This overlay will guide you through the buttons:

| |
|
स जित्वा धनदं राम भ्रातरं राक्षसाधिपः । महासेनप्रसूतिं तद्ययौ शरवणं महत् ॥ ७.१६.१ ॥
स जित्वा धनदम् राम भ्रातरम् राक्षस-अधिपः । महासेन-प्रसूतिम् तत् ययौ शरवणम् महत् ॥ ७।१६।१ ॥
sa jitvā dhanadam rāma bhrātaram rākṣasa-adhipaḥ . mahāsena-prasūtim tat yayau śaravaṇam mahat .. 7.16.1 ..
अथापश्यदृशग्रीवो रौक्मं शरवणं महत् । गभस्तिजालसंवीतं द्वितीयमिव भास्करम् ॥ ७.१६.२ ॥
अथ अपश्यत् ऋशग्रीवः रौक्मम् शरवणम् महत् । गभस्ति-जाल-संवीतम् द्वितीयम् इव भास्करम् ॥ ७।१६।२ ॥
atha apaśyat ṛśagrīvaḥ raukmam śaravaṇam mahat . gabhasti-jāla-saṃvītam dvitīyam iva bhāskaram .. 7.16.2 ..
स पर्वतं समारुह्य कञ्चिद्रम्यवनान्तरम् । अपश्यत् पुष्पकं तत्र रामविष्टम्भितं तदा ॥ ७.१६.३ ॥
स पर्वतम् समारुह्य कञ्चिद् रम्य-वन-अन्तरम् । अपश्यत् पुष्पकम् तत्र राम-विष्टम्भितम् तदा ॥ ७।१६।३ ॥
sa parvatam samāruhya kañcid ramya-vana-antaram . apaśyat puṣpakam tatra rāma-viṣṭambhitam tadā .. 7.16.3 ..
विष्टब्धं पुष्पकं दृष्ट्वा ह्यगमं कामागं कृतम् । अचिन्तयद्राक्षसेन्द्रः सचिवैस्तैः समावृतः ॥ ७.१६.४ ॥
विष्टब्धम् पुष्पकम् दृष्ट्वा हि अगमम् कृतम् । अचिन्तयत् राक्षस-इन्द्रः सचिवैः तैः समावृतः ॥ ७।१६।४ ॥
viṣṭabdham puṣpakam dṛṣṭvā hi agamam kṛtam . acintayat rākṣasa-indraḥ sacivaiḥ taiḥ samāvṛtaḥ .. 7.16.4 ..
किन्निमित्तं चेच्छया मे नेदं गच्छति पुष्पकम् । पर्वतस्योपरिष्ठस्य कर्मेदं कस्यचिद्भवेत् ॥ ७.१६.५ ॥
किन्निमित्तम् च इच्छया मे ना इदम् गच्छति पुष्पकम् । पर्वतस्य उपरिष्ठस्य कर्म इदम् कस्यचिद् भवेत् ॥ ७।१६।५ ॥
kinnimittam ca icchayā me nā idam gacchati puṣpakam . parvatasya upariṣṭhasya karma idam kasyacid bhavet .. 7.16.5 ..
ततो ऽब्रवीत्तदा राम मारीचो बुद्धिकोविदः । नेदं निष्कारणं राजन्पुष्पकं यन्न गच्छति ॥ ७.१६.६ ॥
ततस् अब्रवीत् तदा राम मारीचः बुद्धि-कोविदः । न इदम् निष्कारणम् राजन् पुष्पकम् यत् न गच्छति ॥ ७।१६।६ ॥
tatas abravīt tadā rāma mārīcaḥ buddhi-kovidaḥ . na idam niṣkāraṇam rājan puṣpakam yat na gacchati .. 7.16.6 ..
