समभिभाषिष्ये असत्-वृत्तेषु एव निर्णयः ॥ ७।१५।२७ ॥
evam niraya-gāmī tvam yasya te matiḥ īdṛśī . na tvām samabhibhāṣiṣye asat-vṛtteṣu eva nirṇayaḥ .. 7.15.27 ..
एवमुक्तास्ततस्तेन तस्यामात्याः समाहताः । मारीचप्रमुखाः सर्वे विमुखा विप्रदुद्रुवुः ॥ ७.१५.२८ ॥
एवम् उक्ताः ततस् तेन तस्य अमात्याः समाहताः । मारीच-प्रमुखाः सर्वे विमुखाः विप्रदुद्रुवुः ॥ ७।१५।२८ ॥
evam uktāḥ tatas tena tasya amātyāḥ samāhatāḥ . mārīca-pramukhāḥ sarve vimukhāḥ vipradudruvuḥ .. 7.15.28 ..
ततस्तेन दशग्रीवो यक्षेन्द्रेण महात्मना । गदयाभिहतो मूर्ध्नि न च स्थानात्प्रकम्पितः ॥ ७.१५.२९ ॥
ततस् तेन दशग्रीवः यक्षेन्द्रेण महात्मना । गदया अभिहतः मूर्ध्नि न च स्थानात् प्रकम्पितः ॥ ७।१५।२९ ॥
tatas tena daśagrīvaḥ yakṣendreṇa mahātmanā . gadayā abhihataḥ mūrdhni na ca sthānāt prakampitaḥ .. 7.15.29 ..
ततस्तौ राम निघ्नन्तौ तदान्योन्यं महामृधे । न विह्वलौ न च श्रान्तौ बभूवतुरमर्षणौ ॥ ७.१५.३० ॥
ततस् तौ राम निघ्नन्तौ तदा अन्योन्यम् महा-मृधे । न विह्वलौ न च श्रान्तौ बभूवतुः अमर्षणौ ॥ ७।१५।३० ॥
tatas tau rāma nighnantau tadā anyonyam mahā-mṛdhe . na vihvalau na ca śrāntau babhūvatuḥ amarṣaṇau .. 7.15.30 ..
आग्नेयमस्त्रं तस्मै स मुमोच धनदस्तदा । राक्षसेन्द्रो वारुणेन तदस्त्रं प्रत्यवारयत् ॥ ७.१५.३१ ॥
आग्नेयम् अस्त्रम् तस्मै स मुमोच धनदः तदा । राक्षस-इन्द्रः वारुणेन तत् अस्त्रम् प्रत्यवारयत् ॥ ७।१५।३१ ॥
āgneyam astram tasmai sa mumoca dhanadaḥ tadā . rākṣasa-indraḥ vāruṇena tat astram pratyavārayat .. 7.15.31 ..
ततो मायां प्रविष्टो ऽसौ राक्षसीं राक्षसेश्वरः । रूपाणां शतसाहस्रं विनाशाय चकार च ॥ ७.१५.३२ ॥
ततस् मायाम् प्रविष्टः असौ राक्षसीम् राक्षसेश्वरः । रूपाणाम् शत-साहस्रम् विनाशाय चकार च ॥ ७।१५।३२ ॥
tatas māyām praviṣṭaḥ asau rākṣasīm rākṣaseśvaraḥ . rūpāṇām śata-sāhasram vināśāya cakāra ca .. 7.15.32 ..
व्याघ्रो वराहो जीमूतः पर्वतः सागरो द्रुमः । यक्षो दैत्यस्वरूपी च सो ऽदृश्यत दशाननः ॥ ७.१५.३३ ॥
व्याघ्रः वराहः जीमूतः पर्वतः सागरः द्रुमः । यक्षः दैत्य-स्वरूपी च सः अदृश्यत दशाननः ॥ ७।१५।३३ ॥
vyāghraḥ varāhaḥ jīmūtaḥ parvataḥ sāgaraḥ drumaḥ . yakṣaḥ daitya-svarūpī ca saḥ adṛśyata daśānanaḥ .. 7.15.33 ..
बहूनि च करोति स्म दृश्यन्ते न त्वसौ ततः । प्रतिगृह्य ततो राम महदस्त्रं दशाननः ॥ ७.१५.३४ ॥
बहूनि च करोति स्म दृश्यन्ते न तु असौ ततस् । प्रतिगृह्य ततस् राम महत् अस्त्रम् दशाननः ॥ ७।१५।३४ ॥
bahūni ca karoti sma dṛśyante na tu asau tatas . pratigṛhya tatas rāma mahat astram daśānanaḥ .. 7.15.34 ..
जघान मूर्ध्नि धनदं व्याविद्ध्य महतीं गदाम् । एवं स तेनाभिहतो विह्वलः शोणितोक्षितः ॥ ७.१५.३५ ॥
जघान मूर्ध्नि धनदम् व्याविद्ध्य महतीम् गदाम् । एवम् स तेन अभिहतः विह्वलः शोणित-उक्षितः ॥ ७।१५।३५ ॥
jaghāna mūrdhni dhanadam vyāviddhya mahatīm gadām . evam sa tena abhihataḥ vihvalaḥ śoṇita-ukṣitaḥ .. 7.15.35 ..
कृत्तमूल इवाशोको निपपात धनाधिपः ॥ ७.१५.३६ ॥
कृत्त-मूलः इव अशोकः निपपात धनाधिपः ॥ ७।१५।३६ ॥
kṛtta-mūlaḥ iva aśokaḥ nipapāta dhanādhipaḥ .. 7.15.36 ..