अथवा पुष्पकमिदं धनदान्नान्यवाहनम् । अतो निष्पन्दमभवद्धनाध्यक्षविनाकृतम् ॥ ७.१६.७ ॥
अथवा पुष्पकम् इदम् धनद-अन्न-अन्य-वाहनम् । अतस् निष्पन्दम् अभवत् धनाध्यक्ष-विनाकृतम् ॥ ७।१६।७ ॥
athavā puṣpakam idam dhanada-anna-anya-vāhanam . atas niṣpandam abhavat dhanādhyakṣa-vinākṛtam .. 7.16.7 ..
इति वाक्यान्तरे तस्य करालः कृष्णपिङ्गलः । वामनो विकटो मुण्डी नन्दी प्रह्वभुजो बली ॥ ७.१६.८ ॥
इति वाक्य-अन्तरे तस्य करालः कृष्ण-पिङ्गलः । ॥ ७।१६।८ ॥
iti vākya-antare tasya karālaḥ kṛṣṇa-piṅgalaḥ . .. 7.16.8 ..
ततः पार्श्वमुपागम्य भवस्यानुचरो ऽब्रवीत् । नन्दीश्वरो वचश्चेदं राक्षसेन्द्रमशङ्कितः ॥ ७.१६.९ ॥
ततस् पार्श्वम् उपागम्य भवस्य अनुचरः अब्रवीत् । नन्दीश्वरः वचः च इदम् राक्षस-इन्द्रम् अशङ्कितः ॥ ७।१६।९ ॥
tatas pārśvam upāgamya bhavasya anucaraḥ abravīt . nandīśvaraḥ vacaḥ ca idam rākṣasa-indram aśaṅkitaḥ .. 7.16.9 ..
निवर्तस्व दशग्रीव शैले क्रीडति शङ्करः । सुपर्णनागयक्षाणां देवगन्धर्वरक्षसाम् ॥ ७.१६.१० ॥
निवर्तस्व दशग्रीव शैले क्रीडति शङ्करः । सुपर्ण-नाग-यक्षाणाम् देव-गन्धर्व-रक्षसाम् ॥ ७।१६।१० ॥
nivartasva daśagrīva śaile krīḍati śaṅkaraḥ . suparṇa-nāga-yakṣāṇām deva-gandharva-rakṣasām .. 7.16.10 ..
सर्वेषामेव भूतानामगम्यः पर्वतः कृतः । इति नन्दिवचः श्रुत्वा क्रोधात्कम्पितकुण्डलः ॥ ७.१६.११ ॥
सर्वेषाम् एव भूतानाम् अगम्यः पर्वतः कृतः । इति नन्दि-वचः श्रुत्वा क्रोधात् कम्पित-कुण्डलः ॥ ७।१६।११ ॥
sarveṣām eva bhūtānām agamyaḥ parvataḥ kṛtaḥ . iti nandi-vacaḥ śrutvā krodhāt kampita-kuṇḍalaḥ .. 7.16.11 ..
रोषात्तु ताम्रनयनः पुष्पकादवरुह्य सः । को ऽयं शङ्कर इत्युक्त्वा शैलमूलमुपागतः ॥ ७.१६.१२ ॥
रोषात् तु ताम्र-नयनः पुष्पकात् अवरुह्य सः । कः अयम् शङ्करः इति उक्त्वा शैल-मूलम् उपागतः ॥ ७।१६।१२ ॥
roṣāt tu tāmra-nayanaḥ puṣpakāt avaruhya saḥ . kaḥ ayam śaṅkaraḥ iti uktvā śaila-mūlam upāgataḥ .. 7.16.12 ..
सो ऽपश्यन्नन्दिनं तत्र देवस्यादूरतः स्थितम् । दीप्तं शूलमवष्टभ्य द्वितीयमिव शङ्करम् ॥ ७.१६.१३ ॥
सः अपश्यत् नन्दिनम् तत्र देवस्य अदूरतः स्थितम् । दीप्तम् शूलम् अवष्टभ्य द्वितीयम् इव शङ्करम् ॥ ७।१६।१३ ॥
saḥ apaśyat nandinam tatra devasya adūrataḥ sthitam . dīptam śūlam avaṣṭabhya dvitīyam iva śaṅkaram .. 7.16.13 ..
तं दृष्ट्वा वानरमुखमवज्ञाय स राक्षसः । प्रहासं मुमुचे तत्र सतोय इव तोयदः ॥ ७.१६.१४ ॥
तम् दृष्ट्वा वानर-मुखम् अवज्ञाय स राक्षसः । प्रहासम् मुमुचे तत्र स तोयः इव तोयदः ॥ ७।१६।१४ ॥
tam dṛṣṭvā vānara-mukham avajñāya sa rākṣasaḥ . prahāsam mumuce tatra sa toyaḥ iva toyadaḥ .. 7.16.14 ..
तं क्रुद्धो भगवान्नन्दी शङ्करस्यापरा तनुः । अब्रवीत्तत्र तद्रक्षो दशाननमुपस्थितम् ॥ ७.१६.१५ ॥
तम् क्रुद्धः भगवान् नन्दी शङ्करस्य अपरा तनुः । अब्रवीत् तत्र तत् रक्षः दशाननम् उपस्थितम् ॥ ७।१६।१५ ॥
tam kruddhaḥ bhagavān nandī śaṅkarasya aparā tanuḥ . abravīt tatra tat rakṣaḥ daśānanam upasthitam .. 7.16.15 ..
यस्माद्वानररूपं मामवज्ञाय दशानन । अशनीपातसङ्काशमपहासं प्रमुक्तवान् ॥ ७.१६.१६ ॥
यस्मात् वानर-रूपम् माम् अवज्ञाय दशानन । अशनीपात-सङ्काशम् अपहासम् प्रमुक्तवान् ॥ ७।१६।१६ ॥
yasmāt vānara-rūpam mām avajñāya daśānana . aśanīpāta-saṅkāśam apahāsam pramuktavān .. 7.16.16 ..
तस्मान्मद्रूपसम्पन्ना मद्वीर्यसमतेजसः । उत्पत्स्यन्ति वधार्थं हि कुलस्य तव वानराः ॥ ७.१६.१७ ॥
तस्मात् मद्-रूप-सम्पन्नाः मद्-वीर्य-सम-तेजसः । उत्पत्स्यन्ति वध-अर्थम् हि कुलस्य तव वानराः ॥ ७।१६।१७ ॥
tasmāt mad-rūpa-sampannāḥ mad-vīrya-sama-tejasaḥ . utpatsyanti vadha-artham hi kulasya tava vānarāḥ .. 7.16.17 ..
नखदंष्ट्रायुधाः क्रूरा मनःसम्पातरंहसः । युद्धोन्मत्ता बलोद्रिक्ताः शैला इव विसर्पिणः ॥ ७.१६.१८ ॥
नख-दंष्ट्र-आयुधाः क्रूराः मनः-सम्पात-रंहसः । युद्ध-उन्मत्ताः बल-उद्रिक्ताः शैलाः इव विसर्पिणः ॥ ७।१६।१८ ॥
nakha-daṃṣṭra-āyudhāḥ krūrāḥ manaḥ-sampāta-raṃhasaḥ . yuddha-unmattāḥ bala-udriktāḥ śailāḥ iva visarpiṇaḥ .. 7.16.18 ..
ते तव प्रबलं दर्पमुत्सेधं च पृथग्विधम् । व्यपनेष्यन्ति सम्भूय सहामात्यसुतस्य च ॥ ७.१६.१९ ॥
ते तव प्रबलम् दर्पम् उत्सेधम् च पृथग्विधम् । व्यपनेष्यन्ति सम्भूय सह अमात्य-सुतस्य च ॥ ७।१६।१९ ॥
te tava prabalam darpam utsedham ca pṛthagvidham . vyapaneṣyanti sambhūya saha amātya-sutasya ca .. 7.16.19 ..