ततः पद्मादिभिस्तत्र निधिभिः स तदा वृतः । धनदोच्छ्वासितस्तैस्तु वनमानीय नन्दनम् ॥ ७.१५.३७ ॥
ततस् पद्म-आदिभिः तत्र निधिभिः स तदा वृतः । धनद-उच्छ्वासितः तैः तु वनम् आनीय नन्दनम् ॥ ७।१५।३७ ॥
tatas padma-ādibhiḥ tatra nidhibhiḥ sa tadā vṛtaḥ . dhanada-ucchvāsitaḥ taiḥ tu vanam ānīya nandanam .. 7.15.37 ..
निर्जित्य राक्षसेन्द्रस्तं धनदं हृष्टमानसः । पुष्पकं तस्य जग्राह विमानं जयलक्षणम् ॥ ७.१५.३८ ॥
निर्जित्य राक्षस-इन्द्रः तम् धनदम् हृष्ट-मानसः । पुष्पकम् तस्य जग्राह विमानम् जय-लक्षणम् ॥ ७।१५।३८ ॥
nirjitya rākṣasa-indraḥ tam dhanadam hṛṣṭa-mānasaḥ . puṣpakam tasya jagrāha vimānam jaya-lakṣaṇam .. 7.15.38 ..
काञ्चनस्तम्भसंवीतं वैडूर्यमणितोरणम् । मुक्ताजालप्रतिच्छन्नं सर्वकामफलद्रुमम् ॥ ७.१५.३९ ॥
काञ्चन-स्तम्भ-संवीतम् वैडूर्य-मणि-तोरणम् । मुक्ता-जाल-प्रतिच्छन्नम् सर्व-काम-फल-द्रुमम् ॥ ७।१५।३९ ॥
kāñcana-stambha-saṃvītam vaiḍūrya-maṇi-toraṇam . muktā-jāla-praticchannam sarva-kāma-phala-drumam .. 7.15.39 ..
मनोजवं कामगमं कामरूपं विहङ्गमम् । मणिकाञ्चनसोपानं तप्तकाञ्चनवेदिकम् ॥ ७.१५.४० ॥
मनोजवम् काम-गमम् कामरूपम् विहङ्गमम् । मणि-काञ्चन-सोपानम् तप्त-काञ्चन-वेदिकम् ॥ ७।१५।४० ॥
manojavam kāma-gamam kāmarūpam vihaṅgamam . maṇi-kāñcana-sopānam tapta-kāñcana-vedikam .. 7.15.40 ..
देवोपवाह्यमक्षय्यं सदादृष्टिमनःसुखम् । बह्वाश्चर्यं भक्तिचित्रं ब्रह्मणा परिनिर्मितम् ॥ ७.१५.४१ ॥
देव-उपवाह्यम् अक्षय्यम् सदा अदृष्टि-मनः-सुखम् । बहु-आश्चर्यम् भक्ति-चित्रम् ब्रह्मणा परिनिर्मितम् ॥ ७।१५।४१ ॥
deva-upavāhyam akṣayyam sadā adṛṣṭi-manaḥ-sukham . bahu-āścaryam bhakti-citram brahmaṇā parinirmitam .. 7.15.41 ..
निर्मितं सर्वकामैस्तु मनोहरमनुत्तमम् । न तु शीतं न चोष्णं च सर्वर्तुसुखदं शुभम् ॥ ७.१५.४२ ॥
निर्मितम् सर्व-कामैः तु मनोहरम् अनुत्तमम् । न तु शीतम् न च उष्णम् च सर्व-ऋतु-सुख-दम् शुभम् ॥ ७।१५।४२ ॥
nirmitam sarva-kāmaiḥ tu manoharam anuttamam . na tu śītam na ca uṣṇam ca sarva-ṛtu-sukha-dam śubham .. 7.15.42 ..
स तं राजा समारुह्य कामगं वीर्यनिर्जितम् । जितं त्रिभुवनं मेने दर्पोत्सेकात्सुदुर्मतिः ॥ ७.१५.४३ ॥
स तम् राजा समारुह्य कामगम् वीर्य-निर्जितम् । जितम् त्रिभुवनम् मेने दर्प-उत्सेकात् सु दुर्मतिः ॥ ७।१५।४३ ॥
sa tam rājā samāruhya kāmagam vīrya-nirjitam . jitam tribhuvanam mene darpa-utsekāt su durmatiḥ .. 7.15.43 ..
जित्वा वैश्रवणं देवं कैलासात्समवातरत् ॥ ७.१५.४४ ॥
जित्वा वैश्रवणम् देवम् कैलासात् समवातरत् ॥ ७।१५।४४ ॥
jitvā vaiśravaṇam devam kailāsāt samavātarat .. 7.15.44 ..
स्वतेजसा विपुलमवाप्य तं जयं प्रतापवान्विमलकिरीटहारवान् । रराज वै परमविमानमास्थितो निशाचरः सदसि गतो यथानलः ॥ ७.१५.४५ ॥
स्व-तेजसा विपुलम् अवाप्य तम् जयम् प्रतापवान् विमल-किरीट-हारवान् । रराज वै परम-विमानम् आस्थितः निशाचरः सदसि गतः यथा अनलः ॥ ७।१५।४५ ॥
sva-tejasā vipulam avāpya tam jayam pratāpavān vimala-kirīṭa-hāravān . rarāja vai parama-vimānam āsthitaḥ niśācaraḥ sadasi gataḥ yathā analaḥ .. 7.15.45 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे पञ्चदशः सर्गः ॥ १५ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे पञ्चदशः सर्गः ॥ १५ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe pañcadaśaḥ sargaḥ .. 15 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In