किं त्विदानीं मया शक्यं हन्तुं त्वां हे निशाचर । न हन्तव्यो हतस्त्वं हि पूर्वमेव स्वकर्मभिः ॥ ७.१६.२० ॥
किम् तु इदानीम् मया शक्यम् हन्तुम् त्वाम् हे निशाचर । न हन्तव्यः हतः त्वम् हि पूर्वम् एव स्व-कर्मभिः ॥ ७।१६।२० ॥
kim tu idānīm mayā śakyam hantum tvām he niśācara . na hantavyaḥ hataḥ tvam hi pūrvam eva sva-karmabhiḥ .. 7.16.20 ..
इत्युदीरितवाक्ये तु देवे तस्मिन्महात्मनि । देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खाच्च्युता ॥ ७.१६.२१ ॥
इति उदीरित-वाक्ये तु देवे तस्मिन् महात्मनि । देव-दुन्दुभयः नेदुः पुष्प-वृष्टिः च खात् च्युता ॥ ७।१६।२१ ॥
iti udīrita-vākye tu deve tasmin mahātmani . deva-dundubhayaḥ neduḥ puṣpa-vṛṣṭiḥ ca khāt cyutā .. 7.16.21 ..
अचिन्तयित्वा स तदा नन्दिवाक्यं महाबलः । पर्वतं तु समासाद्य वाक्यमाह दशाननः ॥ ७.१६.२२ ॥
अ चिन्तयित्वा स तदा नन्दि-वाक्यम् महा-बलः । पर्वतम् तु समासाद्य वाक्यम् आह दशाननः ॥ ७।१६।२२ ॥
a cintayitvā sa tadā nandi-vākyam mahā-balaḥ . parvatam tu samāsādya vākyam āha daśānanaḥ .. 7.16.22 ..
पुष्पकस्य गतिश्छिन्ना यत्कृते मम गच्छतः । तमिमं शैलमुन्मूलं करोमि तव गोपते ॥ ७.१६.२३ ॥
पुष्पकस्य गतिः छिन्ना यत् कृते मम गच्छतः । तम् इमम् शैलम् उन्मूलम् करोमि तव गोपते ॥ ७।१६।२३ ॥
puṣpakasya gatiḥ chinnā yat kṛte mama gacchataḥ . tam imam śailam unmūlam karomi tava gopate .. 7.16.23 ..
केन प्रभावेण भवो नित्यं क्रीडति राजवत् । विज्ञातव्यं न जानीते भयस्थानमुपस्थितम् ॥ ७.१६.२४ ॥
केन प्रभावेण भवः नित्यम् क्रीडति राज-वत् । विज्ञातव्यम् न जानीते भय-स्थानम् उपस्थितम् ॥ ७।१६।२४ ॥
kena prabhāveṇa bhavaḥ nityam krīḍati rāja-vat . vijñātavyam na jānīte bhaya-sthānam upasthitam .. 7.16.24 ..
एवमुक्त्वा ततो राम भुजान्विक्षिप्य पर्वते । तोलयामास तं शीघ्रं स शैलं समकम्पत ॥ ७.१६.२५ ॥
एवम् उक्त्वा ततस् राम भुजान् विक्षिप्य पर्वते । तोलयामास तम् शीघ्रम् स शैलम् समकम्पत ॥ ७।१६।२५ ॥
evam uktvā tatas rāma bhujān vikṣipya parvate . tolayāmāsa tam śīghram sa śailam samakampata .. 7.16.25 ..
चालनात्पर्वतस्यैव गणा देवस्य कम्पिताः । चचाल पार्वती चापि तदा ऽ ऽश्लिष्टा महेश्वरम् ॥ ७.१६.२६ ॥
चालनात् पर्वतस्य एव गणाः देवस्य कम्पिताः । चचाल पार्वती च अपि तदा महेश्वरम् ॥ ७।१६।२६ ॥
cālanāt parvatasya eva gaṇāḥ devasya kampitāḥ . cacāla pārvatī ca api tadā maheśvaram .. 7.16.26 ..
ततो राम महादवो देवानां प्रवरो हरः । पादाङ्गुष्ठेन तं शैलं पीडयामास लीलया ॥ ७.१६.२७ ॥
ततस् राम महा-दवः देवानाम् प्रवरः हरः । पादाङ्गुष्ठेन तम् शैलम् पीडयामास लीलया ॥ ७।१६।२७ ॥
tatas rāma mahā-davaḥ devānām pravaraḥ haraḥ . pādāṅguṣṭhena tam śailam pīḍayāmāsa līlayā .. 7.16.27 ..
पीडितास्तु ततस्तस्य शैलस्याधोगता भुजाः । विस्मिताश्चाभवंस्तत्र सचिवास्तस्य रक्षसः ॥ ७.१६.२८ ॥
पीडिताः तु ततस् तस्य शैलस्य अधस् गताः भुजाः । विस्मिताः च अभवन् तत्र सचिवाः तस्य रक्षसः ॥ ७।१६।२८ ॥
pīḍitāḥ tu tatas tasya śailasya adhas gatāḥ bhujāḥ . vismitāḥ ca abhavan tatra sacivāḥ tasya rakṣasaḥ .. 7.16.28 ..
रक्षसा तेन रोषाच्च भुजानां पीडनात्तदा । मुक्तो विरावः सहसा त्रैलोक्यं येन कम्पितम् ॥ ७.१६.२९ ॥
रक्षसा तेन रोषात् च भुजानाम् पीडनात् तदा । मुक्तः विरावः सहसा त्रैलोक्यम् येन कम्पितम् ॥ ७।१६।२९ ॥
rakṣasā tena roṣāt ca bhujānām pīḍanāt tadā . muktaḥ virāvaḥ sahasā trailokyam yena kampitam .. 7.16.29 ..
मेनिरे वज्रनिष्पेषं तस्यामात्या युगक्षये । तदा वर्त्मस्थचलिता देवा इन्द्रपुरोगमाः ॥ ७.१६.३० ॥
मेनिरे वज्र-निष्पेषम् तस्य अमात्याः युग-क्षये । तदा वर्त्म-स्थ-चलिताः देवाः इन्द्र-पुरोगमाः ॥ ७।१६।३० ॥
menire vajra-niṣpeṣam tasya amātyāḥ yuga-kṣaye . tadā vartma-stha-calitāḥ devāḥ indra-purogamāḥ .. 7.16.30 ..
समुद्राश्चापि सङ्क्षुब्धाश्चलिताश्चापि पर्वताः । यक्षा विद्याधराः सिद्धाः किमेतदिति चाब्रुवन् ॥ ७.१६.३१ ॥
समुद्राः च अपि सङ्क्षुब्धाः चलिताः च अपि पर्वताः । यक्षाः विद्याधराः सिद्धाः किम् एतत् इति च ब्रुवन् ॥ ७।१६।३१ ॥
samudrāḥ ca api saṅkṣubdhāḥ calitāḥ ca api parvatāḥ . yakṣāḥ vidyādharāḥ siddhāḥ kim etat iti ca bruvan .. 7.16.31 ..
अथ ते मन्त्रिणस्तस्य विक्रोशन्तमथाब्रुवन् । तोषयस्व महादेवं नीलकण्ठमुमापतिम् ॥ ७.१६.३२ ॥
अथ ते मन्त्रिणः तस्य विक्रोशन्तम् अथ अब्रुवन् । तोषयस्व महादेवम् नीलकण्ठम् उमापतिम् ॥ ७।१६।३२ ॥
atha te mantriṇaḥ tasya vikrośantam atha abruvan . toṣayasva mahādevam nīlakaṇṭham umāpatim .. 7.16.32 ..
तमृते शरणं नान्यं पश्यामो ऽत्र दशानन । स्तुतिभिः प्रणतो भूत्वा तमेव शरणं व्रज ॥ ७.१६.३३ ॥
तम् ऋते शरणम् न अन्यम् पश्यामः अत्र दशानन । स्तुतिभिः प्रणतः भूत्वा तम् एव शरणम् व्रज ॥ ७।१६।३३ ॥
tam ṛte śaraṇam na anyam paśyāmaḥ atra daśānana . stutibhiḥ praṇataḥ bhūtvā tam eva śaraṇam vraja .. 7.16.33 ..
कृपालुः शङ्करस्तुष्टः प्रसादं ते विधास्यति । एवमुक्तस्तदामात्यैस्तुष्टाव वृषभध्वजम् ॥ ७.१६.३४ ॥
कृपालुः शङ्करः तुष्टः प्रसादम् ते विधास्यति । एवम् उक्तः तदा अमात्यैः तुष्टाव वृषभध्वजम् ॥ ७।१६।३४ ॥
kṛpāluḥ śaṅkaraḥ tuṣṭaḥ prasādam te vidhāsyati . evam uktaḥ tadā amātyaiḥ tuṣṭāva vṛṣabhadhvajam .. 7.16.34 ..
सामभिर्विविधैः स्तोत्रैः प्रणम्य स दशाननः । संवत्सरसहस्रं तु रुदतो रक्षसो गतम् ॥ ७.१६.३५ ॥
सामभिः विविधैः स्तोत्रैः प्रणम्य स दशाननः । संवत्सर-सहस्रम् तु रुदतः रक्षसः गतम् ॥ ७।१६।३५ ॥
sāmabhiḥ vividhaiḥ stotraiḥ praṇamya sa daśānanaḥ . saṃvatsara-sahasram tu rudataḥ rakṣasaḥ gatam .. 7.16.35 ..
ततः प्रीतो महादेवः शैलाग्रे विष्ठितः प्रभुः । मुक्त्वा चास्य भुजान्राम प्राह वाक्यं दशाननम् ॥ ७.१६.३६ ॥
ततस् प्रीतः महादेवः शैल-अग्रे विष्ठितः प्रभुः । मुक्त्वा च अस्य भुजान् राम प्राह वाक्यम् दशाननम् ॥ ७।१६।३६ ॥
tatas prītaḥ mahādevaḥ śaila-agre viṣṭhitaḥ prabhuḥ . muktvā ca asya bhujān rāma prāha vākyam daśānanam .. 7.16.36 ..
प्रीतो ऽस्मि तव वीर्यस्य शौण्डार्याच्च दशानन । शैलाक्रान्तेन यो मुक्तस्त्वया रावः सुदारुणः ॥ ७.१६.३७ ॥
प्रीतः अस्मि तव वीर्यस्य शौण्डार्यात् च दशानन । शैल-आक्रान्तेन यः मुक्तः त्वया रावः सु दारुणः ॥ ७।१६।३७ ॥
prītaḥ asmi tava vīryasya śauṇḍāryāt ca daśānana . śaila-ākrāntena yaḥ muktaḥ tvayā rāvaḥ su dāruṇaḥ .. 7.16.37 ..
यस्माल्लोकत्रयं चैतद्रावितं भयमागतम् । तस्मात्त्वं रावणो नाम नाम्ना राजन्भविष्यसि ॥ ७.१६.३८ ॥
यस्मात् लोकत्रयम् च एतत् रावितम् भयम् आगतम् । तस्मात् त्वम् रावणः नाम नाम्ना राजन् भविष्यसि ॥ ७।१६।३८ ॥
yasmāt lokatrayam ca etat rāvitam bhayam āgatam . tasmāt tvam rāvaṇaḥ nāma nāmnā rājan bhaviṣyasi .. 7.16.38 ..
देवता मानुषा यक्षा ये चान्ये जगतीतले । एवं त्वामभिधास्यन्ति रावणं लोकरावणम् ॥ ७.१६.३९ ॥
देवताः मानुषाः यक्षाः ये च अन्ये जगती-तले । एवम् त्वाम् अभिधास्यन्ति रावणम् लोक-रावणम् ॥ ७।१६।३९ ॥
devatāḥ mānuṣāḥ yakṣāḥ ye ca anye jagatī-tale . evam tvām abhidhāsyanti rāvaṇam loka-rāvaṇam .. 7.16.39 ..
गच्छ पौलस्त्य विस्रब्धं पथा येन त्वमिच्छसि । मया चैवाभ्यनुज्ञातो राक्षसाधिप गम्यताम् ॥ ७.१६.४० ॥
गच्छ पौलस्त्य विस्रब्धम् पथा येन त्वम् इच्छसि । मया च एव अभ्यनुज्ञातः राक्षस-अधिप गम्यताम् ॥ ७।१६।४० ॥
gaccha paulastya visrabdham pathā yena tvam icchasi . mayā ca eva abhyanujñātaḥ rākṣasa-adhipa gamyatām .. 7.16.40 ..
एवमुक्तस्तु लङ्केशः शम्भुना स्वयमब्रवीत् । प्रीतो यदि महादेव वरं मे देहि याचतः ॥ ७.१६.४१ ॥
एवम् उक्तः तु लङ्केशः शम्भुना स्वयम् अब्रवीत् । प्रीतः यदि महादेव वरम् मे देहि याचतः ॥ ७।१६।४१ ॥
evam uktaḥ tu laṅkeśaḥ śambhunā svayam abravīt . prītaḥ yadi mahādeva varam me dehi yācataḥ .. 7.16.41 ..
अवध्यत्वं मया प्राप्तं देवगन्धर्वदानवैः । राक्षसैर्गुह्यकैर्नागैर्ये चान्ये बलवत्तराः ॥ ७.१६.४२ ॥
अवध्य-त्वम् मया प्राप्तम् देव-गन्धर्व-दानवैः । राक्षसैः गुह्यकैः नागैः ये च अन्ये बलवत्तराः ॥ ७।१६।४२ ॥
avadhya-tvam mayā prāptam deva-gandharva-dānavaiḥ . rākṣasaiḥ guhyakaiḥ nāgaiḥ ye ca anye balavattarāḥ .. 7.16.42 ..
मानुषान्न गणे देव स्वल्पास्ते मम सम्मताः । दीर्घमायुश्च मे प्राप्तं ब्रह्मणस्त्रिपुरान्तक ॥ ७.१६.४३ ॥
मानुषान् न गणे देव सु अल्पाः ते मम सम्मताः । दीर्घम् आयुः च मे प्राप्तम् ब्रह्मणः त्रिपुरान्तक ॥ ७।१६।४३ ॥
mānuṣān na gaṇe deva su alpāḥ te mama sammatāḥ . dīrgham āyuḥ ca me prāptam brahmaṇaḥ tripurāntaka .. 7.16.43 ..
वाञ्छितं चायुषः शेषं शस्त्रं त्वं च प्रयच्छ मे । एवमुक्तस्ततस्तेन रावणेन स शङ्करः ॥ ७.१६.४४ ॥
वाञ्छितम् च आयुषः शेषम् शस्त्रम् त्वम् च प्रयच्छ मे । एवम् उक्तः ततस् तेन रावणेन स शङ्करः ॥ ७।१६।४४ ॥
vāñchitam ca āyuṣaḥ śeṣam śastram tvam ca prayaccha me . evam uktaḥ tatas tena rāvaṇena sa śaṅkaraḥ .. 7.16.44 ..
ददौ खड्गं महादीप्तं चन्द्रहासमिति श्रुतम् । आयुषश्चावशेषं च स्थित्वा भूतपतिस्तदा ॥ ७.१६.४५ ॥
ददौ खड्गम् महा-दीप्तम् चन्द्रहासम् इति श्रुतम् । आयुषः च अवशेषम् च स्थित्वा भूतपतिः तदा ॥ ७।१६।४५ ॥
dadau khaḍgam mahā-dīptam candrahāsam iti śrutam . āyuṣaḥ ca avaśeṣam ca sthitvā bhūtapatiḥ tadā .. 7.16.45 ..
दत्त्वोवाच ततः शम्भुर्नावज्ञेयमिदं त्वया । अवज्ञातं यदि हि ते मामेवैष्यत्यसंशयः ॥ ७.१६.४६ ॥
दत्त्वा उवाच ततस् शम्भुः न अवज्ञेयम् इदम् त्वया । अवज्ञातम् यदि हि ते माम् एव एष्यति असंशयः ॥ ७।१६।४६ ॥
dattvā uvāca tatas śambhuḥ na avajñeyam idam tvayā . avajñātam yadi hi te mām eva eṣyati asaṃśayaḥ .. 7.16.46 ..
एवं महेश्वरेणैव कृतनामा स रावणः । अभिवाद्य महादेवमारुरोहाथ पुष्पकम् ॥ ७.१६.४७ ॥
एवम् महेश्वरेण एव कृत-नामा स रावणः । अभिवाद्य महादेवम् आरुरोह अथ पुष्पकम् ॥ ७।१६।४७ ॥
evam maheśvareṇa eva kṛta-nāmā sa rāvaṇaḥ . abhivādya mahādevam āruroha atha puṣpakam .. 7.16.47 ..
ततो महीतले राम पर्यक्रामत रावणः । क्षत्ऺित्रयान्सुमहावीर्यान्बाधमान इतस्ततः ॥ ७.१६.४८ ॥
ततस् मही-तले राम पर्यक्रामत रावणः । क्षत्रयान् सु महा-वीर्यान् बाधमानः इतस् ततस् ॥ ७।१६।४८ ॥
tatas mahī-tale rāma paryakrāmata rāvaṇaḥ . kṣatrayān su mahā-vīryān bādhamānaḥ itas tatas .. 7.16.48 ..
केचित्तेजस्विनः शूराः क्षत्ऺित्रया युद्धदुर्मदाः । तच्छासनमकुर्वन्तो विनेशुः सपरिच्छदाः ॥ ७.१६.४९ ॥
केचिद् तेजस्विनः शूराः क्षत्-अक्षत्रया युद्ध-दुर्मदाः । तद्-शासनम् अकुर्वन्तः विनेशुः स परिच्छदाः ॥ ७।१६।४९ ॥
kecid tejasvinaḥ śūrāḥ kṣat-akṣatrayā yuddha-durmadāḥ . tad-śāsanam akurvantaḥ vineśuḥ sa paricchadāḥ .. 7.16.49 ..
अपरे दुर्जयं रक्षो जानन्तः प्राज्ञसम्मताः । जिताः स्म इत्यभाषन्त राक्षसं बलदर्पितम् ॥ ७.१६.५० ॥
अपरे दुर्जयम् रक्षः जानन्तः प्राज्ञ-सम्मताः । जिताः स्मः इति अभाषन्त राक्षसम् बल-दर्पितम् ॥ ७।१६।५० ॥
apare durjayam rakṣaḥ jānantaḥ prājña-sammatāḥ . jitāḥ smaḥ iti abhāṣanta rākṣasam bala-darpitam .. 7.16.50 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे षोडशः सर्गः ॥ १६ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे षोडशः सर्गः ॥ १६ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe ṣoḍaśaḥ sargaḥ .. 16 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In